०८ कन्यादानफलम्

अथ कन्यादानफलम्

यस् तूकतविधिना कन्यां प्रयच्छति तस्य फलम् आह मनुः ।

नाग्निहोत्रादिभिस् (?) तत् स्याद् अक्षयं ब्राह्मणस्य वा ।
यत् कन्यां विधिवद् दत्वा फलम् आप्नोति मानवः ॥

मरीचिर् अपि ।

नाग्निचिन् नरकं याति न कन्यदो न तत्सुत ।
विस्वजित् संमितो यज्ञः कन्यादानं महाफलम् ॥

संवर्तो ऽपि ।

ज्योतिष्टोमातिरात्राणां शतं शतगुणीकृतम् ।
प्राप्नोति कन्यकां दत्वा होममन्त्रैश् च संस्कृताम् ॥

बृहस्पतिर् अपि ।

सहस्रसंमिता धेनुर् अनड्वान् दश धेनवः ।
दशानडुत्समं यानं दशयानसमो हयः ॥
दशवाजिसमा कन्या भूमिदानं च तत्समम् ।
कनकाश्वतिला नागा दासीरथमहीगृहाः ।
कन्या च कपिला धेनुर् महादानानि वै दश ॥

यमो ऽपि ।

दशानां तु सहस्राणां यज्ञानां धुर्यवाहिनाम् ।
सुपात्रे विनियुक्तानां कन्या विद्या च तत्समम् ॥
गौरीं ददन् नाकपृष्ठं वैकुण्ठं रोहिणीं ददत् ।
कन्यां ददद् ब्रह्मलोकं रौरवं तु रजस्वलाम् ॥ इति ।

तथा रजस्वलापरिणेतुर् अपि स एव दोषम् आह् ।

माता चैव पिता चैव ज्येष्ठभ्राता तथैव च ।
त्रयस् ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥
यस् तां विवयेत् कन्यां ब्राह्मणो मदमोहितः ।
असंभाष्यो ह्य् अपाङ्क्तेयः स विप्रो वृषलीपतिः ॥
वृषलीसंगृहीता यो ब्राह्मणो मदमोहितः ।
सततं सूतकं तस्य ब्रह्महत्या दिने दिने ॥ इति ।

यः पुनस् ताम् उपभुङ्क्ते तस्यापि स एव दोषम् आह ।

यः करोत्य् एकरात्रेण वृषलीसेवनं द्विजः ।
स भैक्xअभुग् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ॥
वृषलीगमनं चैव मासम् एकं निरन्तरम् ।
इह जन्मनि शूद्रत्वं मृतः श्वा चैव जायते ॥
वृषलीफेनपीतस्य निश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर् नैव विद्यते ॥

यदा तु कन्यैव रजस्वला भवति तदा तत्पितुर् भ्रूणहत्याम् आह बृहस्पतिः ।

पितुर् गृहे तु या कन्या रजः पश्यत्य् असंस्कृता ।
भ्रूणहत्या पितुस् तस्याः सा कन्या वृषली स्मृता ॥

भ्रूणहत्या गर्भहत्या । सा च प्रत्यृतु वेदितव्या । तथा च याज्ञवल्क्यः ।

अप्रयच्छन् समाप्नोति भ्रूणहत्याम् ऋताव् ऋतौ ।

नारदो ऽपि ।

यावन्तश् चर्तवस् तस्याः समतीयुः पतिं विना ।
तावत्यो भ्रूणहत्याः स्युस् तस्य यो न ददाति ताम् ॥

यत् पुनर् मनुनोक्तम्,

कामम् आ मरणात् तिष्ठेद् गृहे कन्यर्तुमत्य् अपि ।
न त्व् एवैनां प्रयच्छेत गुणहीनाय कर्हिचित् ॥

इति, तद् गुणवति संभवति गुणहीनाय न दद्याद् इत्य् एवंपरम्, न पुनर् गुणहीननिषेधार्थम् । अत आह बोधायनः ।

दद्याद् गुणवते कन्यां नग्निकां ब्रह्मचारिणे ।
अपि वा गुणहीनाय नोपरोद्ध्या रजस्वला ॥

यमो ऽपि ।

दद्याद् गुणवते कन्यां नग्निकाम् एव शक्तितः ।
न त्व् एव गुणहीनाय नोपरुन्ध्याद् रजस्वलाम् ॥ इति ।

यदा तु ताम् अपि न प्रयच्छति तदा कन्यैव स्वसदृशं भर्तारं वरयेत् । तद् आह यमः ।

कन्या तु द्वादशे वर्षे याप्रदत्ता गृहे वसेत् ।
भ्रूणहत्या पितुस् तस्याः सा कन्या वरयेत् स्वयम् ॥
एतच् च वरणम् ऋतुप्रभृति वर्षत्रयाद् ऊर्ध्वं वेदितव्यम् ।

