०५६ सीतया रामपराक्रमवर्णनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्पञ्चाशः सर्गः

सा तथोक्ता तु वैदेही निर्भया शोककर्शितता ।

तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ॥ 3.56.1 ॥

तथैतच्छ्रुत्वा परुषं भाषमाणायाः सीतायाः पुनरशोकवनिकानयनं षट्पञ्चाशे सा तथेत्यादि । अन्तरतो मध्ये, पतिव्रतायाः परपुरुषं प्रत्यभिमुखतया भाषणायोगात् ॥ 3.56.1 ॥

राजा दशरथो नाम धर्मसेतुरिवाचलः ।

सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः ॥ 3.56.2 ॥

धर्मसेतुः धर्मस्य सेतुरिव मर्यादास्थापकः इत्यर्थः । अचलः स्थिरः । परिज्ञातः प्रसिद्धः, कथमेतादृशकुलं प्राप्ता ऽतिचरेदिति भावः ॥ 3.56.2 ॥

रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः ।

दीर्घबाहुर्विशालाक्षो दैवतं हि पतिर्मम ॥ 3.56.3 ॥

सः दशरथपुत्रः दैवतं सर्वलोकानामिति शेषः । य एवम्भूतः स मे पतिरिति योजना । कथमेवम्भूतभर्तृका ऽतिचरेदिति भावः ॥ 3.56.3 ॥

इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः ।

लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् हरिष्यति ॥ 3.56.4 ॥

इक्ष्वाकूणामिति । त्वद्वधार्थमेव भ्रात्रा सह इक्ष्वाकुकुले ऽवतीर्ण इति भावः । तथा च न मे त्वत्तो भयमिति भावः ॥ 3.56.4 ॥

प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् ।

शयिता त्वं हतः सङ्ख्ये जनस्थाने यथा खरः ॥ 3.56.5 ॥

तर्हि कथमिदानीं स तूष्णीं स्थित इत्याशङ्क्याह प्रत्यक्षमिति । प्रत्यक्षं यथा तथा यदि धर्षिता स्यां तदा त्वं हतः सन् युद्धे शयिता म्रयेथा इत्यर्थः ॥ 3.56.5 ॥

य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः ।

राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥ 3.56.6 ॥

य इति । निर्विषाः निर्वीर्या इति राक्षसपक्षे ॥ 3.56.6 ॥

तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः ।

शरीरं विधमिष्यन्ति गङ्गा कूलमिवोर्मयः ॥ 3.56.7 ॥

तस्येति । विधमिष्यन्ति ध्मास्यन्ति निपातयिष्यन्तीत्यर्थः । गङ्गेत्यविभक्तिकनिर्देशः, गङ्गाया ऊर्मय इत्यर्थः ॥ 3.56.7 ॥

असुरैर्वा सुरैर्वा त्वं यद्यवध्यो ऽसि रावण ।

उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ॥ 3.56.8 ॥

त्वं सुरासुरैर्यद्यप्यवध्यः तथापि तस्य रामस्य सुमहद्वैरं कोपमुत्पाद्य स्थितस्त्वं जीवन् सन् तच्छरपातान्न मोक्ष्यसे न मुक्तो भविष्यसीत्यर्थः ॥ 3.56.8 ॥

स ते जीवितशेषस्य राघवोन्तकरो बली ।

पशोर्यूपगतस्येव जीवितं तव दुर्लभम् ॥ 3.56.9 ॥

सः राघवः । ते जीवितशेषस्य अन्तकरः नाशं कर्तुं समर्थः । तस्मात् यूपगतस्य पशोरिव रामापराधिनस्तव जीवितं दुर्लभम् ॥ 3.56.9 ॥

यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा ।

रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम् ॥ 3.56.10 ॥

यदीति । हे रक्षः सः रामः त्वां रोषदीप्तेन चक्षुषा यदि पश्येत् तदा त्वं निर्दग्धः सन् सद्यः पराभवं गच्छेः, निर्दग्धशब्देनातीव पीडितत्वमुच्यते ॥ 3.56.10 ॥

यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा ।

सागरं शोषयेद्वापि स सीतां मोचयेदिह ॥ 3.56.11 ॥

नभसः आकाशात् पातयेत् नाशयेत वा अदर्शनं प्रापयेद्वा सागरमपि शोषयेत् । सः सीतां मोचयेदिति किमुत ॥ 3.56.11 ॥

गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः ।

लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥ 3.56.12 ॥

त्वकृतेन परदाराभिमर्शनरूपपापेन त्वम् आयुरादिहीनो भविष्यसि, लङ्का च वैधव्यसंयुक्ता अनाथत्वयुक्ता भविष्यति । “आयुर्बलं यशो लक्ष्मीः परदाराभिमर्शनात् । सद्य एव विनश्यन्ति ” इति स्मृतेः ॥ 3.56.12 ॥

न ते पापमिदं कर्म सुखोदर्कं भविष्यति ।

या ऽहं नीता विनाभावं पतिपार्श्वात्त्वया वने ॥ 3.56.13 ॥

न त इति । या ऽहं वने पतिपार्श्वात् विनाभावं वियोगं नीता । तस्यां मयि ते इदं पापं कर्म सुखोदर्कं न भविष्यति, किन्तु दुःखोदर्कमेव भविष्यतीत्यर्थः ॥ 3.56.13 ॥

स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः ।

निर्भयो वीर्यमाश्रित्य शून्यो वसति दण्डके ॥ 3.56.14 ॥

दैवतसंयुक्तः दैवबलसंयुक्तः । दीनस्तापसो रामो मां किं करिष्यतीति पूर्वं रावणेनोक्तस्य परिहारो ऽयम् ॥ 3.56.14 ॥

स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम् ।

अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे ॥ 3.56.15 ॥

स त इति । दर्पं मदम् । उत्सेकम् उल्लङ्घ्यकार्यकारित्वम् । गात्रेभ्य इत्युक्तिर्दर्पादिनां देहविशिष्टगुणत्वात् ॥ 3.56.15 ॥

यदा विनाशो भूतानां दृश्यते कालचोदितः ।

तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥ 3.56.16 ॥

लोकन्यायमाह यदेति । कालचोदितो दैवकृतः विनाशो यदा दृश्यते सन्निहितो भवतीत्यर्थः । तदा कार्ये कृत्ये प्रमाद्यन्ति वैपरीत्यं प्राप्नुवन्ति ॥ 3.56.16 ॥

मां प्रधृष्य स ते कालः प्राप्तो ऽयं राक्षसाधम ।

आत्मनो राक्षसानां च वधायान्तःपुरस्य च ॥ 3.56.17 ॥

उक्तं लोकन्यायं प्रकृते योजयति मामिति । मां प्रधृष्य स्थितस्य तव । कालो ऽप्ययमेव वर्तमान एव, न तु चिरायेत्यर्थः । आत्मनो राक्षसानामन्तःपुरस्य च वधाय प्राप्तः ॥ 3.56.17 ॥

न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता ।

द्विजातिमन्त्रपूता च चण्डालेनावमर्दितुम् ॥ 3.56.18 ॥

तथाहं धर्मनित्यस्य धर्मपत्नी पतिव्रता ।

त्वया स्प्रष्टुं न शक्या ऽस्मि राक्षसाधम पापिना ॥ 3.56.19 ॥

न शक्येत्यादिश्लोकद्वयमेकान्वयम् । यज्ञो यज्ञपुरुषः तन्मध्यस्था गार्हपत्याहवनीयमध्यगता । वेदिः ऐष्टिकी महावेदिः । स्रुग्भाण्डमण्डिता स्रुगाद्युपकरणालङ्कृता । द्विजादिमन्त्रैः उद्धननादिमन्त्रैः । पूता शुद्धा यथा चण्डालेनावमर्दितुं पादेनाक्रमितुं न शक्या नार्हा तथाहं धर्मनित्यस्य यज्ञस्थानीयस्य धर्मपत्नी पतिव्रता त्वया स्प्रष्टुं न शक्या ॥ 3.56.18,19 ॥

