पर-मत-भेदाः

दक्षिण-कलार्याः

एभ्यो भेदो भिन्न-पृष्ठय् उक्तः।

मध्व-मतात्

  • जीवात्म-भेदे, विष्णु-पारम्ये चाङ्गीकार उभयत्र।
  • लक्ष्मीविशिष्टं नारायणं न प्राप्यं मन्यन्ते।
  • शरीर-शरीरि-भावो नाङ्गीकृतः। तेन भगवान् नोपादान-कारणम्।
  • नित्य-संसारिणस् सन्तीति माध्वाः (न केवलं सम्भवन्तीति)। नेति वेङ्कटनाथार्यः।
  • उपायः
    • प्रपत्तिस् साक्षान् मुक्तिं यच्छतीति न माध्वा अङ्गीकुर्वन्ति। भक्तिम् एवावलम्बन्ते।
  • देवेषु प्रतिपत्तिर् भिन्ना। अन्यत्र व्याख्यातम्

आनान्द-तारतम्यम्

मुक्ताव् आनन्द-तारतम्यम् अन्यत्र व्याख्यातम्

श्रीवैष्णवास् तु मुक्तौ स-शरीरत्वे, कैङ्कर्ये, मुक्ति-काले च तारतम्यम् अङ्गीकुर्वन्तो ऽपि
आनन्द-तारतम्यं नाङ्गीकुर्वन्ति।

शिखोपवीत-हानम्

श्रीवैष्णवाः शिष्टाः माध्व-यतेर् उत्सवेषु गन्धं स्वीकृत्य सचेलं स्नानम् एवाचरन्ति काञ्च्याम्। तत्र शास्त्रानुसरणे न माध्वैर् अपि (पॆरियवयतिनेव) कश्चनावमानो मतः।

जीव-गोस्वामि-गौडीय-परम्परा

  • भागवत-पुराणं तेषाम् परमं प्रमाणम् - ब्रह्म-सूत्र-भाष्यम् इत्य् आख्यातत्वात्। किञ्चाद्वैतिनः श्रीधर-स्वामिनो भाष्यम् प्रायेणावलम्बन्ते।
  • आत्म-शरीर-भावस् तु नोक्तः। किञ्च सर्वं भगवच्छक्ति-विकारम् मन्यन्ते।
  • वैकुण्ठवर्तिनः सर्वे दुर्गा-गणेशादयः, गुरवश् च स्वरूपतो भगवद्-अंशा इति कथ्यन्ते। वैकुण्ठ-वर्तिन एव लोकेस्मिन् जन्तुष्व् आविशन्तीति। ततो दुर्गादयोऽपि पूज्या - न त्व् अस्मिल्ँ लोके वर्तमाना समान-नामका तद्-दास-भूता देवाः, भूतादयो वाऽपि।
  • एतैः भक्ति-प्राप्तौ श्रद्धा-प्राप्तौ वा (=भगवति शरणागतौ) नित्य-कर्म-तिरस्कार उच्यते। स वेचारो ऽन्यत्र विस्तृतः।
  • तद्-अभिप्राये शरणागतिर् नाम श्रद्धैव - ज्ञान-मात्रम् इति। (देवर्षि-भूताप्त-नृणां [भा।पु। ११.५.४१] इत्य्-आदौ तद्-अङ्गीकृतया टीकया ज्ञायते। )

प्रमाणानि

gauDIya-s claim that bhAgavata-purANa, since it claims precedence over even BS, is the supreme pramANa. एवं शुक-सम्प्रदायोऽपि. So, for them:

भागवत-पुराणम् > ब्रह्म-सूत्राणि > वेदाः > स्वेष्टा वैष्णवा आगमाः > स्मृतयः > इतिहासौ > सात्त्विक-पुराणानि > राजस-तामस-पुराणानि, इतरागमाः??