तथा च बोधायनः ।

त्रीणि वर्षाण्य् ऋतुमती काङ्क्षेत पितृशासनम् ।
ततश् चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ॥
अविद्यमाने सदृशे गुणहीनम् अपि श्रयेत् ।

सदृशो गुणवान् । मनुर् अपि ।

त्रीणि वर्षाण्य् उपासीत कुमार्य् अर्तुमती सती ।
ऊर्ध्वं तु कालाद् एतस्माद् विन्देत सदृशं पतिम् ॥
अदीयमाना भर्तारम् अधिगच्छेद् यदि स्वयम् ।
नैनः किंचिद् अवाप्नोति न च यं साधिगच्छति ॥

यं भर्तारम् अधिगच्छति सो ऽपि न दोषम् आप्नोतीत्य् अर्थः । यत् तु विष्णुनोक्तम्,

ऋतुत्रयम् उपास्यैव कन्या कुर्यात् स्वयंवरम् ।

इति, तद् ऋतुत्रयाद् अर्वाङ् निषेधपरम् । अत्र मनुः ।

अलंकारं नाददीत पित्र्यं कन्या स्वयंवरा ।
मातृकं भ्रातृदत्तं वा स्तेना स्याद् यदि तं हरेत् ॥

यस् तु वाचा कन्यां प्रदाय पुनस् ताम् अपहरति स राज्ञा दण्ड्य इत्य् आह याज्ञवल्क्यः ।

सकृत् प्रदीयते कन्या हरंस् तां चोरदण्डभाक् ।

मनुर् अपि ।

सकृद् अंशो निपतति सकृत् कन्या प्रदीयते ।
सकृद् आह ददानीति त्रीण्य् एतानि सकृत् सकृत् ॥

सकृद् अंशो निपतति सकृद् एव पित्रादिभिर् भागं लभत इत्य् अर्थः । एतच् चादुष्टवराभिप्रायम् । यद् आह नारदः ।

दत्वा न्यायेन यः कन्यां वराय न ददाति ताम् ।
अदुष्टश् चेद् वरो राज्ञा स दण्ड्यस् तत्र चोरवत् ॥

अनेन दोषदर्शनेन वाग्दत्ताम् अपि न पूर्वस्मै दद्याद् इत्य् उक्तं भवति । अत एव गौतमः - “प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात्” इति । अनेनैवाभिप्रायेण याज्ञवल्क्यो ऽपि ।

दत्ताम् अपि हरेत् कन्यां श्रेयांश् चेद् वर आव्रजेत् । इति ।

यत् तु मनुनोक्तम्,

एतत् तु न परे चक्रुर् नापरे चापि साधवः ।
यद् अन्यस्याभ्यनुज्ञाय पुनर् अन्यस्य दीयते ॥

इति, तद् अप्य् अदुष्टवराभिप्रायम् । अत एव नारदः ।

स्त्रीपुंसयोस् तु संबन्धाद् वरणं प्राग् विधीयते ।
वरणाद् ग्रहणं पाणेः संस्कारो हि विलक्षणः ॥
तयोर् अनियतं प्रोक्तं वरणं दोषदर्शनात् ।

तयोर् वरणपाणिग्रहणयोर् मध्ये वरणम् एव दोषदर्शनाद् अनियतम्, न पाणिग्रहणम् । तयोर् वाग्दानमात्रेण पतित्वानुपपत्तेर् इति भावः । अत एव यमः ।

नोदकेन न वाचा वा कन्यायाः पतिर् उच्यते ।
पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ॥

अनेन सप्तमपदाद् अर्वाक् परिणेतुः मरणे ऽपि न विधवात्वम् इत्य् उक्तं भवति । तथा च वसिष्ठः ।

अद्भिर् वाचा च या दत्ता म्रियेतादौ वरो यदि ।
न च मन्त्रोपनीता स्यात् कुमारी पितुर् एव सा ॥

पितुर् एव न प्रतिग्रहीतुर् इत्य् अर्थः । कात्यायनो ऽपि ।

वरयित्वा तु यः कश्चित् प्रणश्येत् पुरुषो यदा ।
रक्तागमांश् त्रीन् अतीत्य कन्यान्यं वरयेद् वरम् ॥

रक्तागमो रजोदर्शनम् । एवं देशान्तरगते ऽपि द्रष्टव्यम् । यद् आह नारदः ।

प्रतिगृह्य तु यः कन्यां वरो देशान्तरं व्रजेत् ।
त्रीन् ऋतून् समतिक्रम्य कन्यान्यं वरयेद् वरम् ॥

मनुस् तु शुल्कदाने विशेषम् आह ।

कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते ॥ इति ।

एवं च वाग्दानप्रभृत्या सप्तमपदाद् दोषदर्शने मरणादौ वा कन्याम् अन्यस्मै दद्यात्, नोर्ध्वम् इत्य् उक्तं भवति । अत एव कात्यायनः ।

अनेकेभ्यो हि दत्तायां अनूढायां तु यत्र वै ।
वरागमश् च सर्वेषां लभेतादिवरस् तु ताम् ॥
अथागच्छेयुर् ऊढायां न तां पूर्ववरो हरेत् ।

