तात्पर्यनिर्णयः

परिचयः

  • अनेकावान्तर-वाक्य-निचयात्मके एकार्थ-प्रधानके सन्दर्भे, बहूनाम् अर्थानां प्रतीयमानत्वात् कस्मिन्न् अर्थे तात्पर्य-विषयत्व-रूपं प्राधान्यम् इत्येतन्-निर्णयाय +इमानि तात्पर्यलिङ्गानि उपयुज्यन्ते। वाक्यतात्पर्याद् भिन्नं हि प्रबन्धतात्पर्यम्।
  • प्रयोजनम्
    • तादृश्या स्पष्टतया वाक्यविवरणं पदविवरणं च स्पष्टम् भवति। यथा “सैन्धवम् आनय” इत्युक्तौ लवणग्रहणं वा ऽश्वग्रहणं वेति संशये जाते प्रकरणम् ईक्षेत।
    • प्रमाम् अपि जनयति। ततः सत्प्रवृत्तिम्।

प्रमासम्बन्धः

  • प्रमा-परिचयो ऽत्र। वैदिकप्रमालक्षणं ततो ज्ञेयम्।
  • मीमांसकैः शब्दनिष्ठं तात्पर्यम् बोध्यते। अन्यत्र बहुदा वक्तृनिष्ठं तात्पर्यं बुध्येत - विवक्षा हि तत्र प्रधाना।
  • शब्दनिष्ठं तात्पर्यम् - प्रमा-जननानुकूल-शक्तिः। तात्पर्यविषयीभूते ऽर्थे शब्दः प्रमां जनयति।
  • कारिका - “उपक्रमोपसंहारौ अभ्यासोऽपूर्वता फलम्। अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥”

गौणार्थ-ग्रहणम्

वरं हि वाक्य-वैयर्थ्य-परिहारार्थं पदस्य
गौणार्थ-वर्णनम् अपि

इति पूर्व-तन्त्रे दशमाध्याये

‘यद्यपि चतुरवत्ती यजमानस्
तथापि पञ्चावत्तैव वपा कार्या’

इत्य्-अत्र शाबर-भाष्य-शास्त्र-दीपिकादौ न्यायः प्रदर्शितः ।

एवं लक्षणया ऽर्थस्य ग्रहणे ऽपि क्रमो वर्तते -
शब्द-लक्षणा ग्राह्या।
तद्-बाधायां हि वाक्य-लक्षणा ग्राह्या।

यथासम्भवम् असङ्कोचः

सर्वं वाक्यं सावधारणम् - असति बाधके।

अनुपाधिक-निर्देशे
ह्य् असङ्कोचो मनीषिभिः ।
“सिद्धे शब्दार्थसम्बन्ध”
इति न्यायेन कथ्यते॥

अर्थनिष्ठानि लिङ्गानि

परिचयः

  • वैदिकप्रमायाय् अपेक्षितांशाः - अज्ञातता, अबाधितता, फलवत्ता (परिचयो ऽत्र)। एते ऽत्र तात्पर्यलिङ्गैर् व्यज्यन्ते।
  • एकम् अप्य् अर्थनिष्ठं लिङ्गं विना न वेदप्रमैव नोद्भवितुम् अर्हति। तादृशे विषये “वेदशब्दस्य तात्पर्यं नास्ति” इत्युच्यते।
    • किन्तु शब्दनिष्ठाऽन्यतमाभावेऽपि तात्पर्यम् भवितुम् अर्हति। अतस् तेषाम् प्रयोजनं गौणं तात्पर्यनिर्णये - यदा अर्थनिष्ठलिङ्गानि नैकेषु विषयेषु भवन्ति, तदैव तेषाम् प्रयोजनम् विनिगमकतया।

