०३६ सहाय्यार्थं रावणप्रार्थना

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्त्रिंषः सर्गः

मारीच श्रूयतां तात वचनं मम भाषतः ।

आर्तो ऽस्मि मम चार्तस्य भावन् हि परमा गतिः ॥ 3.36.1 ॥

महासमरमध्ये ऽपि गाम्भीर्यं यस्य निश्चलम् । तमहं शिरसा वन्दे जानकीप्राणवल्लभम् ॥ मारीचेत्यादि । भाषतः भाषमाणस्य ॥ 3.36.1 ॥

जानीषे त्वं जनस्थाने यथा भ्राता खरो मम ।

दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ॥ 3.36.2 ॥

त्रिशिराश्च महातेजा राक्षसः पिशिताशनः ।

अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ॥ 3.36.3 ॥

वसन्ति मन्नियोगेन नित्यवासं च राक्षसाः ।

बाधमाना माहरण्ये मुनीन् वै धर्मचारिणः ॥ 3.36.4 ॥

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।

शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ॥ 3.36.5 ॥

कर्तव्यं वक्ष्यन् पूर्ववृत्तं स्मारयति जानीष इत्यादिना, अनुवर्तिनामित्यन्तमेकं वाक्यम् । खरादयश्चतुर्दशसहस्रराक्षसान्ताः जनस्थाने नित्यवासं यथा तथा वसन्तीति जानीष इत्यन्वयः । रतिवासमिति पाठे रत्या प्रीत्या वासो यस्मिन् कर्मणि तत्तथा ॥ 3.36.25 ॥

ते त्विदानीं जनस्थाने वसमाना महाबलाः ।

सङ्गताः परमायत्ता रामेण सह संयुगे ।

नानाप्रहरणोपेताः खरप्रमुखराक्षसाः ॥ 3.36.6 ॥

ते त्विति । वसमानाः । ताच्छील्ये शानच् । संयुगे रामेण सह सङ्गताः रामेण सह युद्धमकुर्वन्नित्यर्थः । परम् अत्यन्तम् । आयात्ताः सन्नद्धाः । प्रहरणं आयुधम् ॥ 3.36.6 ॥

तेन सञ्जातरोषेण रामेण रणमूर्द्धनि ।

अनुक्त्वा परुषं किञ्चिच्छरैर्व्यापारितं धनुः ॥ 3.36.7 ॥

चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् ।

निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना ॥ 3.36.8 ॥

खरश्च निहतः सङ्ख्ये दूषणश्च निपातितः ।

हतश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः ॥ 3.36.9 ॥

पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ।

स हन्ता तस्य सैन्यस्य रामः क्षत्ित्रयपांसनः ॥ 3.36.10 ॥

तेनेति । अनुक्त्वा परुषं किञ्चिदित्यनेन गाम्भीर्यं विवक्ष्यते । व्यापारितं सन्धानमोक्षणव्यापारविशिष्टं कृतम् । सङ्ख्ये युद्धे । “युद्धमायोधनम्” इत्यारभ्य “मृधमास्कन्दनं सङ्ख्यम्” इत्यमरः ॥ 3.36.710 ॥

दुःशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धो ऽजितेन्द्रियः ।

त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः ॥ 3.36.11 ॥

कर्कशः कठिनहृदयः ॥ 3.36.11 ॥

येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम् ।

कर्णनासापहरणाद्भगिनी मे विरुरिता ॥ 3.36.12 ॥

तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम् ।

आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ॥ 3.36.13 ॥

सत्त्वं बलं केवलमाश्रित्य न तु धर्ममित्यर्थः । “सत्त्वं बले च जन्तौ च” इति विश्वः । आनयिष्यामि आनेष्यामि । इडार्षः ॥ 3.36.12,13 ॥

त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल ।

भ्रातृभिश्च सुरान् युद्धे समग्रान्नाभिचिन्तये ॥ 3.36.14 ॥

तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षम ।

वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव ॥ 3.36.15 ॥

उपायज्ञो महान् शूरः सर्वमायाविशारदः ।

एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ॥ 3.36.16 ॥

भ्रातृभिः कुम्भकर्णादिभिः । समग्रान् सम्पूर्णान् । नाभिचिन्तये न गणयामि ॥ 3.36.1416 ॥

शृणु तत् कर्म साहाय्ये यत्कार्यं वचनान्मम ॥ 3.36.17 ॥

शृणु तत् कर्मेत्यत्र तदिति भिन्नं पदम् । प्रकृते कार्यसाहाय्ये यत्कर्म कार्यं कर्तव्यं तन्मम वचनाच्छृण्विति सम्बन्धः ॥ 3.36.17 ॥

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।

आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ 3.36.18 ॥

प्रमुखे अग्रे ॥ 3.36.18 ॥

त्वां तु निस्संशयं सीता दृष्ट्वा तु मृगरूपिणम् ।

गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ॥ 3.36.19 ॥

गृह्यतामिति अयमिति शेषः ॥ 3.36.19 ॥

ततस्तयोरपाये तु शून्ये सीतां यथासुखम् ।

निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ॥ 3.36.20 ॥

तयोः रामलक्ष्मणयोः । अपाये अपगमे सति शून्ये प्रदेशे । निराबाधः अप्रतिबन्धः ॥ 3.36.20 ॥

ततः पश्चात्सुखं रामे भार्याहरणकर्शिते ।

विश्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना ॥ 3.36.21 ॥

विश्रब्धः निश्शङ्कः । अन्तरात्मना अन्तस्स्थधैर्येण ॥ 3.36.21 ॥

तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः ।

शष्कं समभवद्वक्त्रं परित्रस्तो बभूव सः ॥ 3.36.22 ॥

सः मारीचः रामकथां श्रुत्वा परित्रस्तो बभूव । तेन त्रासेन तस्य वक्रं शुष्कं समभवदित्यन्वयः ॥ 3.36.22 ॥

ओष्ठौ परिलिहन् शुष्कौ नेत्रैरनिमिषैरिव ।

मृतभूत इवार्तस्तु रावणं समुदैक्षत ॥ 3.36.23 ॥

भयकार्यान्तरमाह ओष्ठाविति । शुष्कौ ओष्ठौ परिलिहन् सः । अनिमिषैः निमेषरहितैः नैत्रैः नेत्रव्यापारैः । मृतभूत इव मृतजन्तुरिवार्तः सन् रावणं समुदैक्षत ॥ 3.36.23 ॥

स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः ।

कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च ॥ 3.36.24 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्त्रिंषः सर्गः ॥ 36 ॥

उत्तरसर्गार्थं सङ्गृह्णाति स इति । त्रस्तविषण्णचेताः भीतदुःखितमनाः । तत्र हेतुः रामपराक्रमज्ञ इति । पूर्वं दण्डकारण्ये यो रामपराक्रम आसीत् तज्ज्ञ इत्यर्थः । तस्मै रावणाय । हितम् अनपायम् । “हितयोगे च” इति वार्तिकेन चतुर्थी ॥ 3.36.24 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ 36 ॥