०८४ गुह-भरतसंवादः

श्रीरामयणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरशीतितमः सर्गः

ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् ।

निषादराजो दृष्ट्वैव ज्ञातीन् सन्त्वरितो ऽब्रवीत् ॥ 2.84.1 ॥

तत इत्यादि । गङ्गामन्वाश्रितां प्राप्ताम् अत एव निविष्टां कृतनिवेशां ध्वजिनीं सेनां दृष्ट्वा । सन्त्वरितः ससम्भ्रमः ॥ 2.84.1 ॥

महतीयमितः सेना सागराभा प्रदृश्यते ।

नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ॥ 2.84.2 ॥

महतीति । इतः इह श्रृङ्गिबेरपुरे । अस्य सेनारूपवस्तुनः । चिन्तयन्नहं मनसापि नास्यान्तमधिगच्छामीति सम्बन्धः ॥ 2.84.2 ॥

यथा तु खलु दुर्बुद्धिर्भरतः स्वयमागतः ।

स एष हि महाकायः कोविदारध्वजो रथे ॥ 2.84.3 ॥

यथेति । स इक्ष्वाकुकुलक्रमागतः कोविदारध्वजः रथे दृश्यते । हि यस्मात् अतो भरतः स्वयमागतः यथा तु खलु ध्रुवमित्यर्थः । कोविदारध्वजः दुर्बुद्धिरित्यनेन भरतो रामद्रोहाकाङ्क्षया आगच्छतीति शङ्कितवानिति गम्यते ॥ 2.84.3 ॥

बन्धयिष्यति वा दाशानथवा ऽस्मान् वधिष्यति ।

अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥ 2.84.4 ॥

सम्पन्नां श्रियमन्विच्छंस्तस्य राज्ञः सुदुर्ल्लभाम् ।

भरतः कैकयीपुत्रो हन्तुं समधिगच्छति ॥ 2.84.5 ॥

तदेव स्थापयिष्यतिबन्धयिष्यतीत्यादिना । दाशानस्मान् बन्धयिष्यति अथवा वधिष्यति हनिष्यति । हनो लृटि वधादेश आर्षः । अथ अथवा । दाशरथिं ज्ञातिभूतमिति भावः । विवासितं दुर्बलमित्यर्थः । सम्पन्नाम् अप्रच्युताम् । रामागमने हि श्रीः प्रच्युता स्यात् । कैकयीपुत्र इति दुष्प्रकृतित्वे हेतुः । तस्य राज्ञः राजत्वार्हस्य रामस्य सुदुर्लभाम् ॥ 2.84.45 ॥

भर्त्ता चैव सखा चैव रामो दाशरथिर्मम ।

तस्यार्थकामाः सन्नद्धा गङ्गानूपे प्रतिष्ठत ॥ 2.84.6 ॥

किमतो ऽभवदित्यत्राह–भर्तेति । अर्थकामाः अर्थेच्छवः, यूयमिति शेषः । अनूपे तीरे ॥ 2.84.6 ॥

तिष्ठन्तु सर्वे दाशाश्च गङ्गामन्वाश्रिता नदीम् ।

बलयुक्ता नदीरक्षा मांसमूलफलाशनाः ॥ 2.84.7 ॥

तिष्ठन्त्विति । सर्वे दाशाश्च गङ्गामन्वाश्रिताः सन्तः बलयुक्ताः सेनायुक्ताः । नदीरक्षाः नदीतरणमार्गं रक्षन्तः । मांसमूलफलाशनाः नावारोपितमांसाद्यशनाः तिष्ठन्तु ॥ 2.84.7 ॥

नावां शतानां पञ्चानां कैवर्त्तानां शतंशतम् ।

सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ॥ 2.84.8 ॥

नावामित्यादि । पञ्चानां शतानां नावाम् एकैकस्या नावः कैवर्त्तानां शतं शतं तिष्ठन्तु, शतंशतं कैवर्त्ताः तिष्ठन्त्वित्यर्थः ॥ 2.84.8 ॥

यदा तुष्टस्तु भरतो रामस्येह भविष्यति ।

सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ॥ 2.84.9 ॥

रामस्य तुष्टः रामविषये तुष्टः । यदादुष्ट इति पाठे–अदुष्ट इति पदछेदः । स्वस्तिमतीति अन्यथा हन्तव्येति भावः ॥ 2.84.9 ॥

इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च ।

अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥ 2.84.10 ॥

तमायान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान् ।

भरतायाचचक्षे ऽथ विनयज्ञो विनीतवत् ॥ 2.84.11 ॥

उपायनं कौशेयादि । मां सं मृगाणाम् ॥ 2.84.1011 ॥

एष ज्ञातिसहस्रेण स्थपतिः परिवारितः ।

कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ॥ 2.84.12 ॥

तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः ।

असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ 2.84.13 ॥

एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम् ।

उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ॥ 2.84.14 ॥

स्थपतिः प्रभुः । दण्डकारण्ये कुशलः तत्र सञ्चरणसमर्थ इत्यर्थः । विजानीते तं देशमित्यर्थः ॥ 2.84.1214 ॥

लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः ।

आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् ॥ 2.84.15 ॥

प्रह्वः कृतप्रणामः ॥ 2.84.15 ॥

निष्कुटश्चैव देशो ऽयं वञ्चिताश्चापि ते वयम् ।

निवेदयामस्ते सर्वे स्वके दासकुले वस ॥ 2.84.16 ॥

अयं देशः मदधिष्ठितवनप्रदेशः । ते निष्कुटः गृहारामभूतः । “गृहारामस्तु निष्कुटः” इत्यमरः । त्वद्भोगयोग्य इति यावत् । वयं च वञ्चिताः अत्र गमनानिवेदनेन वञ्चिता इत्यर्थः । निवेदने हि प्रत्युद्गमनादिकं कर्तुं शक्यमिति भावः । सर्वे वयं ते, त्वदीया इत्यर्थः । अतः स्वके दासकुले दासगृहे वसेति निवेदयामः विज्ञापयामः । पूर्वं गङ्गामासाद्येति गङ्गापर्यन्तमार्गकरणेपि अद्य मनुष्यप्रेरणाभावात्त्वदागमनं न ज्ञातवानस्मीति गुहेनोच्यते ॥ 2.84.16 ॥

अस्ति मूलं फलं चैव निषादैः समुपाहृतम् ।

आर्द्रञ्च मांसं शुष्कञ्च वन्यं चोच्चावचं महत् ॥ 2.84.17 ॥

वन्यं नीवारश्यामाकप्रियंग्वादिधान्यम् ॥ 2.84.17 ॥

आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् ।

अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥ 2.84.18 ॥

आशंसे प्रार्थयामि । स्वाशिता सुष्ठु भोजिता ॥ 2.84.18 ॥

इत्यार्षे श्रीरामयणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरशीतितमः सर्गः ॥ 84 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुरशीतितमः सर्गः ॥ 84 ॥