पूर्ववरः स्वदत्तं शुल्कम् एव हरेन् न कन्याम् इत्य् अर्थः । मनुर् अपि ।

न दत्वा कस्यचित् कन्यां पुनर् दद्यात् विचक्षणः ।
दत्वा पुनः प्रयच्छेद् यः प्राप्नोति पुरुषानृतम् ॥

तद् अपि तेनैवोक्तम् ।

पञ्च पश्वनृते हन्ति दस हन्ति गवानृते ।
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥

पञ्च बान्धवान् इत्य् अर्थः, तेषाम् एव प्रकृतत्वात् । वसिष्ठस् तु पाणिग्रहणाद् उपर्य् अप्य् अन्यस्मै दानम् आह ।

पाणिग्रहे कृते कन्या केवलं मन्त्रसंस्कृता ।
सा चेद् अक्षतयोनिः स्यात् पुनःसंस्कारम् अर्हति ॥

नारदो ऽपि ।

उद्वाहितापि या कन्या न चेत् संप्राप्तमैथुना ।
पुनःसंस्कारम् अर्हेत यथा कन्या तथैव सा ॥

एतद् अपि दोषदर्शने वेदितव्यम् । अत एव यमः।

वरश् चेत् कुलशीलाभ्यां न युज्येत कथंचन ।
न मन्त्रः कारणं तत्र न च कन्यानृतं भवेत् ॥
समाकृष्य तु तां कन्यां बलाद् अक्षतयोनिकां ।
पुनर् गुणवते दद्याद् इति शातातपो ऽब्रवीत् ॥

कात्यायनो ऽपि ।

स तु यद्य् अन्यजातीयः पतितः क्लीब एव वा ।
विकर्मा वा सगोत्रो वा दासो दीर्घामयो ऽपि वा ॥
ऊढापि देया सान्यस्मै सप्रावरणभूषणा ।

मनुर् अपि ।

नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्व् आपत्सु नारीणां पतिर् अन्यो विधीयते ॥

पुनरुद्वाहनिषेधः

एवं च यानि संस्काराद् ऊर्ध्वम् अक्षतयोन्याः पुनर् उद्वाहपराणि तानि युगान्तराभिप्रायाणीति मन्तव्यम् । अत एव आदिपुराणे ।

ऊढायाः पुनर् उद्वाहं ज्येष्ठांशं गोवधं तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥

स्मृत्यन्तरे ऽपि ।

देवरात् तु सुतोत्पत्तिं गोमेधं च कमण्डुलुम् ।
अक्षतां पौरुषं (?) मेधं कलौ पञ्च विवर्जयेत् ॥

मनुस् तु दओषदर्सने कन्याया अपि परित्यागम् आह ।

विधिवत् प्रतिगृह्यापि त्यजेत् कन्यां विगर्हिताम् ।
व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥

विविधं प्रकर्षेण दुष्टां विप्रदुष्टाम् । नारदो ऽपि ।

नादुष्टां दूषयेत् कन्यां नादुष्टं दूषयेद् वरम् ।
दोषे सति न दोषः स्याद् अन्योन्यं त्यजतोर् द्वयोः ॥

एतद् अपि सप्तपदाद् अर्वाग् वेदितव्यम्, तत्रैव भार्यात्वस्योपपत्तेः । अत एव मनुः ।

पाणिग्रहणिक मन्त्रा नियतं दारलक्षणम् ।
तेषां निष्टा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥

यस् तु कन्यादोषम् अनभिधाय प्रयच्छति स राज्ञा दण्ड्य इत्य् आह नारदः ।

यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति ।
तस्य कुर्यान् नृपो दण्डं पूर्वसाहसचोदितम् ॥

पणशतद्वयं सप्तत्यधिकंपूर्वसाहसम् । यत् तु याज्ञवल्क्येनोक्तम्,

अनाख्याय ददद् दोषं दण्ड उत्तमसाहसम् ।

इति, तद् दोषभूयस्त्वाभिप्रायम् । साशीतिपणसाहस्रम् उत्तमसाहसम् । यः पुनर् अदुष्टाम् एव परित्यजति सो ऽपि दण्ड्य इत्य् आह नारदः ।

प्रतिगृह्य तु यः कन्याम् अदुष्टाम् उत्सृजेन् नरः ।
विनेयः सो ऽप्य् अकामो ऽपि कन्यां ताम् एव चोद्वहेत् ॥

विनेयो दण्ड्य इत्य् अर्थः । दण्डम् अपि स एवाह ।

अदुष्टां प्रतिगृह्याथ त्यजन्न् उत्तमसाहसम् । इति ।

कन्यादोषा अपि तेनैवोक्ताः ।

दीर्घकुत्सितरोगार्ता व्यङ्गा। संस्पृष्टमैथुना ।
धृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥

इति स्मृतिचन्द्रिकायां कन्यादानफलानि