[प्रथमोऽध्यायः]
भागसूचना
स्वायम्भुव मनुकी कन्याओंके वंशका वर्णन
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे।
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः॥
मूलम्
मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे।
आकूतिर्देवहूतिश्च प्रसूतिरिति वि1श्रुताः॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! स्वायम्भुव मनुके महारानी शतरूपासे प्रियव्रत और उत्तानपाद—इन दो पुत्रोंके सिवा तीन कन्याएँ भी हुई थीं; वे आकूति, देवहूति और प्रसूति नामसे विख्यात थीं॥ १॥
वीरराघवः
तृतीये “स्वायम्भुवस्य च मनोर्वंशः परमसम्मतः” (भाग 3-21-1) इति स्वायम्भुवचरित्रतत्सन्तती पृष्टे । तत्र स्वायम्भुवचरितमभिधाय “एतत्त आदिराजस्य मनोश्चरितमद्भुतम् । वर्णितं वर्णनीयस्य तदपत्योदयं शृणु ॥" (भाग 3-22-39) इति तत्सन्ततिकथनं प्रतिज्ञाय तावत् देवहूतिसन्ततिं प्रक्रम्य कलानसूयादयो नव पुत्रिकाः कपिलाऽऽख्यः पुत्रः तच्चरितमित्येतानि कथितानि । इदानीमस्मिन् स्कन्धे मनुपुत्रस्योत्तानपदः सन्ततिं विस्तरेण वक्ष्यमाणः तत्रादौ आकूतिप्रसूत्योर्वंशं देवहूतिदुहितृसन्ततिं चाह मैत्रेयः - मनोस्त्विति । हे 2सुव्रत ! विदुर ! आकूत्यादयः तिस्रः कन्याः मनोः स्वायम्भुवात् तद्भार्या3यां शतरू4पायां जज्ञिरे । चकारात् द्वौ पुत्रौ च जज्ञात इत्यर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
आकूतिं रुचये प्रादादपि भ्रातृमतीं नृपः।
पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः॥
मूलम्
आकूतिं रुचये प्रादादपि भ्रातृमतीं नृपः।
पुत्रिका धर्ममाश्रित्य शतरूपानुमोदितः॥ २ ॥
अनुवाद (हिन्दी)
आकूतिका, यद्यपि उसके भाई थे तो भी, महारानी शतरूपाकी अनुमतिसे उन्होंने रुचि प्रजापतिके साथ ‘पुत्रिकाधर्म’-के* अनुसार विवाह किया॥ २॥
पादटिप्पनी
- ‘पुत्रिकाधर्म’ के अनुसार किये जानेवाले विवाहमें यह शर्त होती है कि कन्याके जो पहला पुत्र होगा, उसे कन्याके पिता ले लेंगे।
वीरराघवः
5मनोस्त्विति तुशब्दादन्योऽपि पुत्रलाभः सूचितः, तद्दर्शयितुमाह - आकूतिमिति । नृपो मनुः भ्रातृमतीं प्रियव्रतोत्तानपादभ्रातृमतीमपि स्वदुहितरं आकूतिं पुत्रिकाधर्ममाश्रित्य “अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति” (मनु. स्मृ. 9-3 अधिकपाठः) इति भाषाबन्धनपूर्वकप्रदानं पुत्रिकाधर्ममाश्रित्य पुत्रबाहुल्यकामः उक्त भाषाबन्धनं कृत्वा रुचये प्रादात् दत्तवान् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
प्रजापतिः स भगवान् रुचिस्तस्यामजीजनत्।
मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना॥
मूलम्
प्रजापतिस्स भगवान् रुचिस्तस्यामजीजनत्।
मिथुनं ब्रह्म6वर्चस्वी परमेण समाधिना॥ ३ ॥
अनुवाद (हिन्दी)
प्रजापति रुचि भगवान्के अनन्य चिन्तनके कारण ब्रह्मतेजसे सम्पन्न थे। उन्होंने आकूतिके गर्भसे एक पुरुष और स्त्रीका जोड़ा उत्पन्न किया॥ ३॥
वीरराघवः
स लब्धभार्यः ब्रह्मतेजस्वी ब्रह्मवर्णोचित धर्मानुष्ठानजनिततेजोविशेषयुक्तः भगवान् प्रजापतिः रुचिः सर्वोत्कृष्टेन समाधिना भगवन्तमाराध्य तस्यामाकूत्यां मिथुनं स्त्रीपुंमिथुनं अजीजनत् उत्पादयामास ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
यस्तयोः पुरुषः साक्षाद्विष्णुर्यज्ञस्वरूपधृक्।
