प्रामाण्य-क्रमः
श्रीवैष्णवाभ्युपगत-प्रामाण्य-क्रमः (वेङ्कटनाथशाखा) -
अदुष्टम् प्रत्यक्षम् > वेदाः, ब्रह्म-सूत्राणि > स्मृतयः > इतिहासौ (रामायणं विशिष्य) > सात्त्विक-पुराणानि (विशिष्य विष्णु-पुराणम्) > आन्तरिक-तारतम्येन वैष्णवा आगमाः, द्रविड-गाथाः, सम्प्रदाय-रहस्य-ग्रन्थाः > राजस-तामस-पुराणानि, इतरागमाः ससाङ्ख्ययोगादयः > गुर्व्-आद्य्-आदेशः > शिष्टाचारः > ऐतिह्यम्।
तत्र ब्रह्म-सूत्राणां रहस्यग्रन्थानां च निर्णायकत्वेन प्रामाण्यम्।
(The purpose of the Brahmasutras is to establish the right interpretation of the Shruti; hence equal priority.)
क्रमे साधारण-विचारो ऽन्यत्र। अत्र सम्प्रदाय-विशिष्टवचनादीन्य् उच्यन्ते।
रहस्य-त्रय-सारादौ वेङ्कटनाथार्यः प्रमाणोदाहर-क्रमं स्वोदाहरणक्रमेणेव सूचयति।
भगवद्-आज्ञा-ज्ञान-क्रमः
बद्ध-दशायाम् भगवद्-आज्ञा-ज्ञान-क्रमः -
श्रुति-स्मृत्य्-आचारैस्, स्व-मति-गतिभिश् शुद्ध-मनसां,
सु-सङ्कल्पैर् धर्म्यैः, कुल-चरण-देशादि-समयैः ।
नियोगैर् योग्यानां, नियमयितुर् आदेर् अभिमतं
निमित्त-स्वप्नाद्यैर् अपि निपुणम् अन्विच्छति बुधः ॥
इति वेङ्कटनाथो रहस्य-त्रय-सारे।
अत्र सक्रमतोक्ता सारबोधिन्याम् -
ऎङ्गु अष्टकाश्राद्धरूप-कैङ्कर्यत्तिल्
श्रुति-प्रमाणम् इल्लैयो
अङ्गु श्रुत्य्-अविरुद्धम् आऩ स्मृतियिऩाले
इन्द अष्टकाश्राद्धादिकैङ्कर्यम् आदेरभिमतमॆऩ्ऱु अन्विच्छति ।
ऎङ्गु होळाकत्तिल् अदावदु वसन्तोत्सवत्तिल् श्रुति-स्मृत्य्-उभयमुम् इल्लैयो
अङ्गु उभयाविरुद्धमाऩ आचारत्तिऩाल् आदेरभिमतमन्विच्छति ।
ऎङ्गु ‘‘व्रीहिभिर्वा यवैर्वा जुहुयात्’’ ऎऩ्ऱु विकल्पितमो
अङ्गु ‘‘आत्मनस्तुष्टिरेव च’’ ऎऩ्गिऱबडि तऩ् तुष्टिक्कु विषयमाऩ अन्यतरत्तिल्,
स्वमतिगतिभिः - तऩ् बुद्धिप्रवृत्तिकळाले, आदेरभिमतमन्विच्छति ।
शास्त्रानुसरणम्
बुद्धि-पूर्वकं क्रियमाणेषु शास्त्र-नियमनम् भवति।
तत्रापि क्वचित् शास्त्र-कण्ठोक्ति-मात्र-ग्रहणेन लोकाचारातिक्रमे साहसः कृतो दृश्यते।
यथा -
- रामानुजस्याचार्येण शूद्र-शिष्यस्यान्तिमसंस्कारसाधनम्।
- अन्त्यजस्य महाभक्तस्य स्कन्धय् आरोपणेन +अर्चा-विग्रह-दर्शनम् ब्राह्मण-भक्तेन।
- गरुड-स्तम्भं यावद् अस्पृश्यानाम् अपि मन्दिर-प्रवेश-कारणम्।
विशेष-विषये
विशेष-विषये शास्त्रं न वर्तेत,
यथा
- काञ्चीपूर्णाख्यस्य वैश्य-सिद्धस्य भगवद्-अर्चा-भाषिणो गुरुत्वार्थं रामानुजेन प्रार्थनम् (यत् तेन शास्त्रानुसारिणा वैश्येन तिरस्कृतम्)।
- गोदादेव्या भगवते स्व-निर्माल्य-समर्पणम्।
आवेशय् आपदि …
अत्यन्त-भक्ति-युक्तानां
नैव शास्त्रं न च क्रमः॥
इति श्लोको ऽसकृद् उद्धृतः।