क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यदा ।

हंसी सा तृमषण्डस्थं कथं पश्येत मदगुकम् ॥ 3.56.20 ॥

नित्यदा नित्यम् । नित्यशब्दस्य सर्वैकादिष्वपाठेप्यार्षौ दाप्रत्ययः । सा प्रसिद्धा । तृणषण्डस्थं जलजनडादितृणकदम्बमध्यस्थम् । मद्गुकं जलकाकम् ॥ 3.56.20 ॥

इदं शरीरं निस्सञ्ज्ञं बन्ध वा खादयस्व वा ।

नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस ॥

न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः ॥ 3.56.21 ॥

निस्सञ्ज्ञं निश्चेष्टम् । बन्ध बधान । खादयस्व भक्षय ॥ न त्वित्यर्धमेकं वाक्यम् । आत्मनः उपक्रोशमपवादं पृथिव्यां दातुं न शक्ष्यामि ॥ 3.56.21 ॥

एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः ।

रावणं मैथिली तत्र पुनर्नोवाच किञ्चन ॥ 3.56.22 ॥

एवमुक्त्वेति । तत्र तद्विषये क्रियाभेदात् पुनर्मैथिलीशब्दप्रयोगः ॥ 3.56.22 ॥

सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् ।

प्रत्युवाच ततः सीतां भयसन्दर्शनं वचः ॥ 3.56.23 ॥

सीताया इति । रोमहर्षणं क्रोधावहत्वाद्रोमाञ्चकरम् । भयसन्दर्शनं भयोत्पादकम् ॥ 3.56.23 ॥

शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि ।

कालेनानेन नाभ्येषि यदि मां चारुहासिनि ॥ 3.56.24 ॥

ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः ॥ 3.56.25 ॥

शृण्वित्यादिसार्धश्लोक एकान्वयः । द्वादश मासानित्यत्यन्तसंयोगे द्वितीया । प्रतीक्ष इति शेषः । प्रातर्भक्षणार्थम् । सूदाः पाचकाः । “सूदा औदनिका गुणाः” इत्यमरः । अत्र सीताहरणं चैत्रमास इत्यवगन्तव्यम्, संवत्सरान्ते रावणवधकरणात् । तेन त्रीन् वर्षान् पञ्चवट्यां रामः स्थित इति गम्यते । हेमन्तवर्णनं तु रामतपोविशेषज्ञापनाय न शूर्पणखागमनज्ञापनाय ॥ 3.56.24,25 ॥

इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः ।

राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ॥ 3.56.26 ॥

शत्रून् रावयति क्रोशयतीति शत्रुरावणः ॥ 3.56.26 ॥

शीघ्रमेव हि राक्षस्यो विकृता घोरदर्शनाः ।

दर्पमस्या विनेष्यध्वं मांसशोणितभोजनाः ॥ 3.56.27 ॥

शीघ्रमिति । विनेष्यध्वं विनयध्वम् । व्यत्ययेन स्यादेशः ॥ 3.56.27 ॥

वचनादेव तास्तस्य सुघोरा राक्षसीगणाः ।

कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् ॥ 3.56.28 ॥

कृतप्राञ्जलयः रावणवाक्याङ्गीकारे कृतप्रकृष्टाञ्जलयः ॥ 3.56.28 ॥

स ताः प्रोवाच राजा तु रावणो घोरदर्शनः ।

प्रचाल्य चरुणोत्कर्षैर्दारयन्निव मेदिनीम् ॥ 3.56.29 ॥

चरणोत्कर्षैः चरणाघातैः । मेदिनीं भुवम् । दारयन्निव भिन्दन्निव । प्रचाल्य गत्वा उत्थाय वा ताः प्रोवाच ॥ 3.56.29 ॥

