प्रमाण-तारतम्यम्
अनुभवः > प्रत्यक्षम् > महाभारतम् (निर्णायकत्वात्, वचनाच्च) > ब्रह्मसूत्राणि (निर्णायकत्वात्) > वेदाः > पुराणानि (व्यासकृतत्वात्), रामायणम्, पाञ्चरात्रम् (भगवद्-उक्तत्वात्) > स्मृतयः > दुरागमाः > शिष्टाचारः > ऐतिह्यम्।
(आचारे त्व् ऐतिह्यम् पुरस्कुर्वन्तितराम्। )
प्रत्यक्षादि-विभागो विष्णुतत्त्वनिर्णयय् उक्तः ।
अदुष्टम् इन्द्रियं त्व् अक्षं तर्कोऽदुष्टस् तथानुमा । आगमो ऽदुष्ट-वाक्यं च स्व-दृक् चानुभवः स्मृतः ॥
प्रत्यक्ष-बलम्
मध्वो विष्णुतत्त्वनिर्णयय् उद्धरति ब्रह्मतर्कात् -
ज्ञानं च द्विविधं बाह्यं
तथा ऽनुभव-रूपकम् ।
बल्य् एवानुभवस् तत्र
निर्दोषं त्व् अक्ष-जादिकम् ॥
अनुप्रमाणतां याति
तथा ऽक्षादि-त्रयं ततः ।
प्राबल्यम् आगमस्यैव
जात्या तेषु त्रिषु स्मृतम् ॥
तत्र टीका -
‘क्व च प्रत्यक्षतः प्राप्तम्
अनुमागम् अबाधितम्’इति प्रत्यक्षस्य जात्य्-आदिना प्राबल्य-वचनं तु
लौकिकार्थ-विषयम् ।
अत एव‘प्राबल्यम् आगमस्यैव
जात्या तेषु त्रिषु स्मृतम्’इति अलौकिकार्थे आगमस्यैव जात्या प्राबल्याभिधानं सङ्गच्छते इति सर्वम् अनवद्यम् ।
युक्ति-सीमा-भागोक्तम् अपि द्रष्टव्यम् अत्र।
प्रत्यक्ष-विभागः -
…
शब्दः
“ऋगाद्या भारतं चैव
पञ्चरात्रमथाखलिम् ।
मूल-रामायणं +++(प्राचीन-महाभारतस्थम्)+++ चैव
पुराणं चैतदात्मकम् ॥
ये चानुयायिनस् त्वेषां
सर्वे ते च सदागमाः ।
दुरागमास् तद्-अन्ये ये
तैर् न ज्ञेयो जनार्दनः ॥ ज्ञेय एतैः सदायुक्तैः
भक्तिमद्भिः सुनिष्ठितैः ।
न च केवलतर्केण
नाक्षजेन न केनचित् ॥ केवलागमविज्ञेयो
भक्तैरेव न चान्यथा ॥”
इति ब्रह्माण्डे ।
महाभारते
‘लोकेशा ब्रह्मरुद्राद्याः
संसारे क्लेशिनं जनम् । वेदार्थाज्ञम् अधीकार-
वर्जितं च स्त्रियादिकम् ॥
अवेक्ष्य प्रार्थयाम् आसुर्
देवेशं पुरुषोत्तमम् ।
ततः प्रसन्नो भगवान्
व्यासो भूत्वा च तेन च ॥
अन्यावतार-रूपैश् च
वेदानुक्तार्थ-भूषितम् ।
केवलेनात्म-बोधेन
दृष्टं वेदार्थ-संयुतम् ॥ वेदाद् अपि परं चक्रे
पञ्चमं वेदम् उत्तमम् ।
भारतं पञ्च-रात्रं च
मूल-रामायणं +++(प्राचीन-महाभारतस्थम्)+++ तथा ॥
पुराणं भागवतं चेति
सम्भिन्नः शास्त्र-पुङ्गवः ॥
इति नारायणाष्टाक्षरकल्पे ।
अत्र वाक्ये महाभारतस्य वेदाद् अपि प्रथमं स्थानम् उक्तम् ।
पुराणम्
श्रीवैष्णवाभ्युपगतं तारतम्यम् अत्रेक्षताम् । तद् अभ्युपगच्छन्ति माध्वाः।
प्रामाण्य-सीमा
पुराणेभ्यस् सर्वो ऽप्य् अर्थो न ग्राह्यः,
समाधि-भाषादि-भेदेन तात्पर्यं ग्राह्यं ज्ञेयं वेति
महाभारत-तात्पर्य-निर्णये मध्वः -
लोकदर्शनम् आश्रित्य
देवाश्च मुनयस् तथा ।
ब्रूयुः कथास्, तत्र शिक्षा
ग्राह्या, नार्थः कथञ्चन २२.३७२ ।अर्थः समाधि-भाषासु
ग्राह्यः सर्वोऽप्य् असंशयम् ।पर-दर्शन-भाषासु
ज्ञेयं तद्-दर्शनं तथा ॥ ३७३॥
ग्राह्यो नार्थो, वैदिकं तु
दर्शनं ग्राह्यम् एव च ।अन्यार्थो गुह्य-भाषासु
ग्राह्य एवं विनिर्णयः ॥ ३७४॥
उक्तत्वाद् वेदेभ्यो ऽपि तत्त्वमात्रं ग्राह्यम् इत्य् उक्ते सति,
कैमुतिक-न्यायेन +इतिहासे कथं न लगति??
“पुराणोक्तभूगोलवर्णनं न समाधिभाषा,
अपि तु गुह्या भाषे"ति ग्रहणे कः प्रतिबन्धः??