अष्ट-प्रकरण-शैवाः

  • आचारः
    • उभयत्रापि वेदाविरोधः प्रशस्तः, आगमानुसरणं च - दीक्षानन्तरम् अपि। तद्-अतिचारिणां खण्डनम् कृतम्।
    • लोकसङ्ग्रहार्थम् एव तद् इति - “The great Saiddhāntika Ācārya Vaktraśambhu stresses the importance of Śrautasmārtakarma (including Paśubandha) and states that Śaivas should do them without expecting fruits and even though such karmas do not add anything to Śaiva practice.”
    • शैवा अपि प्रणवं विनैव नमश्शिवायेत्य् उपदिशन्ति स्म वेदबाह्येभ्यः।
  • देवता लोकाश् च
    • उभयत्र केषाञ्चन देवानां लोकानां च प्राकृत-शरीरत्वम्, बद्धत्वं चाङ्गीकृतम्। शैवा वदन्ति “विष्णु-ब्रह्मादयः प्राकृतशरीरवन्त” इति। श्रीवैष्णवास् तु “शिव-ब्रह्मादयोः प्राकृतशरीरवन्त” इति।
    • उभयत्र केषाञ्चन देवानाम् लोकस्य लोकानां वा अप्राकृत-शरीरत्वम् अङ्गीकृतम्। तेषां च प्राकृत-लोके प्रभावो ऽप्य् अङ्गीकृतः।
      • श्रीवैष्णव पक्षे ऽप्राकृत-लोको नित्यविभूतिर् इत्य् एक एवेति विशेषः।
  • मुक्ति-कालः, मोक्षोपायश् च।
    • उभयत्रापि शरीर-पात एव केषाञ्चन मुक्तिः।
    • उभयत्रापि दीक्षा-निभ-कर्माणि मोक्षं जनयन्ति।
      शैवास् त्व् आगमाध्ययनम्, ज्ञानोत्पादनम्, अनुग्रह-प्राप्तिम् अपि तद्-अनन्तर-कारणानि कथयन्ति।
    • उभयत्रापि दीक्षाविशेषेण सद्य एव शरीर-नाशो ऽपि भवेद् इति।
    • उभयत्रापि सर्वे मोक्षाधिकारिणः।
      • किञ्च शैवा सच्छूद्रान् दीक्षयन्तोऽपि, प्रतिलोमवर्णान् आगम-स्रवण-दीक्षादौ अनधिकारिणो मन्यन्ते।
  • मुक्ति-दशा
    • उभयत्र जीवेश्वर-पार्थक्येऽपि किञ्चन भगवत्-साम्यम् उक्तम्।
    • मुक्तौ चिद्-घना, सर्वज्ञा, सर्व-शक्ताः (किन्तु परमेश्वरोचित-सृष्ट्यादि-पञ्च-कृत्येभ्यो व्यावृत्ताः), स्वतन्त्राः (किन्तु सृष्ट्यादाव् अनिच्छुकाः), सर्व-व्यापिनो भवन्ति जीवा इति शैवाः।
    • अत्र श्रीवैष्णवा मुक्तानां शुद्ध-सत्त्वात्मकतया ज्ञानात्मकत्वं (चिद्-घनत्वम् इव) वदन्ति। सर्वज्ञताऽप्य् अङ्गीकृता। किन्तु +अणुत्वं, भगवच्-छेषत्वं च वदन्तीति भेदः। अन्यथा न भेदः।

“यदा यदा हि धर्मस्य …” इति श्लोकोक्तरीत्या ऽवतारतो रक्षा नोक्ता।
आचार्यावतारेषु -

Tamizh Śaivam added such elements (the birth of Aghoraśiva prophesied in a lesser-known sthalapurāņa, his being blessed to impart the Siddhānta to others) but otherwise, I do not recall seeing any such narratives about the Ācāryas of Mūla-Śaiva-Siddhānta.

आगमान्तराणां तत्-तत्-स्तरे प्रामाण्यम् अङ्गीकृतम्। मोहशास्त्रादि-स्थाने पशु-शास्त्रद्य् उच्यते।
अयम् अतिरस्कारस् तद्-हानयय् इति विश्वासः।
सम्भवति यत् तेन बौद्धादि-सङ्ग्रहणं यव-द्वीपे, तत्रापरत्र च मरून्मादादिभ्यः पराजयश् च दृश्यते।

वेदान्तापर्याप्तता

प्रमुखोपनिषद्-अभिप्रायो वेदान्तः, स च ब्रह्मसूत्रानुसारीति मन्यन्ते।
शैवास् तु वेदान्तं न बह्व् अमन्यन्त - पशुशास्त्रम् एव तद् इति (तेन पुरुष-तत्त्व-प्राप्तिर् एव स्याद् इति यथा सर्वात्मशम्भुर् अमन्यत)।
वेदान्तिनां तु दृष्ट्या,
तादृश्या अवज्ञया, तद्-अभिमत-वैदिक-प्रमाण-मात्रेण शैवमतस्यासिद्धत्वाच्च
तन्मतम् उपेक्षितम् भाति।
तेनैव हेतुना बहवो वैदिकाश् शैवा गत-सहस्राब्दे शाङ्करास् सञ्जाता इति भाति (वैदिका वैष्णवास् तु तूर्णतरं मायावादम् अत्यजन्)।

