+तद्धितम्

तेभ्यः (प्रयोगेभ्यः) हिताः तद्धिताः । यैः प्रत्ययैः एकस्मात् प्रातिपदिकात् आरभ्य प्रयोगहितार्थं भिन्नेषु अर्थेषु नूतनप्रातिपदिकानां निर्माणं क्रियते, ते तद्धितप्रत्ययाः । यथा

  • दशरथस्य अपत्यम् = दशरथ + इञ् → दाशरथिः ।

  • इन्द्रः अस्य देवता = इन्द्र + अण् → ऐन्द्रः ।

  • व्याकरणम् अधीते सः = व्याकरण + अण् → वैयाकरण ।

  • जनानाम् समूहः = जन + तल् → जनता ।

  • शक्तिः अस्मिन् अस्ति सः = शक्ति + मतुप् → शक्तिमान् ।

  • इत्-संज्ञा-कलनम् अत्र नीलेशकृतम्। तस्यैवानुकरणम् अत्र

  • अव्यवस्थितटिप्पन्यो ऽत्र

अनेकप्रत्ययविधाने निषेधः

शैषिकात् मतुबर्थीयात् शैषिको मतुबर्थिकः ।
सरूपः प्रत्ययो नेष्टः, सन्नन्तात् न सन्निष्यते ॥

प्रत्ययाः

  • पाणिनिना अष्टाध्याय्याम् आहत्य ~१४० भिन्नाः अर्थाः उक्ताः सन्ति । एतेषु अर्थेषु आहत्य ~२८० प्रत्ययाः पाठ्यन्ते ।
  • सर्वे प्रत्ययाः सर्वेभ्यः प्रातिपदिकेभ्यः सर्वेषु अर्थेषु नैव विधीयन्ते । कः प्रत्ययः कस्मिन् अर्थे कस्मात् प्रातिपदिकात् भवति, इति स्पष्टीकर्तुम् अष्टाध्याय्याम् ११००+ सूत्राणि सन्ति !