प्रत्यक्षं त्रिविधं ..
प्रत्यक्षविभागकथनम्
मूलम्
विश्वास-प्रस्तुतिः
प्रत्यक्षं त्रिविधं ज्ञेयं
ज्ञेयम् ऐश्वरं, यौगिकं तथा ॥ अयोगिकं चेति, तथा
सर्वम् +++(ऐश्वरम् अपि)+++ अक्षात्मकं मतम् ।अक्षाणि च स्वरूपाणि
नित्य-ज्ञानात्मकानि च ॥
विष्णोः श्रियस् तथैवोक्तान्य्अन्येषां +++(अक्षाणि)+++ द्विविधानि तु ।
स्वरूपाणि च भिन्नानिभिन्नानि त्रिविधानि च ॥
देवासुराणि मध्यानीत्य्एतत् प्रत्यक्षम् ईरितम् ।
विषयान् प्रति स्थितं ह्य् अक्षं
प्रत्यक्षम् इति कीर्तितम् ॥अक्षयं पुरुषस्याक्षं
स्वरूपे मुख्यम् एव तु ।
उपचारस् तद्-अन्यत्र
सृष्टाव् उपचयो यतः ॥उपपत्ति-स्वरूपत्वाद्
अनुमा +++(एव)+++ सम्भवादिकम् ।प्रत्यक्षागम-माहात्म्याद्
अनुमानं प्रमाणताम् ॥ याति नैवान्यथा तस्य
नियतत्वं क्वचिद् भवेत् ॥
इति ब्रह्मतर्के ।
मूलम्
- ‘प्रत्यक्षं त्रिविधं ज्ञेयमैश्वरं यौगिकं तथा ।
अयौगिकं चेति तथा सर्वमक्षात्मकं मतम् ॥
अक्षाणि च स्वरूपाणि नित्यज्ञानात्मकानि च ।
विष्णोः श्रियस्तथैवोक्तान्यन्येषां द्विविधानि तु ॥
स्वरूपाणि च भिन्नानि भिन्नानि त्रिविधानि च ।
दैवासुराणि मध्यानीत्येतत् प्रत्यक्षमीरितम् ।
विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति कीर्तितम् ।
अक्षयं पुरुषस्याक्षं स्वरूपे मुख्यमेव तु (तत्) ॥
उपचारस्तदन्यत्र सृश्ववुपचयो यतः ।
उपपत्तिस्वरूपत्वादनुमा सम्भवादिकम् ॥
प्रत्यक्षागममाहात्म्यादनुमानं प्रमाणताम् ।
*याति, नैवान्यथा, तस्य नियतत्वं क्वचिद् भवेत् ॥ ***
***इत्यादि ब्रह्मतर्के ॥ ***
तत्त्वमञ्जरी
ऐश्वरशब्देन ईश्वरीय-प्रत्यक्षम् अपि विवक्षितम् ।
विष्णोः, श्रिय इति तत्रैव प्रसङ्गात् ।
अक्षात्मकम् अक्षयत्वाद् अक्षम् इत्य् अर्थः ।
क्षिङ् क्षय इति धातोः । तृतीयो ऽतिशय इति न्यायात् ।
स्वरूपेन्द्रियाणां सिद्धत्वात् त्रैविध्याकथनम् । न तु त्रैविध्याभावात् । न हि स्वरूपाभिन्नं स्वरूपाद् अन्यथा भवति । न हि श्वेतपटस्य तन्तवो रक्ता भवितुम् अर्हन्ति ।
शते पञ्चाशत् सम्भवन्तीत्य् आदि सम्भव उपपत्तिरूपत्वाद् अनुमा । तथा हि- कस्यचित् पञ्चाशत् फलापेक्षायाम् उच्यते- विमतानि पञ्चाशद् अनूनानि शतत्वात् सम्मतवद् इति । आदिशब्दाद् अभिनयः । अभ्यात्मं पाणिचलनाद्यभिनयेनाह्वानाद्यभिप्रायः सङ्केतबलाद् अनुमीयते हि । अन्यथा प्रत्यक्षागम-विरोधे ऽनुमानस्याप्रामाण्यं नियतत्वेनैव । अग्निर् अनुष्णः मथनजन्यत्वान् नवनीतवत्; अग्निष्टोमादिर् अनर्थहेतुर् हिंसारूपत्वाद् ब्राह्मणहिंसावद् इत्यादेः ।
टीका
अथ परिशेषतः प्राप्तस्य प्रत्यक्षस्य विभागम् आह- प्रत्यक्षम् इति ॥
ऐश्वरम् इति विष्णोः श्रियश् च प्रत्यक्षम् एकीकृत्य उक्तम् । समाधि-परिपाकवन्तो योगिनः । तदीयं प्रत्यक्षं यौगिकम् । अस्मदादीनां प्रत्यक्षम् अयौगिकम् ।
ईश्वरस्य शरीर-इन्द्रिय-रहितत्वात् तत्र प्रत्यक्षोक्तिर् औपचारिकीति शङ्का-निरासार्थम् आह- तथा सर्वम् इति ॥
यथा यौगिकं तथा सर्वम् ऐश्वरम् अपि इति यावत् ।
तथा सति ‘सर्वेन्द्रिय-विवर्जितम्’ इत्यादि-विरोध इत्य् अत आह- अक्षाणि च इति ॥ भिन्न-जड-इन्द्रियाभाव-परं तद्-वाक्यम् इति भावः । उक्तानि ‘यद्-आत्मको भगवान्’ इत्यादौ । एतेन अन्येषां भिन्नानि एव इति प्राप्तम् अत आह- अन्येषाम् इति ॥ द्वैविध्यम् एव दर्शयति- स्वरूपाणि च इति ॥ यत् ‘अदुष्टम् इन्द्रियम्’ इत्य् अदुष्टत्वम् उक्तं तत् स्वरूपेन्द्रियाणां स्वरूप-कथनमात्रम्, भिन्न-इन्द्रियाणाम् एव तु विशेषणम् इति ज्ञापयितुं तद्-विभागम् आह- भिन्नानि इति ॥ सम्यग्-ज्ञान-प्रचुराणि दैवानि । मिथ्या-ज्ञान-प्रचुराणि आसुराणि । उभय-समानि मध्यानि ।
ननु प्रत्यक्षं त्रिविधम् इत्य् असङ्गतम् । अक्षस्यैव प्रकृतत्वात्, ऐश्वरम् इत्यादिना तस्यैव निरूपितत्वाच् च । अत एव ‘एतत् प्रत्यक्षम् ईरितम्’ इति उपसंहारो ऽप्य् अनुपपन्न इत्य् अत आह- विषयान् इति ॥ निर्दोषान् स्व-स्व-विषयान् प्रति स्थितं तैः सन्निकृष्टम् । अनेन प्रादि-समासो ऽयम् इत्य् उक्तं भवति । अव्ययीभावत्वे हि प्रत्यक्षस्य इति षष्ठी न श्रूयेत । यतो ऽक्षम् एव निर्दोष-स्व-गोचर-सन्निकृष्टं प्रत्यक्षम् इति कीर्तितं शाब्दिकैर् न त्व् अर्थान्तरम् अतो ऽनतिभिन्नत्वान् न कश्चिद् विरोधः ।
निर्वचन-प्रसङ्गाद् अक्ष-शब्दम् अपि निर्वक्ति- अक्षयम् इति ॥ एतेन नञ्-उपपदात् ‘क्षै क्षये’ इति अस्माद् धातोः ‘आतो ऽनुपसर्गे कः’ इति क-प्रत्यय इत्य् उक्तं भवति ।
अक्षयम् अक्षम् इति निर्वचनं किम् अन्वर्थम् उत नेति शङ्कायाम् आह- पुरुषस्य स्वरूप इति ॥ एतत् तु निर्वचनं पुरुषस्येश्वरादेः स्वरूपे अक्षे मुख्यम् अन्वर्थम् एव । तद् अन्यत्र विभिन्ने अक्षे अक्ष-शब्दस्य उपचारः ।
कुतो यतः स्वरूपेण नित्यस्यापि तस्य सृष्टि-काले भौतिकाहङ्कारिकावयवोपचय-रूपोत्पत्तिर् अस्ति, प्रलये च तद्-अपचय-लक्षणः क्षयश् चातो मुख्यासम्भवाद् एकदेशाक्षयत्व-निमित्ता गौणी वृत्तिर् इति ।
