प्रामुख्य-तारतम्यम्
anAchAra resulting from misunderstanding vidhi and tyAga is the most serious part।
These other issues (status of lakshmi, kaivalya, vyApti), though, add to the arrogance and intransigence of anAchAra-para-s if ignored।
प्रमाणम्
वेङ्कटनाथशाखाऽभ्युपगतः क्रमो ऽन्यत्रोक्तः।
लोकाचार्य-शाखायाम् -
अदुष्टम् प्रत्यक्षम् > ऐतिह्यानि > शिष्टाचारः > वेदाः, ब्रह्म-सूत्राणि > स्वेष्टा वैष्णवा आगमाः, द्रविडगाथाः, रहस्य-ग्रन्थाः > इतिहासौ (रामायणं विशिष्य) > सात्त्विक-पुराणानि (विशिष्य विष्णु-पुराणम्) > स्मृतयः > राजस-तामस-पुराणानि, इतरागमाः।
लक्ष्याणि
तत्र स्मृत्य्-अपेक्षया ऽऽगम-परत्वे तद्-भगवत्-प्रणीतत्वम् उच्यते कारणम्।
वृद्ध-हारितादि-स्मृति-विरोधेन वैश्वदेवाकरणे काचनाप्रसिद्धा “वासुदेवसंहिता” पुरस् क्रियते।
तद्-ऐतिह्य-समर्थनार्थं पुराण-स्खालिध्यानि क्वचिद् दर्शयन्ति।
(देवहूत्या स्वपुत्र-कपिल-नमस्क्रिया, पराशरभट्टस्य तन्-मात्रा वन्दनस्योत्थम्भनाय यथा। )
ऐतिह्य-पात्रम्
“यान्य् अस्माकं सुचरितानि, तानि त्वयोपास्यानि, नो इतराणि”
इति श्रुतिम् उपेक्ष्य लोकाचार्यानुगाः -
रामानुजार्य-दिव्याज्ञया यत् किञ्चिद् अपि कर्तव्यं
विचारणं विना तत्कर्म वयं कुर्मः ।
यदि तदनिष्टं तर्हि रामानुजार्याः तस्मिन्न् एव दिने निवारयन्ति स्म ।
इति कारणाज्ञानं कथयन्ति।
एतत् सर्वं चरमोपायनिर्णयः , चरमगुरुनिर्णयः , अन्तिमोपायनिष्ठा इत्यादिषु ग्रन्येषु ज्ञायते । रामानुजरहस्यत्रये परमस्पष्टतया ज्ञायते ॥
इति केचित्।
These books are just collection of aitihyams unlike rahasya granthams। Not absolute pramana। Some vks doubt their authenticity claiming they came post १७th century and were attributed to earlier authors to get legitimacy।
वैशेषिकाः कथयन्ति -ईश्वरस्य सिसृक्षावशात् परमाणुषु क्रिया ततो विभागक्रमेण सृष्टिः
एवं तस्य संजिहीर्षावशात् प्रलय इति।
तद्वद् एव ईश्वरस्य संप्रदायरक्षणेच्छया देशिकग्रन्थानामुत्पत्तिः,
संजिहीर्षावशात् वितथैतिह्यप्रमाणात् संप्रदायस्य नाशः।
इति शठकोपतातार्यः।
One such dubious aitihyam, regarding nADAdUr ammAL, used by them is this - They cancel prapanna parijatam and other works of his telling that they were meant for lower prapanna adhikaris on the basis of this -
प्रयाणकाले चतुरः स्वशिष्यन्
पादान्तिक-स्थान् वरदो ऽथ वीक्ष्य । भक्तिप्रपत्ती यदि दुष्करे वो
??रामानुजाय नम इत्य् अवादि?? ॥
प्रपत्तौ
प्रयोग-विचारो ऽन्यत्र ।
सङ्ग्रहः
तत्र पूर्वपक्षाक्षेप-क्रमः -
- प्रपत्तिर् नानुष्ठेयेवेति क्वचिल् लोकाचार्योद्गारः - “श्रीवचन-भूषण-महा-शास्त्रत्तिलेय्” इति यत्र प्रशंसन्ति, तत्रत्य-१८२-१८३-सूत्रयोः??।
- तत्राक्षेपः - व्याजनिरपेक्ष-मोक्षदाने वैषम्य-नैर्घृण्ये भवतः।
- सम्बन्ध-ज्ञानमात्रं व्याजः इति परिहारः।
- तत्राक्षेपः - इदं शाङ्कर-शब्द-जन्य-ज्ञान-निभं न शास्त्र-सिद्धम्, न च युक्ति-सिद्धम्। ज्ञानम् अतिरिच्य क्रिया तु प्रमाण-सुलभा। विस्तारोऽन्यत्र।