भूगोल-विषये भागवतानुसारेण पुराणान्तराणि नेयानीति मध्वः।
यथा भागवते तूक्तं
भौवनं कोशलक्षणम् ।
तस्याविरोधतो योज्यं
सर्व-ग्रन्थान्तर-स्थितम्॥
‘पूर्वाः कथाः परं ब्रूयुः
पराः पूर्वं तथैैव च ॥
मोहनार्थाय दुष्टानां
सर्वं व्यत्यासयिष्यते ।
विस्तारे तु यद् उक्तं
स्यात् तद् ग्राह्यम् अविरोधतः ।
सङ्क्षेपोक्त-विरोधे तु +++(सङ्क्षेपोक्तं न ग्राह्यम्)+++,
गुणोक्तिश्च सतां यथा’॥इति शब्दनिर्णये ॥
इति भागवत-तात्पर्य-निर्णये मध्व उदाहरति।
युक्तिसीमा
यच् च प्रमाण-दृष्टानाम् अपि पदार्थानां मिथ्यात्व-कल्पनं
तच् च प्रमाण-विरुद्धत्वाद् एव प्रकाश-तस्करत्वम् ।
नहि प्रमाण-दृष्टस्य तर्क-बाध्यत्वं -
प्रत्यक्षादि-विरुद्धानां तर्काभासत्व-नियमात् ।शुक्त्यादे रजतत्वादि-प्रतीतेर् अपि बलवत्-प्रत्यक्ष-विरुद्धत्वाद् एव शुक्त्यादेर् भ्रमत्वं,
न तर्क-मात्रात् ।
तर्क-मात्रतः प्रत्यक्ष-बाधने भूत-चतुष्टयस्याबादेः पृथिवीत्वाद् दृष्टेः
पृथिव्या अपि पृथिवीत्वं न स्यात् ।
अतो न तर्क-मात्रत एव दृष्टस्य भ्रान्तित्वं कल्प्यम् ।
इति विष्णुतत्त्व-निर्णये।
तत्रैव ब्रह्मतर्कोदाहृतिः -
प्रत्यक्षागम-माहात्म्याद्
अनुमानं प्रमाणताम् ॥ याति नैवान्यथा तस्य
नियतत्वं क्वचिद् भवेत् ॥
ईश्वरेच्छा ऽपर्यनुयोज्या
नन्वेवं वेदपुराणयोर् नित्यत्वे
पुराणानां पुना रचनं,
न वेदस्य इत्य् एतत् कुतः?इति चेत्,
प्रमाण-प्रश्नश् चेद् उक्ताद् एव पुराणवाक्यादेर् इति ब्रूमः ।
प्रयोजन-प्रश्नस् त्व् अयुक्तः -
ईश्वर-प्रवृत्तेः सर्वत्र स्वप्रयोजन-हीनत्वात् ।
पर-प्रयोजनानि तु सूक्ष्माण्य् उत्प्रेक्षितुं वयं न प्रभवामः ।
भगवानाचार्योऽपि इदानीं प्रयोजनाभावान् नावादीद् इति ।
इति जयतीर्थो विष्णु-तत्त्व-निर्णय-टीकायाम् ।
अलभ्य-श्रुतयः
भट्टोजी-दीक्षित-तत्त्व-दीपिकायाः -
- (१) चतुरश्रुतिः ३. ३. ३४.
- (२) कमठश्रुतिः ३. ३. ५२.
- (३) माठरश्रुतिः ३. ४. ४.
- (४) कौण्डरव्य ३. १. १४.
- (५) कौण्डिन्य २. ४. ५.
- (६) माण्डव्य २. ४. १२.
- (७) उद्दालक ४. ४. ६.
- (८) मौद्गल्य ४. ४. १.
- (९) पौष्यायण २. ३. २०.
- (१०) पौत्रायण २. ४. १८.
- (११) पाराशर्यायण २. ३. ४३.
- (१२) माध्यन्दिनायन ४. २. १३.
- (१३) कौषारव ३. १. २६.
- (१४) काषायण २. ३. १८.
- (१५) बृहच्छ्रुतिः ४. २. ५.
- (१६) कौशिक ३. ३. ४९.
- (१७) सौपर्ण ४. १. १३.
- (१८) शाण्डिल्य ३. ३. २७.
- (१९) वत्स ३. ३. ४०.
- (२०) गौपवन २. ३. ३१.
- (२१) माल्हवेय १. १. १.
- (२२) आग्निवेश्य २. ३. ३०.
- (२३) सौत्रायण २. ४. १४.
- (२४) चतुर्वेदशिखा १. १. १५.
- (२५) इन्द्रद्युम्न १. २. ५.
- (२६) परमश्रुतिः ३. ३. १५.
- (२७) नारायणाध्यात्मम् ३. २. २७.
- (२८) अध्यात्मसंहिता ४. ३. २२.
- (२९) बृहत्संहिता १. १. १.
- (३०) महासंहिता ३. ३. ४६.
- (३१) नारायणतन्त्रम् ३. ३. ५१.
- (३२) बृहतन्त्र ३. ३. ६.
- (३३) पुरुषोत्तम-तन्त्रम् २. १. १८.
- (३४) मायावैभवम् ३. ३. ५४.
- (३५) ब्रह्मतर्कः ३. २. १३.
- (३६) भविष्यत्पर्व २. ३. २९.
आदिशब्दग्राह्याणि च
- (१) भागवत्तन्त्रम् १. १. १.
- (२) व्योमसंहिता १. १. १.
- (३) महाकौर्मे १. २. ३.
- (४) वाराहसंहिता १. १. ११.
- (५) महोपनिषत् २. ३. १३.
- (६) नारायणसंहिता २. १. ३४.
- (७) वायु-प्रोक्तं ३. ३. २८.
- (८) समाख्या श्रुतिः १. १. २.