या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी॥
मूलम्
यस्तयोः पुरुषस्साक्षाद्विष्णुर्यज्ञस्वरूप7धृक्।
या स्त्री सा दक्षिणा भूतेरंशभूताऽनपायिनी॥ ४ ॥
अनुवाद (हिन्दी)
उनमें जो पुरुष था, वह साक्षात् यज्ञस्वरूपधारी भगवान् विष्णु थे और जो स्त्री थी, वह भगवान्से कभी अलग न रहनेवाली लक्ष्मीजीकी अंशस्वरूपा ‘दक्षिणा’ थी॥ ४॥
वीरराघवः
किं तन्मिथुनं यदजीजनत् तत्राह - यस्तयोरिति । तयोरपत्ययोर्मध्ये यः पुरुषः सः यज्ञाः क्रतव त एव स्वं 8स्वीयं रूपं शरीरं तद्बिभर्तीति तथा साक्षाद्विष्णुः विष्णोरंशः । अयमपि कपिलवदंशावतारः । यज्ञस्वरूपभृत् इत्यनेन यज्ञनामकत्वं सूचितम् । तयो र्या स्त्री सा नाम्ना दक्षिणा भूतेः लक्ष्म्याः अंशभूता विष्णोः अनपायिनी । अतस्तयोर्मिथोविवाहः न विरुद्धः इति भावः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम्।
स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम्॥
मूलम्
आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम्।
स्वायम्भुवो मुदा युक्तः रुचिर्जग्राह दक्षिणाम्॥ ५ ॥
अनुवाद (हिन्दी)
मनुजी अपनी पुत्री आकूतिके उस परमतेजस्वी पुत्रको बड़ी प्रसन्नतासे अपने घर ले आये और दक्षिणाको रुचि प्रजापतिने अपने पास रखा॥ ५॥
वीरराघवः
स्वायम्भुवो मनुः मुदा युक्तः मिथुनजन्मनिमित्तहर्षयुक्तः स्वपुत्र्याः आकूत्याः पुत्रं वितततेजस्कं विष्ण्वंशसम्भूतं 9यज्ञं पूर्वकृतभाषाबन्धनाद्धेतोः स्वगृहं प्रति आनिन्ये आनीतवान् । रुचिस्तु दक्षिणां स्वकन्यां जग्राह पुत्रिकामेव पुत्रत्वेनाऽपालय दित्यर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
तां कामयानां भगवानुवाह यजुषां पतिः।
तुष्टायां तोषमापन्नोऽजनयद् द्वादशात्मजान्॥
मूलम्
तां कामयानां भगवानुवाह यजुषां पतिः।
10तुष्टायां तोषमापन्नोऽजनयत् द्वादशाऽऽत्मजान्॥ ६ ॥
अनुवाद (हिन्दी)
जब दक्षिणा विवाहके योग्य हुई तो उसने यज्ञभगवान्को ही पतिरूपमें प्राप्त करनेकी इच्छा की, तब भगवान् यज्ञपुरुषने उससे विवाह किया। इससे दक्षिणाको बड़ा सन्तोष हुआ। भगवान्ने प्रसन्न होकर उससे बारह पुत्र उत्पन्न किये॥ ६॥
वीरराघवः
कामयानां पतिं कामयमानां तां दक्षिणां यजुषां यज्ञानां मन्त्राणां वा पतिः यज्ञाख्यः भगवान् उवाह 11उपयेमे । पश्चात् 12यस्यां तुष्टायां स्वस्मिन् प्रीतियुक्तायां दक्षिणायां स्वयमपि प्रीतियुक्तः द्वादशपुत्रानजनयत् । अत्र ‘तुष्टयोरभवन् देवा द्वादशैते महाबलाः’ इति पाठान्तरम् । तदा तुष्टयोः परस्परं सन्तोषयुक्तयोः यज्ञदक्षिणयोः द्वादशपुत्राः अभवन्नित्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
तोषः प्रतोषः संतोषो भद्रः शान्तिरिडस्पतिः।
इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट्॥
मूलम्
तोषः प्रतोषस्सन्तोषो भद्रश्शान्तिरिडस्पतिः।
13इध्मः कवि14र्विभुः 15र्वह्निः सुदेवो रोचनो द्विषट्॥ ७ ॥
अनुवाद (हिन्दी)
उनके नाम हैं—तोष, प्रतोष,सन्तोष, भद्र, शान्ति, इडस्पति, इध्म, कवि, विभु, स्वह्न, सुदेव और रोचन॥ ७॥
वीरराघवः
तानाह - तोष इति । तोषादयो द्विषट् द्वादशपुत्राः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे।
मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः॥
मूलम्
तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे।
मरीचिमिश्रा ऋषयो यज्ञस्सुरगणेश्वरः॥ ८ ॥
वीरराघवः
सर्वे तुषिता नाम तुषिता इति प्रसिद्धाः । परस्परतुष्टाभ्यां पितृभ्यां जातत्वादिति भावः । ते तुषिताः देवाः मरीचिप्रभृतयः ऋषयः सुरगणेश्वरो यज्ञश्च स्वायम्भुवमन्वन्तरे आसन् स्वस्वसन्तानवर्धनेन लोकमर्यादापालनेन चासन् । अनेन स्वायम्भुवमन्वन्तरगतं षट्कं कथितम् । “मन्वन्तरं मनुर्देवा मनुपुत्रा महौजसः । ऋषयोंऽशावतारश्च हरेष्षड्विधमुच्यते” (भाग. 12-7-15) इति । तत्र स्वायम्भुवो मनुः, तुषिताः देवाः, मरीचिमुख्याः ऋषयः । यज्ञः हरेरवतारः, स एव सुरगणेश्वरः इन्द्रः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ।
तत्पुत्रपौत्रनप्तॄणामनुवृत्तं तदन्तरम्॥
मूलम्
प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ।
तत्पुत्रपौत्रनप्तॄणामनुवृत्तं 16तदन्तरम्॥ ९ ॥
अनुवाद (हिन्दी)
ये ही स्वायम्भुव मन्वन्तरमें ‘तुषित’ नामके देवता हुए। उस मन्वन्तरमें मरीचि आदि सप्तर्षि थे, भगवान् यज्ञ ही देवताओंके अधीश्वर इन्द्र थे और महान् प्रभावशाली प्रियव्रत एवं उत्तानपाद मनुपुत्र थे। वह मन्वन्तर उन्हीं दोनोंके बेटों, पोतों और दौहित्रोंके वंशसे छा गया॥ ८-९॥
वीरराघवः
प्रियव्रतोत्तानपादौ मनुपुत्रौ पृथ्वीपालकौ तयोः 17प्रियव्रतोत्तानपदोः पुत्रपौत्रनप्तृणां वंशैरनुवृत्तं व्याप्त पालितञ्च तत् मन्वन्तर मित्यर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
देवहूतिमदात्तात कर्दमायात्मजां मनुः।
तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम॥
मूलम्
देवहूतिमदा18त्तात कर्दमायाऽऽत्मजां मनुः।
तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम॥ १० ॥
अनुवाद (हिन्दी)
प्यारे विदुरजी! मनुजीने अपनी दूसरी कन्या देवहूति कर्दमजीको ब्याही थी। उसके सम्बन्धकी प्रायः सभी बातें तुम मुझसे सुन चुके हो॥ १०॥
वीरराघवः
एवमाकूतिसन्ततिः कथिता । अथ देवहूतिदुहितृसन्ततिं कथयिष्यन् देवहूतिचरित्रन्तु विस्तरेण तृतीये त्वया श्रुतमित्याह - देवहूतिमिति। तत्सम्बन्धिदे19वहूतिसम्बन्धि चरितं गदतः मम मत्तः भवता श्रुतप्रायं बाहुल्येन श्रुतत्वात् श्रु20तप्रायमित्युक्तम् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
श्लोक-११
दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान्मनुः।
प्रायच्छद्यत्कृतः सर्गस्त्रिलोक्यां विततो महान्॥
मूलम्
दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान् मनुः।
प्रायच्छद्यत्कृतस्सर्गः त्रिलोक्यां विततो महान्॥ ११ ॥
अनुवाद (हिन्दी)
भगवान् मनुने अपनी तीसरी कन्या प्रसूतिका विवाह ब्रह्माजीके पुत्र दक्षप्रजापतिसे किया था; उसकी विशाल वंशपरम्परा तो सारी त्रिलोकीमें फैली हुई है॥ ११॥
वीरराघवः
प्रसूतिसन्ततिस्तु 21तत्प्रसङ्गानुप्रसङ्गेन महता 22प्रबन्धेन कथनीयेति सापि पश्चात् वक्ष्यते इति अभिप्रायेणाऽत्र सङ्गृह्णाति दक्षायेति । यत्कृतः दक्षप्रसूतिभ्यां कृतः सर्गः त्रिलोक्यां महान् विततः । आकूत्यादिसन्तत्यपेक्षया प्रसूतिसन्ततेः वैपुल्यमनेन कथितम् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्नयः।
तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे॥
मूलम्