- रक्षणय् अनिवारणम् अपेक्षितम्।
- तत्राक्षेपः - निवारयन्तोऽपि पशु-शिश्वादयो रक्ष्यन्ते हि।
- अत्राक्षिप्ते केचिद् “रामानुजेनास्मत्-पक्षतः प्रपन्नम्” इति परिहरन्ति।
- तत्राक्षेपः - नानेन लोकाचार्योक्त-दोष-निवृत्तिः। न च शास्त्र-प्रमाणं विद्यते ऽजातस्य +अनिश्चिताङ्गसौष्ठवस्य प्रपत्ति-प्रयोगः। ऐतिह्य-मात्र-मूलम् इदम्।
- भरसमर्पण-समये हि रक्षामात्रं याचामहय् इति ततः।
- तत्राक्षेपः - साधारणरक्षा तु पूर्वम् एव सिद्धा।
अनुष्ठेयता
अपचार-बुद्धिः
मोक्षार्थ-प्रपत्तिर् नाम कर्मावश्यं न करणीयम् - अपचारो भवतीति, स्वरूप-विरुद्धम् इति च केचित्।
लोकाचार्य-वचनम् उदाहृत्य तिरस्करोति वेङ्कटनाथार्यो रहस्यत्रयसारे।
विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः
In rahasya granthas they tell bhakti is svarupa viruddha and tell prapatti is in accordance with ones nature। In aitihya-granthas they go १ step ahead and tell prapatti itself is svarupa viruddha। This itself exposes inconsistencies।
अ-विधेय-ज्ञान-मात्रम्
प्रपत्तिम् अ-विधेय-ज्ञान-मात्रम् मन्यन्ते केचित्। यथा -
“त्वम् एवोपायभूतो मे
भवेति प्रार्थनामतिः ।
शरणागतिरित्युक्ता”
(अहिर्-बुध्न्य-संहिता ३७-३१)।
एवं किमपि फल्गु वदन्ति -
भगवदाश्रयणमेव अत्र उपायान्तरत्वेनोच्यते ।
तन्निष्कासनमेव आकिञ्चन्यम् ।
सम्बन्ध-ज्ञानम् अपि नापेक्षितम्, सम्बन्धेनैवालम् इति
अचिद्-द्रव्येषु पशु-मृग-पक्ष्य्-आदिषु स्तनन्-धयेषु च दृश्यतय्
इति प्रति-युक्तिर् वेङ्कटनाथार्यस्य।
अथवा “युक्तिं त्यक्त्वा शास्त्रं दर्शय” इत्य् उक्तौ
केचिद् वैष्णवत्व-सम्पादन-प्रशंसकादीनि वाक्यानि,
परम्परया मोक्ष-फलं यानि सूचयन्ति,
तानि कानिचिद् वदन्ति।
तन् न ग्राह्यम् - रथ-दर्शनादिष्व् अतिव्याप्तेः, तच् चापसिद्धान्तस् तेषाम्।
“शरणं व्रजे"त्यस्य “सम्बन्ध-ज्ञानं लभस्वे"ति नार्थः।
तत् सम्पादयितुम् वाक्य-लक्षणा ऽपेक्षिता स्यात्।
सा च शङ्करेण कृता रामानुजेन खण्डिता - अनपेक्षितम् इति।
शब्दवृत्तेः, पद-लक्षणायाश् च क्रमशस् त्यागस्य कारणं न दृश्यते।
“भूयसान्यायत्तैप् पार्त्तालुम् सात्यकितन्त्रलक्ष्मीतन्त्राहिर्बुध्न्यसंहितादिगळिल् प्रपत्त्य्-अध्यायङ्गळिले निक्षेपम् अङ्गियॆण्ड्रे प्रसिद्धम् … तत्प्रकरणत्तिल् प्रधानमागच्चॊन्न भरन्यासपर्यन्तमॆन्नुमिडम् अवधारणसहकृतोपायशब्दत्ताले व्यञ्जितम्। ओरॊरु विवक्षैगळाले अङ्गङ्गळै प्रधानमागच् चॊल्लुगै लोकत्तिलुमुण्डु।”
इति वेङ्कटनथर्येण परिहृतम्।
रामानुज-प्रपत्ताव् अन्तर्भावः
रामानुजस्य सानुग-प्रपत्तेः परम्, तत्-सम्बन्धतस् तत्-प्रशिष्यादीनाम् अपि मोक्षार्था प्रपत्तिर् जातैवेति।
“भगवच्-चरण+अरविन्द-शरणागतिर् ॥। अस्तु मय्” इति शरणागति-गद्ये “तयैव सर्वं सम्पत्स्यते” इति लक्ष्मी-वचनस्य व्याख्याने “तत्सम्बन्धसम्बन्धिनिस्तरणमपि सर्वशब्दाभिप्रेतम्” इति सुदर्शन-भट्टः । तावता निस्तरणार्थ-प्रपत्तिर् नापेक्षितेति केचित्। (किन्तु “भगवच्-चरण-शरणागती रामानुज-सम्बन्धि-सम्बन्धीनाम् अप्य् अनुगृहीतम्” इत्य् अभिप्रायो भाति।)
