Hierarchy

परस्-पर-विरोधे सति तात्पर्यनिर्णयो ऽन्यत्रोक्तः - तात्पर्य-निर्णय-पृष्ठे

(तत्र तत्र बलीयस्त्व-वाक्यान्य् उदाह्रियन्ते - बील्यस्-स्थाने हि, यथा वेदभागे वेद-बलीयस्त्व-वचनम्, स्मृति-भागे स्मृति-बलीयस्त्व-वचनम् … । )

अनुमानम्

अनुमानं न स्वतन्त्रम् प्रमाणम् -
तन् नाम्नैव ज्ञायते।
अनुमानं प्रत्यक्षं शब्दं वानुसरेत्।
न कदाचिद् अपि स्वमूलम् उपरोद्धुं शक्नोति।
न वचनविरोधे युक्तिर् वर्तते। विस्तारो ऽन्यत्र (रा)।

तथा सति हि
ज्वाला-भेदानुमानम् अपि
तद्-एकत्व-प्रत्यभिज्ञया ऽपोद्येत ।

अविशेष-ज्ञो देवानां प्रियः ।
तत्र हि कॢप्त-कारण-दोषानुवृत्तौ सत्यां
जायमानो ऽपरोक्षावभासो +++(ज्वालाऽभेदे)+++
न निरवद्य-प्रत्यक्ष-पूर्वकम् अनुमानं बाधितुम् अर्हति +++(वक्ष्यमाण-रीत्या)+++।
तथा हि —
अचिर-निर्वापितारोपितेष्व् एक-वर्ति-भाग-वर्तिषु बहुषु दीपेषु
तद्-भेदादर्शिनः सुसदृशतया
स एवायम् इति स्मृतिर् उपजायते
इति दृष्टम् ।
तथैक-नानात्व-प्रत्ययः स्वतः-प्राप्तेन्द्रिय-वृत्ति-विपर्यय-प्रयुक्तः
सम-समयोपजायमानानेकानवद्य-प्रत्यक्ष– प्रतिक्षिप्त-विषयश् च
द्वि-चन्द्रादौ दृष्ट इति
नासौ तत्रैकत्वानुमानम् अभिभवितुं प्रभवति ।

इति यामुन आत्मसिद्धौ TW आधार-भेदेनानुमानसौष्ठव-भेदम् आह।

प्रत्यक्षम् अनुमानोपबृंहितम्

एतद्-व्याप्ति-बले ऽन्यत्र प्रोक्ते - TW

गुर्व्-आदेशः

साक्षाल् लब्धो गुर्व्-आदेशः - शास्त्र-विरोधे स्पष्टे सति त्याज्य एव।
एवम् पतिर् वा पिता वाऽपि सद्-आचारं न रुन्ध्यात्।

वेदाः

वेद-प्रामाण्य-विचारो ऽन्यत्र

नाना-सम्प्रदायानां पुराणेषु (इतिहासेषु च) प्रक्षेपाणाम् अस्तित्वम् अङ्गीकृतम्। न तथा वेदेषु।

स्मृत्य्-अपेक्षया बलीयस्त्वम्

jaiminI viewed veda-s as more authoritative than smRti-s, which were considered authoritative only in so far as it does not oppose the veda-s.

श्रुतिर्हि बलीयस्य् आनुमानिकाद् आचारात् ८
विप्रतिषेधे श्रुति-लक्षणं +++(सन्ध्याग्नि-होत्रादि-चोदकम्)+++ बलीयः ९

इत्य् आपस्तम्बः।

विरोधे त्वनपेक्षं स्यात् (पू.मी.१.१.३) इत्यादिना वेदविरुद्धस्यानारदणीयत्वम् एव।

“विप्रतिपत्तौ च स्मृतीनाम् अवश्य-कर्तव्ये ऽन्यतर-परिग्रहे, ऽन्यतर-परित्यागे च
श्रुत्य्-अनुसारिण्यः स्मृतयः प्रमाणम् ;
अनपेक्ष्या इतराः ;
तद् उक्तं प्रमाण-लक्षणे —

‘ विरोधे त्व् अनपेक्षं स्याद्
असति ह्य् अनुमानम्’ (जै. सू. १ । ३ । ३)

इति ।
न चातीन्द्रियान् अर्थान् श्रुतिम् अन्तरेण कश्चिद् उपलभत
इति शक्यं सम्भावयितुम् ,
निमित्ताभावात् ।
… तस्मात् तस्यापि स्मृति-विप्रतिपत्त्य्-उपन्यासेन
श्रुत्य्-अनुसारान् अनुसार-विषय-विवेचनेन च
सन्-मार्गे प्रज्ञा सङ्ग्रहणीया ।”

इतर-शास्त्राणां च वेदोपबृंहकत्वं सर्व-प्रतिपन्नम्। To the extant that these other shAstra-s are consonant with veda-s, their authority is agreed upon.