तेन भक्ति-विवशानाम् अ-बुद्धि-पूर्वकं शास्त्र-क्रमाद्य्-उल्लङ्घनं न दोषाय कल्पते।
प्रपन्नेष्व् अबुद्धि-पूर्वकाघा न लिप्यन्तय् इति च निश्चितम्।
अ-शक्तातुर-भीतानां …
इत्यादिभिर् आपद्-धर्मा अप्य् अङ्गीकृताः।
प्रत्यक्षानुमाने
यूपादित्यादि-तादात्म्यं
प्रत्यक्षेणैव बाधितम् ।
विस्पष्ट-दृष्ट-भेदत्वात्
काष्ठ-सावित्र-बिम्बयोः ॥
- यामुन आगम-प्रामाण्ये
श्रुतोपपत्तये ऽप्य् अनुपपन्नं विरुद्धं च न कल्पनीयम्।
- रामानुजः
अप्राप्ते तु शास्त्रम् अर्थवत्। - रामानुजः
स एव शब्दानां स्वतः प्रामाण्यम्, परतोऽप्रामाण्यम् आह श्रीभाष्ये।
स एव शाङ्कर-मिथ्या-वाद-खण्डन-प्रकरणे -
आकाश-वाय्व्-आदि–भूत–
तद्-आरब्ध-शब्द-स्पर्शादि-युक्त-मनुष्यत्वादि–
संस्थान-संस्थित-पदार्थ-ग्राहि प्रत्यक्षम् ।शास्त्रं तु
प्रत्यक्षाद्य्–अ-परिच्छेद्य–
सर्वान्तरात्मत्व-सत्यत्वाद्य्- अनन्त-विशेषण-विशिष्ट-ब्रह्म–स्व-रूप–
तद्-उपासनाद्य्-आराधन-प्रकार-
तत्-प्राप्ति-पूर्वक–
तत्-प्रसाद-लभ्य-फल-विशेष–
तद्-अनिष्ट-करण-मूल–निग्रह-विशेष-विषयम्>
इति न शात्र-प्रत्यक्षयोर् विरोधः ।
“परश्-शत-परिक्षोदात्
परस्ताद् अपि वादिभिः ।
उपलम्भ-बले स्थेयं
किम् आदौ तन् न गृह्यते॥"
(वेङ्कटनाथः न्यायसिद्धाञ्जनम् जड. परि. ४)
शब्द-व्याप्तिः
शास्त्रैकगम्ये विषये
युक्तिः शास्त्र-वचनं न प्रतिषेद्धुम् अर्हति।
न हि वचनविरोधे न्यायः प्रभवति॥
प्रमाणान्तरगम्ये तु शास्त्रप्राधान्यं न वर्ततय् इत्य् अतस्
तत्र विरोधः शक्यः।
यामुनश् चाप्य् आगम-प्रामाण्ये -
योग्य-अनुपलम्भाद् अभाव-निश्चय
इति चेन् न -
प्रमाण-गोष्ठी-ज्येष्ठेन शास्त्रेणैवोपलम्भनात्।
नाप्य् अनुमानात् - तद् धि शीघ्र-जन्मागमिक-प्रत्यय-प्रक्षिप्त-प्रतिबन्धं
कथम् इव मन्थर-प्रवृत्ति प्रादुर्भवति ।
श्रुतिः
श्रुतिः प्रमाणम्।
श्रुति-वाक्ययोर् विरोधे सति
युक्त्य्-अपेक्षया श्रुति-दर्शित एव मार्गो ऽन्विष्य ग्राह्य इति -
यथा भेदाभेदश्रुत्योर् घटकश्रुतयः।
वेदस्य प्रामाण्यं शब्द-प्रमाणतमत्वं वा न तावद् अपौरुषेयत्वात्,
अपि त्व् आर्येषु शिष्टेषु प्रतिष्ठिततमत्वाद् इत्य् आह यामुन आगमप्रामाण्ये।
ब्रह्म-सूत्राणि, उपनिषदः
उपनिषदां काचिद् आवलिर् लभ्यते वैकुण्ठदीक्षितीये - TW ।
With clarity in the prameya-s in vedArthasangraha (or presumably shrI-bhAShya), there is almost no room for confusion when one encounters upaniShadic contradictions. So, it’s natural that R didn’t find a need to labor over that; and that his followers mostly feel the same. Yet, rangarAmAnuja, kUranArAyaNa etc.. have commented on some upaniShats.
