श्रीमद्वाल्मीकीयरामायणम् ॥
श्रीसीतालक्ष्मणहनुमत्-समेत-श्रीरामचन्द्रपरब्रह्मणे नमः ॥ ॥
श्लोक-सहित-व्याख्यानम् ॥
श्रीमते रामानुजाय नमः ॥
विश्वास-प्रस्तुतिः
आचार्यं शठकोप-देशिकम् अथ प्राचार्य-पारम्परीं
श्रीमल्-लक्ष्मण-योगि-वर्य्य–यमुनावास्तव्य-नाथादिकान् ।
वाल्मीकिं सह नारदेन मुनिना वाग्-देवता-वल्लभं
सीता-लक्ष्मण-वायु-सूनु-सहितं श्रीरामचन्द्रं भजे ॥ १ ॥
मूलम्
आचार्यं शठकोपदेशिकमथ प्राचार्यपारम्परीं
श्रीमल्-लक्ष्मणयोगिवर्य्य-यमुना-वास्तव्य-नाथादिकान् ।
वाल्मीकिं सह नारदेन मुनिना वाग्-देवता-वल्लभं
सीता-लक्ष्मण-वायु-सूनु-सहितं श्रीरामचन्द्रं भजे ॥ १ ॥
विश्वास-प्रस्तुतिः
श्रीमत्य् अञ्जन-भू-धरस्य शिखरे श्रीमारुतेः सन्निधाव्
अग्रे वेङ्कट-नायकस्य सदन-द्वारे यति-क्ष्मा-भृतः ।
नाना-देश-समागतैर् बुध-गणै रामायण-व्याक्रियां
विस्तीर्णां रचयेति सादरम् अहं स्वप्ने ऽस्मि सञ्चोदितः ॥ २ ॥
मूलम्
श्रीमत्यञ्जनभूधरस्य शिखरे श्रीमारुतेः सन्निधावग्रे
वेङ्कटनायकस्य सदनद्वारे यतिक्ष्माभृतः ।
नानादेशसमागतैर्बुधगणै रामायणव्याक्रियां
विस्तीर्णां रचयेति सादरमहं स्वप्ने ऽस्मि सञ्चोदितः ॥ २ ॥
विश्वास-प्रस्तुतिः
क्वाहं मन्द-मतिर् गभीर-हृदयं रामायणं तत् क्व च
व्याख्याने ऽस्य परिभ्रमन्न् अहम् अहो हासास्पदं धीमताम् ।
को भारो ऽत्र मम स्वयं कुल-गुरुः कोदण्ड-पाणिः कृपा-
ऽऽकूपारो रचयत्य् अदः सपदि मज्-जिह्वाग्र-सिंहासनः ॥ ३ ॥
मूलम्
क्वाहं मन्दमतिर्गभीरहृदयं रामायणं तत्क्व च व्याख्याने ऽस्य
परिभ्रमन्नहमहो हासास्पदं धीमताम् ।
को भारो ऽत्र मम स्वयं कुलगुरुः
कोदण्डपाणिः कृपाकूपारो रचयत्यदः सपदि मज्जिह्वाग्रसिंहासनः ॥ ३ ॥
विश्वास-प्रस्तुतिः
वैयर्थ्यं पुनरुक्तताम् अनुचितारम्भं विरोधं मिथो
ऽसाधुत्वं च पद-प्रबन्ध-रचना-वाक्येषु निःशेषयन् ।
स्वारस्यं च पदे पदे प्रकटयन् रामायणस्य स्वयं
व्याख्याम् एष तनोति सज्-जन-मुदे गोविन्दराजाह्वयः ॥ ४ ॥
मूलम्
वैयर्थ्यं पुनरुक्ततामनुचितारम्भं विरोधं मिथो ऽसाधुत्वं च पदप्रबन्धरचनावाक्येषु निःशेषयन् । स्वारस्यं च पदे पदे प्रकटयन् रामायणस्य स्वयं व्याख्यामेष तनोति सज्जनमुदे गोविन्दराजाह्वयः ॥ ४ ॥