“या वेदबाह्याः स्मृतयो
याश्च काश्च कुदृष्टयः।
सर्वास् ता निष्फलाः प्रेत्य
तमो-निष्ठा हि ताः स्मृताः”

इति मनुः।

“अनादिम् अव्यवच्छिन्नां
श्रुतिम् आहुर् अकर्तृकाम् ।
शिष्टैर् निबध्यमाना तु
न व्यवच्छिद्यते स्मृतिः ॥ वाक्य_१।१७२ ॥
अविभागाद् विवृत्तानाम्
अभिख्या-स्वप्नवच् छ्रुतौ ।
भावतत्त्वं तु विज्ञाय
लिङ्गेभ्यो विहिता स्मृतिः ॥ वाक्य_१।१७३ ॥

medhAtithi commenting on manu smRti repeatedly states the greater authority of vedic injunctions in case of apparent conflicts [Eg - 4.176].

  • Certain cases where the smRti diverges from shruti are considered by shabara [6.1.13e, TW].

Other quotes in BG 16.

कलिवर्ज्यादौ

गवालम्भो ऽश्वालम्भस्, सन्न्यासश् च वेदोक्ताः,
कथं कयाचिद् अपि स्मृत्या कलाव् अपि प्रतिषेद्धुं शक्याः?

इत्य् आकाङ्क्षायाम् -
“नात्र प्रतिषेधः शक्य” इत्येव न्याय्यम् -
न हि स्मृत्य्-अनुरोधेन श्रुतिर् विकार्या सङ्कोच्या वा।
प्रत्युत, श्रुत्य्-अनुरोधेन, तद्-व्याख्यान-मात्र-रूपेण वा स्मृतिर् नेया -
यथा, युगेऽस्मिन् श्रुत्य्-उक्त-गवालम्भादि-कर्मसु,
श्रुत्य्-उक्त एवाधिकारि-विशेषो ज्ञेयः,
योऽस्मिन् युगे दुर्लभः।

यथा - तत्-कर्म-कृच् छिष्टश् चेत्,
श्रुत्य्-उक्त-रीत्या लोक-सङ्ग्रह-करः स्यात्,
सद्-अधिकारि-दौर्लभ्याल् लोक-विद्विष्टे कर्मण्य् अनुष्ठिते
शास्त्र-द्वेष—स्वाधिकारित्व-मोहादि-रूपो लोक-विभ्रमस् स्यात्।

अन्यथा चेद् अशिष्टत्वाद् यथोक्ताचरणे स्वतन्त्रः,
तत्-कर्म-साधने भोक्त्र्-आदि-लाभे ऽत्यन्तं काठिन्यं स्यात्।
तादृशम् एवाधिकारि-दौर्लभ्यं श्रुतीष्टम् एव स्मृत्या विवक्षितम् इति गृहीतुं युक्तम्,
न तु सर्वथा तत्-तच्-छ्रुत्य्-उक्त-कर्मानुष्ठाने निषेधः।
अत एव कलाव् अप्य् अदृश्यन्त सन्तः सन्न्यासाश्रमस्थाः।

उपनिषदः

उपनिषत्सु प्रसिद्धाः प्रतिष्ठिततरास् सर्वैर् बहुमता, इतरे न।

किं च,
अष्टोत्तर-शतोपनिषदां वेदत्व-स्वीकारेऽपि
उपनिषदां मध्ये
ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तैत्तिरीयैतरेय -छान्दोग्य-बृहदारण्यक-संज्ञिकानां दशोपनिषदां वेद-गत-ज्ञान-काण्डान्तर्भावः,
न तु श्वेताश्वतर-कैवल्याथर्वशिखा-ऽथर्वशिरः-प्रभृति-उपनिषदाम् ।
वेद-गत-कर्म-काण्डानन्तर्भावस् तु स्पष्ट एव ।
मुक्तिकोपनिषद्य् आञ्जनेयं प्रति

