परिचयः
- पदार्थांशा वाक्यार्थांशाश् चात्र दृश्यन्ताम्।
अङ्गानि
- वाक्यदोषनिवारणम् (अध्याहारः, अनुषङ्गः, विपरिणामः … )
- पदच्छेदः
- यथा - रामः पद्भ्यां ग्रामं गच्छति। पद-पदांशाः - रामः, पादौ + तृतीया, ग्रामः + द्वितीया, गम् + ति।
- पदार्थोक्तिः।
- पदानाम् अर्थक्रमस्य प्राप्तिः।
- अन्वयः
- आक्षेपः
- समाधानम्
- उद्देश-विधेय-निश्चयः
पदार्थबोधः
- पदवृत्तयो ऽन्यत्रोक्ताः।
आख्यातः / तिङ्-प्रत्ययः
-
तिङि धर्मद्वयम् -
-
सामान्यधर्मः - आख्यातत्वम्
-
विशेषधर्मः - लकारः, पुरुषः, वचनम्।
-
“रामो ग्रामं गच्छति” इत्यस्मिन् तिप् एतान् अर्थान् सूचयति -
- शक्यार्थाः - वर्तमानत्वम् (लकारात्), एकत्वम्।
- आर्थीभावना/ कृतिः/ प्रयत्नः - आख्यातत्वात्।
- लक्ष्यार्थः - कर्ता।
- शक्यार्थाः - वर्तमानत्वम् (लकारात्), एकत्वम्।
-
“राम, गच्छ” इत्यस्मिन् सिप् एतान् अर्थान् सूचयति -
- शक्यार्थाः - एकत्वम्।
- आर्थीभावना/ कृतिः/ प्रयत्नः।
- शाब्दीभावना/ विधिः - लोट्त्वात्।
- लक्ष्यार्थः - कर्ता।
- शक्यार्थाः - एकत्वम्।
सर्वनाम-शब्द-व्याख्यानम्।
- पूर्वस्थपरामर्शिनः - “रामो बली। स धीरः।"।
- बुद्धिस्थपरामर्शिनः - धूमपानस्थाने - “तदस्ति वा?"।
पदक्रमः
- पाठक्रमः इति भिन्नः, अर्थक्रम इति भिन्नः कदाचित्। विशिष्य षष्ठीविभक्तौ, उद्देश्य-विधेय-भावे च क्रमो ऽवधेयः।
न्यायभाषया
शब्दबोधो नाम प्रस्तुतार्थस्य प्रकृति-प्रत्यय-विवेकेन निरूपणम् (= proof) इवास्ति।
- “रामः वनं गतवान् अस्ति।” = “रामकर्तृक-वनकर्मक-भूतकालविशिष्ट-गमनव्यापारानन्तरवर्ति-भवनानुकूलव्यापारः।”
- “गन्धवती पृथिवी।”
- गन्धवती = गन्धः अस्याम् अस्ति। यथा ऽत्र “पृथिव्याम् गन्धो ऽस्ति” इतीष्टस्यार्थस्य निरूपणं विग्रहवाक्यसहित-प्रकृति-प्रत्ययादिविवेकेन दर्शितः। तदभिव्यक्तिः वचोभिः - “पृथिवी-निष्ठा-ऽधिकरणता-निरूपित+आधेयता-ऽऽश्रयो गन्धः।”
- तले पुस्तकम्।
- तलनिष्ठाधिकरणतानिरूपकाधेयताश्रयः पुस्तकम्।
- तलस्याधिकरणतानिष्ठत्वम् तल-ङि-प्रत्यययोर् अनन्तरत्वात् ज्ञेयम्।
- पुस्तक-ङि-प्रत्यययोस् सामीप्यात् पुस्तकस्याधेयता ज्ञेया।