याः कर्दमसुताः प्रोक्ता 23नव ब्रह्मर्षिपत्नयः।
तासां प्रसूति24प्रसवं प्रोच्यमानं निबोध मे॥ १२ ॥
अनुवाद (हिन्दी)
मैं कर्दमजीकी नौ कन्याओंका, जो नौ ब्रह्मर्षियोंसे ब्याही गयी थीं, पहले ही वर्णन कर चुका हूँ। अब उनकी वंशपरम्पराका वर्णन करता हूँ, सुनो॥ १२॥
वीरराघवः
अथ देवहूतिदुहितृसन्ततिरुच्यते इत्याह - या इति । हे क्षत्तः ! कर्दमस्य सुताः कलादयः मरीच्यादीनां पत्नयः पत्न्यः याः उक्ताः तृतीये, तासां कर्दमसुतानां प्रसूतेः प्रभवं पुत्रपौत्रादिसन्तानविस्तरं मे मया प्रोच्यमानं कथ्यमानं निबोध ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा।
कश्यपं पूर्णिमानं च ययोरापूरितं जगत्॥
मूलम्
पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा।
25कश्यपं पूर्णिमानञ्च ययोरापूरितं जगत्॥ १३ ॥
अनुवाद (हिन्दी)
मरीचि ऋषिकी पत्नी कर्दमजीकी बेटी कलासे कश्यप और पूर्णिमा नामक दो पुत्र हुए , जिनके वंशसे यह सारा जगत् भरा हुआ है॥ १३॥
वीरराघवः
तदेवाऽऽह - पत्नीति । कर्दमसुता मरीचेः पत्नी कला कलानाम्नी कश्यपं पूर्णिमानञ्च द्वौ पुत्रौ सुषुवे । पुत्रौ विशिनष्टि - ययोः कश्यपपूर्णिम्नोः वंशजैर्जगदापूरितं व्याप्तम् ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
पूर्णिमासूत विरजं विश्वगं च परंतप।
देवकुल्यां हरेः पादशौचाद्याभूत्सरिद्दिवः॥
अनुवाद (हिन्दी)
शत्रुतापन विदुरजी! पूर्णिमाके विरज और विश्वग नामके दो पुत्र तथा देवकुल्या नामकी एक कन्या हुई। यही दूसरे जन्ममें श्रीहरिके चरणोंके धोवनसे देवनदी गंगाके रूपमें प्रकट हुई॥ १४॥
वीरराघवः
हे सत्तम ! पूर्णिमा मरीचिपुत्रः विरजं विश्वगं चापि पुत्रं देवकुल्यां कन्यां च असूत उत्पादयामास । देवकुल्यां विशिनष्टि हरेः भगवतः पादशौचात् पादप्रक्षालनात् या दिवः सरित् गङ्गा अभूत् । सैवेयं देवकुल्या दिवस्सरिदभिमानिनी देवतेत्यर्थः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
अत्रेः पत्न्यनसूया त्रीञ्जज्ञे सुयशसः सुतान्।
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान्॥
मूलम्
अत्रेः पत्न्यनसूया त्रीन् 28जज्ञे सुयशसस्सुतान्।
दत्तं 29दुर्वाससं सोममात्मेशब्रह्मसम्भवान्॥ १५ ॥
अनुवाद (हिन्दी)
अत्रिकी पत्नी अनसूयासे दत्तात्रेय, दुर्वासा और चन्द्रमा नामके तीन परम यशस्वी पुत्र हुए। ये क्रमशः भगवान् विष्णु, शंकर और ब्रह्माके अंशसे उत्पन्न हुए थे॥ १५॥
वीरराघवः
अत्रेः या पत्नी अनसूया कर्दमस्य द्वितीया दुहिता 30सा सुयशसः निर्मलकीर्तिसम्पन्नान् 31त्रीन् सुतान् जज्ञे । तानाह - 32दत्तं, दुर्वाससं, सोमञ्चेति । तान् विशिनष्टि - आत्मेशब्रह्मसम्भवान् आत्मा 33परमपुरुषः, 34ईशः रुद्रः, ब्रह्मा चतुर्मुखः तेभ्यः सम्भवान् तदंशभूतान् इत्यर्थः । यद्वा आत्मेश ब्रह्मणांसम्भवः अभिव्यक्तिः येषुतान् । अत्र आत्मशब्देन “ममान्तरात्मा तवच” (म.भा. 12-339-4) इत्यादिना प्रसिद्धं विष्णोः परमात्मत्वं, इतरयोः जीवत्वञ्च सूच्यते । ननु परमात्मनः सर्वान्तर्यामिनः जीवद्वारा ज्ञानशक्त्या द्यन्यतमगुणाविर्भावरूपांशावतारत्वं युक्तं, कथं पुनः परमात्मांशभूतयोः अणुस्वरूपयोः जीवविशेषयोः ब्रह्मरुद्रयोः पुनर्जीवान्तरानुप्रवेशरूपांशावतारत्वम् ? सत्यम् - “अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिस्सावेष्टिता नृप सर्वगा ॥ संसारतापानखिलान् अवाप्नोत्यतिसन्ततान् । तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ॥ सर्वभूतेषु भूपाल ! तारतम्येन वर्तते ॥” (विष्णु पु. 6-7-61 to 63) इत्युक्तरीत्या जीवस्य यद्धर्मभूतं ज्ञानं तदविद्याकर्मणा तिरोहितं सत् तारतम्येनावतिष्ठते । तत्र परमात्मप्रसादात् अविद्याख्यावरणस्य निवृत्तौ असङ्कोचेन प्रसृत्तं भवति । अत एव मुक्तौ निश्शेषमावरणनिवृत्तौ “स चानन्त्याय कल्पते" (श्वेता. उ. 5-9) इति धर्मभूतज्ञानस्यासङ्कोचेन प्रसरादानन्त्यं जीवस्य श्रुतं सूत्रितञ्च । “प्रदीपवदावेशस्तथा हि दर्शयति" (ब्र.सू. 4-4-15) इत्यणोरप्यात्मनः एकदेहस्थितस्यापि असङ्कुचित धर्मभूतज्ञानद्वारा स्वल्पपरिमाणस्य दीपस्य स्वधर्मभूतप्रभा द्रव्यद्वारेणानेक घटपटादिप्रकाशकत्ववदनेकशरीरपरिग्रह इति सूत्रार्थः । एवञ्च ब्रह्मरुद्रयोः परमपुरुषप्रसादादज्ञानावरणनिवृत्तिः अस्मदाद्यपेक्षया ज्ञानप्रसरबाहुल्यात् तद्धर्मभूतज्ञानस्य दुर्वासस्सोमयोरनुप्रवेशात् तदंशावतारत्वं तयोरुपपन्नम् । एवमन्यत्रापि यत्र क्वचिज्जीवस्य जीवान्तरांशत्वमुच्यते तत्र अयमेव न्यायः वेदितव्यः ॥ १५ ॥
श्लोक-१६
मूलम् (वचनम्)
विदुर उवाच
विश्वास-प्रस्तुतिः
अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः।
किञ्चिच्चिकीर्षवो जाता एतदाख्याहि मे गुरो॥
मूलम्
अत्रेर्गृहे सुरश्रेष्ठाः 35स्थित्युत्पत्त्यन्तहेतवः।
36किञ्चिच्चिकीर्षवो जाता एतदाख्याहि मे गुरो॥ १६ ॥
अनुवाद (हिन्दी)
विदुरजीने पूछा—गुरुजी! कृपया यह बतलाइये कि जगत्की उत्पत्ति, स्थिति और अन्त करनेवाले इन सर्वश्रेष्ठ देवोंने अत्रि मुनिके यहाँ क्या करनेकी इच्छासे अवतार लिया था?॥ १६॥
वीरराघवः
एवं दत्तादीनामात्माद्यंशावतारत्वमुक्तं तत्रान्तरेण निमित्तं परमात्मादीनामवतरणासम्भवात् तत्कारणं पृच्छति विदुरः - अत्रेरिति । स्थित्यादिकर्तारः सुरश्रेष्ठाः आत्मादयः अत्रेर्गृहे किं स्विच्चिकीर्षवः किं कर्तुमिच्छवः जाताः 37तज्जननप्रयोजनं हे गुरो ! मे मह्यमाख्याहि कथय ॥ १६ ॥
श्लोक-१७
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
ब्रह्मणा नोदितः सृष्टावत्रिर्ब्रह्मविदां वरः।
सह पत्न्या ययावृक्षं कुलाद्रिं तपसि स्थितः॥
मूलम्
ब्रह्मणा 38चोदितः सृष्टौ अत्रिर्ब्रह्मविदां 39वरः।
सह पत्न्या 40ययावृक्षं कुलाद्रिं तपसि स्थितः॥ १७ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजीने कहा—जब ब्रह्माजीने ब्रह्मज्ञानियोंमें श्रेष्ठ महर्षि अत्रिको सृष्टि रचनेके लिये आज्ञा दी, तब वे अपनी सहधर्मिणीके सहित तप करनेके लिये ऋक्षनामक कुलपर्वतपर गये॥ १७॥
वीरराघवः
तत्र निमित्तं कथयन्नाह - ब्रह्मणेति । ब्रह्मण चतुर्मुखेन सृष्टौ निमित्तभूतायां सृष्ट्यर्थमित्यर्थः । चोदितः आदिष्टः ब्रह्मविदग्रेसरः अत्रिः पत्न्या अनसूयया सह ऋक्षाख्यं कुलाचलं तपसे तपश्चर्तुं स्थितः आस्थितः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
तस्मिन् प्रसूनस्तबकपलाशाशोककानने।
वार्भिःस्रवद्भिरुद्घुष्टे निर्विन्ध्यायाः समन्ततः॥
मूलम्
तस्मिन् प्रसूनस्तबकपलाशाशोककानने।
वार्भिस्स्रवद्भिरुद्घुष्टे निर्विन्ध्यायाः समन्ततः॥ १८ ॥
अनुवाद (हिन्दी)
