प्रमाणानि
समाधि-भाषा-शब्देन व्यासादिभिस् समाधौ दृष्टं विशिष्य सिद्धान्तजातम् उच्यते।
समान-ग्रन्थे समाधि-भाषाणां प्रामाण्यं, नेतरासाम् ।
तद्-विवेकार्थम् आचार्यैर् नाना युक्तय उक्ताः।
तासां विद्वान् विद्वद्-दशा-वर्ती।
विविदिषा-दशायाम्
वेदाः, ब्रह्मसूत्राणि, तद्-अविरुद्धानि जैमिनिसूत्राणि, भगवद्-गीता, भागवतम् > सर्वम् अन्यत् स्मृति-सहितम् > शैवाद्य्-आगमाः।
विद्वद्-दशायाम्
सच्छास्त्राणि सर्वाणि व्यास-भगवद्-रचितानि > स्मृतयः (अवैयासिकत्वात्) > शैवाद्य्-आगमाः
सन्देहनिवारकत्व-स्पष्टत्वादिभिर् निर्णीयते।
ज्ञानम्
स्वविषयकं ज्ञानमेव निर्विशेष इति पूर्णानन्दार्यः।
किञ्च - स्वविषयकतेति विशेषे सति कथं निर्विशेष-शब्द-वाच्यता?
पुनः, निर्विशेषस्य ज्ञानं निर्विशेषज्ञानम् इति विग्रहश् चेत्, किं तन् निर्विशेषं वस्तु?
भेदाभेदः
सच्-चिद्-आनन्दात्मकम् ब्रह्म।
शाङ्करोक्ता माया तु निराक्रियते।
ब्रह्मणश् चिद्-अंशाद् आत्मोद्भवति।
bhedastu bhavadiccʰā-mātra-mūlakaḥ.
bahu syām iti ichhā vartate ataḥ bhedopi vartate.
bheda-sahiṣṇur-abhedaḥ = tādātmyam।
ततो ब्रह्मांशो जीवः (=अक्षरांशः) - तेनाद्वैतम् ।
akṣaro nāma kūṭasthapuruṣaḥ avyaktākhyaḥ।
jīvamātrasya mūlasvarūpam akṣarāṁśarūpam.
ye tvakṣaram anirdeśyam …
acintyam kūṭastham acalam dhruvam
जगद् आधिभौतिकम् ब्रह्मेत्य् उच्यते।
अविकृत-परिणामवाद
अत्र अविकृत-परिणामवाद इति किम् अप्य् अतृप्तिकरम् उच्यते -
ब्रह्मणि विरुद्ध-धर्मौ भवतः - तस्याचिन्त्य-शक्तेर् इति।
तत्त्वतो ऽद्वैते ब्रह्मणि दोष-प्रसक्तिः।
अतो द्वैतम् मन्तव्यम् -
“अद्वैतम्” एकस्माद् अन्यस्य +आविर्भावनाद् उक्तम् इति च।
विरुद्ध-धर्माश्रयो ब्रह्म
sarvaviruddhadharmāṇām āśrayo brahma।
yad loke viruddham tad brahmaṇi aviruddham.
bhagavati virodho nāsti -
न हि विरोध उभयम् iti bhāgavata-vacanād।
एवं जीवे ऽपि - ब्रह्मानुभवात् परम् अणुत्वे सत्य् अपि व्यापकता ।
मुक्ति-क्रमः
जीवेषु भेद-त्रयम् - +++(संसार-)+++प्रवाह-जीवाः, +++(नव-विध-भक्ति-)+++मर्यादा-जीवाः, पुष्टि-जीवाश् चेति।
भगवद्-अनुग्रह एव मुक्ति-हेतुर् उच्यते - प्रेमादौ पुष्टिं जनयित्वा।
ततो भक्तिर् विकसति।
ब्रह्म-सम्बन्धः
तनू-नवत्वम् = dehendriyāṇām asminneva janmani bhagavat-sevopayogikatvam।
divyatvam ādhīyate bhagavad-bhāva-saṁskṛte jīve.
व्यसन-दशा
यद्-अन्तिम-दशायां व्यसनाख्यायां भगवद्-विरहो न सह्यतेतमाम्।
niravadhika-bhajanānandānubhavaḥ अस्मिन्न् अपि शरीरे तेन सम्भवति - यथा गोपिका-प्रह्लाद-निभेषु।
बद्ध-दशायाम् अणुर् जीवः।
ब्रह्मानुभवे त्व् अणुर् अपि व्यापकः।
मुक्तावस्था
yathādhikāraṁ yathākarma bhinnair jīvair bhinnaṁ phalam.
मर्यादा-मार्गीय-मोक्षः
sāyujyādi-pañcakaṁ maryādāmārgīyamokṣaḥ.
सायुज्यमात्रम्
केचिज् जीवा निरिन्द्रिया भगवति लीना भवन्ति - एकाकार-वृत्तिस् तत्र।
ततो न कश्चन पृथग् अनुभवः।
apunarjanmarūpamokṣaḥ tatra.
तर्ह्य् एकया दृष्ट्या जीव-नाश एव।
इदम् प्रायेणानिष्टम्।
“ata eva punarjanma varaṁ na tu तादृशो mokṣaḥ” इति वदन्ति
परम-फलम्
मुक्ति-स्वरूपं मृतेः परं सेवोचित-शरीरान्तरं लब्ध्वा
भगवता सह लीला-रसनं हि परा मुक्तिः।
puṣṭimārgīya-mokṣo nāma = tanunavatva-prāptau sati
nirantarita-niravadhika-bhajanānandānubhavaḥ।
mokṣepi līlātmako bhedaḥ।
indriyāṇi api vaikuṇṭhe ānandātmākāni.
bhedastu indriye sati sevākaraṇe bhavati.
ānanda-prakāraḥ
puruṣottamasya ānandaḥ kasyāpi जीवस्य na bhavati. puruṣottamānande dharmirūpatā.
sarveṣāmapi prāpta-mokṣāṇām akṣarānandaḥ.
akṣarasya dharmarūpatā.
puruṣottamasya ānanda eva dharmarūpe sati akṣara ucyate.
ānanda-tāratamyaṁ इह लोके asti.
mokṣe sarveṣām akṣarānandatā bhavati।
yo veda nihitaṁ guhāyāṁ parame vyoman
sośnute sarvān kāmān
saha brahmaṇā vipaścitā
इति तैत्तिरीये।
atrāpi bhajanānanda eva mukhyaḥ.
gṛhe bhagavat-sevāyāṁ ya ānando’nubhūyate sa eva mokṣaḥ