विश्वास-प्रस्तुतिः
पूर्वाचार्य्य-कृत-प्रबन्ध-जल-धेस् तात्पर्य-रत्नावलीर्
ग्राहं ग्राहम् अहं शठारि-गुरुणा सन्दर्शितेनाध्वना ।
अन्य-व्याकृति-जात-रूप-शकलैर् आयोज्य सज्जीकृतैः
श्री-रामायण-भूषणं विरचये पश्यन्तु निर्मत्सराः ॥ ५ ॥
मूलम्
पूर्वाचार्य्यकृतप्रबन्धजलधेस्तात्पर्यरत्नावलीर्ग्राहं ग्राहमहं शठारिगुरुणा सन्दर्शितेनाध्वना । अन्यव्याकृतिजातरूपशकलैरायोज्य सज्जीकृतैः श्रीरामायणभूषणं विरचये पश्यन्तु निर्मत्सराः ॥ ५ ॥
विश्वास-प्रस्तुतिः
सु-स्पष्टम् अष्टा-दश-कृत्य एत्य
श्री-शैल-पूर्णाद् यति-शेखरो ऽयम् ।
शुश्राव रामायण-सम्प्रदायं,
वक्ष्ये तम् आचार्य-परम्परात्तम् ॥ ६ ॥
मूलम्
सु-स्पष्टम् अष्टा-दश-कृत्य एत्य श्रीशैलपूर्णाद्यतिशेखरो ऽयम् । शुश्राव रामायणसम्प्रदायं वक्ष्ये तमाचार्यपरम्परात्तम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
क्वचित् पदार्थं क्वचिद् अन्वयार्थं
क्वचित् पद-च्छेद-समर्थनानि ।
क्वचित् क्वचिद् गाढ-निगूढ-भावं
वक्ष्ये यथाऽपेक्षम् अवेक्षणीयम् ॥ ७ ॥
मूलम्
क्वचित् पदार्थं क्वचिदन्वयार्थं क्वचित्पदच्छेदसमर्थनानि । क्वचित्क्वचिद्गाढनिगूढभावं वक्ष्ये यथापेक्षमवेक्षणीयम् ॥ ७ ॥
अवतारिका
श्रियः-पतिर् अवाप्त-समस्त-कामः समस्त-कल्याण-गुणात्मकः सर्वेश्वरः
“वैकुण्ठे तु परे लोके
श्रिया सार्द्धं जगत्पतिः ।
आस्ते विष्णुर् अचिन्त्यात्मा
भक्तैर् भागवतैः सह ॥ "
इत्य्-उक्त-रीत्या श्री-वैकुण्ठाख्ये दिव्य-लोके श्री-महा-मणि-मण्डपे
श्री-भूमि-नीलाभिः सह
रत्न-सिंहासनम् अध्यासीनो
नित्यैर् मुक्तैश् च
निरन्तर-परिचर्यमाण-चरण-नलिनोऽपि
तद्वदेव स्व-चरण-युगल-परिचरणार्हान् अपि
तद्-+धीनान् प्रलये प्रकृति-विलीनान्
मधूच्छिष्ट-मग्न–हेम-कण–स-दृक्षान् क्षीण-ज्ञानान् जीवान् अवलोक्य
“एवं संसृति-चक्र-स्थे
भ्राम्यमाणे स्व-कर्मभिः।
जीवे दुःखाकुले विष्णोः
कृपा काप्य् उपजायते ॥ "
इत्य्-उक्त-रीत्या दयमान-मनाः
“विचित्रा देह-सम्पत्तिर्
ईश्वराय निवेदितुम् ।
पूर्वम् एव कृता ब्रह्मन्
हस्त-पादादि-संयुता ॥ "
इत्य्-उक्त-प्रकारेण
महद्-आदि-सृष्टि-क्रमेण