वहाँ पलाश और अशोकके वृक्षोंका एक विशाल वन था। उसके सभी वृक्ष फूलोंके गुच्छोंसे लदे थे तथा उसमें सब ओर निर्विन्ध्या नदीके जलकी कलकल ध्वनि गूँजती रहती थी॥ १८॥
वीरराघवः
स च मुनिः तस्मिन् कुलाद्रौ प्रसूनानां स्तबका येषु पलाशाशोकेषु तेषां कानने । निर्विन्ध्याख्यायाः नद्याः स्रवद्भिः वार्भिः समन्तादुद्धृष्टे नादिते ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
प्राणायामेन संयम्य मनो वर्षशतं मुनिः।
अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजनः॥
अनुवाद (हिन्दी)
उस वनमें वे मुनिश्रेष्ठ प्राणायामके द्वारा चित्तको वशमें करके सौ वर्षतक केवल वायु पीकर सर्दी-गरमी आदि द्वन्द्वोंकी कुछ भी परवा न कर एक ही पैरसे खड़े रहे॥ १९॥
वीरराघवः
प्राणायामेन मनो नियम्य शीतोष्णादि सहः वायुभक्षः संवत्सर शतमेकपादेन भुवमवष्टभ्य तप आतिष्ठत् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
शरणं तं प्रपद्येऽहं य एव जगदीश्वरः।
प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन्॥
मूलम्
शरणं तं प्रपद्येऽहं य एव जगदीश्वरः।
प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन्॥ २० ॥
अनुवाद (हिन्दी)
उस समय वे मन-ही-मन यही प्रार्थना करते थे कि ‘जो कोई सम्पूर्ण जगत्के ईश्वर हैं, मैं उनकी शरणमें हूँ; वे मुझे अपने ही समान सन्तान प्रदान करें’॥ २०॥
वीरराघवः
तस्यात्रेरभिसन्धिविशेषमाह - शरणमिति । य एव “यतो वा इमानि भूतानि जायन्ते” (तैति. उ. 3-1) इत्यादि श्रुतिप्रसिद्ध एव जगदीश्वरः जगत्सृष्टिस्थितिप्रलयप्रवर्तकः तं शरणम् अहं प्रपद्ये, मह्यमात्मसमां स्वतुल्यां प्रजां प्रयच्छत्विति चिन्तयन् अतिष्ठदिति पूर्वेणान्वयः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना।
निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः॥
मूलम्
तप्यमानं त्रिभुवनं प्राणाया43मैधसाग्निना।
निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः॥ २१ ॥
वीरराघवः
प्राणायाम एव एधः दारुनिचयः यस्य तेन मुनेरत्रेर्मूर्ध्नः शीर्षकपालान्निर्गतेन अग्निना तपोऽग्निना सन्तप्यमानं त्रैलोक्यं समीक्ष्य त्रयः प्रभवः आत्मेशब्रह्माणः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः।
वितायमानयशसस्तदाश्रमपदं ययुः॥
मूलम्
अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः।
वितायमानयशसः 44तदाऽऽश्रमपदं ययुः॥ २२ ॥
अनुवाद (हिन्दी)
तब यह देखकर कि प्राणायामरूपी ईंधनसे प्रज्वलित हुआ अत्रि मुनिका तेज उनके मस्तकसे निकलकर तीनों लोकोंको तपा रहा है—ब्रह्मा, विष्णु और महादेव—तीनों जगत्पति उनके आश्रमपर आये। उस समय अप्सरा, मुनि, गन्धर्व, सिद्ध, विद्याधर और नाग—उनका सुयश गा रहे थे॥ २१-२२॥
वीरराघवः
अप्सरोमुनिप्रभृतिभिः प्रस्तूयमानकीर्तय तदाश्रमस्थानं ययुः । अत्र य एव जगदीश्वरः तं शरणं प्रपद्ये इति सृष्टिस्थितिप्रलयप्रवर्तकत्वेन आकारेण परमात्मनः उपासितत्वात् तस्य ब्रह्मरुद्रान्तर्यामितया ताद्रूप्येण सृष्टिसंहारकारणत्वात् तयोः ब्रह्मरुद्रयोरपि तत्रागमनमुपपन्नमिति वेदितव्यम् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
तत्प्रादुर्भावसंयोगविद्योतितमना मुनिः।
उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान्॥
वीरराघवः
