प्रपत्तिः
विचारभेदो मतिविभ्रमाद्य् ऽन्यत्र।
अनुष्ठान-कालः
पञ्च-संस्कार-समये
रक्षामात्रार्था संक्षिप्ता प्रपत्तिर् इव काचिद् अनुष्ठीयते पञ्च-संस्कार-समये।
तत्र सामान्यतो ऽन्तिमे याग-संस्कारे / इज्या-संस्कारय् अन्तर्-भाव्यते ।
SV-सूचनाः
They have preserved like the skeleton of the anushtanam.
In some AchArya peetams, this practice of AchArya praying to bhagavAn after performing pancha samskAram is present. It is done by reciting some chUrNikais from SaraNAgathi gadhyam - here it is not extra prapaththi. It is just a gentle reminder - not that bhagavAn forgets, but it is a small gesture from the side of AchArya.
This was explanation given by 1 tk. He tells bhagavAn has natural krupa but acharya still does to remind him. Ramanuja acts like chief purushakara in prapatti( coz guruparampara is treated so).
पृथग्-अनुष्ठानम्
क्वचित् पृथग् अप्य् अनुष्ठीयते।
विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः
Thirukkovalur jeeyar and some members of the ananthanpillai family do it separately (from pancha-saMskAra). My friend it happened so.
इति SV।
रक्षा-मात्रार्था
लक्षणम्
क्व लभ्यते प्रयोगः??
यदिगिरि-प्रयोग-खण्डो ऽवलोकितः क्वचित्।
लक्ष्यम्
शरणागतिगद्य-चूर्णीका उच्यन्ते। काञ्ची-श्रीनिवास-राजस्य सम्प्रदाये -
मनोवाक्कायैः अनादिकालप्रवृत्तानन्त-अकृत्यकरण-कृत्याकरण- भगवदपचार - भागवतापचार-असह्यापचाररूप-नानाविधानन्तापचारान्; आरब्धकार्यान् अनारब्धकार्यान्; कृतान् क्रियमाणान् करिष्यमाणांश्च सर्वान् अशेषतः क्षमस्व ॥ १२ ॥
अनादिकालप्रवृत्तं विपरीतज्ञानम् आत्मविषयम्-कृत्स्त्रजगद्विषयं च; विपरीतवृत्तं च अशेषविषयम्, अद्याऽपि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ॥ १३ ॥
मदीयानादिकर्मप्रवाहप्रवृत्ताम्, भगवत्स्वरूपतिरोधानकरीं, विपरीतज्ञान जननीं, स्वविषयायाश्च भोग्यबुद्धेर्जननीं, देहेन्द्रियत्वेन-भोग्यत्वेन-सूक्ष्म रूपेण चावस्थितां, दैवीं, गुणमयीं, मायाम् ; दासभूतः, ‘शरणागतोऽस्मि; तवाऽस्मि दास’ इति वक्तारम् मां तारय ॥ १४ ॥
“रामानुजीयोऽसि” इति हि आचार्याणां स्वीकारवचनम् - शरणागति-गद्य-पठनानन्तरम्।
प्रयोग-चित्राणि
विद्याभास्करः - शरणागति-गद्य-भाग-वचनेन सह पादेन शिरस्-स्पर्शः - TW ।
सिद्ध-दाताश्रमे ऽत्र।
विवरणम्
आत्म-रक्षा-भर-समर्पणम् अङ्गीकृतम्, अनुष्ठीयते चेति, अन्येथा-प्रवादो भ्रम इति तदीय-विद्वान् कोविल्-भरतः TW ।
दॊड्डयाचार्यसम्प्रदाये प्रपत्तिनाम्ना पञ्चसंस्कारसमये भगवच्-चरणयोश् शिष्यो स्वसदृश-रक्ष्यत्वेन समर्प्यते - TW । (“Offering shishya like flower at feet of perumal”)
gAdi-PBA-शिष्यः रङ्गनाथार्यः - TW।
सिद्ध-दाताश्रमे ऽत्र।
सौष्ठवम्
मानसांशाभावः
उपन्यासादिभ्यो यद्य् अङ्गान्य् अवगत्य प्रपद्यन्ते,
तर्हि तानि कथयितुं कुतः क्लेशः?
द्वयम् अपि मोक्ष-प्रार्थना-परम्, अष्टाक्षरो ऽपि ।
किञ्च तद्-वचन-मात्रेण किम् प्रपत्तिः कृतेति ब्रूमहे?
वाचिकांश एव प्रपत्तिः?
