+०६ एकादशाहे कर्तव्यम्

कर्ता प्रातः षण्णाडिकासमनन्तरं स्नात्वा धौतं परिधाय श्रीचूर्णसहितान् ऊर्ध्वपुण्ड्रान् धृत्वा सन्ध्यामुपास्य नव्यमुपवीतञ्चधृत्वा

(प्रतिदिनम् अनुस्यूतं ब्रह्मयज्ञमनुष्टीयमानस्य अद्यैव ब्रह्मयज्ञस्यावकाश

इति प्रतिभाति। तथा

पुण्याहानन्तरं माध्याहिकं कृत्वा सङ्ग्रहरूपेण भगवन्तमाराध्य तर्पणरूपेण वैश्वदेवपञ्चमहायज्ञाश्च कर्तव्या

इति च प्रतिभाति। आशौचापगमनात् इदानीं कर्ता शुद्धः। इतः परं प्रेतशब्दोच्चारणात् प्रेतकार्यनिर्वहणाच्च अस्य सम्पर्काशौचमेव। अतः इदानीं तादृशस्याशौचस्यच अभावात् ब्रह्मयज्ञादि, अनुष्ठाने न दोषस्सम्भवेत्। अनाशौचे, अवश्यं कर्तव्यानां कर्मणामननुष्ठाने दोषस्सम्भवेदिति अस्मदाशयः। धर्मशास्त्रवश्याः अनुष्ठानपराः पर्यालोच्य कुर्वन्तु।)