(तत्र तत्र बलीयस्त्व-वाक्यान्य् उदाह्रियन्ते - बील्यस्-स्थाने हि, यथा वेदभागे वेदबलीयस्त्व-वचनम्, स्मृति-भागे स्मृति-बलीयस्त्ववचनम् … । )
प्रत्यक्षम् अनुमानोपबृंहितम्
अदुष्ट-प्रत्यक्ष-प्राबल्यम् अन्यत्रोक्तम् (रा)।
गुर्व्-आदेशः
साक्षाल् लब्धो गुर्व्-आदेशः - शास्त्र-विरोधे स्पष्टे सति त्याज्य एव।
एवम् पतिर् वा पिता वाऽपि सद्-आचारं न रुन्ध्यात्।
वेदाः
नाना-सम्प्रदायानां पुराणेषु (इतिहासेषु च) प्रक्षेपाणाम् अस्तित्वम् अङ्गीकृतम्। न तथा वेदेषु।
स्मृत्य्-अपेक्षया बलीयस्त्वम्
jaiminI viewed veda-s as more authoritative than smRti-s, which were considered authoritative only in so far as it does not oppose the veda-s.
श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ८
विप्रतिषेधे श्रुतिलक्षणं +++(सन्ध्याग्निहोत्रादिचोदकम्)+++ बलीयः ९
इत्य् आपस्तम्बः।
“विप्रतिपत्तौ च स्मृतीनाम् अवश्य-कर्तव्ये ऽन्यतर-परिग्रहे, ऽन्यतर-परित्यागे च
श्रुत्य्-अनुसारिण्यः स्मृतयः प्रमाणम् ;
अनपेक्ष्या इतराः ;
तद् उक्तं प्रमाण-लक्षणे —‘ विरोधे त्व् अनपेक्षं स्याद्
असति ह्य् अनुमानम्’ (जै. सू. १ । ३ । ३)इति ।
न चातीन्द्रियान् अर्थान् श्रुतिम् अन्तरेण कश्चिद् उपलभत
इति शक्यं सम्भावयितुम् ,
निमित्ताभावात् ।
… तस्मात् तस्यापि स्मृति-विप्रतिपत्त्य्-उपन्यासेन
श्रुत्य्-अनुसारान् अनुसार-विषय-विवेचनेन च
सन्-मार्गे प्रज्ञा सङ्ग्रहणीया ।”
इतर-शास्त्राणां च वेदोपबृंहकत्वं सर्व-प्रतिपन्नम्। To the extant that these other shAstra-s are consonant with veda-s, their authority is agreed upon.
“या वेदबाह्याः स्मृतयो
याश्च कांश्च कुदृष्टयः।
सर्वास्ता निष्फलाः प्रेत्य
तमोनिष्ठा हि ताः स्मृताः”
इति मनुः।
“अनादिम् अव्यवच्छिन्नां श्रुतिम् आहुर् अकर्तृकाम् /शिष्टैर् निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः // वाक्य_१।१७२ //
अविभागाद् विवृत्तानाम् अभिख्या स्वप्नवच् छ्रुतौ / भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः // वाक्य_१।१७३ //
medhAtithi commenting on manu smRti repeatedly states the greater authority of vedic injunctions in case of apparent conflicts [Eg - 4.176].
Other quotes in BG 16.
