०५१ गुह-लक्ष्मणसंवादः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकपञ्चाशः सर्गः

तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम् ।

गुहः सन्तापसन्तप्तो राघवं वाक्यमब्रवीत् ॥ 2.51.1 ॥

तं जाग्रतमित्यादि । अदम्भेन अकृत्रिमेण । अर्थाय रक्षणाय । सन्तापसन्तप्तः रामदुर्दशादर्शनसन्तापेन सन्तप्तः । राघवं लक्ष्मणम् ॥ 2.51.1 ॥

इयं तात सुखा शय्या त्वदर्थमुपकल्पिता ।

प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ॥ 2.51.2 ॥

इयमिति । प्रत्याश्वसिहि विश्रान्तो भवेति यावत् ॥ 2.51.2 ॥

उचितो ऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः ।

गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् ॥ 2.51.3 ॥

न हि रामात्प्रियतरो ममास्ति भुवि कश्चन ।

ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥ 2.51.4 ॥

अयं जनः वनचारित्वेन क्लेशसहोजनः ॥ 2.51.34 ॥

अस्य प्रसादादाशंसे लोके ऽस्मिन् सुमहद्यशः ।

धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ॥ 2.51.5 ॥

अस्येति । आशंसे प्रार्थये । केवलामर्थावाप्तिम् अर्थावाप्तिमेवेत्यर्थः । केचित्तु केवलमिति पठित्वा केवलं प्रसादादिति योजयन्ति ॥ 2.51.5 ॥

सो ऽहं प्रियतमं रामं शयानं सह सीतया ।

रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह ॥ 2.51.6 ॥

स इति । सर्वतः सर्वदिक्षु ॥ 2.51.6 ॥

न हि मे ऽविदितं किञ्चिद्वनेस्मिंश्चरतः सदा ।

चतुरङ्गं ह्यपि बलं सुमहत् प्रसहेमहि ॥ 2.51.7 ॥

लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ ।

नात्र भीता वयं सर्वे धर्ममेवानुपश्यता ॥ 2.51.8 ॥

न हीति । अविदितमिति पदच्छेदः । किंचित् विरोध्यागमनस्थानम् । बलं परकीयम् । प्रसहेमहीत्येतदात्मनि बहुवचनं जात्यपेक्षया ॥ 2.51.78 ॥

कथं दाशरथौ भूमौ शयाने सहसीतया ।

शक्य निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ 2.51.9 ॥

भीत्यभावे किमर्थं जागरणमित्याह–कथमिति । निद्रा न लभ्यत इति भावः । जीवितम् आश्वासनम् । निद्रैव न लभ्यते जीवितसुखानां का कथेति भावः ॥ 2.51.9 ॥

यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ।

तं पश्य सुखसंविष्टं तृणेषु सह सीतया ॥ 2.51.10 ॥

य इति । प्रसहितुमिति “तीषसह–” इत्यादिना पाक्षिक इट् । संविष्टं शयानम् ॥ 2.51.10 ॥

यो मन्त्रतपसा लब्धो विविधैश्च परिश्रमैः ।

एको दशरथस्येष्टः पुत्रः सदृशलक्षणः ॥ 2.51.11 ॥

य इति । मन्त्रतपसा मन्त्रयुक्ततपसा, मन्त्रतपोभ्यामित्यर्थः । परिश्रमैः यज्ञादिभिः । एकः मुख्यः । “एके मुख्यान्यकेवलाः” इत्यमरः । सदृशलक्षणः स्वसदृशलक्षणः ॥ 2.51.11 ॥

अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति ।

विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ 2.51.12 ॥

अस्मिन्निति । वर्तयिष्यति जीविष्यति । विधवा पतिरहिता ॥ 2.51.12 ॥

विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।

निर्घोषोपरतं चातो मन्ये राजनिवेशनम् ॥ 2.51.13 ॥

विनद्येति । उपरताः भविष्यन्तीति शेषः । अत एव निर्घोषोपरतम् उपरतनिर्घोषं भविष्यतीति मन्ये ॥ 2.51.13 ॥

कौसल्या चैव राजा च तथैव जननी मम ।

नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् ॥ 2.51.14 ॥

कौसल्येति । सर्वे जीवन्ति जीविष्यन्तीति नाशंसे, यदि जीवन्ति इमां शर्वरीमेव ॥ 2.51.14 ॥

जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया ।

तद्दुःखं यत्तु कौसल्या वीरसूर्विनशिष्यति ॥ 2.51.15 ॥

शत्रुघ्नस्यान्ववेक्षया शत्रुघ्नस्नेहेनेत्यर्थः । पुनःपुनर्दर्शनेन वा । वीरं पुत्रं सूत इति तथा कौसल्या विनशिष्यतीति यद्दुःखं तद्दुस्सहमित्यर्थः ॥ 2.51.15 ॥

