+२ ३ सरलमानकसंस्कृतस्य सामान्यनियमाः

  • अजन्तेषु हलन्तेषु च स्थिताः सामान्यशब्दाः प्रयोक्तव्याः, केचन सर्वनामशब्दाः च ।
  • सुबन्तेषु अधोनिर्दिष्टप्रकारकाः शब्दाः स्वीकार्याः भवितुम् अर्हन्ति - संज्ञाशब्दाः, जातिगुणवचकाः शब्दाः, ल्युट्-घञ्-अच्-क्तिन्-प्रभृतयः शब्दाः, भाववाचकाः शब्दाः, सम्बन्धवाचकाः शब्दाः, - सङ्ख्यावाचकाः पूरणप्रत्ययान्ताः च शब्दाः इत्यादयः। दशसु लकारेषु लट्-लोट्-लुट्-लकाराः प्रयोक्तव्याः । भूतकाले क्त-क्तवत्वोः प्रयोगः भवितुम् अर्हति । प्रगतस्तरे विधिलिङ्-लकारः लङ्-लकारः (उपसर्गरहितधातूनाम्) च प्रयोक्तुं शक्यः ।
  • धातुषु प्रथम-चतुर्थ-षष्ठ-दशमगणेषु (१, ४, ६, १०) पठिताः परस्मैपदिनः धातवः प्रयोक्तव्याः । अन्यगणीयानाम् अपेक्षायां सत्यां ल्युडन्तेन सह भाववाचकप्रत्यययुक्तेन अन्येन सह वा ‘करोति’ इत्यस्य प्रयोगः कर्तुं शक्यः । आत्मनेपदस्थले अपि एवमेव भवितुम् अर्हति । (औचित्यम् अनुसृत्य प्रयोगः निर्णेतव्यः) - उदा - शेते – शयनं करोति । सोपसर्गधातूनां प्रयोगतः कांश्चन एव धातून् अवलम्ब्य बहूनि क्रियापदानि निर्मातुं शक्यानि। करोति-जानाति-गृह्णाति-अस्ति-ददाति-रोचतेप्रभृतयः विशेषधातुत्वेन प्रयोक्तव्याः।
  • क्त्वा-तुमुनादयः प्राथमिकस्तरे, ल्यप्-शत्रादयः प्रगतस्तरे च प्रयोक्तुं शक्याः। ‘आगम्यताम्’ इत्यादयः वचोविच्छित्तिरूपेण (ईडियम् रूपेण) प्रयोक्तुं शक्याः। * यत्र यत्र शक्यं तत्र सर्वत्र अव्ययपदानां प्रयोगः चिन्तनीयः ।
  • प्रयोगयोग्यः स्तरः मनसि स्थापनीयः । (तदा तु अवगमनयोग्यता तु सिद्धा भवेत् एव ।) अतः शब्दानां व्याकरणनियमानां वा स्वीकरणावसरे प्रयोगयोग्यत्वं प्राथम्यम् आवहेत् । अपवादरहिताः एव नियमाः प्रशस्यन्ते । अथवा अल्पापवादयुक्ताः वा नियमाः स्वीकर्तव्याः । अपवादबहुलाः नियमाः काठिन्याय भवन्ति ।
  • ये सरलतासम्बद्धाः नियमाः चिन्त्यन्ते ते पाणिनिनियमानुगुणाः एव स्युः । पाणिनिनियमबहिर्भूतः अंशः असाधुवेन अपशब्दत्वेन च परिगण्यते। सरलसंकृते अपि स्तरद्वयं स्तरत्रयं वा चिन्तयितुं शक्यम् । ये भाषाभ्यासम् आरब्धवन्तः स्युः, तन्नाम अत्यल्पमेव भाषां जानीयुः तेषां निमित्तं परमप्राथमिकस्तरः, किञ्चिदधिकं ये जानीयुः तेषां निमित्तम् अल्पप्रगतस्तरः, इतोऽपि अधिकं ये जानीयुः तेषां निमित्तं प्रगतस्तरः चेति स्तरत्रयं चिन्तयितुं शक्यम् ।