उपनिषदः
उपनिषत्सु प्रसिद्धाः प्रतिष्ठिततरास् सर्वैर् बहुमता, इतरे न।
किं च,
अष्टोत्तर-शतोपनिषदां वेदत्व-स्वीकारेऽपि
उपनिषदां मध्ये
ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तैत्तिरीयैतरेय -छान्दोग्य-बृहदारण्यक-संज्ञिकानां दशोपनिषदां वेद-गत-ज्ञान-काण्डान्तर्भावः,
न तु श्वेताश्वतर-कैवल्याथर्वशिखाथर्वशिरः-प्रभृति-उपनिषदाम् ।
वेद-गत-कर्म-काण्डानन्तर्भावस् तु स्पष्ट एव ।
मुक्तिकोपनिषद्य् आञ्जनेयं प्रतिमाण्डूक्यम् एकम् एवालं
मुमुक्षूणां विमुक्तये ।
तथाप्य् अलब्धं चेज् ज्ञानं
दशोपनिषदं पठ ।
ज्ञानं लब्ध्वा चिराद् एव
मामकं धाम यास्यसि ॥
तथापि दृढता नो चेद्
विज्ञानस्याञ्जनासुत ।
द्वात्रिंशद्-आख्योपनिषदं
समभ्यस्य निवर्तयइति श्री-राम-वाक्यानि दृश्यन्ते ।
…
“पुराण-न्याय-मीमांसा-
धर्म-शास्त्राङ्ग-मिश्रिताः ।
+++(१० उपनिषदः, + ऋग्-यजुस्-सामाथर्वाः →)+++ वेदाः स्थानानि विद्यानां
धर्मस्य च चतुर्दश”इति याज्ञवल्क्य-स्मृति-प्रथमाध्याय-वचन-प्रामाण्यात् ।
इति महाशैवमतमर्दने रामसुब्रह्मण्यशास्त्री।
मुक्तिकोपनिषदि १०८ उपनिषदः परिगणिताः, येषु १३ मुख्याः प्रसिद्धाः।
स्मृतयः
“श्रुतिस् तु वेदो विज्ञेयो
धर्म-शास्त्रं तु वै स्मृतिः”
इति मनुः।
मन्वादि-प्राधान्यम्
स्मृतिष्व् अप्य् आन्तरिकं तारतम्यम् भवति,
येनाप्रसिद्धाः स्मृतयस् सन्देहास्पदानि।
वेदार्थोपनिबद्धत्वात्
प्राधान्यं तु मनोः स्मृतम्।
मन्व्-अर्थ-विपरीता या
स्मृतिः सा न प्रशस्यते ॥
यद् वै किं च मनुर् अवदत् तद् भेषजम्,
मन्वर्थ-विपरीता तु या स्मृतिस् सा न शस्यते
इति वेङ्कटनाथः पुरस् करोति।
पुराणाद्य्-अपेक्षया बलीयस्त्वम्
पुराणेष्व् एवोक्तम् -
यन् न दृष्टं हि वेदेषु
तद् दृष्टं स्मृतिषु द्विजा: ।
उभयोर् यन् न दृष्टं हि
तत्-पुराणैः प्रगीयते ॥
- स्कन्दपुराणे प्रभासखण्डे
५.३.१२१-१२४
श्रीवैष्णवग्रन्थेष्व् एतद्-उक्तिर् अन्यत्र (रा)।
श्रुति-स्मृति-पुराणानां
विरोधो यत्र दृश्यते ।
तत्र श्रुतिर् बलिष्ठा स्याद्
द्वयोर् मध्ये स्मृतिर् वरा ॥
श्रुति-स्मृति-पुराणेषु
विरुद्धेषु परस्परम् ।
पूर्वं पूर्वं बलीयः स्याद्
इति वेद-विदो विदुः
इति व्यास-स्मृति-वचनम् ।
आचाराख्यायिकाभ्यः स्मृतेः प्राबल्यात् (वक्ष्यमाणात्),
नैस् सह वर्तमानानां विधीनाम् अपि तत्-साहचर्यात् स्मृत्य्-अपेक्षया दौबल्यम्।
आचाराख्यायिकाभ्यः प्राबल्यम्
आचाराख्यायिका इतिहास-पुराणेष्व्, आगमेष्व्, ऐतिह्येषु वोक्तास् स्युः,
शिष्टाचारेषु वा साक्षात्-कृताः।
तेभ्यस् सर्वेभ्योऽपि स्मृति-ग्रन्था बलीयांसः।
प्रमाणानि
यान्य् अस्माकं सुचरितानि- तानि त्वयोपास्यानि, नो इतराणि ।
- तैत्तिरीय-श्रुतौ शिक्षा-वल्ली॥
यत् किञ्चित् पूर्वाचार्य-कृतम्, तत्र सुचरितं ग्राह्यम्, नेतरत्।
किं सुचरितं नाम? यत् शास्त्रादि-प्रमाणैः प्रशस्तम्।
अतः, सन्देहास्पद-चरित-काव्यादिभिर् भ्रान्तैर् न भाव्यं साम्प्रदायिकैः।
दृष्टो धर्मव्यतिक्रमः - साहसं च पूर्वेषाम् ७
तदन्वीक्ष्य प्रयुञ्जानः सीदत्य् अवरः ९
इति चापस्तम्बः।
स्मृत्य्-अनुमानम्
शिष्टाचारा अनुमित-स्मृतयः।
यथा - होलिकोत्सवादिषु शिष्टाचारेषु मीमांसकैः लुप्त-श्रुति-स्मृती अनुमीयेते।
- Where the shiShTa behavior is clearly in conflict with shruti etc.., it should be deprecated according to some (eg medhAtithi on manu here ).