एतेन अनुभवस्य प्रत्यक्षादि-त्रयान्-अन्तर्भूतस्य प्रमाणत्वाभावात् कथम् ऐक्यागमस्य तद्-विरोधेनाप्रामाण्यम् उच्यत इति आशङ्का परिहृता भवति । स्वरूप-इन्द्रियाभिव्यक्तस्य अनुभवस्य प्रत्यक्षे अन्तर्भूतत्वात् ।
प्रमाण-त्रित्व-सिद्धये सम्भव-परिशेषादीनाम् अन्तर्भावम् आह- उपपत्ति इति ॥
व्याप्ति-स्मरणम् अपेक्ष्य अर्थ-प्रमिति-जनकत्वात्
सम्भवादिकम् अपि प्रमाणम्
अनुमा +एव ।
एवम् ऐतिह्यस्यापि आगमे ऽन्तर्भावो वाच्यः ।+++(4)+++
अर्थापत्त्यादीनि वादिभिः पृथक्-प्रमाणतयाऽङ्गीकृतानि,
न तु सम्भवादीनि ।
किन्तु प्रातीतिकम् एव तेषां पृथक्त्वम् इति ज्ञापनाय विप्रकर्षेण अन्तर्भावोक्तिः । प्रत्यक्ष-शब्दे निरुक्ते अनुमान-शब्दे च प्रस्तुते तन्-निर्वचन-जिज्ञासायां तत्-सूचयन्न् आह- प्रत्यक्ष इति ॥ अनुकूलाभ्यां प्रत्यक्ष-आगमाभ्याम् उपाधि-प्रतिपक्ष-निरासात् प्रमाणताम् अर्थ-निश्चायकतां, याति । अन्यथा उपाध्यादि-ग्रस्तत्वे, तस्य नियतत्वं निश्चय-हेतुत्वम् । एतेन अनुसृत्य मानम् अनुमानम् इति निर्वचनं सूचितम् । एवम् आ समन्ताद् गम्यते ऽनेनार्थ इत्य् आगम-शब्द-निरुक्तिर् द्रष्टव्येति ।
एतेन ‘विपर्ययेणापि अनुमातुं शक्यत्वात्’ इत्य् उक्तं दृढीकृतं भवति ।
भावबोधः
शरीर-इन्द्रिय-रहितत्वाद् इति ॥ इन्द्रिय-रहितत्वे हेतु-प्रदर्शनार्थं शरीर-ग्रहणं कृतम् । ननु सर्व-पदस्य असङ्कुचित-वृत्तित्वे तथा-शब्द-सूचित-दृष्टान्त-अभावः । तथा योगि-प्रत्यक्षस्य अक्षत्व-विधान-वैयर्थ्यं चेत्य् अत आह- यथा यौगिकम् इति ॥ योग्य-योगिनोर् भिन्न-इन्द्रिय-त्रैविध्यवत् तत्-स्वरूप-इन्द्रिय-त्रैविध्यस्यापि सद्भावात् तद्-अनुक्त्वा भिन्न-इन्द्रिय-भावबोधस्-त्रैविध्यं किम्-अर्थम् उच्यत इत्य् अत आह- यद्-अदुष्टम् इति ॥ ‘अदुष्टम् इन्द्रियम्’ इत्यत्र इन्द्रिय-पदस्य भ्रमत्वानधिकरण-ज्ञान-जनन-स्वरूप-योग्येन्द्रिय-परत्वेनैव नित्य-संसारि-तमोयोग्य-स्वरूपेन्द्रियस्य भ्रमत्वाधिकरण-ज्ञान-जनकत्व-नियमात् तद्-व्यवच्छेद-सिद्धौ सज्जन-स्वरूपेन्द्रियस्य याथार्थ्य-नियमात् ‘स्वदृग्’ इत्यत्रैव निर्दोषत्वस्यानपेक्षितत्वेन लाघवात् प्रमाणभूत-सर्वेन्द्रियाणाम् एक-वाक्येनैव लक्षणं प्रतिपादयितुम् उक्तम् अदुष्टत्वं स्वरूपेन्द्रियाणां स्वरूप-कथन-मात्रम्, सर्वेषाम् अपि बाह्य-इन्द्रियाणां दोष-साहित्येन भ्रम-जनकत्वस्यापि सत्त्वात् तत्र अदुष्टत्वं दुष्ट-इन्द्रिय-व्यावर्तकतया विशेषणम् इति ज्ञापयितुम् इत्य् अर्थः । ननु एतद्-वैलक्षण्यं कथं भिन्न-इन्द्रियाणां विभाग-कथनेन ज्ञापितम् इत्यतः भिन्न-इन्द्रियेषु दैवादि-पद-प्रयोग-बलेन लब्धम् इति आशयवान् दैवादि-पदार्थम् आह- सम्यक्-ज्ञान-प्रचुराणि इत्यादिना ॥ तस्य एव इति ॥ अक्षस्य एव इति अर्थः । ऐश्वरादि-पदोक्तस्य एव ‘सर्वम् अक्षात्मकं मतम्’ इत्य् अक्षत्वोक्तेर् इति भावः । प्रत्यक्षस्य इति षष्ठीति ॥ ‘प्रत्यक्षस्य लक्षणम् आह’ इत्यादि-शास्त्रीय-प्रयोगेषु इति अर्थः । प्रयोग-बाहुल्याभिप्रायेण इदम् उदितम् । ‘नाव्ययीभावाद् अतो ऽन्त्व् अपञ्चम्याः’ ‘तृतीया-सप्तम्योर् बहुलम्’ इत्य् अपवादेन प्रत्यक्षाद् इत्यादेर् अनुदाहरणत्वे अपि प्रथमा-द्वितीया-द्विवचन-बहुवचन-चतुर्थी-षष्ठी-वचनान्तो ऽपि प्रत्यक्ष-शब्दो ऽत्रोदाहरणम् । अनतिभिन्नत्वाद् इति ॥ प्रत्यक्षस्य स-व्यापारत्वेन अक्षाद् भेदे अपि अत्यन्त-अभेदाभावाद् इति अर्थः । विरोध इति ॥ प्रकृत-असङ्गत्य्-उपसंहारानुपपत्ति-रूपो दोष इति अर्थः । भौतिक-आहङ्कारिका इति ॥ भूतैस् तैजसाहङ्कारेणापि इति द्वेधेन्द्रियाणाम् उपचयाद् इति भावः । साध्य-अविशिष्टता-परिहारार्थम् ‘उपपत्ति-स्वरूपत्वात्’ इति एतत् व्याचष्टे- व्याप्ति-स्मरणम् इति ॥ अनुमान-प्रामाण्योपयुक्तं प्रत्यक्ष-आगमयोर् इति किं माहात्म्यम् इति अतः आह- अनुकूलाभ्याम् इति ॥ ननु प्रत्यक्ष-आगमाभ्यां प्रतिपक्षाद्यनिरासे ऽपि निर्दोषोपपत्तित्व-लक्षण-प्रमाणतानपायात् कथं ‘प्रमाणतां याति’ इत्य् उक्तम् इत्यतः व्याचष्टे- अर्थ-निश्चायकताम् इति ॥
भावदीपः
न्यूनत्व-शङ्कां निराह- विष्णोः श्रियश् च इति ॥ समाधीति ॥ समाधिर् ध्यानम् । तस्य परिपाको ऽपरोक्ष-ज्ञान-फलोपधान-शक्तता तद्वन्तः । शरीरेति ॥ इन्द्रिय-राहित्य-उपपादनाय शरीर-राहित्योक्तिः । ‘सर्वेन्द्रिय-विवर्जितम्’ इति त्रयोदशे गीतायाम् । आदिपदेन ‘चक्षुः श्रोत्रं तद्-अपाणिपादम्’ इत्यादि-ग्रहः । उक्तानि इत्य् अनूद्य स्थलम् आह- उक्तानि यद्-आत्मको भगवान् इति ॥ ‘तद्-आत्मिका व्यक्तिः । किम्-आत्मको भगवान् ? ज्ञानात्मक ऐश्वर्यात्मकः’ इत्यादिस् तद्-वाक्य-शेषः । विशेषणम् इति ॥ दोषयुक्त-इन्द्रिय-व्यावृत्त्यर्थम् उपात्तम् इति अर्थः । प्रकृतत्वाद् इति ॥ अदुष्टम् इन्द्रियं त्व् अक्षम् इति उपक्रमाद् इति भावः । फलितार्थम् आह- तैः सन्निकृष्टम् इति ॥ अनेन इति ॥ ‘विषयान् प्रति स्थितम्’ इति कथनेन । ‘कु-गति-प्रादयः’ इति सूत्रेण प्रति स्थितम् अक्षं प्रत्यक्षम् इति प्रादि-समास इत्य् अर्थः । ‘अव्ययं विभक्ति’ इत्यादिनाऽक्षं प्रति प्रत्यक्षम् इति अव्ययीभावत्वे तु ‘नाव्ययीभावाद् अतो ऽन्त्व् अपञ्चम्याः’ इति विभक्तेर् अम्-प्रत्ययोक्त्या प्रत्यक्षम् इत्य् एव भाव्यम् । न तु प्रत्यक्षस्य लक्षणम् आह, प्रत्यक्षस्य विभागम् आह इत्य् अदौ षष्ठी श्रूयेत इत्य् अर्थः । ‘अपञ्चम्याः’,‘तृतीया-सप्तम्योर् बहुलम्’ इति पञ्चम्यादौ अमो ऽपवादे अपि षष्ठ्यादाव् अनपवादात् षष्ठी न श्रूयेत इति उक्तम् । ननु प्रत्यक्षम् इत्यादिना प्राग्-उक्त-चोद्यस्य उत्तरम् आह- यतो ऽक्षम् एव इत्यादिना ॥ क्षै क्षय इति ॥ ‘आदेच उपदेशे ऽशिति’ इत्य् आकारादेशे क्षा इति स्थिते, अनुपसर्गे सुपि उपपदे आकारान्ताद् धातोः क-प्रत्यय इति सूत्रेण क-प्रत्यये ‘लशक्वतद्धिते’ इति क-कार-व्यञ्जनस्य लोपे ‘आतो लोप इटि च’ इत्य् आकार-लोपे नञो न-लोपे सत्य् अक्षम् इति सिद्ध्यति इति भावः । भौतिक इति ॥ ‘तेषां भूतैर् उपचयः सृष्टि-काले विधीयते’ इत्य् उक्तेः ‘तैजसानि इन्द्रियाण्य् आहुः’ इति वचनात् तैजसाहङ्कारावयवैर् उपचय इत्य् अर्थः । अक्ष-पद-निरुक्तेः प्रकृत-उपयोगं व्यनक्ति- एतेन इति ॥ स्वरूप-इन्द्रिये मुख्य-अक्षत्व-कथनेन इत्य् अर्थः । ननु स्वरूप-ज्ञानस्य नित्यतया स्वरूप-इन्द्रियाजन्यत्वात् कथम् अपरोक्ष-अनुभवत्वेन प्रत्यक्षान्तर्भाव इत्य् अत आह- स्वरूप-इन्द्रियाभिव्यक्तस्य इति ॥ अभिव्यक्तिर् अत्र विषय-सम्बन्धो वा विषय-सम्बन्धापादको धर्म-विशेषो वा ज्ञेयः । हेतु-साध्ययोर् अभेद-शङ्का-निरासाय उपपत्ति-पदार्थं वदन्न् एव वाक्यं योजयति- व्याप्ति इति ॥ व्यक्तम् एतत् सम्भवादि-स्वरूपम् अनुमानान्तर्भावादि च ‘सम्भव-परिशेषाव् अनुमा’ इत्यादि-ग्रन्थान्तर-व्याख्याने । ऐतिह्यस्य इति ॥ ‘वटे वटे वैश्रवणः’ इत्यादि-प्रवाद-रूपस्य इत्य् अर्थः । अनुमान-निरुक्तेः प्रकृत-उपयोगम् आह- एतेन इति ॥ प्रत्यक्ष-आदि-अननुसार्य्-अनुमानस्य अनिश्चायकत्व-कथनेन इत्य् अर्थः । एवम् इति ॥ आङ्-पूर्वाद् गमेः ‘ग्रह-वृदृ-निश्चि-गमश् च’ इति करणे अप्-प्रत्यय इति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
ननु विधान्तरस्यापि लक्ष्मी-प्रत्यक्षस्य सत्त्वात् कथं त्रित्वोक्तिर् इति अत आह- ऐश्वरम् इति इति ॥ अनेन ईश्वरस्य ईश्वर्याश् च इदम् ऐश्वरम् इति विग्रहस् सूचितो भवति इति द्रष्टव्यम् । अस्मदादीनाम् इति ॥ समाधि-परिपाक-शून्यानाम् इत्य् अर्थः । ‘शरीर-इन्द्रिय-रहितत्वात्’ इत्यत्र इन्द्रिय-रहितत्वे शरीर-राहित्यं हेतुत्वेन उक्तम् इति बुद्ध्या विवेकेन द्रष्टव्यम् । ‘शरीर-योगे सत्य् एव साक्षात्-प्रमिति-साधनम् इन्द्रियम्’ इति कारिकायाम् इन्द्रियस्य शरीर-संयुक्तत्वाभिधानात् ‘शरीर-संयुक्तं ज्ञान-करणम् अतीन्द्रियम् इन्द्रियम्’ इत्य् अन्यत्रापि उक्तत्वाद् इति भावः । तत्र तदीयेन्द्रिये । तथा इति दार्ष्टान्तिकोक्त्या सूचितं दृष्टान्तम् आह- यथा इति ॥ यौगिकं प्रत्यक्षम् । ऐश्वरम् अपि प्रत्यक्षम् । तथा च यथा यौगिकं प्रत्यक्षम् अक्षात्मकम् अदुष्ट-इन्द्रियात्मकत्वात् । तथा सर्वम् ऐश्वरम् अपि प्रत्यक्षम् अक्षात्मकम् अदुष्ट-इन्द्रियात्मकत्वाद् इत्य् अर्थः। तथा च न तत्र प्रत्यक्षत्वोक्तिर् औपचारिकीत्य् आशयः । तथा सति इति ॥ ऐश्वर-प्रत्यक्षस्यापि अदुष्ट-इन्द्रियात्मकत्व-रूप-अक्षात्मकत्वाङ्गीकारे इत्य् अर्थः । यद्-आत्मक इति । ‘यद्-आत्मको भगवान् तद्-आत्मिका व्यक्तिः । किम्-आत्मको भगवान्? ज्ञानात्मक ऐश्वर्यात्मकस् सु-शक्त्यात्मकः’ इति श्रुताव् इत्य् अर्थः । एतेन इति ॥ विष्णोः श्रिय इति विशिष्य कथनेन इत्य् अर्थः । अन्येषां योगिनाम् अयोगिनां च । अक्षाणि इति शेषः । स्वरूप-कथन-इति ॥ सज्जन-स्वरूपेन्द्रियाणाम् अदुष्टत्व-नियमेन व्यावर्त्य-अभावाद् इति भावः । भिन्न-इन्द्रियाणाम् एव इति ॥ सर्वेषां बाह्य-इन्द्रियाणां दोष-साहित्येन भ्रम-जनकत्वस्यापि सद्भावेन तेष्व् अदुष्टत्वं दुष्ट-इन्द्रिय-व्यावर्तकतया विशेषणम् इति ज्ञापयितुम् इति अर्थः ।