नम्पिळ्ळै-शिष्य-सङ्गृहीतय् ईडु-ग्रन्थ उक्तम् -
इवर् पण्णिऩ प्रपत्तिये नमक्क् ऎल्लाम् । तऩित्तु वेण्डा । इप्पासुरत्तै सॊल्लि फलत्तिल् अन्वयिक्कुम् अत्तऩै । नऱ्कऩ्ऱुक्किरङ्गिऩदु तोल्गऩ्ऱुक्कु इरङ्गुमाप् पोले,
इवरै निऩैत्तु इप्पत्तुङ् गऱ्ऱार् बक्कलिलुम्
ईश्वरऩ् प्रसन्नऩ् आम्।
आचारे तिरस्कारः
किञ्च +ईडु-ग्रन्थस्थोद्गारैकदेशा न प्रमाणम् - अखिल-ग्रन्थोक्तीर् अकलय्यैव तद्-आशयो निर्णेतव्यः। (तच्छिष्येण तद्-अनुज्ञाम् अन्तरैव सङ्गृहीतः स ग्रन्थ इति च न विस्मरणीयम्।)
अन्ततः तेष्व् आत्म-रक्षा-भर-समर्पणम् अङ्गीकृतम्, अनुष्ठीयते चेति,
अन्येथा-प्रवादो भ्रम इति तदीय-विद्वांसः ।
अभीप्सितो ऽर्थः
प्रपत्तौ गोप्तृत्व-वरणम्/ स्वाभिप्राय-निवेदनम् अङ्गम्।
रामानुज-सम्बन्धतो “रक्ष (मोक्षं देहि)” इति प्रपत्तिर् भवतीति भावना।
रक्ष्यत्वेनात्मसमर्पणम् भवति प्रायेण,
न निगदित-समये मोक्षयेति।
तत् तु शरणागतिगद्य वचनेन वाचनेन वोह्यतय् इति केचित्।
किञ्च, तादृशो मनोभावो ऽविकलश् चेत्
वाग्-रूपेणाप्य् आविर् भवेत् - न तु तथा दृश्यते।
परम्परया रामानुज-कृत-स्व-स्वीय-रक्षणार्थ-प्रपत्ताव् अस्मद्-अन्तर्भावः प्रार्थ्यत इति केचित् TW ।
समाश्रयणमात्रेण सिद्धस्य साधनं कुत इति तु विचारणीयम्।
अथवा महाविश्वासोपबृंहणार्थं रामानुज-शरणागतौ श्री-वचने “तया +एव सर्वं सम्पत्स्यते” इत्यत्र “स्व-सम्बन्धि-सम्बन्धि-निस्तरणम्” इति सुदर्शन-भट्टेन व्याख्यातम् स्मरन्तीति भाव्यम्।
किञ्च - प्रयोगं दृष्ट्वैव निश्चेतव्यम् - भाषण-लेखनादीनाम् अतिवाद-प्रावण्यात्।
अनुष्ठानम्
समाश्रयणसमये द्वयोच्चारणानूच्चारणाद्य् एव प्रपत्तिर् (साऽपि न साक्षान्-मोक्षार्था) इति केचित् (TW](https://youtu.be/Pj4AJhK_2wA?t=1262)
)।
तत्र भाष्यकृता शरणागतिगद्ये क्रमशो लक्ष्मीप्रपत्तिः, ततः द्वयवचनम्, दोषक्षमायाचनम्, भक्ति-मिक्ति-प्रार्थनम् … इति यः क्रमो दर्शितः, सोऽपि तत्रान्तर्भवतीति केचित्।
अनुष्ठानविचारो ऽन्यत्रोक्तः।
भेदोद्गम-क्रमः
(इदं श्रीवास-प्रश्नोत्तरे नडादूर्-करुणाकराचार्येणोहितम् )
Historically some acharyas preferred to do bharanyasam post kalakshepam so that the shishya knows what’s happening। One other group decided to do with ५ samskaram, as it is easier to get done with it at once। Life expectancy was low back then। In due time it became frozen।
रामानुज-सम्बन्धापेक्षा
रामानुजसम्बन्धम् अन्तरा ऽपि मुक्तिर् भवति।
तद्-अर्थम् एव ७४ सिंहासनाधिपतयो नियुक्ताः।
इति लोकाचार्यसम्प्रदाये प्रचुरा भावना।
तन् न नियत-रीत्यापेक्षितम् -
यतः, रामानुजात् प्राग् अप्य् आसन्नेव प्रपन्ना, भक्ताश् च।
७४ सिंहास्नाधिपतयः समाश्रयणदानेन लोकान् उपकर्तुं विशिष्य रामानुजेन लब्धा योग्याः नियुक्ताः …
तान् अन्तरा लोके वैष्णवीकरणसमर्था नासन्न् इति न गम्यते खलु?