आचाराख्यायिकासु तारतम्यम्
इतिहास-पुराणयोस् तारतम्यम् पृथग् उक्तम्।
तद्-अपेक्षया +ऐतिह्यस्य शिष्टाचारस्य च दौर्बल्यम्।
शिष्टाचारस्य प्रत्यक्षगम्यत्वात्, ऐतिह्यस्यापेक्षया तस्य प्राबल्यम्।
Can’t guarantee integrity of pramANa in most cases. Hence lowest pramANa. Eg. ‘moovaayirappaDi guruparamapara prabhava’ has many interpolations (eg. meeting of prabodha-chandrodaya author with sankalpa-sUryodaya author VD). Also see: TW
In many cases outright kAvya-s masquerade as aitihyas, misleading later naive practitioners (eg. shankara-digvijaya-s, maNimanjarI).
इतिहासौ
प्रकृत-सर्ग-विषये तत्रैवेतिहास-वैशिष्ट्यम् आह गोविन्दराजः -
पुराणं सर्ग-प्रतिसर्गादिष्व् अन्य-परम्
इति न इतिहासवत् पुरावृत्त-कथने तात्पर्यवत्।
वेदोक्तेतिहासौ न सम्प्रति-प्रसिद्धाव् इति केचित्।
तत्-प्राग्-रूपाण्य् एवेति मन्तुम् अलम्।
तत्रापि रामायणं प्रधानम् मन्यन्ते रामानुजीयाः।
माध्वास् तु भारतम्।
तेन रामायणाख्यानान्तराणि पुराण-पदम् आप्तानि
वाल्मिकि-कृतेर् अपेक्षया ऽल्पतराणि।
चन्द्रशेखर-सरस्वती त्व् अनेन शिवरहस्यं, स्कान्दं चापीतिहास-शब्द-वाच्यम् अमन्यत! +++(5)+++
प्रमाणं तु विचारणीयम्।
पुराणापेक्षया बलम्
अत्र रामानुजीये विस्तारः (रा)।
धर्माकूतादि-धर्म-शास्त्र-निबन्धनकारस् त्र्यम्बको मख्य् अपि
इतिहासापेक्षया, स्मृत्य्-अपेक्षया च
पुराणानाम् अवरत्वम् अङ्गीचकार,
यद् रावणस्य क्षत्रियत्वम्, अब्राह्मणत्वं च समर्थयामास,
ब्रह्महत्याख्यापक-पुराणोपेक्षया।
TW
पुराणम्
स्थूल-तारतम्यम्
पुराणेषु पुनस् तारतम्यं
स्वतः पुराणैर् एवोच्यते ।
तत्र हि तामस-राजस-सात्त्विक-भेदेन ग्राह्याग्राह्यतक्ता।
श्रीवैष्णवाभ्युपगतं तारतम्यम् अत्रेक्षताम् ।
सात्त्विकेषु तारतम्यम्
पुनस् तत्रापि सात्त्विकेषु तारतम्यं कथ्यते।
यथा विष्णुपुराणं पुराणरत्नम् इति वदन्ति श्रीवैष्णवाः - कस्यचन देवताविशेषस्य स्तुत्यर्थम् अन्तरा साधारण-पक्षपातरहित-प्रश्नैर् उपक्रमात्।
एवम् भागवतम् प्रधानम् मन्यन्ते गौडीयाः - ततो ब्रह्मसूत्र-पुराणान्तर-कृतो व्यासस्य तृप्तेः।
१८ पुराणानि
मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।
अनापलिङ्गकूस्कानि पुराणानि प्रचक्षते ।।
विस्तारः (द्रष्टुं नोद्यम्)
-
मद्वयम्
- १- मत्स्य (१)
- २- मार्कण्डेय (२)
-
भद्वयम्
- १- भविष्य (३)
- २- भागवत (४)
-
ब्रत्रयम्
- १- ब्रह्म (५)
- २- ब्रह्मवैवर्त (६)
- ३- ब्रह्माण्ड (७)
-
वचतुष्टयम्
- १- विष्णु (८)
- २- वामन (९)
- ३- वायु (१०)
- ४- वराह (११)
-
अ
- अग्नि (१२)
-
ना
- नारद (१३)
-
प
- पद्म (१४)
-
लिं
- लिङ्ग (१५)
-
ग
- गरुड़ (१६)
-
कू
- कूर्म (१७)
-
स्क
- स्कन्द (१८)
एकस्मिन्नेव श्लोके अष्टादशपुराणपरिचयः।
Shiva purana is the latest entrant to the 18 purana list - replacing the much older vayu purana - post-gupta-era. As late as Harsha charita, vayu purana was in major use. In the list of 18 we have today, vayu is replaced by siva.
