+कृत्

अर्थविभागः

कृत्-प्रत्ययाः धातुभ्यः त्रिषु अर्थेषु भवन्ति —

  • क्रियायाः कारकम् । यथा, पचति इति पाचकः । क्रियते इति कार्यम् । लिख्यते अनया इति लेखनी ।
  • क्रियायाः भावः । यथा, गम्-धातोः भावः गमनम् । दृश्-धातोः भावः दृष्टिः ।
  • द्वयोः क्रिययोः परस्परसम्बन्धः । यथा, पठितुम् गच्छति । गत्वा दृश्यति ।

विधान-विभागः

कृत्-प्रत्ययाः विशिष्टेषु सन्दर्भेषु विधीयन्ते —

  • केचन विशिष्टस्य उपपदस्य उपस्थितौ एव भवन्ति । यथा, कुम्भं करोति इति कुम्भकारः ।
  • केचन विशिष्टम् कालं दर्शयन्ति । यथा, पङ्के अजायत इति पङ्कजम् । पठन्, लभमानः ।
  • केचन विशिष्टे अर्थे गम्यमाने एव भवन्ति । यथा, तुन्दपरिमृजः = अलसः ।

कर्तरि

  • अच् (उपपदे सति)
    • सर्वधातुभ्यो ऽज्विधिः। मनोरम।
  • अण् (उपपदे सति)
    • कुम्भकारः
  • इनि
    • गमेरिनिः। आङि णित्। भुवश्च। परमे कित्। मन्थः।
    • गमिन् गामिन् भाविन्
    • क्वचित् कृदन्तात् तद्धित-प्रयोगेणापि - अत इनिठनौ
  • इन्
    • सर्वधातुभ्य इन्। पचिरग्निः । तुडिः । तुण्डिः ।
  • ण्वुल्
  • तृच्
  • णिनिः
    • कर्तर्युपमाने। व्रते। बहुलमाभीक्ष्ण्ये । मनः ।
  • ष्ट्रन्
    • सर्वधातुभ्यः ष्ट्रन्। वस्त्रम् । अस्त्रम् । शस्त्रम् ।

भावे

  • मनिन्
    • सर्वधातुभ्यो मनिन्। क्रियत इति कर्म । चर्म । भस्म । जन्म । शर्म । स्थाम बलम् ।

प्रकीर्ण-सूत्राणि