यथा वैखानसा अपि भरन्यासादि कुर्वन्ति - ते प्रायेण ततो बहिर्भूताः।
इति देशिकसम्प्रदायिनः।
रामानुज-सम्बन्धतो मोक्षं देहीति प्रपत्तिर् याच्यतय् इति भावना।
(किन्तु, तस्यापि काऽपेक्षा यदि भगवान् एव स्वतः सर्वं करोति?
गद्य-वाक्य-पठनेन किम् फलम्?)
दोष-भोग्यता
- दोषान् गुणवद् देव-भोग्यान् मन्यन्ते।
- लोकाचार्यः परन्दप्-पडि-प्रबन्धे - “वात्सल्यम् आवदु – वत्सत्तिन् पक्कल् तेनु इरुक्कुम् इरुप्पु; अद् आगिऱदु अदनुडैय दोषत्तै भोग्यम् आगक् कॊळ्ळुगैय् उम् …”
- समाश्रयणसमये एव प्रपत्तिर् अपि काचित् क्रियत इति केचित्। तत्-पक्षे, केचिद् दोष-भोग्यत्वम् प्रपत्तेः पूर्वम् एवेति मन्यन्ते। एषा व्यवस्था तु साक्षाल् लोकाचार्योक्तिषु न व्यक्ता। कथम् इदम् अनुमानम् इति मृग्यम्।
कर्म-स्वरूप-त्यागः
गीतायां “सर्व-धर्मान् परित्यज्य …” इत्यादाव् अङ्ग-प्रपत्तिम् एवोक्ताम् मन्वते लोकाचार्य-सम्प्रदाये।
चरम-श्लोके
यद्य् अपि रामानुजेन गीता-भाष्ये चरम-श्लोक-व्याख्याने
नित्य-कर्मणां स्वरूपतस् त्यागो निराकृतः,
तद् अङ्ग-प्रपत्ति-पक्षय् एवेति लोकाचार्य-सम्प्रदाये।
भक्ति-योगय् अशक्तस्यार्जुनस्य शोकस्य शमनायोक्तत्वाद्
रामानुजेन +भक्ति-योगाङ्ग-प्रपत्ति-परम् एव व्याख्यातं गीता-भाष्ये,
वेङ्कटनाथार्येण तादृशम् एव चोपबृंहितम्।
अन्यत्र तु रामानुजेन शरणागति-गद्ये
स्वतन्त्र-प्रपत्तिपरं व्याख्यातम्,
कृष्णोक्त-प्रपत्ति-बलस्य प्रमाणान्तर-सह-कृतस्याधारेण।
तत्र प्रपन्नस्य कृत-कृत्यस्य मोक्षय् धर्मान्तर-निरपेक्षत्वं पुरस्-कृतम्।
तस्याश् च प्रपत्ते रामानुजानुष्ठितत्वात्
नानुकूल्यसङ्कल्पाद्य् अप्य् अपेक्षितम् इति केचित्।
कर्मानुष्ठान-श्रद्धा ह्रासिता
- वैश्वदेवं न कुर्वन्ति।
- शुद्ध-सत्त्व-वरदाचार्यः - सद्-अनुष्ठान-दर्पणः - वासुदेव-संहितायाम् - मद्-यागानन्तरं देवि वैश्वदेवं विना रमे। अनुयागस् तदा कार्यः परमैकान्तिभिर् द्विजैः॥ (निवेदितम् एव वैश्वदेवे प्रयोक्तव्यम् इति।)
- कारणानि नानोच्यन्ते -
- दोषाणां भोग्यत्वं तद्-आचार्यैर् उक्तम्।
- परमैकान्तित्व-विरोध इति।
अर्चाकैङ्कर्ये कृते सन्ध्यावन्दनादि-त्यागम् (न केवलं विलम्बम्) अप्य् अङ्गीकुर्वन्ति ।
Cognitive dissonance
A set of tenkalais take acharya hrdayam like texts too seriously। When you do that (where they talk about identifying with Azhvar gotra and not Rishi gotras) and not giving due importance to karma, but still continue to hold on to varna in practice - you have a dissonance।
सन्ध्यावन्दनवेलायाम्
मुक्तोहम् इति कथ्यते।
भिक्षावन्दन-वेलायां
दण्डम् आदाय धावति॥
(इति यादवप्रकाशः। )
भगवद्-गुणाः
न युक्ति-मात्रं गुणेषु प्रमाणम्।
दुःखम्, दया
लोकाचार्यानुगाः वदन्ति -
पर-दुःख-दुःखित्वं दया -
तेन दुःख-मिश्रत्वं भगवतोऽपि स्वरूपगतम्!
