०२ समानप्रवरत्वनिर्वचनम्

असमानार्षगोत्रजाम्, समानम् आर्षं प्रवरो यस्य स समानार्षः । तस्माज् जातां समानर्षिजातां नोद्वहेद् इत्य् अर्थः । अत एव गौतमः - “असमानप्रवरैर् विवाहः” इति । समानता च नामतो वेदितव्या । यद् आह बोधायनः ।

एक एव ऋषिर् यावत् प्रवरेष्व् अनुवर्तते ।
तावत् समानगोत्रत्वम् अन्यत्र भृग्वङ्गिरोगणात् ॥ इति ।

समानगोत्रत्वं समानप्रवर इत्य् अर्थः । कथं तर्हि भृग्वङ्गिरोगणेष्व् इत्य् अपेक्षिते संग्रहकार आह ।

पञ्चानां त्रिषु सामामान्याद् अविवाहस् त्रिषु द्वयोः ।
भृग्वङ्गिरोगणेष्व् एव शेषेष्व् एकं निवारयेत् ॥

पञ्चार्षेयाणाम् ऋषित्रयानुवृत्तौ मिथो न विवाह इत्य् अर्थः । बोधायनो ऽपि - “द्व्यार्षेयसंनिपाते ऽविवाहस् त्र्यार्षेयाण्ं त्र्यार्षेयसंनिपाते ऽविवाहः पञ्चार्येयाणाम्” इति । गोत्रं च वंशपरम्पराप्रसिद्धम् । गोत्रप्रवरौ च पृथग् पृथक् पर्युदासे निमित्तम् । तत्र यास्कवाधौलमानमौकानां (?) गोत्रभेदेन विवाहे प्राप्ते तन् मा भूद् इत्य् असमानार्षग्रहणम् । तेषां भार्गववैतहव्यसादेवसेति प्रवरैकायत् । यत्र तु प्रवरविकल्पः तत्रापि प्रवरभेदेन विवाहप्राप्तौ तत्प्रतिxएधार्थम् असानगोत्रग्रहणम् । एवं चासमानार्षजाम् असमानगोत्रजाम् उद्वहेद् इत्य् उक्तं भवति । न च समानार्षग्रहणं गोत्रविशेषणम् इति शङ्कनीयम्,

परिणीय सगोत्रां तु समानप्रवरां तथा।
त्यागं कृत्वा ततस् तस्या द्विजश् चान्द्रायणं चरेत् ॥

इति भेदेन स्मरणात् । त्यागश् चात्रोपभोगस्यैव न पुनस् तस्याः । यद् आह शातातपः ।

समानप्रवरां कन्याम् एकगोत्राम् अथापि वा ।
विवाहयति यो मूढस् तस्य वक्ष्यामि निष्कृतिम् ॥
उत्सृज्य तां तथा भार्यां मातृवत् परिपालयेत् ॥

यस् तु तत्र प्रजाम् उत्पदयति स स्वजात्यदिना हीयत इत्य् आह आपस्तम्बः ।

समानगोत्रप्रवरां कन्याम् ऊढ्वोपगम्य च ।
तस्याम् उत्पाद्य चण्डालं ब्राह्मण्याद् एव हीयते ॥ इति ।

ननु चासमानार्षगोत्रजाम् इत्य् अनेनैव परिणेतुः सपिण्डायाः पर्युदासे सिद्धे किम् इति पुनर् असपिण्डाम् इत्य् उक्तम् । उच्यते, सत्यम् एवम् । तथापि जा मातुर् असपिण्डा भवति सैवोद्वाहकर्मणि प्रशस्तेति वक्तुम् । तथा च मनुः ।

असपिण्डा च या मतुर् असगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥

या परिणेतुर् मातुश् च सपिण्डा न भवति या परिणेतुः पितुश् च न सगोत्रा सा च विवाहकर्मणि प्रशस्तेत्य् अर्थः ।