“प्रत्यक्षं चानुमानं च
शास्त्रं च विविधाऽऽगमम् ।
त्रयं सुविदितं कार्यं
धर्मशुद्धिम् अभीप्सता ॥ "
- मनुः अत्र
शास्त्र-व्याप्तिः
शास्त्रैकगम्ये विषये
युक्तिः शास्त्र-वचनं न प्रतिषेद्धुम् अर्हति।
न हि वचन-विरोधे न्यायः प्रभवति॥
“देव-गुह्येषु चान्येषु
हेतुर् देवि निर्-अर्थकः ।
बधिरान्धवद् एवात्र
वर्तितव्यं हितैषिणा”
( भारतम् आनुशाासनिक-पर्व २२८-६०)
किन्तु, न्यायस्य वचनाशयावगताव् उपकारकता वर्तते। तद् अन्यत्रोक्तम् ।
प्रत्यक्षानुमान-व्याप्तिः
प्रमाणान्तरगम्ये तु शास्त्र-प्राधान्यं न वर्ततय्
इत्य् अतस्
तत्र विरोधः शक्यः।
यथा - भूगोल-विषयः शास्त्रैकगम्यविषयो नास्ति -
अतः, शास्त्रं दुर्बलं प्रमाणान्तरविरुद्धम् प्रधानार्थे त्याज्यम्।
It is standard mImAMsA that
pratyaxa can and does cancel direct meanings of shAstras,
forcing one to resort to secondary or suggested meanings.
Direct observation (extensible to experimental science) and inference is a valuable source of knowledge in some cases (even mokSha according to some), but not in others.
Literal understanding of sayings in the veda-s and shAstra-s, contradicting direct observation (and science), is considered naive and wrong.
प्रत्यक्षेणानुमित्या वा
यस् तूपायो न बुध्यते।
तं विदन्ति तु वेदेन
तस्माद् वेदस्य वेदता ॥
is oft quoted.
ऋचो᳓ अक्ष᳓रे परमे᳓ वि᳓ओमन्
य᳓स्मिन् देवा᳓ अ᳓धि वि᳓श्वे निषेदुः᳓
य᳓स् त᳓न् न᳓ वे᳓द कि᳓म् ऋचा᳓ करिष्यति
य᳓ इ᳓त् त᳓द् विदु᳓स् त᳓ इमे᳓ स᳓म् आसते
इत्यत्र प्रत्यक्षस्य ग्रन्थगतस्यापेक्षया बलम् एवोच्यते।
रामानुज-वेङ्कटनाथाद्य्-उक्तयो [ऽन्यत्र](/rAmAnujIyam/tattvam/venkaTa-nAtha-shAkhA /vishvAsaH/pramANAni) ।
शङ्करोक्तयो ऽन्यत्र ।
व्यासादि-सार्वज्ञ्यम्
भगवद्-अवतारस्य भूगोलम् अन्यथा वर्णयतो व्यासमुनेर् अज्ञानापादनं कथं युक्तम्?
इति चेत्
मीमांसाद्य् अस्मद्-आविष्कारो न - तैर् एव शास्त्र-कृद्भिः खल्व् अनुगृहीतम्।
न च स व्यासः पूर्णावतारः।
(तेन ब्रह्मवित् सः, न प्रकृतिवित्।)
एवं मध्वस्य वायोः पूर्णावतारत्वम् अपि चिन्त्यम्।
अन्यथा सत्य् अपि (माध्वादय एवं मन्येरन्),
“शास्त्रे मीमांसया ब्रह्मादि वेदनीयम्”
इति तद्-अभिप्रायस् तत्-प्रणीत-सूत्रैर् एव व्यक्तः।
स मोहशास्त्राण्य् अपि प्रवर्तयामास खलु - तामसिक-पुराणादीनि।
तेन
तद्-वचनस्यैकदेशं यथातथं गृहीत्वा
मीमांसाद्य् उपेक्षतां स्खालित्यं
तद्-अनभिप्रेतम्
इत्य् अपि न वक्तुं शक्यम्।
शास्त्र-विशेषेषु
व्याकरणे परस्य परस्य च प्रामाण्यम् अङ्गीकृतम्।
ज्योतिषे
- appayya vs bhaTTatiri argument about heliocentricism KV.
- In jyotiSha for eg. they emphasized imp of observation and correction.
- Ancient mathematical approximations for planetary positions prove inadequate when we directly observe these positions.
आयुर्वेदे
- Example: Ayurveda in moving from mantra-vyapaashraya to yukti-vyapaashraya ridiculed “people who seek proof for medicines in mantras”. (vAgbhaTa 40-86 and 40-88 , BVP-discussion.)