तद् वल्मीकिना (“भृशम् भवति दुःखितः”) पराशरभट्टेन (पर-दुःख-दुःखित्वं दयेति) चोक्तम्।
“आनन्दमयो ऽभ्यासाद्” इति सूत्रे च प्राचुर्य उक्तो मयट् ।
स्रोतांसि (द्रष्टुं नोद्यम्)
करुणा परदुःखासहिष्णुत्वम्
इति पराशरभट्टो गुणरत्नकोशे।
रङ्गराजस्तवे च -
“दया परव्यसनहरा…”,
“दयाऽन्येषां दुःखाप्रसहनम् अनन्योऽसि”।
तद् एवादाय +अण्णङ्गराचार्यो गदति यतीन्द्रमतदीपिकाटीकायाम् -
परदुःखासहिष्णुत्वं परदुःखदुःखित्वपर्यवसन्नम् । ‘व्यसनेषु मनुष्याणां भृशं भवति दुःखितः’ इति स्मरणात् ।
एवं तेष्व् अयम् अभिप्रायः प्रसिद्धः।
(स्वार्थ-निरपेक्षा) पर-दुःख-निराकरणं दयेति देशिकः।
तद् आनन्द-मीमांसा-श्रुत्या, मयटः प्राचुर्यार्थं तिरस्कुर्वता रामानुजेन चोक्तम्।
“निरस्तातिशयाह्लाद-सुख-भावैक-लक्षणा भगवत्-प्राप्तिर्”
इति मोक्षलक्षणम् अपि पराशरेणोक्तं क्वचिद् विष्णुपुराणे।
वाल्मीकि-पराशरभट्टयोर् वचनम् अवताराभिनय-विषयकम्, न स्वरूप-विषये।
वस्तुतः पर-दुःख-दुःखित्वम् असमर्थस्यैव भवति।
न तु भगवान् अशक्तः!
स्वातन्त्र्यम्
एवं स्वातन्त्र्य-विषये विवादनि लोकाचार्यानुगाः -
“व्याजापेक्षा स्वातन्त्र्य-ह्रासक” इति।
स्वातन्त्र्यं नाम स्वस्य प्राधान्यम् इति देशिकाशयः।
व्याकरणे ऽपि “स्वतन्त्रः कर्ते"ति प्राध्यन्यस्यैवोक्तिर् भाष्ये -
“सर्वेषु साधनेषु सन्निहितेषु
यः क्रियायाः निष्पत्तौ स्वतन्त्रः
स कर्ता” ।
स्वतन्त्रं न साधनादि,
यथा कुठारादि च्छेदने, सङ्कल्पाभावात्।
न च प्रयोज्य-कर्ता ।
लक्ष्मीः
लक्ष्मी-विशिष्टं नारायणं न प्राप्यं मन्यन्ते दाक्षिणाः।
श्रियं गरुडादि-वन् नित्य-सूरिं मन्यन्ते।
एवम् अस्या इतरापेक्षया विशिष्टं शेषत्वम् अपि स्वीकुर्वन्ति।
किञ्च तथाऽपि सति परस्पर-शेषत्वं स्यात्।
नित्यसूरिपरिगणनायां तु “ईश्वरीं सर्वभूतानाम्” इत्यादि-वचन-विरोधः।
ईश्वरानेकत्वगता आक्षेपा अन्यत्र विचारिताः ।
पुरुषकारत्वम्
जीवान्तर-परतः पुरुषकारित्वं तु स्वीकुर्वन्ति, तेन तस्या अप्य् आराधनम्।
कस्यचन जीवस्य (श्र्याः) प्रसादं विना
ईश्वरो न मोक्षं यच्छति चेत् -
किम् इदम् ईश्वरत्वम् अस्येश्वरस्य,
जीत्वं च तस्या जीवस्य?
इत्याक्षेपो जायते। यतः -
नासौ पुरुषकारेण
न चाप्यन्येन हेतुना ।
केवलं स्वेच्छयैवाहं
प्रेक्षे कञ्चित् कदाचन ॥
इति लक्ष्मी-वचनं लक्ष्मीतन्त्रे १३-१०।
स्वातन्त्र्यम्
पत्नीत्वाच् च पत्युस् स्वस्य तद्-अनुज्ञां विनापि वितरितुम् अधिकारो वर्तते।
अतः, पत्युर् अपेक्षया स्वातन्त्र्यस्याभावेऽपि,
समान-फलप्रदत्वे नास्ति विरोधः।
साधारणस्य शेषभूतस्य नित्यसूरेर्
भगवत्-कैङ्कर्यम् अन्तरा
काचिद् अपि स्वतन्त्रेच्छा न भवति।
अस्यास् तु पतिशुश्रूषाम् अन्तरा
तादृशस् सङ्कल्पः कुतो न स्यात्?