माण्डूक्यम् एकम् एवालं
मुमुक्षूणां विमुक्तये ।
तथाप्य् अलब्धं चेज् ज्ञानं
दशोपनिषदं पठ ।
ज्ञानं लब्ध्वा चिराद् एव
मामकं धाम यास्यसि ॥
तथापि दृढता नो चेद्
विज्ञानस्याञ्जनासुत ।
द्वात्रिंशद्-आख्योपनिषदं
समभ्यस्य निवर्तय

इति श्री-राम-वाक्यानि दृश्यन्ते ।

“पुराण-न्याय-मीमांसा-
धर्म-शास्त्राङ्ग-मिश्रिताः ।
+++(१० उपनिषदः, + ऋग्-यजुस्-सामाथर्वाः →)+++ वेदाः स्थानानि विद्यानां
धर्मस्य च चतुर्दश”

इति याज्ञवल्क्य-स्मृति-प्रथमाध्याय-वचन-प्रामाण्यात् ।

इति महाशैवमतमर्दने रामसुब्रह्मण्यशास्त्री।

मुक्तिकोपनिषदि १०८ उपनिषदः परिगणिताः, येषु १३ मुख्याः प्रसिद्धाः।

स्मृतयः

“श्रुतिस् तु वेदो विज्ञेयो
धर्म-शास्त्रं तु वै स्मृतिः”

इति मनुः।

मन्वादि-प्राधान्यम्

स्मृतिष्व् अप्य् आन्तरिकं तारतम्यम् भवति,
येनाप्रसिद्धाः स्मृतयस् सन्देहास्पदानि।

वेदार्थोपनिबद्धत्वात्
प्राधान्यं तु मनोः स्मृतम्।
मन्व्-अर्थ-विपरीता या
स्मृतिः सा न प्रशस्यते ॥

यद् वै किं च मनुर् अवदत् तद् भेषजम्,

मन्वर्थ-विपरीता तु या स्मृतिस् सा न शस्यते

इति वेङ्कटनाथः पुरस् करोति।

पुराणाद्य्-अपेक्षया बलीयस्त्वम्

पुराणेष्व् एवोक्तम् -

यन् न दृष्टं हि वेदेषु
तद् दृष्टं स्मृतिषु द्विजा: ।
उभयोर् यन् न दृष्टं हि
तत्-पुराणैः प्रगीयते ॥
- स्कन्दपुराणे प्रभासखण्डे
५.३.१२१-१२४

श्रीवैष्णवग्रन्थेष्व् एतद्-उक्तिर् अन्यत्र (रा)।

श्रुति-स्मृति-पुराणानां
विरोधो यत्र दृश्यते ।
तत्र श्रुतिर् बलिष्ठा स्याद्
द्वयोर् मध्ये स्मृतिर् वरा ॥
श्रुति-स्मृति-पुराणेषु
विरुद्धेषु परस्परम् ।
पूर्वं पूर्वं बलीयः स्याद्
इति वेद-विदो विदुः

इति व्यास-स्मृति-वचनम् ।

आचाराख्यायिकाभ्यः स्मृतेः प्राबल्यात् (वक्ष्यमाणात्),
नैस् सह वर्तमानानां विधीनाम् अपि तत्-साहचर्यात् स्मृत्य्-अपेक्षया दौबल्यम्।

आचाराख्यायिकाभ्यः प्राबल्यम्

आचाराख्यायिका इतिहास-पुराणेष्व्, आगमेष्व्, ऐतिह्येषु वोक्तास् स्युः,
शिष्टाचारेषु वा साक्षात्-कृताः।
तेभ्यस् सर्वेभ्योऽपि स्मृति-ग्रन्था बलीयांसः।

प्रमाणानि

यान्य् अस्माकं सुचरितानि- तानि त्वयोपास्यानि, नो इतराणि ।

  • तैत्तिरीय-श्रुतौ शिक्षा-वल्ली॥

यत् किञ्चित् पूर्वाचार्य-कृतम्, तत्र सुचरितं ग्राह्यम्, नेतरत्।
किं सुचरितं नाम? यत् शास्त्रादि-प्रमाणैः प्रशस्तम्।
अतः, सन्देहास्पद-चरित-काव्यादिभिर् भ्रान्तैर् न भाव्यं साम्प्रदायिकैः।