ननु अदुष्टत्वं सज्जन-स्वरूपेन्द्रियाणां स्वरूप-कथन-मात्रं, भिन्न-इन्द्रियाणाम् एव विशेषणम् इति वैलक्षण्यं भिन्न-इन्द्रियाणां विभाग-कथनेन कथं ज्ञापितम् इत्यतः भिन्न-इन्द्रियेषु दैवादि-पद-प्रयोग-बलेन लब्धम् इत्य् आशयवान् दैवादि-पदार्थम् आह- सम्यक्-ज्ञान-प्रचुराणि इत्यादिना ॥ सम्यक्-ज्ञान-प्रचुराणि प्राचुर्येण सम्यक्-ज्ञान-जनकानीत्य् अर्थः । मिथ्या-ज्ञान-प्रचुराणि प्राचुर्येण मिथ्या-ज्ञान-जनकानीत्य् अर्थः । उभय-समानि साम्येन उभय-जनकानीत्य् अर्थः । प्रकृतत्वाद्- (श्री.टि.) इति ॥ ‘अदुष्टम् इन्द्रियं त्व् अक्षम्’ इति प्रकृतत्वाद् इत्य् अर्थः । तस्य एव अदुष्ट-इन्द्रिय-रूप-अक्षस्य एव । ‘तथा सर्वम् अक्षात्मकं मतम्’ इत्य् उक्तत्वाद् इति भावः । अत एव प्रकृत-विरोधाद् एव । प्रकृतस्यैव उपसंहार्यत्वेन एतद् अक्षम् ईरितम् इति च वक्तव्यत्वाद् इति भावः । निर्दोषान् इति ॥ अति-दूरत्वाति-सामीप्य-सौक्ष्म्य-व्यवधानादि-दोष-रहितान् स्व-विषयान् इत्य् अर्थः । अनेन इति ॥ ‘विषयान् प्रति स्थितम्’ इति वचनेन इत्य् अर्थः । तथा च, प्रगत आचार्यः प्राचार्य इतिवत् प्रति स्थितम् अक्षं प्रत्यक्षम् इति प्रादि-समासो ऽयं, मध्यम-पद-लोपी समास इति यावद् इत्य् अर्थः । ननु प्रादि-समासो ऽयम् इति कुतः । अक्षं प्रति प्रत्यक्षम् इति अव्ययीभावः कस्मान् न स्याद् इत्य् अत आह- अव्ययीभावत्वे हि इति ॥ षष्ठी न श्रूयेत इति ॥ प्रत्यक्षस्य लक्षणम् आह इत्यादि-शास्त्रीय-प्रयोगेषु इत्य् अर्थः । तथा हि ‘नाव्ययीभावाद् अतो ऽन्त्व् अपञ्चम्याः’ अदन्ताद् अव्ययीभावात् सुपो न लुक् तस्य पञ्चमीं विना अमादेशः । उपकृष्णाद् गत इत्य् एवं पञ्चमी-व्यतिरिक्त-सर्व-विभक्तिषु नित्यम् अम्भाव-श्रवणात् । ‘तृतीया-सप्तम्योर् बहुलम्’ अदन्ताद् अव्ययीभावात् तृतीया-सप्तम्योर् बहुलम् अम्भावस् स्यात् । उपकृष्णं कार्यम्, उपकृष्णेन कार्यम्, उपकृष्णं स्थितः, उपकृष्णे स्थित इति तृतीया-सप्तम्योर् अम्भावस्य वैकल्पिकत्वोक्तेः । ‘कर्मणा यम् अभिप्रैति स सम्प्रदानम्’ इति सम्प्रदान-सञ्ज्ञाभावेन चतुर्थी-विभक्ति-उत्पत्तेर् एव आयोगेन अव्ययीभाव-समासाङ्गीकारे अम्भावस्य अवर्जनीयत्वेन प्रत्यक्षस्य इति षष्ठी न श्रूयेत । इदम् उपलक्षणम् । प्रत्यक्षे, प्रत्यक्षाणि इति प्रथमा-द्वितीया-द्विवचन-बहुवचन-प्रयोगो ऽपि न श्रूयेत । ‘प्रत्यक्षो घटः’ इति विशेष्य-निघ्नता च न श्रूयेतेत्य् अपि द्रष्टव्यम् । प्रयोग-बाहुल्याभिप्रायेणैव प्रत्यक्षस्य इति उदाहृतम् इति भावः । ‘विषयान् प्रति’ इति मूले हि-शब्दो हेतु-अर्थो ऽवधारणार्थश् च इत्य् अभिप्रेत्य शङ्का-परिहार-परत्वेन तत्-मूलं योजयति- यतो ऽक्षम् एव इति ॥ स्व-गोचरेति ॥ स्व-विषय इत्य् अर्थः । न तु अर्थान्तरम् इति ॥ घटादि-वद् इति भावः । अनतिभिन्नत्वाद् इति ॥ प्रत्यक्ष-शब्दस्य सन्निकृष्ट-इन्द्रिय-वाचित्वेन अक्ष-शब्दाद् भेदे अपि इन्द्रिय-वाचित्वांशस्य उभयत्रापि सत्त्वेन प्रत्यक्ष-अक्ष-शब्दयोर् घट-पटादि-शब्दवद् अत्यन्तं भिन्न-अर्थत्वाभावाद् इत्य् अर्थः । न कश्चिद् विरोध इति ॥ प्रकृत-असङ्गत्य्-उपसंहारानुपपत्ति-रूपो विरोधो न इत्य् अर्थः ।
निर्वचन-प्रसङ्गाद् इति ॥ प्रत्यक्ष-शब्द-निर्वचनेन अक्ष-शब्द-निर्वचनस्यापि स्मारितत्वेन स्मृतस्योपेक्षानर्हत्व-रूपात् प्रसङ्गाद् इत्य् अर्थः । नञ्-उपपदाद् इति ॥ नञ्-उपपदात् क्षै क्षय इति अस्माद् धातोः ‘आदेच उपदेशे ऽशिति’ उपदेशे एजन्तस्य धातोर् एच आत्त्वं स्यात्, शितो ऽन्यस्मिन् प्रत्यये विवक्षित इति अनेन ऐकारस्य आत्त्वे न क्षा इति जाते ‘न लोपो नञः’ इति नञो नस्य लोपे अ क्षा इति जाते ‘आतो ऽनुपसर्गे कः’ आदन्ताद् धातोर् अनुपसर्गे उपपदे क-प्रत्ययः स्याद् इति सूत्रेण क-प्रत्यये ‘लशक्वतद्धिते’ इति क-कार-लोपे ‘आतो लोप इटि च’ अजादाव् आर्धधातुके किति ङिति च प्रत्यये इटि च परे धातु-आकार-लोपे अक्ष् अ अक्षम् इति रूपम् । ननु ‘आतो ऽनुपसर्गे कः’ इति सूत्रेण अत्र कथं क-प्रत्ययः । अनुपसर्गे कर्मणि उपपदे इत्य् उक्तत्वात् । उदाहृतं च गां ददाति इति गोदः, कम्बलद इति । प्रकृते च कर्मण उपपदस्याभावाद् इति चेत् सत्यम् । एवं हि सूत्र-क्रमः ‘कर्मण्य् अण्’ ‘ह्वावामश् च’ ‘आतो ऽनुपसर्गे कः’ ‘सुपि स्थः’ इति । तत्र पूर्व-सूत्रात् कर्मणि इत्य् अनुवृत्तिम् अभिप्रेत्य तथा व्याख्यातम् । अत्र कर्मणि इति (श्री.टि.) नानुवर्तते । उत्तर-सूत्रात् सुपि इत्य् एतद् आकृष्यते । तथा च अनुपसर्गे सुबन्ते उपपदे आदन्ताद् धातोः क-प्रत्ययः स्याद् इति अभियुक्तैर् व्याख्यातत्वेन प्रकृते च नञ् उपरि प्राप्तस्य सुपः ‘अव्ययाद् आप्-सुपः’ इति लोपेन नञस् सुबन्तत्वात् तस्मिन्न् उपपदे युक्तः क-प्रत्यय इति न एतत्-सूत्र-उदाहरणम् असङ्गतम् इति द्रष्टव्यम् । अन्वर्थम् इति ॥ अन्वर्थं युक्त-अर्थम् । निर्वचन-लभ्यो ऽर्थस् तत्र अस्ति इत्य् अर्थः । न तु अश्व-कर्णादिवद् रूढम् इति भावः । उपचारो गौणी वृत्तिः । स्वरूपेण नित्यस्यापि इति ॥ सूक्ष्म-रूपेण नित्यस्यापि इत्य् अर्थः । ‘भूतेन्द्रिय-प्राण-गुण-सूक्ष्म-रूपं च नित्यकम्’ इति वचनात् । तस्य भिन्न-इन्द्रियस्य । अहङ्कार-शब्देन तैजसाहङ्कारो ग्राह्यः । तथा च भूत-तैजसाहङ्कार-सम्बन्धिनो ये ऽवयवा अंशास् तैर् उपचय-रूपोत्पत्तिर् अस्ति इत्य् अर्थः । अत्र आदौ भिन्नानां प्राकृतानां सूक्ष्म-इन्द्रियाणां तैजसाहङ्कारावयवैर् उपचयस् तद्-अनन्तरं तैजसाहङ्काराद् उपचितानां तेषां पश्चात् पञ्च-भूतावयवैर् उपचय इति क्रमो ज्ञातव्यः । यथोक्तं भागवत-तात्पर्ये-
