आनन्द-तारतम्यम्

(प्रयासादि-भेदेन) मुक्ताव् आनन्द-तारतम्यं ब्रुवते।

स्वरूपानन्दः

स्वरूपानन्देऽपि -

अ-मुक्तस्य स्व-रूपानन्दः बहुतरं न व्यज्यते।
मुक्तौ स एव आविर्भवति।
संसारे दुःखम् अप्य् अस्ति,
मुक्तौ दुःख-स्पर्शोऽपि नास्ति॥
अ-मुक्तस्य सुखस्य विच्छित्तिर् भवति, मुक्तस्य न।

मुमुक्षा-सार्थक्यम्

तथापि मुमुक्षा सार्थकेति -

मोक्षस्य पुरुषार्थत्वं च
स्वस्य मुक्तामुक्त-आनन्दयोः भेदे भवति,
अन्यस्य मोक्षानन्द-तुलना न प्रयोजिका।

आनन्द-वल्ल्याम्

किञ्च, आनन्द-वल्ल्यां ब्रह्मण एवानन्दः श्रोत्रियस्याकामहतस्योक्तः। तत् केवलम् अर्थवादं मन्यन्ते।

अस्माकं सिद्धान्तः एवमस्ति -

आनन्द-मीमांसा-प्रकरणे (तैत्तरीये बृहदारण्यके च)
मुक्तौ आनन्द-तारतम्यम् निरूपितम् ॥
“अकामहतस्य” इति विशेषणात्
इदं तारतम्यं मुक्तानाम् एव इति ज्ञायते।
अन्येषां संसारावस्थायां काम-हतत्वम् एव (काम्यस्य कदाचिद् अ-प्राप्तिः) दृष्टम्।
काम-राहित्यस्यैव अयम् व्यपदेशः भवितुं नार्हति। तथात्वे ‘अकामस्य’ इत्येव स्यात्। हत-शब्दः व्यर्थः।

तथा हि बृहदारण्यकोक्तस्य ‘अवृजिनस्य’ इत्यस्य मुक्ताव् एव मुख्यार्थः भवति।
एवं ‘श्रोत्रिय’-शब्दस्यापि (आचार्यैर् महाभारत-वाक्यम् उदाहृतं)।

एवं आगम-निरूपतोऽयं आनन्द-तारतम्य-पक्षः
‘साधन-भेदेन साध्ये भेदः’ इति युक्त्या ऽपि समर्थितो भवति।

किञ्च, अस्मन्-मते अर्थवादस्य बाधकाभावे
स्वार्थे तात्पर्यं स्वीकृतम् एव (यद् यपि अद्वैतिनः नाङ्गीकुर्वन्ति)।

कस्यचिन्मुक्तस्य +प्राकृतस्येन्द्रस्य यावान् एवानन्द इत्य् उपपन्नम्? (“ते ये शतन् देवाना॑म् आन॒न्दाः - स एक इन्द्र॑स्यान॒न्दः - श्रोत्रियस्य चाकाम॑हत॒स्य । “) सर्वस्यापि मुक्तस्य ततोऽधिकम् एव स्याद् इति न मन्यध्वे??

स्वस्य अमुक्तामुक्तानन्दयोः तुलना कर्तुं शक्यते।
एकस्य मोक्ष-सुखस्य अपरस्य संसार-सुखेन सह तुलना अशक्या क्लिष्टा वा।
तथापि क्रियते चेत्, अ-मुक्तेन्द्रस्य मुक्त-मनुष्यापेक्षया आनन्दाधिक्यं स्वीकृतमेव।
मोक्षानन्दः सर्वेषाम् अ-मुक्तानां आनन्दाद् अधिको भवेदेव इति नियमः नास्ति अस्मन्मते, अप्रामाणिकत्वात्।