अशोकवनिकामध्ये मैथिली नीयतामियम् ।

तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता ॥ 3.56.30 ॥

युष्माभिः परिवारिता युष्माभिः रक्ष्यताम् ॥ 3.56.30 ॥

तत्रैवान्तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम् ।

आनयध्वं वशं सर्वा वन्यां गजवधूमिव ॥ 3.56.31 ॥

तत्रेति । अत्यन्तभयेन प्राणवियोगो माभूदिति पुनः सान्त्वैरित्युक्तम् ॥ 3.56.31 ॥

इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः ।

अशोकवनिकां जग्मुर्मैथिलीं प्रतिगृह्य तु ॥ 3.56.32 ॥

प्रतिगृह्य आदाय ॥ 3.56.32 ॥

सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् ।

सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ॥ 3.56.33 ॥

सर्वस्मिन्नपि काले फलानि येषां ते सर्वकालफलाः तैः । एवमुत्तरत्रापि जग्मुरिति पूर्वेणान्वयः ॥ 3.56.33 ॥

सा तु शोकपरीताङ्गी मैथिली जनकात्मजा ।

राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा ॥ 3.56.34 ॥

सा त्विति । राक्षसीत्यविभक्तिकनिर्दशः । राक्षसीनामित्यर्थः ॥ 3.56.34 ॥

शोकेन महता ग्रस्ता मैथिली जनकात्मजा ।

न शर्म लभते भीरुः पाशबद्धा मृगी यथा ॥ 3.56.35 ॥

लभते अलभत ॥ 3.56.35 ॥

न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता ।

पतिं स्मरन्ती दयितं च दैवतं विचेतना ऽभूद्भयशोकपीडिता ॥ 3.56.36 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्पञ्चाशः सर्गः ॥ 56 ॥

तत्र अशोकवनिकायाम् । दयितं प्राणवल्लभम् । ननु सीता लक्ष्म्या अवतार इति सिद्धम्, वक्ष्यति च “सीता लक्ष्मीर्भवान् विष्णुः” इति । विष्णुपुराणे चोक्तम् “राघवत्वे ऽभवत्सीता रुक्मिणी कृष्णजन्मनि” इति । एवम्भूतां सीतां समरसीमनि जनितमूर्च्छालक्षणं लक्ष्मणमप्युद्धर्तमसमर्थो रावणः कथं बलात्करोति स्म? वक्ष्यति हि “हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः । शक्यं भुजाभ्यामुद्धर्तुं न सङ्ख्ये भरतानुजः ॥” इति। उच्यते वेदवतीरूपपूर्वजन्मनि देवी तथा सङ्कल्पितवती। उक्तं ह्युत्तरकाण्डे “यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने। तस्मात्तव वधार्थं वै उत्पत्स्येऽहं महीतले ॥” इति । देवकार्यनिर्वाहाय स्वयमेव स्वधर्षणमङ्गीचकार, प्रजायां कूपपतितायां यथा माता स्वयं तदुपरि पतति वात्सल्यातिशयेन तथा रावणबन्दीकृतदेवस्त्रीरक्षणाय स्वयं तत्र स्वगमनमनुतवती । वक्ष्यति सुन्दरकाण्डे “नापहर्तुमहं श्कया तस्य रामस्य धीमतः । विधिस्तव वधार्थाय विहितो नात्र संशयः ॥” इति। तर्हि सीता प्रलापादिकं किमर्थं कृतवतीति चेत् शृणु, पतिविरहे पतिव्रतयैवं वर्तितव्यमिति लोकहितप्रवर्तनाय प्रलापादिकमकरोदिति ॥ 3.56.36 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ 56 ॥