अर्थविभागः
कृत्-प्रत्ययाः धातुभ्यः त्रिषु अर्थेषु भवन्ति —
- क्रियायाः कारकम् । यथा, पचति इति पाचकः । क्रियते इति कार्यम् । लिख्यते अनया इति लेखनी ।
- क्रियायाः भावः । यथा, गम्-धातोः भावः गमनम् । दृश्-धातोः भावः दृष्टिः ।
- द्वयोः क्रिययोः परस्परसम्बन्धः । यथा, पठितुम् गच्छति । गत्वा दृश्यति ।
विधान-विभागः
कृत्-प्रत्ययाः विशिष्टेषु सन्दर्भेषु विधीयन्ते —
- केचन विशिष्टस्य उपपदस्य उपस्थितौ एव भवन्ति । यथा, कुम्भं करोति इति कुम्भकारः ।
- केचन विशिष्टम् कालं दर्शयन्ति । यथा, पङ्के अजायत इति पङ्कजम् । पठन्, लभमानः ।
- केचन विशिष्टे अर्थे गम्यमाने एव भवन्ति । यथा, तुन्दपरिमृजः = अलसः ।
कर्तरि
- अच् (उपपदे सति)
- सर्वधातुभ्यो ऽज्विधिः। मनोरम।
- अण् (उपपदे सति)
- कुम्भकारः
- इनि
- गमेरिनिः। आङि णित्। भुवश्च। परमे कित्। मन्थः।
- गमिन् गामिन् भाविन्
- क्वचित् कृदन्तात् तद्धित-प्रयोगेणापि -
अत इनिठनौ
।
- इन्
सर्वधातुभ्य इन्।
पचिरग्निः । तुडिः । तुण्डिः ।
- ण्वुल्
- तृच्
- णिनिः
- कर्तर्युपमाने। व्रते। बहुलमाभीक्ष्ण्ये । मनः ।
- ष्ट्रन्
- सर्वधातुभ्यः ष्ट्रन्। वस्त्रम् । अस्त्रम् । शस्त्रम् ।
भावे
- मनिन्
- सर्वधातुभ्यो मनिन्। क्रियत इति कर्म । चर्म । भस्म । जन्म । शर्म । स्थाम बलम् ।