For S, BS does not resolve the upaniShadic contradictions (I heard that somewhere he clearly says/ implies that the sUtra-s have to be somehow interpreted in accordance with upaniShads - ie his bhAShya-s thereof).
स्मृतिः
साधारणविचारो ऽन्यत्र द्रष्टव्यः।
स्मृतीनां काचिद् आवलिर् लभ्यते वैकुण्ठदीक्षितीये - TW । तत्र सात्त्विक-राजस-तामस-विभागो वर्तते।
पुराणापेक्षया बलीयस्त्वम्
श्रीभाष्ये “तद्-उपर्य् अपि बादरायणः संभवात्” इति-सूत्रीये
‘संकीर्ण-ब्राह्मण-मन्त्रार्थ-वाद-मूलेषु धर्म-शास्त्रेतिहास-पुराणेषु’
इति पूर्वनिपातः।
प्रपन्न-धर्म-सार-समुच्चयः -
अत एव द्वादश्यां श्राद्ध-परं पुराण-वचनम् अनादरणीयम्, स्मृतेः प्रबलत्वात्।
आगमापेक्षया बलीयस्त्वम्
प्रियाय मम विष्णोश्च
देवदेवस्य शार्ङ्गिणः ।
मनीषी वैदिकाचारं
मनसापि न लङ्घयेत्॥ +++(5)+++
(लक्ष्मीतन्त्रम् १७-९३,-९४।)
इति स्वयम् आगमश् श्रुतेर् अलङ्घ्यतां वदति।
आगमाः पाञ्चरात्रिकास् तद्-अविरोधिन एव ग्राह्याः।
नन्व् अत्र-भवतां +++(शाबर-)+++भाष्यकाराणां विरुद्धांशाप्रामाण्याभिधानं कथम् इव?
यद्य् अपि विरोधः - कृत्वा चिन्तया परिहृतस्,
तद् अपि गम्भीर-न्याय-सागरम् अवगाढुम् अपरिवृढानां कोमल-मनसां
वेदानादरो मा भूद् इत्य्-एवम्-परम्
इत्य् आगम-प्रामाण्ये यामुनेन शाबराभिप्राय-ग्रहणं वेद-बलीयस्त्वं वदति।
अत्रैव वेदस्य सुबोधतरत्वम् उक्तम्।
तच् च वेदाङ्गैस् तद्-उपबृंहणेन सिध्यतीति सुवचम्।
पाञ्चरात्रागमेभ्योऽपि (भगवच्-छास्त्रात्) स्मृतिर् बलीयसीति नडातूर्-अम्माळ्-विरचिते प्रपन्न-पारिजाते -
वर्णाश्रम-विरुद्धं यन्
मन्वाद्य्-उक्तं विशेषतः ।
स्वाधिकार-विरुद्धं च
शास्त्रोक्तं न समाचरेत् ॥ २ ॥
इतिहासौ
शब्दतः
इ॒ति॒हा॒स॒पु॒रा॒णञ्च॑ । स॒र्प॒दे॒व॒ज॒नाश्च॒ ये । सर्वा॒स्ताः ।
इति तैत्तिरीये काठके। TB.3.12.8.2a.,
ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमम् (छा.७.१.२)
“इतिहास-पुराणाभ्यां वेदान् समुपबृंहयेद्” (महाभारतम्)
इत्य्-अत्र +इतास-पूर्वनिपातेन व्याकरणोक्त-रीत्या +इतिहास-प्रमाणतरत्वम् उच्यते।
(अल्पाच्तरम् इति सूत्रे - अभ्यर्हितं च पूर्वम् इति वार्तिकम्। अपर आह - सर्वत एवाभ्यर्हितं पूर्वं निपततीति वक्तव्यम्। (भाष्यम्))
“वेदपुराणेतिहासप्रामाण्याद्” इत्यादिषु प्रयोगेषु तु -
प्राशस्त्याविवक्षायाम् अल्पाच एव पूर्वनिपातः,
अथवा “बहुष्वनियमः” इति वार्त्तिकं प्रसक्तम्।
उभय-पद-द्वन्द्वे ऽधिकाचः पूर्वनिपाते हि विवक्षाविशेषो ग्राह्यः।
विस्तारः (द्रष्टुं नोद्यम्)