तेषाम् आत्मेशब्रह्मणामाविर्भावः प्राकट्यं तस्य संयोगः सान्निध्यं, तेन विद्योतितं मनो यस्य स मुनिः अत्रिः एकपादेनोत्तिष्ठन् विबुधश्रेष्ठान् आत्मेशब्रह्मणो ददर्श ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
प्रणम्य दण्डवद्भूमावुपतस्थेऽर्हणाञ्जलिः।
वृषहंससुपर्णस्थान् स्वैः स्वैश्चिह्नैश्च चिह्नितान्॥
मूलम्
प्रणम्य दण्डवद्भूमौ उपतस्थे48ऽर्हणाञ्जलिः।
वृषहंससुपर्णस्थान् स्वैस्स्वैश्चिह्नैश्च चिह्नितान्॥ २४ ॥
अनुवाद (हिन्दी)
उन तीनोंका एक ही साथ प्रादुर्भाव होनेसे अत्रि मुनिका अन्तःकरण प्रकाशित हो उठा। उन्होंने एक पैरसे खड़े-खड़े ही उन देवदेवोंको देखा और फिर पृथ्वीपर दण्डके समान लोटकर प्रणाम करनेके अनन्तर अर्घ्य-पुष्पादि पूजनकी सामग्री हाथमें ले उनकी पूजा की। वे तीनों अपने-अपने वाहन—हंस, गरुड और बैलपर चढ़े हुए तथा अपने कमण्डलु, चक्र, त्रिशूलादि चिह्नोंसे सुशोभित थे॥ २३-२४॥
वीरराघवः
ततो भूमौ दण्डवत्प्रणम्य अर्ह्यते पूज्यते अनेनेत्यर्हणं पुष्पादिकमञ्जलौ यस्य सः, उपतस्थे समीपे स्थित्वा तुष्टाव । एतदेव प्रपञ्चयति गरुडवृषाद्यारूढान् स्वैः स्वैश्चिहैः शङ्खचक्रत्रिशूल49कमलकमण्डल्वादिभिर्लक्षितान् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
कृपावलोकेन हसद्वदनेनोपलम्भितान्।
तद्रोचिषाप्रतिहते निमील्य मुनिरक्षिणी॥
अनुवाद (हिन्दी)
उनकी आँखोंसे कृपाकी वर्षा हो रही थी। उनके मुखपर मन्द हास्यकी रेखा थी—जिससे उनकी प्रसन्नता झलक रही थी। उनके तेजसे चौंधियाकर मुनिवरने अपनी आँखें मूँद लीं॥ २५॥
वीरराघवः
कृपया अवलोकः यस्मिन् हसच्च तद्वदनञ्च तेन उपलम्भितान् प्रसन्नत्वेन ज्ञापितान् तेषां शोचिषा दीप्त्या प्रतिहते अक्षिणी नेत्रे निमील्य ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
चेतस्तत्प्रवणं युञ्जन्नस्तावीत्संहताञ्जलिः।
श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः॥
मूलम्
चेतस्तत्प्रवणं युञ्जन्नस्तावीत्संहताञ्जलिः।
श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः॥ २६ ॥
अनुवाद (हिन्दी)
वे चित्तको उन्हींकी ओर लगाकर हाथ जोड़ अति मधुर और सुन्दर भावपूर्ण वचनोंमें लोकमें सबसे बड़े उन तीनों देवोंकी स्तुति करने लगे॥ २६॥
वीरराघवः
चेतः चित्तं तत्प्रवणं विबुधर्षभाऽऽसक्तं कृत्वा बद्धाञ्जलिः सन् मुनिः अत्रिः मधुरया वाचा सर्वलोकेभ्यः श्रेष्ठान् विबुधर्षभान् अस्तावीत् स्तुतवान् ॥ २६ ॥
श्लोक-२७
मूलम् (वचनम्)
अत्रिरुवाच
विश्वास-प्रस्तुतिः
विश्वोद्भवस्थितिलयेषु विभज्यमानै-
र्मायागुणैरनुयुगं विगृहीतदेहाः।
ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं व-
स्तेभ्यः क एव भवतां म इहोपहूतः॥
मूलम्
विश्वोद्भवस्थितिलयेषु विभज्यमानैर्मायागुणैरनु52युगं 53विगृहीतदेहाः।
ते ब्रह्मविष्णुगिरिशाः प्रणतोस्म्यहं वस्तेभ्यः क एव 54भवतां म इहोपहूतः॥ २७ ॥
अनुवाद (हिन्दी)
अत्रि मुनिने कहा—भगवन्! प्रत्येक कल्पके आरम्भमें जगत्की उत्पत्ति, स्थिति और लयके लिये जो मायाके सत्त्वादि तीनों गुणोंका विभाग करके भिन्न-भिन्न शरीर धारण करते हैं—वे ब्रह्मा, विष्णु और महादेव आप ही हैं; मैं आपको प्रणाम करता हूँ। कहिये—मैंने जिनको बुलाया था, आपमेंसे वे कौन महानुभाव हैं?॥ २७॥
वीरराघवः
