००३ लङ्कागमनम्

श्रारामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे तृतीयः सर्गः

स लम्बसिखरे लम्बे लम्बतोयदसन्निभे ।

सत्त्वमास्ताय मेधावी हनुमान्मारुतात्मजः ॥ 5.3.1॥

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ।

रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ 5.3.2॥

शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ।

सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ 5.3.3॥

स लम्बेत्यादि । लम्बे लम्बाख्ये । लम्बशिखरे लम्बगिरिशिखरे इति चाहुः । यद्वा लम्बे लम्बमान इव स्थिते । लम्बशिखरे त्रिकूटशिखरे । सत्त्वं व्यवसायम् । धैर्यमिति यावत् । विवेश प्राप ॥ 5.3.13॥

सुपुष्टबलसंघुष्टां यथैव विटपावतीम् ।

चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥ 5.3.4॥

भुजगाचरितां गुप्तां शुभां भोगवतीमिव ।

तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ॥ 5.3.5॥

मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम् ।

शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ 5.3.6॥

किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् ।

आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ 5.3.7॥

विटपावतीम् अलकाम् । निर्यूहो मत्तवारणः । पाण्डुरद्वारतोरणां पाण्डुरे द्वारतोरणे यस्यास्ताम् ॥ 5.3.47॥

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ॥ 5.3.8॥

विस्मयाविष्टहृदयः, अभूदिति शेषः ॥ 5.3.8॥

जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः ।

वज्रस्फाटिकमुक्ताभिर्मणिकुट्टिमभूषितैः ।

तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ॥ 5.3.9॥

पुनर्हर्षहेतूनाह जाम्बूनदमयैरित्यादिना । जाम्बूनदमयैर्द्वारैरित्यादौ सहयोगे तृतीया । वज्रस्फटिकमुक्ताभिरित्यत्रापि कृतवेदिकैरिति सम्बध्यते । राजतामलपाण्डुरैः अवयवैः ॥ 5.3.9॥

वैडूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः ।

चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः ॥ 5.3.10॥

क्रौञ्चबर्हिणसंघुष्टैराजहंसनिषेवितैः ।

तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् ॥ 5.3.11 ॥

स्फाटिकान्तरपांसुभिः स्फटिकमयाङ्गणपांसुभिः । सञ्जवनं चतुश्शालम् ॥ 5.3.10,11॥

वस्वोकसाराप्रतिमां तां वीक्ष्य नगरीं ततः ।

खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः ॥ 5.3.12॥

तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम् ।

अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् ॥ 5.3.13॥

नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।

रक्षिता रावणबलैरुद्यतायुधधारिभिः ॥ 5.3.14॥

वस्वोकसारा अलका । यद्वा वस्वोकसारा पूर्वदिगवस्थिता शक्रपुरी । “वस्वोकसरा शक्रस्य पूर्वस्यां दिशि वै पुरी” इति पुराणवचनात् ॥ 5.3.1214॥

कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः ।

प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ 5.3.15॥

प्रसिद्धेयमिति । इयं लङ्का विदिता भवेत् ॥ 5.3.15॥

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ।

ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ 5.3.16॥

समीक्ष्य तु महाबाहू राघवस्य पराक्रमम् ।

लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान् कपिः ॥ 5.3.17॥

विवस्वत इति । गतिस्तु सुग्रीवस्य कुशपर्वणः केतुमालस्य मम चैव भवेत् । पूर्वं नीलादीनामेव गतिरुक्ता । अत्र त्वन्येषाभिमित्युक्तिश्चिन्ताप्राकारविशेषः ॥ 5.3.16,17॥

तां रत्नवसनोपेतां गोष्ठागारावतंसकाम् ।

यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ 5.3.18॥

तां नष्टतिमिरां दीप्तैर्भास्वरैश्च महागृहैः ।

नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः ॥ 5.3.19॥

अथ सा हरिशार्दूलं प्रविशन्तं महाबलम् ।

नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ 4.3.20॥

सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता ।

स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥ 4.3.21॥

पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत ।

मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥ 5.3.22॥

कस्त्वं केन च कार्येण इह़ प्राप्तो वनालय ।

कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥ 5.3.23॥

तां रात्नेत्यत्र ददर्शेत्यपकृष्यते । न त्वेकं वाक्यं श्लोकद्वयम्, तच्छब्दद्वयप्रयोगात्प्रथमे श्लोके स्त्रीसाम्योक्तेश्च ॥ 5.3.1823॥

