+१३ उपनयनम्

अथोपनयनम्

पञ्चमषष्ठसप्तमवर्षेषु वसन्ते कुर्यात् । सुप्रक्षालितपाणिपादं स्वाचान्तं धृतोर्ध्वपुण्ड्रं दक्षिणत उपवेश्य, गोत्रस्य शर्मणः कुमारस्य उपनयनकर्माङ्गम् अङ्कुरप्रतिसराभ्युदयपुण्याहवाचनानि कृत्वा, अमुक-गोत्रममुकशर्माणम् उपनेष्य इति सङ्कल्प्य, “यज्ञोपवीतं पवित्र”मिति मन्त्रं सर्षिच्छन्दोदेवतम् उच्चरन्नुपवीतं धारयित्वा,

[[78]]

तन्मन्त्रं वाचयित्वाचमय्य, परिषेचनापोशनप्राणाहुतिसहितं क्षारलवणवर्जं कुमारं भोजयित्वा, चौलवत् दिग्वपनं कृत्वा, स्नातं कुमारं दक्षिणत उपवेश्य, अग्निप्रतिष्ठादिपात्रसादनान्ते अश्मानं सद्यः कृत्तं वासो मौञ्जीमजिनं दर्भानुदकुम्भं कूर्चं दण्डञ्च सकृत् सादयित्वा, आयामतः परिमाणमित्यादि आज्यभागान्ते कुमारस्य दक्षिणहस्ते पालाशीं समिधं प्रदाय,

आयुर्दा देव जरसं गृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।
घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसेनयेमम्

इति मन्त्रमाचार्य उक्त्वा कुमारमाधेहीत्युक्त्वा, कुमारेण समिधमाधाप्य, आचार्यः -

आतिष्ठेममश्मानम् अश्मेव त्वँ स्थिरो भव ।
अभितिष्ठ पृतन्यतस्सहस्व पृतनायतः ॥

इति मन्त्रमुच्चरन्, अग्नेरुत्तरतोऽश्मानं दक्षिणेन पदा तिष्ठेति ब्रूयात् । कुमारो दक्षिणेन पदाऽश्मानमास्थाय, तत्रैव अधस्तात् तिष्ठेत् । अथाचार्यः

रेवतीस्त्वा व्यक्ष्णन् कृत्तिकाश्चाकृन्तँस्त्वा ।
धियो वयं न वग्ना अवृञ्जन् सहस्रमन्ताँ अभितो अयच्छन् ।
देवीर्देवाय परिधी सवित्रे । महत्तदासामभवन्महित्वनम् ।

इति वस्त्रमभिमन्त्र्य,

या अकृन्तन्नवयन् या अतन्वत याश्च देवीरन्तानभितो ददन्त ।
तास्त्वा देवीर्जरसे संव्ययन्त्वायुष्मानिदं परिधस्त्व वासः ।
परिधत्त धत्त वाससैनं शतायुषं कृणुत दीर्घमायुः ।
बृहस्पतिः प्रायच्छत् वास एतत्सोमाय राज्ञे परिधात वा उ ।
जरां गच्छासि परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च जीव शरदस्सुवर्चा रायश्च पोषमुपसंव्ययस्व

इति तिसृभिः अभिमन्त्रितं वस्त्रं परिधाप्य,

परीदं वासो अधिधास्स्वस्तयेऽभूरापीनामभिशस्तिपावा ।
शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवन्

इत्येतया कुमारमभिमन्त्रयेत् ।

इयं दुरुक्तात्परिबाधमाना शर्म वरूथं पुनती न आगात् ।
प्राणापानाभ्यां बलमाभरन्ती प्रिया देवानाँ सुभगा मेखलेयम् ।

[[79]]

ऋतस्य गोप्त्री तपसः परस्पी घ्नती रक्षस्सहमाना अरातीः ।
सा नस्समन्तमनु परीहि भद्रया भर्तारस्ते मेखले मारिषाम ।

इति द्वाभ्यां त्रिरावृतां मौञ्जीं कटिदेशे त्रिः प्रदक्षिणं परिधाप्य, नाभिदेशे ब्रह्मग्रन्थिं कृत्वा, तं मन्त्रं वाचयेत् ।