‘सूक्ष्म-इन्द्रियाणि सन्त्य् एव स्युस् स्थूलान्य् अप्य् अहङ्कृतेः । तेषां भूतैर् उपचयस् सृष्टि-काले विधीयते ॥’ इति ।
॥ मुख्य-असम्भवाद् इति ॥ सर्व-प्रकारेण क्षयाभावरूप-अक्ष-शब्द-मुख्यार्थस्य भिन्न-इन्द्रियेष्व् असम्भवाद् इत्य् अर्थः । एकदेश इति ॥ अक्ष-शब्द-मुख्यार्थे स्वरूप-इन्द्रिये सर्वथा क्षयाभावेन एकदेशाक्षयो ऽस्ति । भिन्न-इन्द्रियेष्व् अप्य् एकदेशाक्षयो ऽस्ति । तथा चैकदेशाक्षय-रूप-मुख्यार्थ-सदृश-गुण-योगाद् अक्ष-शब्दस्य गौणी वृत्तिर् इत्य् अर्थः । प्रकृत-उपयोगं दर्शयति- एतेन इति ॥ अनुभवस्य साक्षि-जानुभवस्य । तद्-विरोधेन साक्ष्यनुभव-विरोधेन । उच्यत इति ॥ ‘न च अनुभव-विरोध आगमस्य प्रामाण्यम्’ इति अनेन इति अर्थः । एतेन इति उक्तं विशदयति- स्वरूप-इन्द्रिय इति ॥ साक्षीत्य् अर्थः ।
॥ सम्भव-परिशेष इति ॥ सहस्रादौ शतादि-विज्ञानं सम्भवः । प्रसक्त-प्रतिषेधे ऽन्यत्राप्रसङ्गात् परिशिष्यमाणे बुद्धिः परिशेषः । यथा चैत्र-मैत्रयोर् नायं चैत्र इत्य् उक्ते ऽन्यस्मिन् मैत्र इति ज्ञानम् । ‘सम्भवादिकम् अनुमा उपपत्ति-स्वरूपत्वात्’ इत्यत्र साध्य-अविशिष्टता-परिहाराय उपपत्ति-स्वरूपत्वाद् इति एतत् व्याख्याति- व्याप्ति इति ॥ सम्भवादि-कम् अनुमा एव इति ॥ देवदत्तः शतवान् सहस्रवत्त्वाद् इत्य् एवं सम्भवे अनुमान-प्रकारो द्रष्टव्यः । यथा आहुः ‘इह भवति शतादौ सम्भवाद् आसहस्रान् मतिर् अपि युति-भावात् सानुमानाद् अभिन्ना’ इति । तथाऽयं मैत्रो भवितुम् अर्हति, चैत्र-मैत्रयोर् अन्यतरत्वे सत्य् अचैत्रत्वाद् व्यतिरेकेण घटवद् इति परिशेषे ऽप्य् अनुमान-प्रकारो ज्ञातव्यः । घटे विशेषण-अभाव-प्रयुक्त-विशेष्य-अभावेन हेतु-व्यतिरेको द्रष्टव्यः । ऐतिह्यस्यापि इति ॥ ‘इहाऽहुर् वृद्धाः’ इति प्रवाद-पारम्पर्यम् ऐतिह्यम् । यथा ‘वटे वटे वैश्रवणश् चत्वरे चत्वरे शिवः । पर्वते पर्वते रामः सर्वत्र मधुसूदनः’ इत्यादि । इदं च प्रायः प्रमाणम् एव न भवति । यदि च प्रमाणं तर्हि पदार्थ-स्मृत्यादिकम् अपेक्ष्य संसर्ग-प्रमा-जनकत्वाद् आगमे ऽन्तर्भावो वाच्य इत्य् अर्थः । यथा आहुः ‘जगति बहु न तथ्यं नित्यम् ऐतिह्यम् उक्तं भवति च यदि तथ्यं न आगमाद् भिद्यते तत्’ इति । नन्व् अर्थापत्त्यादीनाम् अनुमानान्तर्भाव-कथन-परे ‘अर्थापत्त्य्-उपमाभावाः’ इति वाक्य एव सम्भव-परिशेषाव् अपि स्थापयित्वाऽनुमानान्तर्गता इत्य् अन्तर्भावः कुतो नोक्तः? सम्भव-परिशेषयोर् अपि अर्थापत्त्यादिवद् अनुमानान्तर्भावे समाने सति विप्रकर्षे निमित्ताभावाद् इत्य् अत आह- अर्थापत्त्यादीनि इति ॥ वादिभिः प्राभाकर-भाट्ट-वेदान्तिभिः । यथोक्तं कारिकायाम्-
(श्री.टि.) ‘अर्थापत्त्या सहैतानि चत्वार्य् आह प्रभाकरः । अभाव-षष्ठान्य् एतानि भाट्टा वेदान्तिनस् तथा’ इति ।
॥ न तु सम्भवादीनि इति ॥ बहुभिर् वादिभिः प्रमाणत्वेन न अङ्गीकृतानि किन्तु कैश्चिद् एव पौराणिकैर् इति भावः । ‘सम्भवैतिह्य-युक्तानि तानि पौराणिका जगुः’ इति कारिकोक्तेर् इति ध्येयम् । प्रातीतिकम् एव इति ॥ आपात-प्रतीत्यैव सिद्धम् इत्य् अर्थः । अनुमान-प्रामाण्योपयुक्तं प्रत्यक्ष-आगमयोर् माहात्म्यं नाम कीदृशम् इत्य् अत आह- अनुकूलाभ्याम् इति ॥
‘अनुकूलेन तर्केण सनाथे सति साधने । साध्य-व्यापकता-भङ्गात् पक्षे नोपाधि-सम्भवः ॥’
इति वचनाद् इति भावः । तथा च प्रतिपक्षोपाध्यादि-निरासकत्वम् एव अनुमान-प्रामाण्योपयुक्तं तयोर् माहात्म्यम् इति भावः ।
ननु यस्मिन्न् अनुमाने व्याप्ति-पक्ष-धर्मता-वत्त्वेन स्वत एव प्रामाण्यं सिद्धम् अस्ति प्रतिपक्षोपाध्यादि-शङ्का च नास्ति तादृश-स्थले कथं प्रत्यक्ष-आगम-माहात्म्याद् अनुमानं प्रमाणतां याति । तत्र प्रत्यक्ष-आगमाभ्यां प्रतिपक्षाद्यनिरासेन तयोर् निरुक्त-माहात्म्याभावाद् इत्यतः तादृश-स्थलाभिप्रायेण प्रमाणताम् इति एतत् व्याचष्टे- अर्थ-निश्चायकताम् इति ॥ तादृश-स्थले प्रत्यक्ष-आगमयोर् निरुक्त-माहात्म्याभावेन तन्-माहात्म्याद् अनुमानस्य प्रामाण्याभावे अपि तत्-संवादेन अर्थ-निश्चायकत्वम् अस्ति इति अर्थ इति आहुः । एतेन इति ॥ ‘प्रत्यक्ष-आगम-माहात्म्यात्’ इति वचनेन इत्य् अर्थः । आगम-शब्दस्य अनिरुक्तत्वाद् न्यूनता-परिहारायाऽह- एवम् इति ॥ अस्य अर्थो ऽतीन्द्रियो धर्माधर्मादि-रूपः । द्रष्टव्येति ॥
‘आ समन्ताद् गमयति धर्माधर्मौ परं पदम् । यच् चाप्य् अतीन्द्रियं त्व् अन्यत् तेनासौ आगमः स्मृतः ॥’