इति वेङ्कटनाथार्यादि-पक्षः।
वासुदेवादिरूपेण
चतुर्धात्मानमात्मना।
संविभज्यावतिष्ठेऽहं
सर्वम् आवृत्य संविदा ॥
इति श्लोकेन लक्ष्म्या अपि वासुदेवादि-घटकत्वम् अप्य् उक्तम्।
पूर्वाचार्य-वचनम्
वेरिमाऱादबूमेलिरुप्पाळ् विऩैदीर्क्कुमे
(तिरु-वाय्-मॊऴि ४।५।११)
इत्यत्र ईडु-ग्रन्थे नम्-पिळ्ळै-शिष्यो वडक्कु-तिरु-वीदि-पिळ्ळै -
सर्वेश्वरऩ् फलम् कॊडुक्किऱ दशैयिले
अवऩै विलक्कि
‘नाऩे इदुक्कु फलङ् कॊडुक्क वेणुम्’ ऎऩ्ऱु
तऩक्कु भरम् आग एऱिट्टुक्-कॊण्डु
फलम् कॊडुक्कुम्।
शरणागतिगद्य-व्याख्याने च सुदर्शन-भट्टः श्रीप्रपदन-प्रकरणे तद्-उपायत्वं वदति -
यद्वा श्रियं प्रपद्य
तत्-सन्निधौ मूल-मन्त्रेण स्वरूपानुरूप-पुरुषार्थ-प्रार्थनं
तद्-उपाय-प्रार्थना-पर्यन्तं कृत्वा…
विभुत्वम्
‘‘व्यापकाव् अतिसंश्लेषाद्
एक-तत्त्वम् इवोदितौ’’
(अहिर्बुध्न्य-संहिता ४-७८)
इति वचनं विरुध्य श्र्या अणुत्वं ब्रुवते।
तथा, “न पृथग् अभिधत्ते श्रुतिर् अपि” इति निश्चितम् पराशरभट्टेन।
तेन, यत्र यत्र नारायण उच्यते, तत्र तत्र श्रीर् अप्य् उच्यत एव (न तु गरुड-विष्वक्सेनादयः)।
अतो यत्र विष्णोर् विभुत्व-प्रभुत्वाद्य्-उक्तम्, तत्र सापि ग्राह्या, नेतरय् इति खलु सिध्यति?
यदि प्रभुत्वोक्तौ ग्राह्या सा, न तु विभुत्वोक्ताव् इति न्याय्यम्, तत्र भेदस्य कारणं वाच्यम्।
अथवा भगवान् विभुत्वेन सर्वगतः; अस्यास् तच्-छक्ति-वशाद् अणुत्वेऽपि तत्रतत्र सन्धानात् सर्व-गत्वम् उक्तम् ।
इति विष्णुचित्तीयस्य पक्षः प्रक्षिप्त इति स्फुटम्। कारणानि विष्णुचित्तीय-सञ्चिकायाम् हि द्रष्टव्यानि।
रक्षायाम् प्राधान्यम्
लक्ष्म्या सह हृषीकेशो
देव्या कारुण्यरूपया।
रक्षकः सर्व-सिद्धान्ते
वेदान्तेऽपि च गीयते ॥
इति लक्ष्मी-तन्त्र-गतं श्लोकम् आश्रित्याप्राधान्यम् उच्यते। किञ्च, सह-योगे सर्वत्राप्राधान्यं न भवति, यथा - “पिता पुत्रेण सह भुङ्क्ते” इत्यत्र।
पुनः, वचनान्तराण्य् अपि सन्ति तुल्य-रक्षकत्व-बोधकानि, यथा प्रसिद्धम् -
लक्ष्मीशं मां सुरेशेशं
द्वयेन शरणं गतः ।
मल्लोकम् अचिराल्लब्ध्वा
मत्सायुज्यं स गच्छति ॥
(अष्टश्लोकीव्याख्याने प्रतिवादिभयङ्कराण्णङ्गरार्येणोदाहृतम्।)
स्वातन्त्र्य-प्रकरणे दर्शितम् अनुसन्धेयम् - ईडु-ग्रन्थ-वचनम् (नारायणं रुद्ध्वा स्वयं मोक्षं दित्सति प्रसन्नेति), सुदर्शन-सूरि-वचनम् ।
प्रणवाधिकारः
अष्टाक्षरोपदेशे प्रणवं सर्वेभ्यो ऽप्य् उपदिशन्ति।
शास्त्रविरुद्धम् इदम् इति देशिकादयः।
विस्तारो ऽन्यत्र।
अवताराः
सौम्यजामातृ-विमतिः
- तत्त्व-त्रय-व्याख्याने बुद्धस्य साक्षाद्-अवतारत्वम् आचार्यहृदये प्रतिपादितम्। विष्वक्सेन-संहितादिषु तस्यावेशावतारत्वम् उक्तम्। Ignores viShvaksena saMhita etc॥ and says buddha is pUrNAvatAra।