वैष्णवैश् शैवमतान्य् उपेक्षितानि (तद्दृष्ट्या तत्-प्रधान-विरोधि शाङ्करम् अद्वैतम् अवर्तत) -
ब्रह्मसूत्रादिव्याख्यानेन वेदान्तपदप्राप्तिश् च शैवैर् अपि प्रायेणावधीरिता।

ब्रह्म-परिणाम-वादाः

अयं निरस्तो रामानुजार्येण विस्तरतः -

उपाधि-ब्रह्म-व्यतिरिक्त-वस्त्व्-अन्तरानभ्युपगमाद् ब्रह्मण्य् एवोपाधि-संसर्गाद् औपाधिकाः सर्वे (दुःखादि-)दोषा ब्रह्मण्य् एव भवेयुः ।

यथा देवदत्तस्यैकस्मिन् हस्ते
चन्दन-पङ्कानुलेप-केयूर-कटकाङ्गुलीयालंकारस्
तस्यैवान्यस्मिन् हस्ते
मुद्गराभिघातः कालानल-ज्वालानुप्रवेशश् च
तद्वद् एवेश्वरस्य स्याद्
इति ब्रह्माज्ञान-पक्षाद् अपि
पापीयान् अयं भेदाभेदपक्षः -
अ-परिमित-दुःखस्य पारमार्थिकत्वात्
संसारिणाम् अनन्तत्वेन दुस्तरत्वाच् च ।

प्रत्यभिज्ञा-दर्शनम्

श्रीमद्-अभिनव-गुप्तो वदति तन्त्रसारे -

स एव स्वातन्त्र्याद्
आत्मानं सङ्कुचितम् अवभासयन्न्
अणुर् इति उच्यते ।+++(4)+++
पुनर् अपि च स्वात्मानं स्वतन्त्रतया प्रकाशयति +++(क्षणिक-विकल्प-पर्वसु)+++
येन +++(मातृ-मेयादि-भेदैर्)+++ +अनवच्छिन्न-प्रकाश-शिव-रूपतयैव प्रकाशते ।

अयं तर्हि प्रसिद्धः ब्रह्म-परिणामवादः - रामानुजार्येण सामान्यतो निरस्तः।
पुनस् तत्र ब्रह्माज्ञानवादो ऽपि वर्तते - स्व-स्वातन्त्र्येण ब्रह्म स्वीयैकदेशे ऽज्ञानम् आरोप्य बद्धो भवतीति।
तच् चानिष्टम् पूर्वोक्तरीत्या, अवैदिकं च।

An appreciable level of incarnation by use of svAtantrya would be that of “rudras”, described by sthAneshvara (TW) as being above mAyA in shuddhAdhvan, and not anything below it.

अथवा त्रिकशैवैर् अप्य् अवयवावयविरूपा जीवेश्वरभिदोच्यतय् एव, यथाह स्थानेश्वरार्यः -

You feel pain and pleasure because you are finite. I feel pure pleasure, no matter what happens. I do not have the nerves to translate some sensation as pain and the others as pleasure. I am the totality experiencing all the experiences as blissful.

अयम् परिहारस् तदीयशास्त्रेषु क्वोक्तः??

वल्लभ-पुष्टि-मार्गः शुद्धाद्वैतम्

अन्यत्र दृश्यम्

निरीश्वर-मीमांसकाः

निरीश्वर-मीमांसका ईश्वरं न मन्यन्ते।
रामानुजीया न तथा।

देवाः

निरीश्वर-मीमांसका देवान् शब्द-मात्र-रूपान् मन्यन्ते -

कथम् अन्यथा युगपत् १०० यागेष्व् आहूता
हविर् गृह्णीयुर्

इत्य् आशङ्क्य।
देव-कथनम् अपूर्व-कल्पनम् अनवगच्छत्सु कर्मणि श्रद्धाया वर्धनार्थम् अर्थवादः इति वदन्ति।

तद् इदं तिरस्कृतं रामानुजीयैर् देवान् भौतिक-शरीर-युक्त-जीवान् मन्यमानैः। ते च देवानां बहु-शरीर-ग्राहित्वम् अङ्गीकुर्वन्ति।

कर्म-श्रद्धा-विवर्धिषा

तावान् बुद्धिमान् प्रामाणिकश् च मीमांसकः
श्रुतिशतम् उपेक्ष्य
कुतो निरीश्वरवादम् अदेवतात्वं वा पुरश् चकार?

