Confusion भ्रमः

कारणम्

मन्ये मायावादो नालम् मोहयति जनान् इति निश्चित्य
सर्व-देवताऽभेद-वादं निवेश्य
शङ्करार्योक्तीर् अप्य् अतिक्रम्य
तत्-सिद्धान्तस्य विस्तारो विहित ईदृशैः।

एवम् पूराणोक्ति-मीमांसा-वैकल्यम् अपि निधानम् अत्र।

प्रवाद-धारा

मेधा-तिथिर् आह -

जगत्-कारण-पुरुषतया ऽऽगमेष्व् आम्नातः,
सो ऽयम् एव ।
न शब्द-भेदाद् अर्थ-भेदः ।
ब्रह्मा नारायणो महेश्वर इत्य् एक एवार्थो
नोपासना-कर्मतया भिद्यते ।

अयं वादः पराशरभट्टाद् अपि प्राचीने शाङ्कर-विष्णु-सहस्र-नाम-भाष्यय् इङ्गितः।

मधुसूदनसरस्वत्य् अपि शिव-महिम्न-स्तुति-व्याख्यायाम् -

हरि-शङ्करयोर् अभेद-बोधो
भवतु क्षुद्र-धियाम् अपीति यत्नात् ।
उभयार्थतया मयेदम् उक्तं
सुधियः साधुतयैव शोधयन्तु ॥ १ ॥

भूति-भूषित-देहाय,
द्विज-राजेन राजते।
एकात्मने नमो नित्यं
हरये च हराय च ।।६।।

प्रादेशिक-भाषासु (द्रष्टुं नोद्यम्)

ಕರ್ನಾಟಕ ಭಾರತ ಕಥಾಮಂಜರಿ edited by sri Masti Venkatesh Iyengar and Sri Kuvempu which was first published in the year 1958 in that book in paje number 313 in udyogaparva padya 118 this has been mentioned (source: YT) -

ಹರಿ ಭಕ್ತಿ ಲೋಲುಪರೆನಿಸಿ
ಶಂಕರನ ಬದ್ದ ದ್ವೇಷಿಯಹ
ಶಂಕರನ ಭಕ್ತಿಯೊಳಧಿಕವಾಗಿಯು
ವೈಷ್ಣವರ ಮೇಲೆ ಎರಕವಿಲ್ಲದ ಕರ್ಮ
ಚಾಂಡಾಲರು ಎಪ್ಪತೈದು ಕೋಟಿ
ನರಕದೊಳು ಓಲಾಡುತಿಹರೆಲೆ
ರಾಯ ಕೇಳೆಂದ.

(ka-ga-pa edition doesn’t have this verse.)

  • शृङ्गगिरी-गुरुर् भारतीतीर्थार्यः
  • जगन्नाथ-पीठाधिपतिर् निश्चलानन्दसरस्वती यतिः -
    अत्र ब्रह्मणो ऽपेक्षया विष्णोर् नारायणस्य परत्वं ब्रूते।
    किञ्चान्यत्र (YT) स्पष्टीकरोति - पुराणानुसारेण त्रिमूर्तिषु तारतम्यं नास्ति।
  • अन्येष्व् आरोपो ऽत्र

प्रमाण-क्रमः

अदुष्टम् प्रत्यक्षम् > वेदाः, ब्रह्म-सूत्राणि > स्मृतयः > इतिहासौ (रामायणं विशिष्य) > सात्त्विक-पुराणानि (विशिष्य विष्णु-पुराणम्) > आन्तरिक-तारतम्येन वैष्णवा आगमाः, द्रविड-गाथाः, सम्प्रदाय-रहस्य-ग्रन्थाः > राजस-तामस-पुराणानि, इतरागमाः ससाङ्ख्ययोगादयः > गुर्व्-आद्य्-आदेशः > शिष्टाचारः > ऐतिह्यम्।

इत्येव साधु, न शाङ्करेष्टा ऽव्यवस्था कुव्यवस्था वा।
विस्तारोऽन्यत्र - TW

वेदे भेदः

नारायण-परम् ब्रह्म-तत्त्वं, नारायणः पर

इति स्पष्टं नारायणस्य पर-तत्त्वत्वम् उक्तम्।
“ह्रीश्च ते लक्ष्मीश् च पत्न्यौ” इति लक्ष्मी-पतित्वं स्पष्टी कृतम्।
एवं तस्यैव पुरुषसूक्तादौ जगत्-कारणत्वम्, अन्तर्यामित्वं चोक्तं स्पष्टम्,
ततः परब्रह्मत्वम् अपि (“जन्माद्यस्य यतः” इति ब्रह्मसूत्रेण)।
नारायण-शब्दे च णत्वतो व्याकरणेन वेदाङ्गेनास्य शब्दस्य विशेष्यता ज्ञायते,
न तु शिव-रुद्रेन्द्र-ब्रह्मादिवद् विशेषणत्वम्।
नारायणानुवाकस्य पर-ब्रह्म-प्रतिपादन-परत्वम् उच्यते रामानुजेन।