दृष्टो धर्मव्यतिक्रमः - साहसं च पूर्वेषाम् ७
तद् अन्वीक्ष्य प्रयुञ्जानः सीदत्य् अवरः ९

इति चापस्तम्बः।
तत्र शास्त्रोक्त-धर्म-व्यतिक्रमे प्रत्यक्ष-भगवद्-आज्ञादि बीजं स्यात्।

स्मृत्य्-अनुमानम्

शिष्टाचारा अनुमित-स्मृतयः।
यथा - होलिकोत्सवादिषु शिष्टाचारेषु मीमांसकैः लुप्त-श्रुति-स्मृती अनुमीयेते।

Where the shiShTa behavior is clearly in conflict with shruti etc.., it should be deprecated (eg medhAtithi on manu “येनास्य पितरो याता” ) -

‘The path of the righteous.’—This has been added with a view to emphasize the fact that, if one’s forefathers may have followed an unrighteous path, one shall not follow such a practice, in such cases.—(178).

आख्यायिका-प्राधान्यम् बुद्धि-वैकल्ये

सुबोधतरतया पामरदृष्ट्या शिष्टाचारो मुख्यतरम् प्रमाणम् भवितुम् अर्हति।

यथोक्तम् महाभारते -

तर्को ऽप्रतिष्ठः श्रुतयो विभिन्नाः,
नैको मुनिर् यस्य मतं प्रमाणम्।
धर्मस्य तत्त्वं निहितं गुहायां,
महा-जनो येन गतः स पन्थाः॥

इति।

बुद्धि-कौशले ऽन्यथा

किञ्च मूल-प्रमाणालोडनसामर्थ्ये सति
तान्य् एव श्रुतिस्मृत्यादीनि हि प्राधान्यम् भजन्ते।
अन्यथा मीमांसादेर् अपि काऽपेक्षा? श्रुतेर् अपि वा?

शिष्टत्वम् प्रमाणान्तर-सिद्धम्

तथा शिष्टानां शिष्टत्वे, विषय-विशेषे तद्-अस्खालित्ये च
कः प्रत्ययः श्रुति-स्मृत्याद्य्-आनुकूल्यम् अन्तरा?
अन्यथा खलु मरून्मत्तकुले जातो महामदादीन् शिष्टान् मन्यमानो न दुष्यति।

आचाराख्यायिकासु तारतम्यम्

इतिहास-पुराणयोस् तारतम्यम् पृथग् उक्तम्।
तद्-अपेक्षया +ऐतिह्यस्य शिष्टाचारस्य च दौर्बल्यम्।

शिष्टाचारस्य प्रत्यक्षगम्यत्वात्, ऐतिह्यस्यापेक्षया तस्य प्राबल्यम्।

Can’t guarantee integrity of pramANa in most cases. Hence lowest pramANa. Eg. ‘moovaayirappaDi guruparamapara prabhava’ has many interpolations (eg. meeting of prabodha-chandrodaya author with sankalpa-sUryodaya author VD). Also see: TW

In many cases outright kAvya-s masquerade as aitihyas, misleading later naive practitioners (eg. shankara-digvijaya-s, maNimanjarI).

इतिहासौ

प्रकृत-सर्ग-विषये तत्रैवेतिहास-वैशिष्ट्यम् आह गोविन्दराजः -

पुराणं सर्ग-प्रतिसर्गादिष्व् अन्य-परम्
इति न इतिहासवत् पुरावृत्त-कथने तात्पर्यवत्।

वेदोक्तेतिहासौ न सम्प्रति-प्रसिद्धाव् इति केचित्।
तत्-प्राग्-रूपाण्य् एवेति मन्तुम् अलम्।

तत्रापि रामायणं प्रधानम् मन्यन्ते रामानुजीयाः।
माध्वास् तु भारतम्।
तेन रामायणाख्यानान्तराणि पुराण-पदम् आप्तानि
वाल्मिकि-कृतेर् अपेक्षया ऽल्पतराणि।

चन्द्रशेखर-सरस्वती त्व् अनेन शिवरहस्यं, स्कान्दं चापीतिहास-शब्द-वाच्यम् अमन्यत! +++(5)+++
प्रमाणं तु विचारणीयम्।