इत्य्-अत्र वेङ्कटनाथार्यः क्वचिद् आह शब्दान्तरैः -

देवताङ्गीकारे कर्मणि श्रद्धा ह्रसति,
विकलानि च तानि भवन्ति।
अतो ज्ञात्वा ऽपि देवता गौणीकृताः।

अपूर्वम्

अ-पूर्वम् इति कर्मणोत्पन्न आत्म-संस्कारः कालान्तरे फल-जनको
निरीश्वर-मीमांसकैर् उक्तः।
तत् तिरस्कृत्य, भगवद्-अनुग्रह-निग्रह-बुद्धिम् एव तत्-स्थाने पुरोऽकरोद् रामानुजः।

शाङ्करा मायावादिनः

वेदे प्रामाण्य-तारतम्यम्

यत्र यत्र गौणार्थाभिधानेन - “इदं वाक्यं न परब्रह्मपरम्, अपि तु सगुणब्रह्मपरम्, उपासनार्थम् वा” इति वो निश्चयः, तत्र तत्र “इदं खलु परब्रह्मबोधकम्” इति निश्चयान्वित-वाक्यानाम् अपेक्षया ऽल्पतरप्रामाण्यवद् इति निर्देशः ।
यत्र किञ्चन वाक्यं वाक्यान्तरेण परास्तं दृश्यते, तद् एव प्रमाण-बल-तारतम्यस्य लिङ्गम्।
तात्पर्यम् अन्यत्रास्तीति वचनेन - अत्रोक्तः परास एव।

वेदवाक्यादौ ग्राह्यता-तारतम्यं कथयन्ति।

अद्वैती भेदश्रुतेः पर-ब्रह्मणि तात्पर्यं नास्तीति यद् वदति,
तद्विपरीतं माध्वो वदेत् - अभेदश्रुतेर् एव पर-ब्रह्म-स्वरूपे तात्पर्यं नास्तीति।
प्रथमावक्यं द्वितीयवाक्येन परास्तम् इत्य् एकः,
द्वितीयवाक्यम् प्रथमेन परास्त इत्य् अपरः।
एतादृशमीमांसायां वर्तामानां विनिगमकताम् एव पूर्वाग्रहम् अभिजानन्ति।
अतस् तत्र तत्र पूर्वग्रहानुसारेण प्रामाण्य-बल-कलनं हि प्रामाण्यतारतम्यम् इति।

ते हि “अहम् ब्रह्मास्मि” प्रामाणिकतरम् (एवम् “महावाक्यम्” इति), “द्वा सुपर्णा…” नेति तारतम्यवचनम् - युष्मद्-अध्यास-प्रक्रियैव तद्-अर्था।

श्रीवैष्णवा हि द्वयोर् अपि तुल्यप्रामाण्यं स्वीकृत्य, घटकश्रुतिदर्शितेन पथा समादधामः।

कर्म-त्यागः

लोकसङ्ग्रहचिकिर्षुर् एव ब्रह्मज्ञानिनः कर्माणि दिशन्ति, प्रारम्भिक-ब्रह्मजिज्ञासोश् च चित्तशुद्ध्यै,
न लोकसङ्ग्रहानासक्तस्य ब्रह्मज्ञानिनः।
किम् बहुना - तत्कृते पापपुण्यादेर् अविद्यमानत्वाद् अधर्मम् अपि प्रसह्य गृह्णीयात्। (“अहम् ब्रह्मास्मि, जगन्मिथ्यै"तावतैव सिध्यति। )

गीताभाष्ये “सर्वधरमन् परित्यज्ये"त्य्-आदौ स्पष्टम् एवोक्तम् - शास्त्रजन्यज्ञानेनैव मोक्षः, किं कर्मणेति ।

साक्षात्कृतश् च कश्चन महान् विद्वान् अद्वैतादि-पारङ्गतः कविवरो गौरवान्वितः शङ्कराभिमानी सन्ध्यावन्दनाद्युपेक्षापरो ऽसन्न्यासी (आश्रमतः) ।
ब्रह्मज्ञानिनम् आत्मानम् मन्यते।

किञ्च -

Addressed here is the misconception that Advaita waives all niyama-s (“injunctions”) and anuṣṭhāna-s (“observances”), with the clarification that the teaching is not drop karma, but to reach a stage where karma drops off on its own.

