०७७ भरत-शत्रुघ्नविलापः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तसप्ततितमः सर्गः

ततो दशाहे ऽतिगते कृतशौचो नृपात्मजः ।

द्वादशे ऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत् ॥ 2.77.1 ॥

ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् ।

वासांसि च महार्हाणि रत्नानि विविधानि च ॥ 2.77.2 ॥

ततइति । दशाहे अतिगते अतीते, एकादशाह इत्यर्थः । कृतशौचः कृतशौचापादकपुण्याहवाचननवश्राद्धादिक इत्यर्थः । द्वादशे ऽहनि श्राद्धकर्माणि षोडशमासिकानि सपिण्डीकरणान्तानीत्यर्थः । अकारयत् अकरोदित्यर्थः । स्वार्थे णिच् ॥ 2.77.12 ॥

बास्तिकं बहुशुक्लं च गाश्चापि शतशस्तदा ।

दासीदासं च यानं च वेश्मानि सुमहान्ति च ।

ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्द्ध्वदैहिकम् ॥ 2.77.3 ॥

बास्तिकमित्यादि । बस्तानां छागानां समूहो बास्तिकम् । छान्दसष्ठक् । “अजा छागीशुभच्छागबस्तच्छागलका अजे” इत्यमरः । बहुशुक्लमिति छागविशेषणं रजतं वा, पितृप्रियत्वात् । “शुक्लो योगान्तरे श्वेते शुक्ले च रजते तथा” इति विश्वः । दासीदासम् । गवाश्वप्रभृतित्वादेकवद्भावः । उर्द्ध्वं देहादूर्द्ध्वदेहः तत्र भवमौर्द्ध्वदैहिकम् । “ऊर्द्ध्वदेहाच्चेति वक्तव्यम्” इति ठक् ॥ 2.77.3 ॥

ततः प्रभातसमये दिवसे ऽथ त्रयोदशे ।

विललाप महाबाहुर्भरतः शोकमूर्च्छितः ।

शब्दापिहितकण्ठस्तु शोधनार्थमुपागतः ॥ 2.77.4 ॥

तत इति । शब्दापिहितकण्ठः रोदनध्वनिना व्याप्तकण्ठः । शोधनार्थं स्थलशोधनार्थम् “दहनदेशमुदकुम्भैः स्ववोक्षति” इति सूत्रात् अस्थिसञ्चयनार्थमित्यर्थः । सावशेषास्थिनिचय इति वक्ष्यमाणत्वात् । त्रयोदशेप्यस्थिसञ्चयनं सूत्रान्ते दृश्यते । यथाह बोधायनः “द्वितीये ऽह्नि युग्मदिवसेष्वर्द्धमासान्मासानृतून् संवत्सरं वा सञ्चयनं कुर्यात्” इति ॥ 2.77.4 ॥

चितामूले पितुर्वाक्यमिदमाह सुदुःखितः ॥ 2.77.5 ॥

चितामूल इत्यर्धम् ॥ 2.77.5 ॥

तात यस्मिन्निसृष्टो ऽहं त्वया भ्रातरि राघवे ।

तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तो ऽस्म्यहं त्वया ॥ 2.77.6 ॥