द्वय-वचन-मात्रेण वा शरणागति-गद्य-जप-मात्रेण वा साङ्गा प्रपत्तिस् सिध्यतीति न मन्तव्यम्। (तद् अन्यत्रोक्तम्। )
मानसांशस्यापेक्षास्ति खलु - तद् एव हि प्रधानम् इति वेङ्कटनाथार्यः।
यदि “न प्रपत्तव्यम्। प्रपत्तिर् अपचारः। रामानुजेनैवास्मत्पक्षतः प्रपन्नम्।” इत्यादि मनस्य् अस्ति,
तर्हि नास्त्य् एवात्र प्रपत्तिः काचित्।
आत्म-समर्पणम्
तत्र स्वरूप-समर्पणम् भवति, न फलसमर्पणं।
रक्षा-भर-समर्पणम् भवति।
साधारण-रक्षकत्वमात्रं पूर्वम् एव सिद्धम्,
अतो न किञ्चित् साध्येत - कैङ्कर्यम् अन्तरा।
अतो विशेष-रक्षकत्व-वृतिर् ऊह्या।
अनेनात्मापहार-पापं निर्वर्तते। इदं याग-शब्देनापि व्यवह्रियते (TW)।
स्वाभिप्राय-निवेदनम्
अत्र कृतासु प्रपत्तिषु स्वाभिप्रायनिवेदनं नामाङ्गम् अस्पष्टम् भवति प्रायेण -
रक्षा-क्षमे हि याच्येते।
साम्प्रत-जीवितान्ते मोक्षं लभ्यते, यतो वयम् प्रपन्ना
इति वादो निराकार्योऽनेन।
किञ्च, गुरुपरम्परानुसन्धानेन बुद्धि-पूर्वकाङ्ग-वैकल्य-परिहारो न भवति। (तद् अन्यत्र विचारितम्।)
स्वाभिप्राय-निवेदन-वैकल्ये सति लोकाचार्य-सम्प्रदाये क्रियमाणं कर्म
प्रपत्त्यन्तर-जनकम् इत्य् एवावसेयम्।
शरीर-पात-समये तु
केवलं मदीयया +एव दयया ऽतिप्रबुद्धो
माम् एव +अवलोकयन्न्
इति भगवत्-प्रतिवचनम् अपि वदन्ति चेत्
तेन तद् अपि पूर्यते - किञ्च प्रायेण नोच्यते।
प्रातिकूल्य-वर्जनम्
तेष्व् एवोपन्यासेषु दोष-भोग्यता-पुरस्कारे सति,
कथं सिध्येत् प्रातिकूल्य-वर्जन-सङ्कल्पो नामाङ्गम्?
मोक्षार्था क्वचित्
DoDDayAchArya alias VAdUla SrInivAsAchArya alias MahAchArya, a great ThennAchArya of the 16th Century has supposed to have accepted Prapatti as NyAsa Vidya, with all the five angAs etc as explained by SwAmi DESikan. It is told that, during SamASrayanam, he would make the disciple recite NammAzhwAr’s " akalakillEn … " pAsuram in front of Divya Dampati after he recites it etc. This way, he used to perform " Ukti nishta " Prapatti it seems…. In the book " YatIndra Mata DIpikA " by SrInivAsAchArya, the ardent disciple of SrI DoDDayAchArya, the section on Prapatti lists the five angAs and eqautes it to a Brahma Vidya as a positive act
सत्त्विक-त्यागः
कैङ्कर्यम् अखिला वृत्तिर्
इति भरद्वाजोक्त-रीत्या
श्रीभगवद्-आज्ञा-कैङ्कर्य–देव-र्षि-पितृ-तर्पणं करिष्ये
इत्य्-आदि-संकल्पः ॥
यद्य् अपि आनुकूल्यस्य संकल्पः
यावज्जीवं विहित-कर्मानुष्ठान-सङ्कल्प-रूपः प्राग् एवानुष्ठितः -
तत एव प्रपन्नस्य नित्य-कर्मसु सङ्कल्पः पृथक् पृथङ् नापेक्षितः ।
अत एव च नित्य-स्नानादिषु शिष्टाः संकल्पं नानुतिष्ठन्ति ।
तथा ऽपि शिष्टाचारानुरोधात् वैकल्पिकं संकल्पानुष्ठानं कर्मसु उपपन्नम् ।
मन्त्रादिभिः सङ्कल्प-विशेषस्य नैयत्य-वचनं प्रपन्नेतर-विषयम् ।
प्रपन्न-विषये तु
सङ्कल्पस् तत्-प्रकार-भेदव?? वैकल्पिकः ।
इति वरदराजः सद्-अनुष्ठान-दर्पणे ।
Some claim they do sAttvika tyAga only once in lifetime during 5S. in fact they claim post prapatti sankalpam only not needed for karma as it all gets included in Anukulyasya sankalpam during prapatti. Also its not true that all tks don’t do this. Xyz is tk, his acharya told him to do sAttvika tyAgam with every karma. So he does daily. - SV
पुण्ड्रम्
पृथग् उक्तम्।