न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया ।

रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ 5.3.24॥

अथ तामब्रवीद्वीरो हनूमानग्रतः स्थिताम् ।

कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि ॥ 5.3.25॥

का त्वं विरूपनयना पुरद्वारे ऽवतिष्ठसि ।

किमर्थं चापि मां रुद्ध्वा निर्भिर्त्सयसि दारुणा ॥ 5.3.26॥

हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ।

उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ 5.3.27॥

अहं हाक्षसराजस्य रावणस्य महात्मनः ।

आज्ञा प्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ 5.3.28॥

न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया ।

अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ 5.3.29॥

अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम ।

सर्वतः परिरक्षामि ह्येतत्ते कथितं मया ॥ 4.3.30॥

लङ्काया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।

यत्नवान् स हरिश्श्रेष्ठः स्थितः शैल इवापरः ॥ 5.3.31॥

स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः ।

आबभाषे ऽथ मेधावी सत्त्ववान् प्लवगर्षभः ॥ 5.3.32॥

द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् ।

इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे ॥ 5.3.33॥

नेति । अभिगुप्ता समावृतेत्यर्थः । अतो न रक्षितेत्यनेन पुनरुक्तिः ॥ 5.3.2433॥

वनान्युपवनानीह लंकायाः काननानि च ।

सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ 5.3.34॥

उपवनानि गृहोद्यानानि । काननानि शून्यारण्यानि ॥ 5.3.34॥

तस्य तद्वचनं श्रुत्वा लंङ्का सा कामरूपिणी ।

भूय एव पुर्नवाक्यं बभाषे परुषाक्षरम् ॥ 5.3.35॥

भूयः अतिशयेन परुषाक्षरमित्यन्वयः ॥ 5.3.35॥

मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् ।

न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम ॥ 5.3.36॥

मामिति । शक्यमित्येतदव्ययम् । तदाह कालिदासः “शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥” इति। पुरीरूपं वस्तु शक्यमिति शक्यपुर्योस्सामानाधिकरण्यं वा॥ 5.3.36 ॥

ततः स कपिशार्दूलस्तामुवाच निशाचराम् ।

दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ 5.3.37॥

तत इति । यास्ये यास्यामि । इत्युवाचेति सम्बन्धः ॥ 5.3.37॥

ततः कृत्वा महानादं सा वै लङ्का भयावहम् ।

तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ 5.3.38॥

वेगिता साञ्जातवेगा ॥ 5.3.38॥

ततः स कपिशार्दूलो लङ्कया ताडितो भृशम् ।

ननाद सुमहानादं वीर्यवान् पवनात्मजः ॥ 5.3.39॥

ततः संवर्तयामास वामहस्तस्य सो ऽङ्गुलीः ।

मुष्टिना ऽभिजघानैनां हनूमान् क्रोधमूर्च्छितः ॥ 5.3.40॥

स्त्री चेति मन्यमानेन नातिक्रोधस्स्वयं कृतः ॥ 5.3.41॥

सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी ।

पपात सहसा भूमौ विकृताननदर्शना ॥ 5.3.42॥

ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम् ।

कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम् ॥ 5.3.43॥

ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम् ।

उवाचागर्वितं वाक्यं हनुमान्तं प्लवङ्गमम् ॥ 5.3.44॥

संवर्तयामास सङ्कोचयामास ॥ 5.3.3944॥

प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ।

समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ॥ 5.3.45॥

प्रसीदेति । समये स्त्रीवधवर्जनव्यवस्थायाम् । सत्त्ववन्तः धैर्यवन्तः ॥ 5.3.45॥

अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ।

निर्जिता ऽहं त्वया वीर विक्रमेण महाबल ॥ 5.3.46॥

इदं तु तथ्यं वै ब्रुवन्त्या मे हरीश्वर ।

स्वयंभुवा पुरा दत्तं वरदानं यथा मम ॥ 5.3.47॥

अहं त्वित्यर्धं भिन्नं वाक्यम्, एकवाक्यत्वे ऽहंशब्दस्य पुनरुक्तिः ॥ 5.3.46,47॥

यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ।

तदा त्वया हि विज्ञेयं रक्षसां भयमगतम् ॥ 5.3.48॥

स हि मे समयस्सौम्य प्राप्तो ऽद्य तव दर्शनात् ।

स्वयम्भूविहितस्सत्यो न तस्यास्ति व्यतिक्रमः ॥ 5.3.49॥

सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ।

राक्षसां चैव सर्वेषां विनाशः समुपागतः ॥ 5.3.50॥

तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ।

विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ 5.3.51 ॥

वरदानस्वरूपमाह– यदेति । अत्र रावणस्य दिग्विजये नन्दिकेश्वरादिभिर्लङ्कायाः कृते विनाशशापे दत्ते सा ब्रह्माणं गत्वा प्रार्थयामास । विनाशो मे मा भूदिति । स च तस्यै वरमदात्, तव सद्यो विनाशो न भविष्यति यदा तु वानरस्त्वामभिभविष्यति तदा तु विनाशो भविष्यतीति कथोन्नीयते ॥ 5.3.4851॥

प्रविश्य शापोपहतां हरीश्वरः शुभां पुरीं राक्षसमुख्यपालिताम् ।

यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम् ॥ 5.3.52 ॥

इत्यार्षे श्रारामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे तृतीयः सर्गः ॥ 5.3॥

प्रविश्येति शापो नन्दिकेश्वरादिकृतः । यदृच्छयेत्यस्य गत इति सम्बन्धः । यदृच्छाया ऽत्र प्राप्तस्त्वमित्यर्थः ॥ 5.3.52॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने तृतीयः सर्गः ॥ 5.3॥