बहुशः स्वाभाविकः। अतो नाप्क्ष्यन्ते बहूनां नियमानां स्मरणम्।
वर्ण-व्यत्यय-विचारो ऽन्यत्र। विस्तारो अत्र ।
नित्यता
संहितैकपदे नित्या
नित्या धातूपसर्गयजोः।
नित्या समासे वाक्ये तु
सा विवक्षामपेक्षते॥
अस्याः कारिकायास् स्वाभीष्टा प्रतिपत्तिर् इत्थम् -
- सन्धि-करणम् अकरणं वा
मूलतो भाषणस्य विचारो,
न तावल् लेखनस्य।
यत्राविरामेण कथनम् भवति,
तत्र सन्धिर् भवेद् एवेत्य् आशयो व्याकरणस्य।
सन्धिं विना वाक्यसंस्कारो ऽपूर्ण एव -
विसन्धि-भाषणं चास्वाभाविकं क्लिष्टम् इति।- लेखने सन्धि-दर्शन-योग्यता ऽन्यत्र चर्चिता।
- वाक्यभेदे, वाक्य-खण्डभेदे च विराम इष्टः - नाम विवक्षितः।
तादृशे स्थले सन्धिर् मास्तु।
यथात्र लक्ष्मीपुरश्रीनिवासप्रबन्धे-अयम् एव हि कर्म-योगः
अधिकारि-भेदेन ज्ञान-योगं द्वारी-कृत्य, अद्वारीकृत्य वा, … - अन्यत्र तु विरामोऽनिष्टो ऽविवक्षित एवेति तादृशे स्थले सन्धिर् अवश्यम् अस्तु।
अत्र हरिनारायणभट्टः -
“विवक्षाधीनं सन्धिकरणमिति वैकल्पिकत्वस्याशयः। … श्लोके, श्लोकार्धे श्लोकान्ते च विरामो भवतीति, तत्र वाक्ये सर्वथा सन्धिकरणमेव श्लोकरूपेण पठनसौकर्याय प्रभवति। एवमेव, भाषणे विरामादिसूचकान्येव वाक्यांशबोधकतया प्रयोक्तुं शक्यन्ते, यथा भाषान्तरेषु — इति हेतोः, विरामादिचिह्नं विना सन्धिरहितः प्रयोगो भाषणे पठने चासौकर्याय भवतीति व्यवस्था लेखनेऽपि युज्यत एव। … "
संज्ञा
सुलोपः
- एतत्तदोः सुलोपोकोरनञ्समासे हलि (6.1.132)
- स खलु, एष हि। सुग्रहणं किम्? एतौ गावौ चरतः।
- अकोः इति किम्? एषको ददाति। सको ददाति।
- अनञ्समासे इति किम्? अनेषो ददाति। असो ददाति।
- स्यश्+++(←त्यद्)+++ छन्दसि बहुलम् ।
- एष स्य ते पवत इन्द्र सोमः।
- सोऽचि +++(लोपः)+++ - लोपे चेत् पादपूरणम् ।
- सेदु राजा क्षयते चर्षणीनाम्। सौषधीरनुरुध्यसे।
- पादपूरणम् इति किम्? स इव व्याघ्रो भवेत्।
ऋकारः
- “ऋति सवर्णे ऋ वा” इति वार्तिकम् आश्रित्य “होतृ-ऋकारः = होतृकारः”। एवं “ऌति परे ऌ वा”।
आर्षप्रयोगः
- ईदृशः सन्धिः महाभारते वारं वारं दृश्यते । “सेन्द्रापि देवा यदि ते सहायाः,” “कामं देवापि मां विप्र” इत्यादि ।