११६ चित्रकूटे मुनि-रामसंवादः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशोत्तरशततमः सर्गः

प्रतिप्रयाते भरते वसन् रामस्तपोवने ।

लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ 2.116.1 ॥

अथ रामस्य चित्रकूटान्निर्गमनं षोडशोत्तरशततमे–प्रतिप्रयात इत्यादि । सोद्वेगं सभयम् । औत्सुक्यम् आश्रमान्तरगमनाभिलाषं लक्षयामास इङ्गिताकारादिभिरिति शेषः ॥ 2.116.1 ॥

ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।

राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥ 2.116.2 ॥

य इति । पुरस्तात् पूर्वं चित्रकूटस्य तापसाश्रमे राममाश्रित्य ये निरतास्तान् । उत्सुकान् गमनोत्सुकान् । अलक्षयत् राम इत्यनुषङ्गः ॥ 2.116.2 ॥

नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किताः ।

अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः ॥ 2.116.3 ॥

रामं निर्दिश्य प्रदर्श्य । मिथः रहस्ये । “मिथोन्योन्यरहस्ययोः” इति वैजयन्ती ॥ 2.116.3 ॥

तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः ।

कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः ॥ 2.116.4 ॥

तेषामिति । आत्मनि शङ्कितः स्वस्मिन् सञ्जातशङ्कः ॥ 2.116.4 ॥

न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि ।

दृश्यते विकृतं येन विक्रियन्ते तपस्विनः ॥ 2.116.5 ॥

हे भगवन् मयि पूर्ववृत्तं विकृतं न दृश्यते कच्चित् । येन तपस्विनो विक्रियन्ते इदं किञ्चित् किमिदमित्यर्थः ॥ 2.116.5 ॥

प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।

लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः ॥ 2.116.6 ॥

कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि ।

प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ 2.116.7 ॥

प्रमादात् अनवधानात् । मे अवराजस्य लक्ष्मणस्य । आत्मनो नानुरूपमिव किञ्चिच्चरितम् ऋषिभिर्दृष्टं न कच्चिदित्यन्वयः ॥ 2.116.67 ॥

अथर्षिर्जरया वृद्धस्तपसा च जरां गतः ।

वेपमान इवोवाच रामं भूतदयापरम् ॥ 2.116.8 ॥

तपसा च जरां गतः सुदीर्धतपा इत्यर्थः ॥ 2.116.8 ॥

कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा ।

चलनं तात वैदेह्यास्तपस्विषु विशेषतः ॥ 2.116.9 ॥

कल्याणसत्त्वायाः कल्याणस्वभावायाः । “सत्त्वो ऽस्त्री जन्तुषु क्लीबो ऽध्यवसाये पराक्रमे । आत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयोः ॥” इति वैजयन्ती ॥ 2.116.9 ॥

त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।

रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः ॥ 2.116.10 ॥

त्वन्निमित्तमिति । त्वन्निमित्तं त्वत्तो हेतोः । रक्षोभ्यः समागतम् इदं वक्ष्यमाणमुपद्रवजातम् । तापसान् प्रति वर्तते । तेन रक्षस्सञ्जातोपद्रवेण । संविग्नाः तापसाः मिथः रहसि कथाः रक्षोविषयिणीः तदुपद्रवविषयिणीश्च कथयन्ति ॥ 2.116.10 ॥

रावणावरजः कश्चित् खरो नामेह राक्षसः ।

उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥ 2.116.11 ॥

धृष्टश्च जितकाशीं च नृशंसः पुरुषादकः ।

अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ 2.116.12 ॥

ता एवाह–रावणावरज इत्यादिना । श्लोकद्वयमेकं वाक्यम् । उत्पाट्य उत्खाय, निष्कास्येति यावत् । जितेन जयेन काशते प्रकाशत इति जितकाशी । यद्वा जिताहवः । “जितकाशीं जिताहवः” इति हलायुधः ॥ 2.116.1112 ॥

