पुराण-तारतम्यम्

मान-हेतवः, परमम् पुराणम्

श्रुत-प्रकाशिका -

एवं प्रसिद्धातिशय-लब्ध-सजातीय प्रबन्ध-प्रकर्षवत्वात्,
तत एव नष्ट-कोशत्वाभावात्
अनति-विस्तृतया प्रक्षेप-शङ्का-रहितत्वात्,
अन्य-परोक्ति-[प्र]सिद्ध-परिग्रहातिशयवत्वात्,
सामान्य–प्रश्न-पूर्व–प्रतिवचन-रूपत्वेन अनाग्रह-मूलत्वात्,
अत एवेदृश-वैलक्षण्य-रहित-कारण–
दोष–बाधक-प्रत्यय–स्व-व्याहतिमत्-प्रबन्धान्तराणाम् एतद्-विरोधे सति
दौर्बल्यस्यावर्जनीयत्वाच् च
श्रीमद्-वैष्णवम् इदं पुराणं प्रमाणतमम् ।

तत्त्व-निर्णये विष्णुपुराणं पुराणरत्नम् इति वदन्ति -
कस्यचन देवताविशेषस्य स्तुत्यर्थम् अन्तरा साधारण-पक्षपातरहित-प्रश्नैर् उपक्रमात्।
(अयं न्यायः शठकोपेनापि स्वगाथायां “लिङ्गं वैत्त पुराणम्” इति प्रयोगेणेङ्कितम् इति +ईडु-प्रभृतिषु व्याख्यातम्।)

भागवत-स्थानम्

भगवद्-अनुभवे कामं भागवतम् परमम् मन्यताम्।

गौडीयैः भागवत-चितिः

जीव-गोस्वामी तत्त्व-सन्दर्भे -

English summary of shrI-jIva’s view-

First, Vyāsadeva edited one Veda, the original Yajur Veda, into four Vedas. He then abridged the one billion verses of the Purāṇas into eighteen Purāṇas consisting of a total of about four hundred thousand verses. These included Śrīmad Bhāgavatam in its original abbreviated form. Then Vyāsa composed His epic work, Mahābhārata, after which He distilled its essence along with that of the Vedas and Purāṇas into Vedānta-sūtra. Finally, He composed His most significant work, the full Śrīmad Bhāgavatam, which is Vyāsadeva’s own commentary on Vedānta-sūtra. This He witnessed in the state of samādhi through bhakti-yoga.

प्रत्याख्यानम्

भागवतं ब्रह्मसूत्रादि-व्याख्यान-निभम् इति “तुष्यतु-दुर्जन”-न्यायेनाङ्गीकृतेऽपि,
कथम् इव व्याख्येयोपेक्षा सङ्गता?
को नाम डिम्भो भागवत-मूलम् अपि हित्वा
श्रीधर-टिप्पनी-सङ्ग्रहेण ट्प्येत?
तेन व्याख्यानम् अपि व्याख्येयम् अपि नाङ्गीकृतं स्यात्।

तामस-राजस-सात्त्विक-भेदः

पुराणेषु पुनस् तारतम्यं स्वतः पुराणैर् एवोच्यते ।
तत्र हि तामस-राजस-सात्त्विक-भेदेन ग्राह्याग्राह्यतक्ता।

विस्तारः (द्रष्टुं नोद्यम्)

वेदार्थसङ्ग्रहे -

यथोक्तं मात्स्ये

संकीर्णाः सात्त्विकाश् चैव
राजसास् तामसास् तथा ।

इति ।

अभिज्ञानम्

विस्तारः (द्रष्टुं नोद्यम्)

सात्त्विकादि-विभागे कारणं मात्स्ये प्रदर्शितम् -

अग्नेः शिवस्य माहात्म्यं
तामसेषु प्रकीर्त्यते ॥
राजसेषु च माहात्म्यम्
अधिकं ब्रह्मणो विदुः ।
संकीर्णेषु सरस्वत्याः
पितॄणां च निगद्यते ॥

भेदभिन्नेषु तत्त्वांशे विरोधाभाव।
विरुद्धांशोऽप्रमाणम्, अन्यत्सर्वं प्रमाणम् ।

कारणम्

सत्त्व-रजस्-तमोमयानां तत्त्वानां माहात्म्य-वर्णनं च
तत्-तत्-कल्प-प्रोक्त-पुराणेषु
सत्त्वादि-गुणमयेन ब्रह्मणा क्रियत

इति चोक्तम् (मात्स्ये) -

यस्मिन् +++(गुण-विशिष्टे)+++ कल्पे तु यत् प्रोक्तं +++(→)+++
पुराणं ब्रह्मणा पुरा ।
तस्य तस्य +++(गुण-विशिष्टस्य)+++ तु माहात्म्यं
तत्-स्वरूपेण +++(ब्रह्मणा)+++ वर्ण्यते ।

विभागः

सात्त्विकम् पुराणम् - विष्णुपुराणम्, भागवतम् … प-व-न–वि-भा-ग इति माध्वेषु प्रसिद्धम्।

निर्णयाः (द्रष्टुं नोद्यम्)

अत्र पूर्वं महादेवः प्रसादमकरोत्प्रभुः ॥

इत्य्-अस्य व्याख्याने गोविन्दराजः पाद्म-कूर्मे उदाहृत्य वदति -

तद्-विरोधे तामस-पुराण-वचनानि न प्रमाणानि।

यतीन्द्र-मत-दीपिका-व्याख्याने वासुदेवः, शिवप्रसाद-द्विवेदी च -

‘वैष्णवं नारदीयं च
तथा भागवतं शुभम् ।
गारुडं च तथा पाद्मं
वाराहं शुभदर्शने ॥
षडेतानि पुराणानि
सात्त्विकानि मतानि मे ।

ब्रह्माण्डं ब्रह्मवैवर्तम्
मार्कण्डेयं तथैव च ॥
भविष्यं वामनं ब्राह्मं
राजसानि निबोध मे ।

मात्स्यं कौर्मं तथा लैङ्गं
शैवं स्कान्दं तथैव च । आग्नेयं च षडेतानि
तामसानि निबोध मे’ ॥

इदम् एव पवन-विभाग इति स्मरन्ति माध्वाः।

अंशतो भेदः

लिङ्गराजेन सह वादे माध्वो विजयीन्द्र आह -
सात्त्विकेषु तामासांशा वर्तन्ते, तामस-राजसेषु च सात्त्विकांशाः।