रुद्रश् च पाप्मना विद्ध उक्तः।
प्रजापतेस् तदीयोत्पत्तिर् अपि स्पष्टम् एवोक्ता।
यथा शतपथब्राह्मणे -

स᳓ संवत्सरे᳓ कुमा᳓रो ऽजायत। सो᳙ ऽरोदीत्॥
तं᳓ प्रजा᳓पतिर् अब्रवीत्॥
“कु᳓मार - किँ᳓ रोदिषि? य᳓च् छ्र᳓मात् त᳓पसो᳓ ऽधि जातो᳓ ऽसी᳓“ति सो᳙ ऽब्रवीद् -
“अ᳓नपहत-पाप्मा वा᳓ अस्म्य्, अ᳓हित-नामा।
ना᳓म मे धेही᳓“ति।

इत्थं नारायण-रुद्र-भेदस् स्पष्टः।

वेदे ऽभेदः

इ᳓न्द्रम् मित्रं᳓ व᳓रुणम् अग्नि᳓म् आहुर्
अ᳓थो दिव्यः᳓ स᳓ सुपर्णो᳓ गरु᳓त्मान्
ए᳓कं स᳓द् वि᳓प्रा बहुधा᳓ वदन्ति
अग्निं᳓ यम᳓म् मातरि᳓श्वानम् आहुः

The third foot is very popular.
It is misinterpreted as saying that one brahman appears in multiple superficial forms.
Yes - One reality is spoken of in multiple ways (because it consists of multiple things). The idea that these distinctions are merely distinctions of “form”, and not anything deeper does not hold up. There is no such claim in the original.

स्मृतिषु भेदः

मनुस्मृतौ नारायणस्य जगत्-कारणत्वम् प्रसिद्धम्, अन्येषां च जीवत्वम्।
यथा -

सो ऽभिध्याय शरीरात् स्वात्
सिसृक्षुर् विविधाः प्रजाः ।
अप एव ससर्जादौ
तासु वीर्यम् अवासृजत् ॥ १.८ ॥
… तस्मिञ् जज्ञे स्वयं
ब्रह्मा सर्व-लोक-पितामहः
आपो नरा इति प्रोक्ता
आपो वै नरसूनवः ।
ता यद् अस्यायनं पूर्वं
तेन नारायणः स्मृतः ॥ १.१० ॥
यत् तत् कारणम् अव्यक्तं
… लोके ब्रह्मेति कीर्त्यते ॥ १.११ ॥

एवं बोधायनापस्तम्बादिभिर् आदृते वैखानस-कल्प-सूत्रे,
विष्णोस् सर्वोत्तमत्वं सुव्यक्तम्।

इतिहासयोर् भेदः

रामायणे तावद् आख्याने
शिवेनापि देवतान्तरैस् सह विष्णोः शरणं गमनम् उक्तम् -

भयं तस्माद् … ततो देवर्षिगन्धर्वाः सरुद्राः … तुष्टुवुः॥

(“अत्र पूर्वं महादेवः प्रसादमकरोत् प्रभुः” इति
पूर्वापरसङ्गत्या न शिवकृत-राम-प्रसादं सूचयति। )

महाभारते च ब्रह्म-रुद्र-संवादे
ब्रह्मा रुद्रं प्रत्याह

तवान्तरात्मा मम च
ये चान्ये देहि-संज्ञिताः ।

पुराणेषु मुख्येषु भेदः

विष्णुपुराणे विष्णोर् हि जगत्-कारणत्वम् उक्तम्, तटस्थ-प्रश्नाद् आरभ्य, न तु देवता-स्तुतेः।
नारायणानुवाकवद् अस्य पर-ब्रह्म-प्रतिपादन-परत्वम् उच्यते रामानुजेन।

“ब्रह्मा दक्षादयः कालस्
तथैवाखिल-जन्तवः ।
विभूतयो हरेर् एताः
जगतस् सृष्टि-हेतवः”
(विष्णु. पु. 1-22-31)

“ब्रह्माद्यास् सकला देवा
मनुष्याः पशवस् तथा ।
विष्णु-माया-महावर्त-
गर्तान्ध-तमसा वृताः”
(विष्णु-पुराणम् 5-30-47)

“हरो हरति तद्-वशः”
(भाग 2-6-31)

त्रिमूर्तिभेदो रामानुजेन वेदार्थ-सङ्ग्रहे प्रतिपादितः - TW। यथा -

ब्रह्मादीनां भावना-त्रयान्वयेन +++(=कर्मणि, ईश्वरोपासनायां, उभयोश् चोद्यमेन)+++ कर्म-वश्यत्वं, भगवतः … देवादिष्व् अवतार इति च षष्ठे ऽंशे शुभाश्रय-प्रकरणे सु-व्यक्तम् उक्तम् ।

अन्यत्र च -

“परो नारायणो देवस्
तस्माज् जातश् चतुर्मुखः ।
तस्माद् रुद्रोऽभवद् देवि”
(वराह-पुराणम् 90-3.)