लिङ्गानि

  • अपूर्वता - अपूर्वोक्तविषयो भवति प्रधानो बहुदा।
  • उपपत्तिः/ उपपन्नत्वम्। अबाधितता-निरूपणम्। निरूपणम् उदाहरणैः स्यात्। तेन श्रमपूर्वक-निरूपणेन प्रबन्धसारं निश्चेतुम् अलम्।
  • फलवत्ता - फलवत्तया प्रतिपादितो विषयः प्रधानभूतो बहुदा।

शब्दनिष्ठानि लिङ्गानि

  • उपक्रमोप-संहारौ
    • यथात्र - पर्वतो वह्निमान् (प्रतिज्ञा), धूमवत्वात् (हेतुः), यो यो धूमवान् स वह्निमान् यथा महानसः (उदाहरणम्), तथा चायं (उपनयः), तस्मात्तथेति (निगमनम्)।
  • अभ्यासः - अधिकवारं किमुच्यते?
  • अर्थवादः। निन्दास्तुती।

न्यायाः

  • उपक्रमन्यायः
  • उत्सर्गापवाद-न्यायः
  • अध्याहारापेक्षया ऽनुषङ्गो वरः।
  • सावकाशता - निरवकाशो विधिस् सावकाशापेक्षया बलवान्।
  • प्रामाण्ये तारतम्यम् - इदम् अन्यत्र निश्चितम्। बलवत्-प्रमाणानुसारेणावरः प्रमाणो नेयः, नान्यथा।

न हि निन्दा

  • By the nahi-nindA nyAya, scholars (LT_U) have often understood these contesting statements as merely advertising their own exaltedness - given the mutual complementarity (besides competitiveness) of the relationship between such texts and traditions.
  • Consider the analogous role of myths showing conflicts among the deva-s.
  • Even the mutual bickering among brAhmaNa-s of veda shAkhA-s was harmonized in this way by the sUtra period.

विकल्पः

विरोधे बल-साम्ये च सति हि
गत्यन्तराभावाद् विकल्पः स्वीक्रियते ।
न च गुरु-लघुनोर् विकल्पस् संभवति,
गुरु-विधायकस्य शास्त्रस्याननुष्ठान-लक्षणाप्रामाण्य-प्रसङ्गात् ।+++(4)+++
न हि लघौ सति
गुरौ कश्चिद् अपि प्रवर्तते ।

इति वेङ्कटनाथः।

Multi-level understanding

Multiple appropriate meanings

  • upaniShad-s provide a framework for understanding a sagely statement in AdyAtmika, Adi-daivika and Adi-bhautika terms.
  • yAska’s nirukta explains the same mantra from different perspectives.
    • " सोमं॑ मन्यते पपि॒वान् यत् स॑म्पिं॒षन्त्योष॑धिम्। सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥ " इत्य् ऋचो व्याख्या यास्केन द्वेधा दत्ता - अधियज्ञरीत्या, अधिदैवरीत्या च [मूलम्]।
  • patanjali in mahAbhAShya provides such an example while elucidating P I.3.14 - 29 R I.16 - 18 {2/29} “catvari śṛṅgā trayaḥ asya padā dve śīrṣe sapta hastāsaḥ asya tridhā baddhaḥ vṛṣabhaḥ roravīti mahaḥ devaḥ martyān a viveśa " [ITX], while sAyaNa acknowledges different multiple meanings [RV4.58.3].

Comparative mythology

  • vena = venus in RV hymn 10.123 etc.. (TW1) Not intelligeible with bhAShya (S_RV).
  • In somayaga, there’s subrahmanya vachana. “gaurāvaskandin ahalyāyai jāra” - meaning for indra obscure.
    • “One atrocious Ramayana story or explaining away with solar interpretation by kumarila.”

ताटस्थ्यम्

इत्थमर्थाविशेषेपि योजनाभेदमात्रतः ।
प्राचां विवादस्संवृत्तो भाष्यकारैरवारितः ॥

इति वेङ्कटनाथः।
एवं क्वचिच् छास्त्रार्थे निश्चिते सत्य् अपि, योजनासु नाग्रहः।