- पराशरभट्ट-विरोधेन व्यासः पूर्णावतारः कीर्तितः। Ignores parAsharabhaTTa and says vyAsa is pUrNAvatAra।
इतिहासादौ
विभीषणशरणागतिर् न कैङ्कर्यार्थं, अपि तु राज्यार्थम् इति तॆन्नाचार्यमतम् प्रचुरम् इति श्रूयते । इदं च प्रमाण-प्रतिषिद्धं वेङ्कटनाथार्येण खण्डितम् इति ज्ञायते।
आऴ्वार्-कवयस् संसारिण इति मयन्ते। देशिक-परम्परायां तु दिव्य-सूरयो ऽवतिर्णा इति मतिः।
मोक्षे कैङ्कर्य-तारतम्यम्
उपासनया भगवत्-प्राप्तौ क्षुद्रानुभव उच्यते -
उपासना स्वरूप-विरुद्धेति
स्वरूपप्राप्ताव् अपूर्णतायां,
तत्-फले कैङ्कर्ये ऽपि क्षुद्रता - स्वार्थ-मिश्रिततायाः।
एवं स्व-प्रवृत्त्या (प्रपत्त्या) भगवत्-प्राप्ताव् अपि!
किन्तु नानन्दे तारतम्यम् उच्यते।
(Reference : Discussion in १८th Chapter of Bhagavad GIta - Commentary by SrI PuttUr SwAmi in Tamil; following his grandfather। Was invented mostly as a cope to put down vks। No where is this mentioned by any tk purvacharya like PL, MM etc॥)
कैश्चिल् लोकार्यानुगैर् इदं नाङ्गीक्रियते।
कैवल्यम्
कैवल्यम् अनित्यम् इति वेङ्कटनाथार्यः -
आत्म-स्वरूप-ज्ञाने सति, संसारित्वे ऽनिवृत्ते च, कदाचिन् मुमुक्षा सम्भवेत्,
ततः कैवल्यवान् उपायम् अनुष्ठाय मुक्तिम् आप्नुयाद् इति।
कैवल्यस्याशाश्वततायां कण्ठोक्तिर् अपि वर्तते -
अहम् एव गतिस् तेषां
निराशीः कर्म-कारिणाम् ।
ये तु शिष्टास् त्रयो +++(→अर्तोऽर्थार्थी कैवल्यार्थी च)+++ भक्ताः
फल-कामा हि ते मताः ।
सर्वे च्यवन-धर्माणः
प्रतिबुद्धस् तु मोक्ष-भाक्
लोकाचार्यानुयायिनस् तु कैवल्यं कामपि वैकुण्ठवर्तिनीं स्थितिम् मन्यन्ते, नित्यं च ततः। तत्र जरामृत्युभ्याम् मोक्षः कश्चन कैवल्यम् उक्तम् इति कारणम्।
तत्राशरीरत्वं कैवल्य-भाजां मन्यन्ते।
किञ्च प्राकृतशरीरा देवा अप्य् अमरा उच्यन्ते, ततस् सापेक्षेयम् उक्तिर् इति वेङ्कटनाथार्यादयः।
विष्णुचित्तेन तु कैवल्यभाजां प्रकृतिमण्डले स्थानम् उक्तम् (क्व??)।
विभीषण-शरणागतिः
‘‘त्यक्त्वा पुत्रांश् च दारांश्च’’
(रामायणम् युद्ध-काण्डम् १७-१४),
‘‘परित्यक्ता मया लङ्का
मित्राणि च धनानि च’’
(रामायणम् युद्ध-काण्डम् १९-५।)
इत्यादिभिः विभीषणो न राज्यार्थं शरणम् आगतः (यथा दक्षिणकलार्या ऊचुः), अपि तु कैङ्कर्यार्थम् इति वेङ्कटनाथार्यः।
दक्षिणकलार्यास् तु हनुमद्-वचनम् उदाहरन्ति -
न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः॥
किञ्च, परकृतारोपात् स्ववचनं बलीय इति समादधाति वेङ्कटनाथः।
इदं अभयप्रधानसाराख्ये ग्रन्थे प्रतिपादितम् इति श्रूयते।
रामस्य परदेवत्वे ज्ञानम् आसीद् विभीषणय् इति -
‘‘सर्व-लोक-शरण्याय
राघवाय महात्मने’’
(रामायणम् युद्ध-काण्डम् १७-१५।)
स च परमैकान्तीत्य् अपि लिङ्गानि वर्तन्ते - यथा - श्रीरङ्गनाथ-विग्रहोपादानम् ।
भरत-शरणागतिः