Source: TW

इत्य् अर्वाचीनाः।

ईश्वरः

तदीय “ईश्वरो” ऽविद्याग्रस्तो जीवन्मुक्तवद् अपि, यतः कर्म-बन्ध-मोक्षादिषु व्यवहरति।

देवताः

शङ्करो गीताभाष्ये -

यजन्ते पूजयन्ति सात्त्विकाः सत्त्वनिष्ठाः देवान्; यक्षरक्षांसि राजसाः; प्रेतान् भूतगणांश्च सप्तमातृकादींश्च अन्ये यजन्ते तामसाः जनाः

शङ्करेऽभिप्रायः

शङ्करं न वैदिकं मन्यामहे। कुदृष्टि-शब्देनैवास्मत्-प्राचीनैस् तादृशानां निर्देशः,
प्रच्छन्न-बौद्ध इति वा। शिखोपवीतत्यागो ऽपि भर्त्सनीय एव। किञ्चेषद्-वैष्णव इति तु मतम्।

तत्र शङ्करस्यावैदिकत्वं स्पष्टम् - तस्य वेदा अखिला न प्रमाणम् - भेदश्रुतीर् गौणीकरोतीति।
ब्रह्मसूत्रेषु सप्रतिज्ञेन विपर्ययारोपेण च वैदिक-प्रातिकूल्यं नितरां स्पष्टम्।

सत्ये तारतम्यम्

सत्यस्य सत्यम्

सत्ये तारतम्यम् इवोच्यते श्रुतौ -
“सत्यस्य सत्यम्”,
“सत्यं चानृतं च सत्यमभवत्” इत्यादौ।

अत्र - असत्यम् = मिथ्या इति वा काल्पनिकम् इति वा स्याद्
इति निर्बन्धो नास्ति।
अर्थान्तरे ऽपि स शब्दः प्रयुज्यते - अत्रैकालिकम् इत्येव।

पारमार्थिक-सत्यम्

तर्हि यच् छाङ्करा वदन्ति - “निर्विशेषम् ब्रह्मैव परमार्थिक-सत्ता / परमं सत्यम्” इति,
तद् रामानुजीये परमम् असत्यम्, काल्पनिकम्, अबद्धं, निष्प्रमाणम्, लोक-प्रतारणम्।

व्यावहारिक-सत्ता

शाङ्करमते व्यावहारिक-सत्तेति यद् उच्यते,
तद् एव रामानुजीये सत्यम्।
तत्रापि यो वर्तते सगुणम् ब्रह्म, स एव “सत्ये सत्यम्” श्रुत्य्-अभिप्रेतम्।

शाङ्करैस् तु व्यावहारिको ऽनुभवो ऽविद्या-जन्य इति कथ्यते।
तन् नितरां हास्यास्पदम् इतर-दृष्ट्या।
स अनादि-कर्मानुसारं भगवद्-इच्छा-कृत इत्यत्र नास्ति विरोधः।
अविद्या-कृतो भ्रम इति तु नाङ्गीक्रियते।

स्वप्नाः

स्वप्ना अपि सत्यम् - (जीव-चित्त-संस्कारोपादानकतया) भगवत्-सृष्टत्वात्।

Platonism

Platonic formulation

(Inspired from GA’s shaiva formulation)

Each Ātman’s (Self/Soul) has its inseparable dharma-bhūta-jñāna + pratyaktva/dharmi-jñāna (which is the Ātman’s individuality). Every Ātman, when divested of all non-innate, insentient characteristics (form, name, māyā which supplies it with the stream of bodies/faculties through births, karmic baggage, etc), is a unique sentient, whose fundamental nature cannot be further simplified.

  1. Every sentient is an Ātman (a Cetana, a unique unit of consciousness) and therefore has an inseparable dharma-bhūta-jñāna + pratyaktva/ dharmi-jñāna (individuality), which is but its cetanatvam.
  2. Imagine a set consisting of every Cetana. One may therefore speak of a universal Cetanatvam, for discussion’s sake.
  3. There is no universal separate from the individuals which partake in it.
  4. “The Cetanatvam neither is”— Cetanatvam as universal does not exist, separate from individual instances of Cetanatvam.
  5. “Nor is Cetanatvam one”— Cetanatvam cannot partake in itself to become a unique entity as only an Ātman’s can partake in Cetanatvam.
  6. Therefore, Cetanatvam is an infinite class of members, one for each sentient.