तेषां स्व-चरण-कमल-समाश्रयणोचितानि करण-कलेवराणि दत्त्वा
नदी-तरणाय दत्तैः प्लवैर् नदी-रयानुसारेण
सागरम् अवगाहमानेष्व् इव
तेषु तैर् विषयान्तर-प्रवणेषु
तेषां सद्–अ-सद्-विवेचनाय
“शासनाच् छास्त्रम्” इत्य्-उक्त-रीत्या
स्व-शासन-रूपं वेदाख्यं शास्त्रं प्रवर्त्यापि
तस्मिन्न् अ-प्रतिपत्ति-विप्रतिपत्त्य्–अन्यथा-प्रतिपत्तिभिस् तैर् अनादृते
स्व-शासनातिलङ्घिनं जन-पदं
स्वयम् एव साधयितुम् अभियियासुर् इव वसुधाधिपतिः
स्वाचार-मुखेन तान् शिक्षयितुं+++(5)+++
रामादि-रूपेण चतुर्द्धावतितीर्षुर्
अन्तरा ऽमर-गणैः स-द्रुहिणैर् अभ्यर्थितः
स्वाराधकस्य दश-रथस्य मनो-रथम् अपि पूरयितुं
चतुर्द्धा ऽवततार ।
तत्र रामरूपेणावतीर्य
रावणं निहत्य
पितृ-वचन-परिपालनादि–सामान्य-धर्मम् अन्वतिष्ठत्,
लक्ष्मण-रूपेण रावणिं निरस्य
भगवच्-छेषत्व-रूपं विशेष-धर्मम्,+++(5)+++
भरत-रूपेण गन्धर्वान् निर्वास्य
भगवत्-पारतन्त्र्य-रूपम्,
शत्रु-घ्न-रूपेण लवणासुरं ध्वंसयित्वा
भागवत-शेषत्वम् ।+++(4)+++
तान् इमान् धर्मान्
तानीमानि चापदानानि+++(←दै शोधने)+++
तत्-काल-मात्र-पर्यवसितानि भविष्यन्तीति मन्वानः
सर्व-लोक-हित-परः पितामहो भगवान् ब्रह्मा
राम-चरित्र-पवित्रितं शत-कोटि-प्रविस्तरं प्रबन्धं निर्माय
तं नारदादीन् अध्याप्य
भूलोके ऽपि सन्तत-राम-मन्त्रानुसन्धान–सन्धुक्षित-हृदय–वाल्मीकि-मुखेन
सङ्ग्रहेण प्रवर्त्तयितुं नारदं प्रेषयामास ।
तद् उक्तं मात्स्ये
“वाल्मीकिना च यत् प्रोक्तं
रामोपाख्यानम् उत्तमम् ।
ब्रह्मणा चोदितं तच् च
शत-कोटि-प्रविस्तरम् ।
आहृत्य नारदेनैव
वाल्मीकाय निवेदितम् ॥ "
इति।
वाल्मीकिर् अपि
निखिल-वेदान्त-विदित–पर-तत्त्व–निर्दिधारयिषया
यद्-ऋच्छयोपगतं नारदं पृष्ट्वा
ऽवगत-परतत्त्व-स्वरूपः
तद्-अनु प्रसन्नेन विधिना
दत्त-सकल–साक्षात्-कार–प्रबन्ध-निर्माण-शक्तिर्
वेदोपबृंहणम् आरभमाणः
तस्यार्थ-प्रधान–सुहृत्-सम्मितेतिहासतां
व्यङ्ग्य-प्रधान–कान्ता-सम्मित-काव्यतां च
पुरस् कुर्वन्
“काव्यालापांश् च वर्जयेद्” इति निषेधस्यासत्-काव्य-विषयतां च निर्धारयन्
स्व-ग्रन्थे प्रेक्षावतां प्रवृत्त्य्-अर्थं
तद्-अङ्गानि दर्शयति
प्रथमतश् चतुः-सर्ग्या।