“अन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च विद्याः” इत्यत्र
सरलावगतिक्रमेण +अभ्यर्हितत्वम् आन्वीक्षिक्याः त्रय्यपेक्षयेति प्रदर्शितं कैश्चित्।
निरुपाधिकाभर्थिततरत्वं न साधितम् - वेदस्यैव प्राधान्यं सर्वैर् अङ्गीकृतम् इति।
अत्र त्व् इतिहासपुराणानीति समस्तपदे तादृशार्थसङ्कोचस्य कारणं न विद्यते। अतो ऽसङ्कुचिताभर्थितत्वम् इतिहासस्य ग्राह्यम्।
अनुपाधिक-निर्देशे
ह्य् असङ्कोचो मनीषिभिः ।
“सिद्धे शब्दार्थसम्बन्ध”
इति न्यायेन कथ्यते॥
पूर्वनिपातमात्रेण निरूपितम् अभ्यर्हितत्वम् इतिहासस्य। तत्-सङ्कोचकाभावस् तु न निरूपितः। न च तन्निरूपणम् अपेक्षणीयम् - कथं खल्व् अभावो निरूपणीयः प्रत्येक-वेद-वाक्य-परिगणनाम् अन्तरा?
प्रत्युत सङ्कोचक-निरूपणम् एव तद्-वादिभ्यो ऽपेक्षणीयः।
युक्त्या
शब्दे स्पष्टे सति, युक्त्याः पात्रं नास्ति।
प्रकृत-सर्ग-विषये तत्रैवेतिहास-वैशिष्ट्यम् आह गोविन्दराजः -
पुराणं सर्ग-प्रतिसर्गादिष्व् अन्य-परम्
इति न इतिहासवत् पुरावृत्त-कथने तात्पर्यवत्।
रामायण-प्राधान्यम्
तत्रापि रामायणं प्रधानम् मन्यन्ते। यथाह गोविन्दराजः -
“इति वेदः प्राचेतसाद् आसीत्”
इति वेदमयत्वोक्त्या,
चतुर्मुख-वर-प्रदान-मूलतया च प्रबलतरः।
तेन रामायणाख्यानान्तराणि पुराण-पदम् आप्तानि वाल्मिकि-कृतेर् अपेक्षया ऽवगण्यन्ते।
पुनः, पुराणापेक्षया “ग्रन्थ-सौष्ठवाद्” (नाम लोप-प्रक्षेपाद्य्-अभावाधिक्यात्) इतिहासौ, तत्रापि रामायणम् मुख्यतरम्।
किञ्च तत्रापि प्रक्षेपास् सन्त्य् एव, यथा ऽदित्य-हृदयम् - TW।
व्यास-कृति-प्राधान्य-निराकारः
व्यासो भगवद्-अवतारः। कथं तस्य वाल्मीकेर् अपेक्षया ऽल्पतरम् प्रामाण्यम्?
इति केचित्।
बुद्धोऽपि भगवद्-अवतार एव 🙂 ।
पुराणानि च व्यासकृतान्य् उच्यन्ते।
तत्र च राजस-तामस-विभागोऽपि वर्तते ।
ततः भगवद्-वचनान्य् एव प्रमाणम् - पुराणापेक्षया + इतिहास्य प्रामाण्ये।
रामायण-भारतयोर् विवादो न भवति प्रायेण -
सत्य् अपि भारते रामाख्यानस्य सङ्क्षिप्तत्वात्
तत्र तस्याल्पतरम् प्रामाण्यं स्यात्।
अथवा रामायण-प्राधान्योक्तिस् तु विषय-प्राधान्यात् ।
रामायणे स्पष्टतरं शरणागतिशास्त्रम् प्रतिपादितम् इति तद् ग्राह्यतरम् उच्यते।
भारते तु नानाविधानां विषयान्तराणाम् उपबृंहणम्।
पुराणानि
आन्तरिकं तारतम्यम् अत्रेक्षताम् ।
आगमः
काचिद् आवलिर् लभ्यते वैकुण्ठदीक्षितीये - TW । तत्रैव शिल्प-शास्त्राणि सूचितानि।
वैखानस-पाञ्चरात्राः
नन्व् अत्र-भवतां +++(शाबर-)+++भाष्यकाराणां विरुद्धांशाप्रामाण्याभिधानं कथम् इव?