भरत-शरणागतिर् विफलेति केचित्।
नैवम् इति वेङ्कटनाथार्यो ऽभयप्रधानसारे।
हेतव उच्यन्ते -
- शास्त्र-विरुद्धम् / स्वाभिलषित-विरुद्धम् फलं शरणागतेर् न भवति। तस्मिन् प्रार्थिते, आनुकूल्यस्य सङ्कल्पे वैकल्यात् शरणागतिर् एव न भवति।
परपक्षिभिर् अपि भगवद्-अनिच्छा ऽभ्युपगतैव।
कुतस् सा ऽनिच्छेत्येव वाच्यम्।
तत्र देशिकः कारणान्य् ऊहते, परस् तु न श्राम्यत्येव तत्र।- भरतस्य लोकापवाद-वारण-रूप-हिताय, रावण-वधाय, पितृ-वाक्य-सत्यापनाय च वनवासो ऽनुवर्तनीयः।
- प्रार्थितम् अपि यदा हिताय, तदा करोति भगवान्, नेतर-काले।
- भरतेन स्वयम् एव स्वेष्टम् परिवर्तितम् - पादुकाम् अयाचत, त्वरित-प्रत्यागमनं च।
अन्यथा न प्रत्य्-अगमिष्यत्, तत्रैवास्थास्यत्।- “सहर्षम् प्रतिजगामे"त्य् एव वाल्मीकिर् वदति।
क्वात्र शरणागतेर् वैफल्यम्?
- “सहर्षम् प्रतिजगामे"त्य् एव वाल्मीकिर् वदति।
- फलम् स्फुटम्
- प्रतिनिधिरूपेण पादुके प्रेषितय् एव ।
- वन-वासान्ते त्वरया प्रत्यागतः - हनुमन्तम् अग्रे प्रेषयित्वा ऽपि स्वयम् अयोध्यां चलितुम् आरेभे।
विफला चेद् अपि भरत-शरणागतिस् तद्-अहितत्वात् शास्त्रविरोधाद् वा,
न तावता मोक्षार्थशरणागतिर् विफलेति वक्तुं शक्यम् - हेत्व्-अभावात्।
व्यवहारः
स्वाभिमताचार्य-कृत-स्खालित्यम् अभ्युपगन्तुं शक्तिर् लोके दुर्लभा - अस्मास्व् अपि। किञ्च, कैश्चिद् आचार्यैर् अत्यधिकं स्खलितम्। इमे तदीयशिष्याश् शाङ्करा इव तर्के प्रतितर्कयितुम् अक्षमाः कोपाटोपं शरणं यन्ति।
Regarding bhakti, prapatti, lakShmI, karmans, pApa, kaivalya etc॥ the lokAchArya branch has generated much confusion, misled by the emotional (but logically deficient) outpourings of their root perceptors compounded by their own scholarly inadequacies।
देशिक-मान्यता
सौम्यनारायणः -
लोकाचार्यपथानुगाः! किमयि वश् श्रीदेशिक-द्वेषणं,
नैवाऽऽचार्यमिमं ध्रुवं गुरुततेर्निष्कास्य यूयं क्षमाः।
श्रीभाष्याधिगमे, ‘तथाऽपि न हि नो हानिर्भवेद्भूयसी’
चिन्तैवं यदि वर्तते यतिपतेराज्ञा कदर्थीकृता॥
जातिः
विस्तारः (द्रष्टुं नोद्यम्)
सौम्यनारायणः -
(ब्रूवन्तु एकदेशिनः करणसारूप्यरहिताः Hypocrites)
जातिः केति विचारणं निज-जनी-योनीक्षणैस् तोल्यते +++(श्रीवचनभूषणे लोकाचार्यकृते)+++
हन्तेत्थं वदतां द्विजेतर-जनैर् इष्टो विवाहः किमु।
इष्टश् चेन् न हि कुत्रचिद् ददृशिम ह्य् एतादृशं, वञ्चनं
नेष्टश् चेद् वितथाविकत्थन-परैर् युष्माभिर् आशंसितम्।
शूद्र-भागवत-पाद-तीर्थम् अपि स्वीकुर्वन्ति केचित् लोकार्य-सम्प्रदाये? न।
तर्हि - तर्हि लोकाचार्यस्य जातिविचारणाहेयत्वस्य +उद्गार
उद्गारत्वेनैव ग्राह्य इति तन्मतम् ।
गुरुदूषणवेलायां
जातिर्नास्ति सुरद्विषाम्।
प्रबन्धपाठकाले तु
जातिरस्ति सदा ऽऽलये॥
इति शठकोपतातार्यः।