यस्या गतिरनाथायाः पुत्रः प्रव्राजितो वनम् ।

तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप ॥ 2.77.7 ॥

तातेति । निसृष्टः दत्तः । प्रव्रजिते प्रव्राजिते । छान्दसो ह्रस्वः ॥ 2.77.67 ॥

दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् ।

पितुः शरीरनिर्वाणं निष्टनन् विषसाद सः ॥ 2.77.8 ॥

दृष्ट्वेति । भस्मारुणं भस्मयुक्तमरुणं च । अरुणत्वमतिदग्धत्वात् । पितुः शरीरनिर्वाणं शरीरं निर्वाप्यते विनाश्यते अस्मिन्निति शरीरनिर्वाणम् । अधिकरणे ल्युट् । “निर्वाणो निर्वृते मोक्षे विनाशे गजमज्जने” इति वैजयन्ती । निष्टनन् नितरां स्तनन् । “अभिनिसस्तनः शब्दसंज्ञायाम्” इति षत्वम् । (पाठभेदः । भस्मारुणं भस्मना अरुणम्, अव्यक्तरागम् । दग्धास्थिस्थानमण्डलं दग्धानामस्थ्नां यानि स्थानानि विन्यासविशेषाः तेषां मण्डलं समूहं दृष्ट्वा अस्थिमण्डलं दृष्ट्वेत्यर्थसिद्धम् । पितुः शरीरनिर्वाणं शरीरविनाशं प्रति निष्टनन् नितरां रोदनशब्दं कुर्वन्) विषसाद दुःखितो ऽभूत् ॥ 2.77.8 ॥

स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले ।

उत्थाप्यमानः शक्रस्य यन्त्रध्वज इव च्युतः ॥ 2.77.9 ॥

स इति । उत्थाप्यमानः रज्जुभिरुत्थाप्यमानः । च्युतः स्रस्तः शक्रस्य यन्त्रबद्धो ध्वजो यन्त्रध्वजः रज्जुयुक्तो ध्वज इव पपात, यथा यन्त्रपतनात् ध्वजपतनम् एवं राजपतनात् भरतपतनमिति भावः ॥ 2.77.9 ॥

अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम् ।

अन्तकाले निपतितं ययातिमृषयो यथा ॥ 2.77.10 ॥

अभिपेतुरिति । अमात्याः ज्ञातयः । शुचिव्रतं तम् । अन्तकाले पुण्यक्षयकाले निपतितं ययातिम् ऋषयः दौहित्रभूता इव अभिपेतुः ॥ 2.77.10 ॥

शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् ।

विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन् ॥ 2.77.11 ॥

शत्रुघ्न इति । भरतपतनावधि शत्रुघ्नस्य धैर्यं स्थितम्, तत्पतनानन्तरं तु भूमिपालमनुस्मरन्न्यपतत् ॥ 2.77.11 ॥

उन्मत्त इव निश्चेता विललाप सुदुःखितः ।

स्मृत्वा पितुर्गुणाङ्गानि तानितानि तदातदा ॥ 2.77.12 ॥

उन्मत्त इति । गुणाङ्गानि गुणानङ्गानि चेत्यर्थः । तदातदा तानितानि तत्तत्कालोचिताभिमतप्रदानोपलालनकराणि गुणाङ्गानि ॥ 2.77.12 ॥

मन्थराप्रभवस्तीव्रः कैकेयीग्राहसङ्कुलः ।

वरदानमयोक्षोभ्यो ऽमज्जयच्छोकसागरः ॥ 2.77.13 ॥

सुकुमारं च बालं च सततं लालितं त्वया ।

क्व तात भरतं हित्वा विलपन्तं गतो भवान् ॥ 2.77.14 ॥

मन्थरेति सगरव्यावृत्तिः । तीव्रः अगाध इति यावत् । अमज्जयत् अस्मानिति शेषः ॥ 2.77.1314 ॥

ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च ।

प्रवारयसि नः सर्वांस्तन्नः को ऽन्यः करिष्यति ॥ 2.77.15 ॥

नन्विति । प्रवारयसि एष्वाभरणादिषु किं तवेष्टं गृहाणेति प्रकर्षेण स्वयं ग्राहयासि तत्प्रवारणम् ॥ 2.77.15 ॥

अवदारणकाले तु पृथिवी नावदीर्यते ।

या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना ॥ 2.77.16 ॥

अवदारणेति । या पृथिवी धर्मज्ञेन त्वया विहीना नावदीर्यते न भिद्यते । स्वयमिति शेषः । सा अवदारणकाले तु प्रलयकालेपि नावदीर्यते नावदीर्येतेत्यर्थः । (पाठभेदः । अवदारणकाले त्वद्विहीनतया अवदारणस्य प्राप्तकाले । अवदारणकालत्वे हेतुः त्वया विहीनेति । धर्मज्ञेन महात्मना त्वया राज्ञा एतादृशगुणाढ्येन त्वयेत्यर्थः । विहीना या सा पृथ्वी अवदारणकाले नावदीर्यत इत्यन्वयः) ॥ 2.77.16 ॥

पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते ।

किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम् ॥ 2.77.17 ॥

हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् ।

अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ॥ 2.77.18 ॥

पितरीति । जीवितसामर्थ्यं जीवनशक्तिः ॥ 2.77.1718 ॥

तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् ।

भृशमार्त्ततरा भूयः सर्व एवानुगामिनः ॥ 2.77.19 ॥

तयोरिति । आर्त्ततराः । आसन्निति शेषः ॥ 2.77.19 ॥

ततो विषण्णौ विश्रान्तौ शत्रुघ्नभरतावुभौ ।

धरण्यां संव्यचेष्टेतां भग्नश्रृङ्गाविवर्षभौ ॥ 2.77.20 ॥

तत इति । विश्रान्तौ विशेषेण श्रान्तौ । व्यचेष्टेतां व्यलुण्ठेताम् ॥ 2.77.20 ॥

ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः ।

वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह ॥ 2.77.21 ॥

तत इति । प्रकृतिमान् प्रशस्तस्वभावः । “प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे” इति वैजयन्ती । वैद्यः विद्यां तत्त्वज्ञानहेतुभूतां वेदान्तविद्यां वेदेति वैद्यः वेदान्तविद्याधिगतपरावरतत्त्वयाथात्म्यविज्ञानः, सर्वज्ञ इति यावत् ।

“तदधीते तद्वेद” इत्यण् । “सर्वज्ञभिषजौ वैद्यौ” इत्यमरः । एषामितिबहुवचननिर्देशो बुद्धिस्थरामाद्यपेक्षया । पितुर्दशरथस्य ॥ 2.77.21 ॥

त्रयोदशो ऽयं दिवसः पितुर्वृत्तस्य ते विभो ।

सावशेषास्थिनिचये किमिह त्वं विलम्बसे ॥ 2.77.22 ॥

त्रयोदश इति । वृत्तस्य संस्कृतस्य । त्रयोदशो ऽयं दिवसः । सावशेषास्थिनिचये अस्थिसञ्चयनाख्ये कर्मण्यवशिष्ट इत्यर्थः । दशाहमध्ये शास्त्रविहितं प्रधानावयवास्थिसञ्चयनं कृतम्, त्रयोदशे दिवसे तद्देशीयशिष्टाचारप्राप्तस्थलशोधनमात्रं कृतमिति न स्मृतिविरोध इत्यप्याहुः । स्मृतिश्चास्माभिर्दर्शितैव ॥ 2.77.22 ॥

त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः ।

तेषु चापरिहार्येषु नैवं भवितुमर्हसि ॥ 2.77.23 ॥

त्रीणीति । अशनायापिपासे शोकमोहौ जरामृत्यू इत्युक्तानि त्रीणि द्वन्द्वानि । भूतेषु जन्तुषु । अविशेषतः प्रवृत्तानि तेषु चापरिहार्येषु प्राप्तेषु । त्वमेवं भवितुं नार्हसि अज्ञवन्मोहेन प्रलपितुं नार्हसि ॥ 2.77.23 ॥

सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च ।

श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ ॥ 2.77.24 ॥

उत्थितौ च नरव्याघ्रौ प्रकाशेते यशस्विनौ ।

वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव ॥ 2.77.25 ॥

सुमन्त्र इति । सर्वभूतभवाभवौ सर्वभूतोत्पत्तिविनाशौ ॥ 2.77.2425 ॥

अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ ।

अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः ॥ 2.77.26 ॥

अश्रूणीति । परिमृद्नन्तौ मार्जयन्तौ । तनयौ राजपुत्रौ । अपराः क्रियाः अस्थिसञ्चयनादिकाः । प्रतीति शेषः ॥ 2.77.26 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥ 77 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तसप्ततितमः सर्गः ॥ 77 ॥