यद्य् अपि +++(श्रुत्या)+++ विरोधः - कृत्वा चिन्तया परिहृतस्,
तद् अपि गम्भीर-न्याय-सागरम् अवगाढुम् अ-परिवृढानां कोमल-मनसां
वेदानादरो मा भूद् इत्य्-एवम्-परम्,
इति यामुन आगम-प्रामाण्ये।
अत्रैव वेदस्य पाञ्चरात्रापेक्षया सुबोधतरत्वम् उक्तम्।
तच् च वेदाङ्गैस् तद्-उपबृंहणेन सिध्यतीति सुवचम्।
एवं दुबोध्यतरत्वाद्
वेदाद्य् अपेक्षया ऽवरत्वं पाञ्चरात्रस्य सिध्यति।
अन्यत्रापि -
अलाभे वेदमन्त्राणां
पञ्चरात्रोदितेन हि ।
आचारेण प्रवर्तन्ते
ते मां प्राप्स्यन्ति मानवाः ॥
पर-ब्रह्म-भूत-भगवत्-प्रीणन– तत्-तद्-अर्थ-विशेष-प्रपञ्चने हि पञ्चरात्रस्यैदम्पर्यम्,
न सद्-आचारेषु ।
इति वेङ्कटनाथार्यः शतदूषण्याम्।
किञ्च प्रमाणम् उभय-पक्षाङ्गीकृतं स्याद् इति
तानि वाक्यानि नोदाह्रियन्ते सदस्य-ग्रन्थेषु।
पाञ्चरात्रय् आन्तरिकं तारतम्यम् अन्यत्रोक्तम्।
पाशुपतादयः
यतीन्द्रमत-दीपिकायाम् -
विरुद्धांशोऽप्रमाणम्, अन्यत्सर्वं प्रमाणम् ।
पाशुपताद्यागमा अपि तथैव । …
तत्रैव व्याख्याता वासुदेवः -
तद् उक्तं सूतसंहितायाम् —
तथाऽपि योऽंशो मार्गाणां
वेदेन न विरुध्यते । सोंऽशः प्रमाणम् इत्युक्तः
केषांचिद् अधिकारिणाम् ॥इति ।
आदिना कापिलसंग्रहः ।
द्राविड-दिव्य-प्रबन्धाः
आऴ्वार्-भक्ताः दिव्यसूरयो ऽवतीर्ण-नित्य-मुक्ता इति वेङ्कटनाथार्य-शाखा।
मानुषा एवेति लोकाचार्यशाखा।
द्राविड-दिव्य-प्रबन्धा अपि वेदतुल्या एवेति प्रशस्यन्ते।
यामुन-रामानुजादिभिस् तद्-वचनानि हृदि निधाय व्याख्या रचिताः।
किञ्च प्रमाणम् उभय-पक्षाङ्गीकृतं स्याद् इति
तानि वाक्यानि नोदाह्रियन्ते सदस्य-ग्रन्थेषु।
सम्प्रदाय-रहस्य-ग्रन्था अपि तद्-आशय-निश्चायकाः।
तैः श्रुतिस्मृत्य्-अनुरोधेन तत्रत्योक्तीनां ग्राह्यतोक्ता।
Limitations
DP-s are not indispensable, there being lots of other pramANas including pAncharAtras.
If one thinks otherwise, as I said, one may have likely misunderstood exultations in AchAryas’ kAlaxepas or other works
- just like what the tenkalais do with their AchAryas’ words.
Neither do they guarantee correct understanding and practice of vedas (as proved by lokAchArya-branchers).
It’s also wrong to think that exposure to DP would have altered shankara’s perceptions. S had some exposure to pAncharAtra, but was not as interested in that as he was in the gauDapAda quasi-bauddha view. He knowingly twisted BS. No reason to think exposre to DP would’ve hindered him.
Neither R or VD state this lack of exposure as a reason. Rather, they point out how they have failed to use the shruti/ smRti/ sUtra pramANas properly.