पुराणापेक्षया बलम्

अत्र रामानुजीये विस्तारः (रा)।

धर्माकूतादि-धर्म-शास्त्र-निबन्धनकारस् त्र्यम्बको मख्य् अपि
इतिहासापेक्षया, स्मृत्य्-अपेक्षया च
पुराणानाम् अवरत्वम् अङ्गीचकार,
यद् रावणस्य क्षत्रियत्वम्, अब्राह्मणत्वं च समर्थयामास,
ब्रह्महत्याख्यापक-पुराणोपेक्षया।
TW

पुराणम्

स्थूल-तारतम्यम्

पुराणेषु पुनस् तारतम्यं
स्वतः पुराणैर् एवोच्यते ।
तत्र हि तामस-राजस-सात्त्विक-भेदेन ग्राह्याग्राह्यतक्ता।

श्रीवैष्णवाभ्युपगतं तारतम्यम् अत्रेक्षताम्

सात्त्विकेषु तारतम्यम्

पुनस् तत्रापि सात्त्विकेषु तारतम्यं कथ्यते।

यथा विष्णुपुराणं पुराणरत्नम् इति वदन्ति श्रीवैष्णवाः - कस्यचन देवताविशेषस्य स्तुत्यर्थम् अन्तरा साधारण-पक्षपातरहित-प्रश्नैर् उपक्रमात्।

एवम् भागवतम् प्रधानम् मन्यन्ते गौडीयाः - ततो ब्रह्मसूत्र-पुराणान्तर-कृतो व्यासस्य तृप्तेः।

१८ पुराणानि

मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।
अनापलिङ्गकूस्कानि पुराणानि प्रचक्षते ।।

विस्तारः (द्रष्टुं नोद्यम्)
  • मद्वयम्

    • १- मत्स्य (१)
    • २- मार्कण्डेय (२)
  • भद्वयम्

    • १- भविष्य (३)
    • २- भागवत (४)
  • ब्रत्रयम्

    • १- ब्रह्म (५)
    • २- ब्रह्मवैवर्त (६)
    • ३- ब्रह्माण्ड (७)
  • वचतुष्टयम्

    • १- विष्णु (८)
    • २- वामन (९)
    • ३- वायु (१०)
    • ४- वराह (११)
    • अग्नि (१२)
  • ना

    • नारद (१३)
    • पद्म (१४)
  • लिं

    • लिङ्ग (१५)
    • गरुड़ (१६)
  • कू

    • कूर्म (१७)
  • स्क

    • स्कन्द (१८)

एकस्मिन्नेव श्लोके अष्टादशपुराणपरिचयः।

Shiva purana is the latest entrant to the 18 purana list - replacing the much older vayu purana - post-gupta-era. As late as Harsha charita, vayu purana was in major use. In the list of 18 we have today, vayu is replaced by siva. - RL

आगम-दौर्बल्यम्

श्रुति-स्मृत्योर् अपेक्षया ऽऽगम-दौर्बल्यं तत्र तत्रागमैर् एवोक्तम्।
वैदिकेष्व् आर्येष्व् आगमापेक्षया श्रुतेर् येनकेनचिद् अपि हेतुना प्रतिष्ठिततरत्वं निर्विवादम्।
यत्र श्रुतिस्मृत्य्-अपेक्षया ऽनन्यथाऽवगम्य-विरोधेनागमेषु विधिः,
स पूर्वम् एवार्यसमाजाद् बहिष्कृतेभ्यो विहितो ज्ञेयः।

पाञ्चरात्रागमदौर्बल्ये रामानुजीये विचारो द्रष्टव्यः (रा)।

वेद-बाह्य-विषयता

In the kUrmapurANa (various Agama-s were said to be created because some men are excluded from the veda and incapable of following it).

KūrmP_1,15.109
वेदबाह्ये पुरुषे
पुण्यलेशो ऽपि शङ्कर ।
संगच्छते महादेव
धर्मो वेदाद् विनिर्बभौ ॥
तथापि भक्तवात्सल्याद्
रक्षितव्या महेश्वर ।
अस्माभिः सर्व एवेमे
गन्तारो नरकानपि ॥
तस्माद् वै वेदबाह्यानां
रक्षणार्थाय पापिनाम् ।
विमोहनाय शास्त्राणि
करिष्यामो
वृषध्वज ॥

एवं संबोधितो रुद्रो
माधवेन मुरारिणा ।
चकार मोहशास्त्राणि
केशवो ऽपि शिवेरितः ॥
कापालं नाकुलं वामं
भैरवं पूर्वपश्चिमम् ।
पञ्चरात्रं पाशुपतं
तथान्यानि सहस्त्रशः ॥