मित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वि स्थविरँ समिद्धम् ।
अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं दधेऽहम् ॥

इति मन्त्रेण अजिनमुत्तरलोम धारयित्वा, तं मन्त्रं वाचयेत् । अग्नेरुत्तरतो दर्भान् संस्तीर्य, तेषु

आ गन्त्रा समगन्महि प्रसु मृत्युं युयोतन ।
अरिष्टास्सञ्चरेमहि स्वस्ति चरतादिह स्वस्त्या गृहेभ्यः ॥

इति मन्त्रेण कुमारं प्रत्यङ्मुखस्तिष्ठन्नाचार्यः अन्यावर्जितं स्वोदकाञ्जलिं कुमारस्याञ्जलौ तूष्णीं निनीय, तेनोदकेन

समुद्रादूर्मिर्मधुमाँ उदारदपाँशुना सममृतत्वमश्याम् ।
इमे नु ते रश्मयस्सूर्यस्य येभिस्सपित्वं पितरो न आयन् ।

इति मन्त्रेण कुमारं त्रिः प्रोक्ष्य, सकृन्मन्त्रेण, द्विस्तूष्णीं

श्लोकः -

अन्ते तु सर्वमन्त्राणां हस्तग्रहणमिष्यते ।
देवताभ्यः परीदानं रक्षणाय पृथक् पृथक् ॥

अग्निष्टे हस्तमग्रभीथ्सोमस्ते हस्तमग्रभीथ्सविता ते हस्तमग्रभीत् सरस्वती ते हस्तमग्रभीत्पूषा ते हस्तमग्रभीदर्यमा ते हस्तमग्रभीदँशस्ते हस्तमग्रभीद्भगस्ते हस्तमग्रभीन्मित्रस्ते हस्तमग्रभीन्मित्रस्त्वमसि धर्मणाऽग्निराचार्यस्तव ।

इति दशभिः कुमारस्य साङ्गुष्ठमुत्तानं दक्षिणं हस्तं गृहीत्वा,

अग्नये त्वा परि ददामि शर्मन्, सोमाय त्वा परि ददामि शर्मन्, सवित्रे त्वा परि ददामि शर्मन्, सरस्वत्यै त्वा परि ददामि शर्मन्, मृत्यवे त्वा परि ददामि शर्मन्, यमाय त्वा परि ददामि शर्मन्, गदाय त्वा परि ददामि शर्मन्,

[[80]]

अन्तकाय त्वा परि ददामि शर्मन्, अद्भ्यस्त्वा त्वा परि ददामि शर्मन्, ओषधीभ्यस्त्वा परि ददामि शर्मन्, पृथिव्यै त्वा सवैश्वानरायै परि ददामि शर्मन्,

इत्येकादशभिः प्रतिमन्त्रम् अग्न्यादिदेवताभ्यो रक्षणार्थं किञ्चिद्धस्तं प्रसार्य दत्वा, “देवस्य त्वा सवितुः प्रसवे उपनये शर्मन्” इति हस्ताभ्यामालिङ्ग्य, आत्मनस्समीपं नीत्वा, यथास्थानमुपवेश्य,

सुप्रजाः प्रजया भूयास्सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैः ।

इति तस्य दक्षिणे कर्णे जपित्वा, “ब्रह्मचर्यमागामुप मा नयस्व देवेन सवित्रा प्रसूतः” इति कुमारं वाचयित्वा, “को नामासी”ति पृच्छेत् “रामशर्मा नामास्मी”ति कुमारः प्रतिब्रूयात् । “कस्य ब्रह्मचार्यसि शर्मन्” इति पृष्टे “प्राणस्य ब्रह्मचार्यस्मी"ति प्रत्युक्ते

शर्मैष ते देव सूर्य ब्रह्मचारी तं गोपाय समामृतैष ते सूर्यपुत्रस्स दीर्घायुस्समामृत ।
याँस्वस्तिमग्निर्वायुः सूर्यश्चन्द्रमा आपोऽनु सञ्चरन्ति ताँस्वस्तिमनुसंचर शर्मन्

इत्याचार्य उक्त्वा, “अध्वनामध्वपते श्रेष्ठस्याध्वनः पारमशीय”। इति कुमारं वाचयेत् ।