०१ सापिण्ड्यस्वरूपम्

समान एकः पिण्डो यस्याः सा सपिण्डा । न सपिण्डा असपिण्डा । एकपिण्डता चैकस्यां पिण्डदानक्रियायां दातृत्वेन देवतात्वेन लेपभाक्त्वेन वानुप्रवेशाद् भवति । तथा च मत्स्यपुराणम् ।

लेपभाजश् चतुर्थाद्याः पित्राद्याः पिण्डभाजिनः ।
पिण्डदः सप्तमस् तेषां सापिण्ड्यं साप्तपूरुषम् ॥

चतुर्थाद्याः प्रपितामस्य पितृप्रभृतयः उत्तरे त्रयो लेपभाजो भवन्ति पित्राद्यास् तु त्रयः पिण्डभागिनः पिण्डदाने देवताभूताः तेषां सप्तमः पिण्डदाता । एवम् एते सप्त सपिण्डा भवन्ति । एकपिण्डदानक्रियानुप्रवेशिनः सपिण्डा इत्य् अर्थः । ननु यद्य् एकपिण्डक्रियानुप्रवेशात् सापिण्ड्यं तर्हि भ्रातॄणां भिन्न्क्रियानुप्रवेशिनां तदद्भावेनन्योन्यं सापिण्ड्यं न स्यात् । मैवम्, एकोद्देश्यावच्छेदेनैकक्रियान्वयित्वसंभवात् । ये हि पुत्रनिष्पाद्यक्रियनुप्रवेशिनः पित्रादयस् त एव पुत्रान्तरोत्पाद्यक्रियायाम् अपीति व्यक्तम् एकोद्देशान्वयित्वम् । अत एव पितामहादेः सन्ततिजातानां पुत्रेण सह सापिण्ड्यसिद्धिः । पुत्रक्रियान्वयिनः पितामहादेस् तत्क्रियासंबन्धात् । यदा त्व् एकस्यापि पितामहादेस् तत्क्रियासंबन्धो नास्ति तद् एतद् देश्यभेदेन क्रियाभेदात् सापिण्ड्यनिवृत्तिः । तद् आह मनुः ।

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । इति
गौतमो ऽपि - “पिण्डनिवृत्तिः सप्तमे पञ्चमे वा” इति । भार्यायाश् च सहकर्तृत्वात् सापिण्ड्यसिद्धिः । एवं सर्वत्र सापिण्ड्यनिवृत्त्यनुवृत्ती द्रष्टव्ये । नुन्व् एवं तर्हि पुत्रदौहित्रयोर् एकपिण्डक्रियानुप्रवेशिनोः सापिण्ड्यं प्रसज्येत । सत्यम्, यद् असौ दौहित्रः पुत्रेण सह समानगोत्रः स्यात् अत्रैकगोत्रत्वम् उपाधिर् इति भावः । अत एव पुत्रीकरणादाव् अस्ति दौहित्रस्यापि पुत्रेण सह सापिण्ड्यम् इति वक्ष्यामः । तेन नातिप्रसक्तिः । यवीयसी जन्मतः प्रमाणतश् च । अरोगिणी अदीर्घरोगा इतरस्य शक्यपरिहारत्वात् । भ्रातृमती पुत्रिकाकरणभयात् । यद् आह मनुः ।

यस्यास् तु न भवेद् भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥

यस्या**पता पुत्रिकाकरणाभिप्रायवान् न वेति न विज्ञायेतेत्य् अर्थः । अनेन विना पुत्रेण सह संप्रतिपत्तिं पितुः संकल्पमात्रात् पुत्रिका भवतीति गम्यते । अत एव गौतमः - “अभिसंधिमात्रपुत्रिकेत्य् एकेषाम्” इति । सा च कथं पुत्रिका भवतीत्य् अपेक्षिते मनुर् आह ।

अपुत्रो ऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
यद् अपत्यं भवेद् अस्यां तन् मम स्यात् स्वधाकरम् ॥ इति ।

वसिष्ठो ऽपि ।

अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलंकृताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भवेद् इति ॥

इयम् एव पुत्र इति वा पुत्रिकाकरणम्, “शासद् वह्निर् दुहितुर् नप्त्यं गात्” इति श्रुतेः । एतच् च निरुक्ते व्याख्यातम् “प्रशास्ति वोढा सन्तानकर्मणे दुहितुः पुत्रभावम्” इति ।