सृष्ट्वा तान् ऊचतुर् देवौ
कुर्वाणाः शास्त्रचोदितम् ।
पतन्तो निरये घोरे
बहून् कल्पान् पुनः पुनः ॥
जायन्तो मानुषे लोके
क्षीणपापचयास् ततः ।
ईश्वराराधनबलाद्
गच्छध्वं सुकृतां गतिम् ।
वर्तध्वं मत्-प्रसादेन
नान्यथा निष्कृतिर्हि वः ॥

अर्थ-शास्त्रम्

बृहस्-पतिर् आह -

धार्यं मन्व्-आदिकं शास्त्रं
नार्थ-शास्त्रं कथञ्चन।
द्वयोर् विरोधे कर्तव्यं
धर्म-शास्त्रोदितं वचः ॥ १।११३ ॥

निबन्धाः

A note on irreverence to over-extended authority

Love truth more than pride.

My own experience of causing erudite scholars (RG, NiMi, ViSu, StTi, JaSc… ) to steam through the ears tells me its simply not worth it to give a damn (beyond issuing some basic clarification/ opening for friendship). Usually the steam dissipates after some time.

Ultimately you take what ever you find valuable from them without unnecessary ego issues on your side, and let those afflicted by vidyA-mada etc.. roil in the murk of their own follys.

Academia

I find the fixation on “academics” odd for a person capable of independent study and thought. Fixation on “sound scholarship” is a good thing - whether such is circulated via books, journals, blog posts, twitter threads or vAkyArtha-sabhA-s. Being prejudiced by “scholar got salary from some academy” is rather akin to “lineage-kanging” among so-called traditionalist Hindus.

Oft, appeals to “academic consensus” reminds me of similar appeals to “traditional paNDits” in some online arguments.

शिष्टाचारः

शिष्टाचारे सामान्य-विषया उपरि आचाराख्यायिकासु दृश्याः।

विधुशेखरभारती २०२६

देशतस् तारतम्यम्

तत्रापि देशतस् तारतम्यं वर्तते।

तथा च मनुः -

वेदः स्मृतिः सदाचारः
स्वस्य च प्रियम् आत्मनः ।
एतच्चतुर्विधं प्राहुः
साक्षाद् धर्मस्य लक्षणम् ॥

इत्य् उपक्रम्य -

सरस्वती-दृषद्वत्योर्
देव-नद्योर् यद् अन्तरम् ।
तं देव-निर्मितं देशं
ब्रह्मावर्तं प्रचक्षते ॥
यस्मिन् देशे य आचारः
पारम्पर्य-क्रमागतः ।
वर्णानां सान्तरालानां
सदाचारः स उच्यते ॥

इत्याद्यभिहितवान् ।

विस्तारः (द्रष्टुं नोद्यम्)

ये तु कलिवर्ज्यतया मांसश्राद्धे विवदन्ते
स्तेयान्य-महा-पातक-निष्कृतिर् इति कलि-वर्ज्यतयोक्तम् अपि
ब्रह्म-हत्या–तत्-संसर्ग-प्रायश्चित्तं धन-लोभाद् उपदिशन्ति,
मातृ-स-पिण्डानयने च न विवदन्ते
राग-शेष-दूषित-चेतसो देवानां प्रियास्
ते केन शिक्षणीया
इत्य् अलं मांसं विद्विषद्भिः सौगत-मतानुसारिभिः सह श्रमेणेति ॥

इति महामहोपाध्याय-श्रीविद्या-निवास-भट्टाचार्यात्मज- विश्व-नाथ-शर्म-कृतो मांस-तत्त्वविवेकः।

अप्रमा

देशे देशे य आचारः
पारम्पर्यक्रमागतः।
स शास्त्रार्थ-बलान्नैव
लङ्घनीयः कदाचन॥

इति नारदस्मृताव् असहाय-टीकायाम् प्रक्षिप्तं केचिद् उदाहरन्ति।
Contradicts with all established dharmashAstra and their classic commentaries, including medhAtithi

क्रमाः

श्रीवैष्णवाभ्युपगत-प्रामाण्य-क्रमः (वेङ्कटनाथशाखा) अन्यत्र द्रष्टव्या ।

शाङ्कर-प्रमाणततिर् अन्यत्रोक्ता

माध्वगौडीयादीनाम् अन्यत्र विचारितम्।