संज्ञा
भस्य
य्-अचि भम्, तसौ मत्वर्थेइति भ-संज्ञा (स्वादिष्व् असर्वनामस्थाने)।- तद्धित-प्रकरणे सूत्रावलिः ।
Misc
आदरार्थे बहुवचनम्
“अस्मदो द्वयोश्च [बहुवचनम्]” इति सूत्रम् अनपेक्षितम्,
स्वतन्त्रेन्द्रियविवक्षया बहुवचनम् भवितुम् अर्हतीति पतञ्जलिर् महाभाष्ये।
तथा सति, “युष्मदि गुरावेकेषाम्॥” अप्य् अनपेक्षितम्।
आदरार्थय् इन्द्रियाणि निर्दिश्य बहुवचनं सर्वत्र सिध्यति “स्वतन्त्रः कर्ते"त्य्-अनेन।
लक्षणमात्रेणानादरे ऽपि व्यक्तौ बहुवचनम् उच्येतेति सत्यम् -
“युष्माभिर् धिग् इदं कृतम्” इति।
“युष्मदि गुरावेकेषाम्” इत्यतिक्रान्तं स्यात् तेन। तर्हि तादृशम् आदरे नियमनं प्राचुर्यमात्रसूचकं (प्रायिकं) स्यात्।