इति अनुव्याख्यानानुसारेण द्रष्टव्येत्य् अर्थः । प्रकृत-उपयोगं दर्शयति- एतेन इति ॥ ‘नैवान्यथा तस्य नियतत्वं क्वचिद् भवेत्’ इति अनेन इति अर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु लक्ष्मी-प्रत्यक्षम् आदाय चातुर्विध्यस्य अन्यत्र समर्थितत्वात् कथं तत्-त्रैविध्योक्तिर् इत्य् अत आह- ऐश्वरम् इति इति ॥ शरीर-इन्द्रिय-रहितत्वाद् इति ॥ अत्र इन्द्रिय-रहितत्वोपपादनाय शरीर-ग्रहणं । सर्व-शब्दस्य असङ्कुचित-वृत्तित्वे तथा-शब्द-सूचित-दृष्टान्त-अभाव-प्रसङ्गात् सङ्कुचित-वृत्तिताम् आश्रित्य आह- सर्वम् ऐश्वरम् अपि इति ॥ यावद् इति ॥ तावताऽपि कथम् उदाहृत-श्रुति-विरोध-परिहार इत्य् अत आह- भिन्नेति ॥ ननु योग्य-योगिनोर् भिन्न-इन्द्रिय-त्रैविध्यवत् स्वरूप-इन्द्रिय-त्रैविध्यस्यापि सद्भावात् स्वरूप-इन्द्रिय-त्रैविध्यम् अनुक्त्वा भिन्न-इन्द्रिय-त्रैविध्य-मात्रोक्तिः किन्-निबन्धना इत्य् अत आह- यद्-अदुष्टम् इति ॥ अति-सामीप्यादि-दोष-युक्त-विषयैः सन्निकृष्टस्य अक्षस्यापि विषय-सन्निकृष्ट-अक्षत्वेन प्रत्यक्षत्वात् तेनापि तद्-ग्रहण-प्रसक्त्या तन्-मात्रस्य प्रत्यक्ष-लक्षणत्वायोगात् ‘निर्दोषार्थेन्द्रिय-सन्निकर्षः प्रत्यक्षम्’ (पां.टि.) इत्यादि-ग्रन्थान्तरानुसारेण निर्दोषत्वस्यापि विषय-विशेषणस्य अभिप्रेतत्त्वाद् न अनुपपत्तिर् इत्य् आशयेन आह- निर्दोषान् इति ॥ मूले विषय-ग्रहणस्य आनर्थक्यम् आशङ्क्य आकाशादि-सन्निकृष्ट-चक्षुरादि-व्युदासार्थत्वाद् न तद् इत्य् अभिप्रेत्य विषयत्वस्य केवल-अन्वयित्वेन आकाशादि-साधारणत्वात् कथम् अनेन तद्-व्यावृत्तिर् इत्यतो ऽत्र विषय-पदस्य इन्द्रिय-विषय-परत्वेन विषय-मात्र-परत्वाभावाद् इन्द्रिय-विषयत्वस्य केवल-अन्वयित्वाद् युक्तम् आकाशादि-व्यावर्तकत्वं तस्य इत्य् आशयेन उक्तम्- स्व-विषयान् इति ॥ तथाऽपि चक्षुरादिना गन्धादि-ग्रहण-प्रसङ्ग इत्यतो ऽन्वय-व्यतिरेकाभ्यां यस्य इन्द्रियस्य यो विषयत्वेन अवगस्तत्-परत्वाद् विषय-पदस्य गन्धादेश् च चक्षुरादिकं प्रत्य् अतथात्वाद् नोक्त-प्रसङ्ग इत्य् आशयेन उक्तम्- स्व-स्व-विषयान् इति ॥ मूले ‘विषयान् प्रति स्थितम्’ इत्य् उक्त-रीत्या प्रत्यक्ष-शब्द-निर्वचनस्य आनर्थक्यम् आशङ्क्य प्रत्यक्ष-शब्दे प्रादि-समास-ज्ञापन-द्वारा अव्ययीभाव-निवृत्ति-सूचनार्थत्वाद् न तद् इति भावेन तन्-निर्वचन-प्रयोजनम् आह- अनेन इति ॥ ‘विषयान् प्रति’ इत्यादि-प्रत्यक्ष-शब्द-निर्वचनेन इत्य् अर्थः । प्रादि-समास इति ॥ प्राचार्यः, प्रान्तेवासीत्यादौ वृत्ति-विषये गताद्यर्थे वर्तमानानां प्रादीनाम् अगतित्वे अपि ‘कु-गति-प्रादयः’ इत्यत्र प्रादि-ग्रहणात् प्रथमान्तेन आचार्यादि-पदेन, प्रगत आचार्यः प्राचार्यः, प्रकृष्ट-अन्तेवासी प्रान्तेवासी इति समासवद्, वृत्ति-विषये गताद्यर्थे इत्यादि-पद-ग्राह्य-स्थितार्थे वर्तमानस्य प्रति-शब्दस्य गतित्वाभावे अपि ‘कु-गति-प्रादयः’ इत्यत्र प्रादि-ग्रहणात् प्रथमान्तेन अक्ष-शब्देन प्रति स्थितम् अक्षं प्रत्यक्षम् इति प्रादि-समास इत्य् अर्थः । प्रति स्थितम् इत्य् उक्तिस् तु गताद्यर्थे वृत्ति-मत्-स्व-पद-विग्रहेण नित्य-समासत्वं च सूचयितुम् इति द्रष्टव्यम् ।
न च प्रत्यक्ष-शब्दे न प्रादि-समासो ऽङ्गीकर्तुं शक्यते । तथा सति प्रत्यक्ष-शब्दस्य अर्ध-पिप्पलीत्यादिवत् ‘परवल्लिङ्गं द्वन्द्व-तत्पुरुषयोः’ इति परवल्लिङ्गता-विधानेन नियत-लिङ्गत्वापत्त्या, प्रत्यक्षो ऽर्थः, प्रत्यक्षा बुद्धिः, प्रत्यक्षं ज्ञानम् इत्य् अभिधेय-लिङ्गत्वाभावापाताद् इति वाच्यम् । वार्तिक-कृता कात्यायनेन ‘द्विगु-प्राप्तापन्न-अलम्-पूर्व-गति-समासेषु प्रतिषेधः’ इति गति-समासे परवल्लिङ्गता-प्रतिषेधात् । गति-ग्रहणस्य अन्यस्य असम्भवेन प्राद्य्-उप-लक्षणताया आकरे स्थितत्वात् प्रादि-समासस्य परवल्लिङ्गत्वाभावेन विशेष्य-निघ्नतया निष्कौशाम्बिर् इत्यादि-वद् अभिधेय-लिङ्गत्वापपत्तेः । न च प्रादि-समास-प्रसङ्गे ‘कर्म-प्रवचनीयानां प्रतिषेधः’ इति कर्म-प्रवचनीयस्य प्रति-शब्दस्य समास-प्रतिषेधात् कथं प्रति-शब्दस्य अक्ष-शब्देन प्रादि-समासः स्याद् इति वाच्यम् । लक्षणेत्थम्भूताख्यानादि-रूप-कर्म-प्रवचनीयत्व-प्रयोजकस्यात्राभावेन अकर्म-प्रवचनीयत्वात् प्रति-शब्दस्य अक्ष-शब्देन समासोपपत्तेः । न चैवं विषयान् इति द्वितीयानुपपत्तिः, कर्म-प्रवचनीय-योगाभावेन ‘कर्म-प्रवचनीय-युक्ते द्वितीया’ इत्य् अनेन तद्-अप्राप्तेर् इति वाच्यम् । ‘बुभुक्षितं न प्रतिभाति किञ्चन’ इत्यादाविव ‘उभ-सर्वतसोः कार्या’ इत्यादि-वार्तिक-कृद्-उक्त-रीत्या अकर्म-प्रवचनीय-प्रति-शब्द-योगे अपि द्वितीयाया उपपन्नत्वात् । एतत् च तद्-वार्तिक-व्याख्यानावसरे आकर एव स्पष्टम् । ननु अक्षम् अक्षं प्रति वर्तत इति प्रत्यक्षम् इति निर्वचनाश्रयणेन प्रत्यक्ष-शब्दे ऽव्ययीभावस्यापि सति सम्भवे परित्यागायोगान् न तन्-निवृत्ति-सूचकत्वं सम्भवति इत्यतः, तथा सत्य् उपकुम्भादिवन् नियत-नपुंसकत्वेन विशेष्य-निघ्नत्वाभावापत्त्या प्रत्यक्षो ऽर्थः, प्रत्यक्षा बुद्धिर् इत्य् आद्य् अभिधेय-लिङ्गता न स्यात् । इन्द्रिय-गुण-कर्म-सामान्येष्व् अतिव्याप्तेश् च इत्यादि-दोषे सत्य् एव स्पष्टत्वात् तम् उपेक्ष्य उद्योत-कार- (पां.