अनुरक्तजनाकीर्णा सुखा लोकप्रियावहा ।

राजव्यसनसंसृष्टा सा पुरी विनशिष्यति ॥ 2.51.16 ॥

कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपश्यतः ।

शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ॥ 2.51.17 ॥

विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।

अनन्तरं च मातापि मम नाशमुपैष्यति ॥ 2.51.18 ॥

राजव्यसनसंसृष्टा राजमरणनिमित्तव्यसनसंयुक्तेत्यर्थः ॥ 2.51.1618 ॥

अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ।

राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ 2.51.19 ॥

अतिक्रान्तमिति । मे पिता राज्ये राममनिक्षिप्य अत एव मनोरथमनवाप्य विनशिष्यतीति यत् तस्मात् अतिक्रान्तमतिक्रान्तं सर्वं प्रयोजनमतीत्य गतमित्यर्थः । अथवा अतिक्रान्तमतिक्रान्तं मनोरथमनवाप्य पुनःपुनर्वर्धमानं मनोरथमनवाप्य रामो जातः वर्धिष्यते उद्वाहं करिष्यति राज्यं प्राप्स्यतीत्येवमभिवृद्धं मनोरथमित्यर्थः । मनोरथातिक्रान्तिमेवाह राज्ये राममनिक्षिप्येति ॥ 2.51.19 ॥

सिद्धार्थाः पितरं वृत्तं तस्मिन् कालेप्युपस्थिते ।

प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ 2.51.20 ॥

सिद्धार्था इति । तस्मिन् काले मरणकाले उपस्थिते । प्रेतकार्येष्वप्युपस्थितेषु । वृत्तम् अतीतम्, मृतमिति यावत् । “वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तुले” इत्यमरः । भूमिपं पितरम् । सिद्धार्थाः कृतार्थाः संस्करिष्यन्ति । वयं त्वकृतार्था इति भावः ॥ 2.51.20 ॥

राम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।

हर्म्यप्रासादसम्पन्नां गणिकावरशोभिताम् ॥ 2.51.21 ॥

रथाश्वगजसम्बाधां तूर्यनादविनादिताम् ।

सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ॥ 2.51.22 ॥

आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम् ।

सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ 2.51.23 ॥

रम्यचत्वरसंस्थानामिति । रम्यचत्वरसंस्थानां रमणीयाङ्गणसंस्थानाम् । सुविभक्तमहापथां गृहपङ्क्तिभिः सम्यक्विभक्तराजमार्गाम् । हर्म्यप्रासादसम्पन्नां हर्म्यैर्धनिनां वासैः, प्रासादैर्देवभूभुजां वासैश्च सम्पुर्णाम् । “हर्म्यादिर्धनिनां वासः प्रासादो देवभूभुजाम्” इत्यमरः । रथाश्वगजसम्बाधाम्, सम्बाधां निबिडाम् । नादितां सञ्जातनादाम् । सर्वकल्याणसम्पूर्णां सर्वैः पुत्रजन्मोत्सवप्रभृतिभिः सम्पन्नाम् । आरामोद्यानसम्पन्नाम् आरामाः उद्यानानि च उपवनानि राज्ञः क्रीडार्हवनानि च । समाजोत्सवशालिनीं समाजैः सङ्घैः क्रियमाण उत्सवः समाजोत्सवः, देवोत्सव इत्यर्थः ॥ 2.51.2123 ॥

अपि जीवेद्दशरथो वनवासात् पुनर्वयम् ।

प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥ 2.51.24 ॥

अपीति । अपिः सम्भावनायाम् ॥ 2.51.24 ॥

अपि सत्यप्रतिज्ञेन सार्द्धं कुशलिना वयम् ।

निवृत्तवनवासे ऽस्मिन्नयोध्यां प्रविशेमहि ॥ 2.51.25 ॥

अपि सत्यप्रतिज्ञेनेति । सत्यप्रतिज्ञेन, पित्रेति शेषः । अस्मिन् रामे । प्रविशेमहीत्याशंसायां लिङ् ॥ 2.51.25 ॥

परिदेवयमानस्य दुःखार्त्तस्य महात्मनः ।

तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ॥ 2.51.26 ॥

परिदेवयमानस्येति । परिदेवयमानस्येत्यादौ सम्बन्धसामान्ये षष्ठी । एवमिति शेषः ॥ 2.51.26 ॥

तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः ।

मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः ॥ 2.51.27 ॥

तथेति । सत्यं वास्तवम् नरेन्द्रपुत्रे लक्ष्मणे । गुरुसौहृदात् गुरुषु पित्रादिषु सौहृदात् स्नेहात् । ज्वरातुरो नागो गज इव व्यथातुरो गुह इत्यन्वयः ॥ 2.51.27 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकपञ्चाशः सर्गः ॥ 51 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ 51 ॥