पुराणेषु क्वचिद् अभेदः

जगदीश्वरास् त्रयः

सत्सङ्कल्पस्य ते ब्रह्मन्
यद्वै ध्यायति ते वयम्॥

इति भागवते ।

“हे ब्रह्मन् ! त्वं यद् एकं जगदीश्वराख्यं तत्त्वं ध्यायसि तद्वयं तद् एव तत्त्वं सद्वारकम् अद्वारकं च त्रिमूर्ति-रूपेणावस्थितम् इत्य् अर्थः । "

इत्यादि व्याख्याति वीरराघवः।
TW

तत्रैव विस्तरेण विष्णुपुराणाद्य्-उक्तयो ऽपि व्याख्याताः -

ततस् स भगवान् विष्णू
रुद्र-रूप-धरो ऽव्ययः ।
ततः कालाग्नि-रुद्रो ऽसौ
भूत्वा सर्वहरो हरिः ॥
सृष्टि-स्थित्य्-अन्तकरणीं
ब्रह्म-विष्णु-शिवात्मिकाम् ।
स-संज्ञां याति भगवान्
एक एव जनार्दनः”
(विष्णु.पु. 1-2-66)

एकरूपतायाम्

ये भेदं विदधत्य् अद्धा
आवयोर् एक-रूपयोः । कुंभी-पाकेषु पच्यन्ते
नराः कल्प-सहस्रकम् ॥ २१ ॥

Padma purana 5.46.21,
Vishnu says, If one sees difference in Shiva and Vishnu they are abandoned to hell for 1000 kalpas.

ईदृशा उक्तयो श्रुति-स्मृतीतिहासाविरोधेन नेयाः -
यथा +एकरूप्यावस्थायाम् भेदोक्तेर् निषेधः, तामस-जनाधिकारेण, प्रक्षेपाशङ्कादिभिर् वा।

नामापराध-कथा

सन्निन्दा ऽसति नाम-वैभव-कथा श्री-शेशयोर् भेदधीर्
अ-श्रद्धा श्रुति-शास्त्र-देशिक-गिरां नाम्न्य् अर्थ-वाद-भ्रमः।
नामास्तीति निषिद्ध-वृत्ति–विहित-त्यागौ च धर्मान्तरैः
साम्यं नामनि शङ्करस्य च हरेर् नामापराधा दश॥

इति श्लोकः कैश्चिच् छाङ्करैर् उच्यते (यथा २०२५ इति वर्षे विधुशेखरभारत्या)।

अनेनाज्ञातमूलकेन श्लोकेन पुराणानि स्वयं नामापराधभाजः :-)
एवं शैवागमा अपि शिवपारम्यवादिनो भवन्ति नामापराधकृतः।

अतो नैतादृशानि वचनानि बहु-मन्यन्ते शाङ्करेतराः।

परस्-परोत्पत्तिः, उदर-पीडादि-कथा

एवं कल्पेषु कल्पेषु
ब्रह्मविष्णुमहेश्वराः ।
परस्परस्माज् जायन्ते
परस्-पर-जयैषिणः

तत्-तत्-कल्पान्त-वृत्तान्तम्
अधिकृत्य महर्षिभिः ।
प्रभावः कथ्यते तेषां
परस्पर-समुद्भवात् ।
क्वचिद् ब्रह्मा क्वचिद् रुद्रः
क्वचिद् विष्णुः प्रशस्यते

यो ब्रह्म-विष्णु-रुद्राणां
भेदम् उत्तम-भावतः ।
साधयेद् उदर-व्याधि-
युक्तो भवति मानवः । +++(4)+++

यतश् चायं श्लोक उदाहृतः,
स आधुनिकशाङ्कराणाम् अप्य् अपसिद्धान्तः -
परस्पर-स्पर्धायाम् अपि त्रिमूर्ति-साम्यम् उक्तं तत्र, न परस्पराभेदः।

रङ्गरामानुजेन च प्रत्याख्यातम् -

तामस–पुराणेषु
अपचरद्-अवस्थतया प्रक्षेप-शङ्कास्पदेष्व् एवं श्रवणे ऽप्य्
अतादृशेषु तथा श्रवणाभावात्।

(अत्रोक्त उदरव्याधिविपाकस् तु ब्रह्मरुद्राव् अय् उदरपीडाभाजौ कुरुते,
यतस् ताभ्याम् अपि तत्र तत्र विष्णुपारम्यम् उक्तम् इतिहासे।
पुनः, “महर्षिभिः … क्वचिद् विष्णुः प्रशस्यते” इति यद् उक्तम्,
तेषां खलु मानुषत्वाद् उदरव्याधिर् भवेद् एव?)