टि.) वार्तिकोक्तं तत्-पक्षे दोषम् आह- अव्ययीभावत्व इति ॥ ‘प्रत्यक्षस्य लक्षणम् आह’ इत्य् अभियुक्त-प्रयोगेषु इति शेषः । ‘नाव्ययीभावाद् अतो ऽन्त्व् अपञ्चम्याः’ इति पञ्चम्या अम्-आदेश-निषेधे अपि ‘तृतीया-सप्तम्योर् बहुलम्’ इति तृतीया-सप्तम्योर् विकल्पेन तद्-विधाने अपि अन्यत्र नियमेन अम्भाव-विधानेन प्रत्यक्षम् इत्य् एव भाव्यत्वेन प्रत्यक्षस्य इति षष्ठी न श्रूयेत इत्य् अर्थः । अक्षम् इति ॥ अदुष्टम् इन्द्रियम् इत्य् अर्थः । अनतिभिन्नत्वाद् इति ॥ विशिष्टाकारस्य आयावद्-द्रव्य-भावितया विशेष्येण अक्षेण भिन्न-अभिन्नत्वान् न अत्यन्ताभिन्नत्वम् इत्य् अर्थः । कश्चिद् इति ॥ ‘प्रत्यक्षं त्रिविधम्’ इत्य् उपक्रम-असङ्गति-रूपो वा ‘एतत् प्रत्यक्षम् ईरितम्’ इत्य् उपसंहारानुपपत्ति-रूपो वेत्य् एवं कश्चिद् अपि इत्य् अर्थः । अक्ष-शब्द-निर्वचनस्य असङ्गतिम् आशङ्क्य परिहरति- निर्वचन-प्रसङ्गाद् इति ॥ प्रत्यक्ष-शब्द-निर्वचन-प्रसङ्गाद् इत्य् अर्थः । प्रत्यक्ष-शब्द-निर्वचनेन अक्ष-शब्द-निर्वचनस्यापि स्मारितत्वात् तन्-निर्वचन-करणम् इति भावः । नञ्-उपपद इति ॥ नञ्-उपपदे ‘क्षै क्षये’ इत्यस्य उपदेशे एजन्ततया ‘आदेच उपदेशे ऽशिति’ इत्य् आत्त्वे ‘आतो ऽनुपसर्गे कः’ इति क-प्रत्यये ‘आतो लोप इटि च’ इत्य् अकार-लोपे ‘न लोपो नञः’ इति न-लोपे न क्षायतीत्य् अक्षम् इति अक्ष-शब्द-निष्पत्तिर् इति भावः । सूक्ष्म-रूपेण नित्यस्यापि इति ॥ ‘नित्यान्य् एतानि सौक्ष्म्येण हि इन्द्रियाणि तु सर्वशः’ इति वचनाद् इति भावः । सृष्टि-काले भौतिक-आहङ्कारिकावयव इति ॥ भौतिक-अवयवैस् तैजसाहङ्कारिकावयवैश् च इति द्वेधा उपचय-लक्षणोत्पत्तिर् अस्ति इत्य् अर्थः ।
‘सूक्ष्म-इन्द्रियाणि सन्त्य् एव स्युः स्थूलान्य् अप्य् अहङ्कृतेः । तेषां भूतैर् उपचयः सृष्टि-काले विधीयते ॥’
इत्यादि-स्मृतेर् इति भावः । साध्य-अवैशिष्ट्य-परिहारायाऽह- व्याप्ति-स्मरणम् अपेक्ष्य इति ॥ अन्तर्भावो वाच्य इति ॥ अन्यथाऽनुप्रमाण-त्रित्व-भङ्गापत्तेर् इति भावः । प्रातीतिकम् इति ॥ आपाततः प्रतीत्या प्राप्तम् इत्य् अर्थः । प्रत्यक्ष-आगम-माहात्म्याद् इति ॥ प्रत्यक्ष-आगमयोर् आनुकूल्यस्यापि अनुमान-प्रामाण्योपयुक्तत्वम् उक्तम् । तत् केन प्रकारेण इत्यतस् तद्-आभासत्वापादक-उपाधि-प्रतिपक्ष-निरासकत्वेन इति आह- अनुकूलाभ्याम् इति ॥ आ इति अनुवादेन समन्ताद् इति व्याख्यानम् । सम्यक् चेत्य् अपि ग्राह्यम् । ‘ग्रह-वृदृ-निश्चि-गमश् च’ इति अकर्तरि कारके भावे च गमेर् अपो विधानाद् आगम-शब्दः करण-साधन एव । अत्र आ समन्ताद् गमयति इत्यादौ कर्तृ-साधन-कथनं तु करणे कर्तृत्वोपचारेणैव इति भावेन करण-साधनतां दर्शयति- गम्यते ज्ञायते ऽर्थो ऽनेन इति ॥
लघुप्रभा
(व्या.टि.)
एकीकृत्य इति ॥ ‘समना नय-रीत्या परमैश्वर्य-शालि-महालक्ष्म्या उपस्थितेः’ इत्य् उक्त-दिशा नित्य-अवियोगित्वेन अत्यन्त-रङ्गत्वाद् वा प्रत्यक्ष-द्वयम् ऐकराश्येन उक्तम् इत्य् अर्थः । अथवा ईश्वरश् च ईश्वरी च इति विगृह्य ‘पुमान् स्त्रिया’ इत्य् एकशेषे तयोर् इदम् इत्य् अर्थे ऽणि ‘यचि भम्’ इति भ-सञ्ज्ञायाम् ‘यस्येति च’ इत्य् अकार-लोपे ऐश्वरम् इति ‘सारस्वतौ भवतः’ इतिवत् ‘क्षौमे वसानाव् अग्निम् आदधीयाताम्’ इतिवच् च विरूपैकशेषेण स्त्री-पुंस-सम्बन्धि-इन्द्रिय-द्वयम् एकोक्त्या लक्ष्यत इति भावः । केचित् तु ईश्वरस्येश्वर्याश् च इदम् इति विग्रहम् आहुः । तन् न । प्रत्येकं लिङ्ग-द्वयात् तद्धित-वृत्तौ वृत्तस्याऽवृत्ति-प्रसङ्गः । विग्रहे च-शब्द-अयोगश् च । ‘समुदायाच् च न वृत्तिः प्रातिपदिकात्’ इत्य् एकवचन-अनुरोधात् (व्या.टि.)समुदाय-श्रवणापत्तेश् च । योगिन इति ॥ योग-शब्दात् ‘अत इनिठनौ’ इति मत्वर्थे इनिर् इति भावः । तदीयम् इति ॥ ऋजु-तात्त्विकातात्त्विक-सम्बन्धीत्य् अर्थः । अनेन योगि-पदात् प्राग्-वहनीयष्-ठग् इति भावः । अस्मदादीनाम् इति ॥ वयम् आदयो येषाम् इति विग्रहः । समासस् त्व् अतद्-गुण-संविज्ञानः । टीका-काराणां विशिष्ट-व्याख्यातृत्वेन सुरत्व-निश्चयेन अयोगित्वाभावात् । अनेन अयोगिनाम् इदम् इति विग्रहो दर्शितः । तथात्वे च अयौगिकम् इत्य् आर्षः प्रयोगः । अयोगि-शब्दाट् ठकि ‘किति च’ इति वृद्धाव् अयोगिकम् इति भाव्यत्वात् । शरीर-इन्द्रिय इति ॥ यद्यपि इन्द्रिय-राहित्यम् एव शङ्कनीयं तथाऽपि तत्-साधकतया शरीर-राहित्यम् अपि उक्तम् इति । अत्र आद्यस् तथा-शब्दः समुच्चये, द्वितीयम् उपमायाम् इत्य् अभिप्रेत्य व्याचष्टे- यथा यौगिकम् इति ॥ अभाव-वचनस्य तात्पर्य-द्वयम् आह- भिन्न-जड इति ॥ भिन्न-इन्द्रियाभाव-परं जड-इन्द्रियाभाव-परं चेत्य् अर्थः । ‘उक्तानि’ इत्य् उक्त-वचनानि दर्शयति- यद्-आत्मक इत्यादिना इति ॥ आदिपदेन श्रियो ऽपि भिन्न-जड-इन्द्रियाभाव-परा श्रुतिर् ग्राह्या । भिन्न-इन्द्रिय-विभागोक्तेः फलम् आह- यद्-अदुष्टम् इत्यादिना ज्ञापयितुम् इत्य् अन्तेन ॥ अत्र स्वरूप-इन्द्रिय-पदेन उत्तम-चेतनानां स्वरूप-इन्द्रियं विवक्षितम् । तत् च ‘निर्दोषम् एव चैतन्यम्’ इत्य् अनुभाष्योक्त-दिशा निर्दोषम् एव इति व्यावर्त्याभावात् तन्-निर्दोषत्वं स्वरूप-कीर्तनम् इति भावः । अत्र मूले दैवानि च असुराणि च इति विग्रहः । सर्वत्र व्यक्ति-अपेक्षया बहुवचनम् । तानि त्रीणि इन्द्रियाण्य् उद्देश-क्रमेण लक्षयति- सम्यक्-ज्ञान-प्रचुराणि इत्यादिना ॥ सम्यक्-ज्ञानं प्रचुरं येभ्यस् तानि इति विग्रहः । प्रचुर-सम्यक्-ज्ञान-साधनानि इति यावत् । अत्र ऋजु-भिन्न-इन्द्रिये सम्यक्-ज्ञान-प्राचुर्ये व्यधिकरण-सजातीय-अल्पं निरूपकम् । न तु समानाधिकरण-विजातीय-अल्पम् । ‘तत्र द्वयम् अपि नियमेन यथार्थम्’ इति पद्धत्युक्तेः । भवति च व्यधिकरण-सजातीय-अल्पम् अपि प्राचुर्य-निरूपकम् । यथोक्तं तात्पर्य-चन्द्रिकायाम्- ‘विजातीय-समानाधिकरण-अल्पं यथा तथा सजातीय-विभिन्न-अधिकरण-अल्पं निरूपकम्’ इति । दैवानि आसुराणि इत्यत्र दैव-असुर-शब्दौ उत्तम-अधम-अधिकारि-मात्र-परौ । उत्तम-अधमेषु दैव-असुर-प्राधान्येन वाऽयं व्यपदेशः । श्रौतश् चायम् अर्थो यत् प्राधान्येन व्यपदेश इति । यथाऽह ब्राह्मणम्- ‘अथो एनं प्रथमे नैवानुबुद्ध्यन्ते । अयम् आगन् अयम् अवासत्’ इति । इति मीमांसितश् च श्रुति-लिङ्गाधिकरणे ‘ऐन्द्र्या गार्हपत्यम् उपतिष्ठते’ इत्यत्र लिङ्ग-वाक्य-विरोध-सत्त्वे अपि श्रुति-प्राबल्यात् श्रुति-लिङ्ग-विरोध-व्यपदेशः’ इति । उभय-समानीति ॥ उभयं समं येभ्यस् तानि इति विग्रहः । सम-उभय-साधनानि इत्य् अर्थः ।
इन्द्र-महेन्द्राधिकरण-न्यायेन अक्ष-प्रत्यक्षयोर् भेदं मत्वा शङ्कते- ननु इति ॥ प्रकृतत्वाद् इति ॥ ‘अदुष्टम् इन्द्रियं त्व् अक्षम्’ इत्य् उक्त-क्रमाद् इत्य् अर्थः । निरूपितत्वाद् इति ॥ विभागेन इति शेषः । अत एव इति ॥ प्रक्रम-विरोधाद् इति अर्थः । ननु ‘स्वरादि-निपातम् अव्ययम्’ इति चादि-निपात-पतितस्य प्रतेर् अव्ययत्वात् ‘अव्ययं विभक्ति’ इत्यादिनाऽव्ययीभाव-समासे ‘अतो ऽन्त्व् अपञ्चम्याः’ इत्य् अम्भावे ‘अव्ययीभावश् च’ इत्य् अव्ययत्वे कथम् अयं विग्रह इत्य् अत आह- अनेन इति ॥ प्रति स्थितम् इति विग्रह-प्रदर्शनेन इत्य् अर्थः । ‘कु-गति-प्रादयः’ ‘प्रादयो गताद्यर्थे प्रथमया’ इति विहितः प्रादि-समासो ऽयं न अव्ययीभाव इति भावः । मध्यम-पद-लोपी समासो ऽयम् इति कश्चित् । तन् न । ‘सप्तम्य्-उपमान-पूर्वकस्य बहुव्रीहिर् वा उत्तर-पद-लोपश् च’ इतिवद् अत्र विधानाभावात् । शाक-पार्थिवादित्वाभावाच् च । प्रत्युत ‘प्रादयो गताद्यर्थे’ इत्य् अनेन ‘जनकस्यात्ययो जातिः’ इत्यत्र प्रान्तेवासी, प्राचार्य इत्य् उदाहृत्य ‘उपसर्गाः क्रिया-सन्निधानाभावे स-साधन- (व्या.टि.) क्रियाम् आहुः’ इत्य् उक्त्या गतादीनाम् उपसर्गार्थत्वोक्त्या च विरोधाच् च । अव्ययीभाव-समासे बाधकम् आह- अव्ययीभावत्वे हि इति ॥ षष्ठीति ॥ ‘नाव्ययीभावाद् अतो ऽन्त्व् अपञ्चम्याः’ इत्य् अकारान्ताद् अव्ययीभावात् सुपो न लुक् किन्त्व् अम् एव इति सर्व-विभक्ति-स्थानापन्नतयाऽमो विधानेन, ‘तृतीया-सप्तम्योर् बहुलम्’ इति पञ्चमी-पर्युदास-बहुल-ग्रहणाभ्यां पञ्चमी-तृतीया-सप्तमीनां श्रवण-सम्भवे अपि षष्ठी-श्रवणम् अयुक्तम् इति भावः । उपलक्षणम् एतत् । द्विवचन-बहुवचन-अनुपपत्तिश् च इति ज्ञातव्यम् । न त्व् अर्थान्तरम् इति ॥ विशिष्टस्य पदार्थान्तरत्वे आमिक्षाधिकरण-विरोधः स्फुट एव इति भावः । अक्ष-शब्दात् कथम् अक्षयत्व-लाभ इत्यतः प्रकृति-प्रत्यय-विभागं दर्शयति- एतेन इति ॥ नञ्-उपपद इति ॥ एतेन सूत्रे ‘सुपि’ इत्य् अनुवृत्तिः सूचिता । धातोर् इति ॥ धातु-व्याख्यानाद् इत्य् अर्थः । क्षायतेः ‘आदेच उपदेशे ऽशिति’ इत्य् आत्त्वे ‘आतो ऽनुपसर्गे कः’ इति क-प्रत्यय इति भावः । अन्वर्थम् इति ॥ आनुपूर्व्ये ऽव्ययीभावः । अर्थवद् एव न रूढम् इति भावः । भौतिक-आहङ्कारिक इति ॥ ‘तेषां भूतैर् उपचयः’ इति ‘वैकारिकान् मनो जज्ञे । तैजसानि इन्द्रियाण्य् आहुः’ इत्य् उपचय-श्रवणाद् इत्य् अर्थः । उपचयोक्तिर् अनुपयुक्तेत्य् अत आह- अपचय-लक्षण इति ॥ स्वरूप-इन्द्रिय-नित्यत्व-अनुभव-निर्दोषत्वोक्तेः क्व उपयोग इत्य् अत आह- एतेन इति ॥ ‘अनुमा’ इत्य् उपलक्षणं मत्वाऽह- एवम् इति ॥ सम्भवाद्यन्तर्भावोक्तेः प्रकरण-विच्छेदे हृदयम् आह- अर्थापत्त्यादीनि इति ॥ तत्-सूचयन्न् आह इति ॥ अनुसृत्य इति निर्वचनस्य अनुसरणीय-अर्थ-सापेक्षत्वात् तम् आह इत्य् अर्थः। निरुक्तिर् इति ॥ तथा चात्र ‘ग्रह-वृदृ-निश्चि-गमश् च’ इति अकर्तरि कारके अपि करण-साधन आगम-शब्दः । ‘आ समन्ताद् गमयति धर्माधर्मौ परं पदम् । यच् चाप्य् अतीन्द्रियं किञ्चित् तेनासौ आगमः स्मृतः’ इत्य् अनुव्याख्याने तु करणे कर्तृत्वोपचारः । अस्य उक्त-उपयोगम् आह- एतेन इति ॥ इति ब्रह्मतर्क-व्याख्या-भाव-वर्णनम् ।