अथ गर्भाधानम्
पत्न्यामृतुमत्यामृतुकाले आद्याश्चतस्रो रात्रीः विहायान्यासु द्वादशसु रात्रिषु शुभदिने कृतौपासनः - भुक्त्वा, भुक्तवत्त्या पत्न्या सह सुमनाः पाणिपादं प्रक्षाल्य, द्विराचम्य, ब्राह्मणाननुज्ञाप्य, विष्वक्सेनं सम्पूज्य, प्राणानायम्य,
[[46]]
श्रीगोविन्देत्यादि अस्यां शुभतिथौ आवयोः सत्सन्तानसमृद्ध्यर्थं फलदान, ताम्बूलदानानि करिष्य इति सङ्कल्प्य,
फलं मनोरथफलं प्रददाति सदा नृणाम् ।
पुत्रपौत्राभिवृद्ध्यर्थम् अदश्शान्तिं प्रयच्छ मे ॥
इति मन्त्रमुक्त्वा, आवयोः सत्सन्तानसमृद्धिं कामयमानः तुभ्यमहं सम्प्रददे न मम इति हिरण्यं ब्राह्मणेभ्यो दत्वा, पत्न्या सहासीनः त्रिः प्राणानायम्य, श्रीगोविन्देत्यादि अस्यां शुभतिथौ श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं, भगवत्कैङ्कर्यरूपम् अमुक-गोत्राममुकनाम्नीं मम धर्मपत्नीं गर्भाधानेन कर्मणा संस्करिष्यामीति सङ्कल्प्य,
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिँशतु ।
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ।
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजा ।
हिरण्ययी अरणी यन्निर्मन्थतो अश्विना ।
तन्ते गर्भँहवामहे दशमे मासि सूतवे ।
यथेयं पृथिवी मही तिष्ठन्ती गर्भमादधे ।
एवं त्वं गर्भमाधत्स्व दशमे मासि सूतवे ।
यथा पृथिव्यग्निगर्भा द्यौर्यथेन्द्रेण गर्भिणी ।
वायुर्यथा दिशां गर्भ एवं गर्भं दधामि ते ।
विष्णो श्रेष्ठेन रूपेणास्यां नार्यां गवीन्याम् ।
पुमाँसं गर्भमाधेहि दशमे मासि सूतवे ।
नेजमेष परापत सुपुत्रः पुनरापत ।
अस्यै मे पुत्रकामायै गर्भ मा धेहि यः पुमान् ।
व्यस्य योनिं प्रति रेतो गृहाण पुमान् पुत्रो धीयतां गर्भो अन्तः ।
तं माता दशमासो बिभर्ति(र्तु) स जायतां वीरतमस्स्वानाम् ।
आते गर्भो योनिमेतु पुमान्बाण इवेषुधिम् ।
आ वीरो जायतां पुत्रस्ते दशमास्यः ।
करोमि ते प्राजापत्यमागर्भो योनिमेतु ते ।
अनूनः पूर्णो जायताम् अश्लोणोपिशाचधीतः।
पुमाँस्ते पुत्रो नारितं पुमाननु जायताम् ।
तानि भद्राणि बीजान्यृषभा जनयन्तु नौ ।
यानि भद्राणि भद्राणि बीजान्यृषभा जनयन्ति नः ।
तैस्त्वं पुत्रान्विन्दस्व सा प्रसूर्धेनुका भव ।
काम (प्र) समृद्ध्यतां मह्यमपराजितमेव मे ।
यं कामं कामये देव तं मे वायो समर्धय ॥
इति गर्भाधानमन्त्रं जपित्वा, पत्न्या सह संविशेत् ॥
[[47]]