आगम-दौर्बल्यम्
श्रुति-स्मृत्योर् अपेक्षया ऽऽगम-दौर्बल्यं तत्र तत्रागमैर् एवोक्तम्।
वैदिकेष्व् आर्येष्व् आगमापेक्षया श्रुतेर् येनकेनचिद् अपि हेतुना प्रतिष्ठिततरत्वं निर्विवादम्।
यत्र श्रुतिस्मृत्य्-अपेक्षया ऽनन्यथाऽवगम्य-विरोधेनागमेषु विधिः,
स पूर्वम् एवार्यसमाजाद् बहिष्कृतेभ्यो विहितो ज्ञेयः।
पाञ्चरात्रागमदौर्बल्ये रामानुजीये विचारो द्रष्टव्यः (रा)।
वेद-बाह्य-विषयता
In the kUrmapurANa (various Agama-s were said to be created because some men are excluded from the veda and incapable of following it).
KūrmP_1,15.109 न वेदबाह्ये पुरुषे
पुण्यलेशो ऽपि शङ्कर ।
संगच्छते महादेव
धर्मो वेदाद् विनिर्बभौ ॥
तथापि भक्तवात्सल्याद्
रक्षितव्या महेश्वर ।
अस्माभिः सर्व एवेमे
गन्तारो नरकानपि ॥
तस्माद् वै वेदबाह्यानां
रक्षणार्थाय पापिनाम् ।
विमोहनाय शास्त्राणि
करिष्यामो वृषध्वज ॥एवं संबोधितो रुद्रो
माधवेन मुरारिणा ।
चकार मोहशास्त्राणि
केशवो ऽपि शिवेरितः ॥
कापालं नाकुलं वामं
भैरवं पूर्वपश्चिमम् ।
पञ्चरात्रं पाशुपतं
तथान्यानि सहस्त्रशः ॥सृष्ट्वा तान् ऊचतुर् देवौ
कुर्वाणाः शास्त्रचोदितम् ।
पतन्तो निरये घोरे
बहून् कल्पान् पुनः पुनः ॥
जायन्तो मानुषे लोके
क्षीणपापचयास् ततः ।
ईश्वराराधनबलाद्
गच्छध्वं सुकृतां गतिम् ।
वर्तध्वं मत्-प्रसादेन
नान्यथा निष्कृतिर्हि वः ॥
अर्थ-शास्त्रम्
बृहस्-पतिर् आह -
धार्यं मन्व्-आदिकं शास्त्रं
नार्थ-शास्त्रं कथञ्चन।
द्वयोर् विरोधे कर्तव्यं
धर्म-शास्त्रोदितं वचः ॥ १।११३ ॥
युक्ति-मात्रम्
न वचनविरोधे युक्तिर् वर्तते। विस्तारो ऽन्यत्र (रा)।
क्रमाः
श्रीवैष्णवाभ्युपगत-प्रामाण्य-क्रमः (वेङ्कटनाथशाखा) अन्यत्र द्रष्टव्या ।
शाङ्कर-प्रमाणततिर् अन्यत्रोक्ता ।
माध्वगौडीयादीनाम् अन्यत्र विचारितम्।