त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।

तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ 2.116.13 ॥

त्वमिति । विप्रकुर्वन्ति अपकुर्वन्ति ॥ 2.116.13 ॥

दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि ।

नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः ॥ 2.116.14 ॥

दर्शयन्तीति । बीभत्सैः जुगुप्सितैः । क्रूरैः भीषणकैः भयङ्करैः । नानारूपैः अनेकप्रकारैः । विरूपैः लोकविलक्षणसंस्थानैः । विकृतदर्शनैः विकृतदृष्टिभिः । रूपैः शरीरैः दर्शयन्ति भयमिति शेषः ॥ 2.116.14 ॥

अप्रशस्तैरशुचिभिः सम्प्रयोज्य च तापसान् ।

प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्याः पुरतः स्थिताः ॥ 2.116.15 ॥

अप्रशस्तैः अशुभैः । अशुचिभिः अशुचिद्रव्यैः संप्रयोज्य ॥ 2.116.15 ॥

तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।

रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतसः ॥ 2.116.16 ॥

अबुद्धम् अविदितं यथा भवति तथा । अवलीय निलय । रमन्ते विहरन्ति । अल्पचेतसः क्षुद्रबुद्धयः ॥ 2.116.16 ॥

अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।

कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥ 2.116.17 ॥

हवने समुपस्थिते होमकर्मणि प्रवृत्ते ॥ 2.116.17 ॥

तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासवः ।

गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ॥ 2.116.18 ॥

प्रजिहासवः प्रकर्षेण हातुमिच्छवः ॥ 2.116.18 ॥

तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।

दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ 2.116.19 ॥

बहुमूलफलं चित्रमविदूरादितो वनम् ।

पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः ॥ 2.116.20 ॥

पुरादर्शयन्ति दर्शयिष्यन्ति । “यावत्पुरानिपातयोर्लट्” इतिलट् ॥ 2.116.1920 ॥

खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते ।

सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्त्तते ॥ 2.116.21 ॥

खर इति । अयुक्तमिति क्रियाविशेषणम् । पुरा प्रवर्त्तते प्रवर्तिष्यते ॥ 2.116.21 ॥

सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव ।

समर्थस्यापि वसतो वासो दुःखमिहाद्य ते ॥ 2.116.22 ॥

सकलत्रस्येति । सन्देहः सन्देहजनकः । यत्तस्य सन्नद्धस्य । दुःखं दुःखहेतुः ॥ 2.116.22 ॥

इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।

न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकः ॥ 2.116.23 ॥

उत्तरैर्वाक्यैरवरोद्धुं न शशाक मयि वर्त्तमाने युष्माकं का भीतिः अहमेव परितो रक्षामीत्युत्तरवाक्यैर्निरोद्धुं न शशाक ॥ 2.116.23 ॥

अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।

स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ॥ 2.116.24 ॥

अभिनन्द्येति । कुलैः ऋषिसङ्घातैः । “कुलं सङ्घातवंशयोः” इति वैजयन्ती ॥ 2.116.24 ॥

रामः संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।

सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥ 2.116.25 ॥

रामः ऋषिगणं तस्माद्देशात् आश्रमप्रदेशात् । अनुगमनात् संसाध्य प्रस्थाप्य । कुलपतिमभिवाद्य तैरुपदिष्टार्थः उपदिष्टप्रयोजनस्सन् । वासाय पुण्यं स्वनिलयम् उपसंपेदे इति सम्बन्धः ॥ 2.116.25 ॥

आश्रमं त्वृषिविरहितं प्रभुः क्षणमपि न विजहौ स राघवः ।

राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणाः ॥ 2.116.26 ॥

आश्रममिति । राघवः ऋषिविरहितमप्याश्रमं क्षणं न विजहौ मुनिशून्यतया तदैव त्याज्यमप्याश्रमं मुनिविषयप्रेम्णा क्षणं न त्यक्तवानित्यर्थः । आर्षचरितधृतगुणाः रामस्यार्षचरित्रेण सञ्चितगुणाः । हि यस्मात्कारणात्तापसाः राममनुगतस्तस्मात् तत्प्रेम्णा क्षणं न जहाविति । वृत्तं तु श्लोकद्वयस्यापि चिन्त्यम् ॥ 2.116.26 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशोत्तरशततमः सर्गः ॥ 116 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षोडशोत्तरशततमः सर्गः ॥ 116 ॥