०६ वरलक्षणानि

अथ वरलक्षणानि

तत्र गौतमः - “विद्याचारित्रबन्धुशीलसंपन्नाय दद्यात्” इति । विद्या वेदः श्रुतं च । चारित्रम् अनुष्ठानम् । बन्धुः प्रशस्ताभिजनः । शीलं वृत्तम् । एतैः संपन्नाय कन्यां दद्याद् इत्य् अर्थः । आपस्तम्बो ऽपि - “बन्धुलक्षणशीलसंपन्नः श्रुतवान् अरोग इति वरसम्पत्” इति । यमो ऽपि ।

कुलं च शीलं च वपुर् वयश् च विद्यां च वित्तं च सनाथतां च ।
एतान् गुणान्त् सप्त परीक्ष्य देया कन्या बुधैः शेषम् अचिन्तनीयम् ॥ इति ।

यत् तु विष्णुनोक्तम्,

ब्राह्मणस्य कुलं ग्राह्यं न वेदा न पदक्रमाः ।
कन्यादाने तथा श्राद्धे न विद्या तत्र कारणम् \

इति, तत् कुलस्य प्राधान्यप्रतिपादनपरम् । न पुनर् विद्यानिराकरणार्थम् । अत एव आश्वलायनः - “कुलम् अग्रे परीक्षेत” इति । तथा पुंस्त्वम् अपि परीक्षणीयं तस्येत्य् आह याज्ञवल्क्यः ।

यत्नात् परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ।

कात्यायनो ऽपि ।

अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनो नराः ।
क्षेत्रं बीजवते देयं नाबीजी क्षेत्रम् अर्हति ॥ इति ।

अतस् तत्परीक्षणीयम् इति भावः । नारदस् तु तत्परीक्षोपायम् आह ।

यस्याप्सु प्लवते बीजं ह्लादि मूत्रं च फेनिलम् ।
पुमान् स्याल् लक्षणैर् एतैर् विपरीतस् तु षण्डकः ॥ इति ।

बीजं वीर्यम् । ह्लादि शब्दवत् । याज्ञवल्क्यो ऽपि ।

ह्लादिफेनिलमूत्रस् तु गुरुशुक्लो वृषस्वनः ।
पुमान् स्याद् अन्यथा षण्डो दुश्चिकित्सो मुखेभगः ॥

मुखेभगष् षण्डविशेषः । शातातपो ऽपि वरलक्षणान्य् आह ।

वरो वरयितव्यो ऽर्थी कुलशीलसमन्वितः ।
रूपवान् पण्डितः प्राज्ञो युवा दोषविवर्जितः ॥ इति ।

वरयितव्यः कन्यापित्रेति शेषः । दोषा अपि कात्यायनेनोक्ताः ।

उन्मत्तः पतितः कुष्ठी तथा षण्डः सगोत्रजः ।
चक्षुःश्रोत्रविहीनश् च तथापस्मारदूषितः ॥
वरदोषः स्मृता ह्य् एते कन्यादोषाश् च कीर्तिताः ।
दूरस्थानाम् अविद्यानां मोक्षमार्गानुसारिणाम् ॥
शूराणां निर्धनानां च न देया कन्यका बुधैः । इति ।

**इति स्मृतिचन्द्रिकायां वरलक्षणानि **