स्तुतिमेवाऽऽह - विश्वेति द्वाभ्याम् । विश्वस्योद्भवादिषु निमित्तभूतेषु विश्वसर्गाद्यर्थमित्यर्थः । अनुयुगं प्रतिकल्पं विभज्यमानैर्मायाया गुणैः रजस्सत्त्वतमोभिः उपलक्षिता गृहीता देहा यैस्ते, यूयं ब्रह्मविष्णुगिरिशाः अतः तेभ्यो वः युष्मभ्यं प्रणतोऽस्मि । युष्माकं मध्ये क एव भगवान् जगदीश्वरः उपहूतः शरणं तं प्रपद्ये इत्येकस्य निर्दिष्टत्वात्, स एष युष्मासु कतम इति युष्माभिरेव कथनीय55 इत्यर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
एको मयेह भगवान् विबुधप्रधान-
श्चित्तीकृतः प्रजननाय कथं नु यूयम्।
अत्रागतास्तनुभृतां मनसोऽपि दूराद्
ब्रूत प्रसीदत महानिह विस्मयो मे॥
मूलम्
एको मयेह भगवान् विबुध54प्रधानश्चित्तीकृतः प्रजननाय कथं नु यूयम्।
अत्राऽऽगतास्तनुभृतां मनसोऽपि दूरा ब्रूत प्रसीदत महा56निह विस्मयो मे॥ २८ ॥
अनुवाद (हिन्दी)
क्योंकि मैंने तो सन्तानप्राप्तिकी इच्छासे केवल एक सुरेश्वर भगवान्का ही चिन्तन किया था। फिर आप तीनोंने यहाँ पधारनेकी कृपा कैसे की? आप-लोगोंतक तो देहधारियोंके मनकी भी गति नहीं है, इसलिये मुझे बड़ा आश्चर्य हो रहा है। आपलोग कृपा करके मुझे इसका रहस्य बतलाइये॥ २८॥
वीरराघवः
एतदेव प्रपञ्चयति - एक इति । प्रधानः सर्वोत्कृष्टः एक एव भगवान् सर्वेश्वरः विविधैरुपचारैः मया प्रजननाय सर्वेश्वरतुल्यपुत्रलाभाय चित्तीकृतः चित्तविषयीकृतः उपासित इति यावत् । अतः तनुभृतां देहिनां मनसोऽपि दूराः मनसापि ग्रहीतुमशक्याः यूयं त्रयोऽपि कथमत्रऽऽगताः तत्र कारणं ब्रूत कथयत । प्रसीदत मह्यं प्रसन्ना भवत । अत्र त्रयाणामागमने मम महान् विस्मयो वर्तते ॥ २८ ॥
श्लोक-२९
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः।
प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो॥
मूलम्
इति तस्य वचश्श्रुत्वा त्रयस्ते विबुधर्षभाः।
57प्रत्याहुः श्लक्ष्णया वाचा 58प्रहस्य तमृषिं प्रभो!॥ २९ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—समर्थ विदुरजी! अत्रि मुनिके वचन सुनकर वे तीनों देव हँसे और उनसे सुमधुर वाणीमें कहने लगे॥ २९॥
वीरराघवः
इत्येवं तस्यात्रेः वचः श्रुत्वा त्रयो ब्रह्मविष्णुशिवाः प्रहस्य श्लक्ष्णया गम्भीरया वाचा हे प्रभो ! वश्येन्द्रिय ! विदुर ! तमृषिं अत्रिं प्रत्याहुः ॥ २९ ॥
श्लोक-३०
मूलम् (वचनम्)
देवा ऊचुः
विश्वास-प्रस्तुतिः
यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा।
सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम्॥
मूलम्
यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा।
59सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै 60ध्यायति 61तद्वयम्॥ ३० ॥
अनुवाद (हिन्दी)
देवताओंने कहा—ब्रह्मन्! तुम सत्यसंकल्प हो। अतः तुमने जैसा संकल्प किया था, वही होना चाहिये। उससे विपरीत कैसे हो सकता था? तुम जिस ‘जगदीश्वर’ का ध्यान करते थे, वह हम तीनों ही हैं॥ ३०॥
वीरराघवः
62उक्तिमेवाह 63द्वाभ्याम् । ते त्वया यथा कृतः सङ्कल्पः तेनैव तथा भाव्यं नान्यथा असत्यः । सत्सङ्कल्पस्य ते सङ्कल्प । कथमेकस्मिन् ध्याते त्रय आगताः तत्राहुः - हे ब्रह्मन् ! त्वं यदेकं जगदीश्वराख्यं तत्त्वं ध्यायसि तद्वयं तदेव तत्त्वं सद्वारकमद्वारकं च त्रिमूर्तिरूपेणावस्थितमित्यर्थः । मूर्तिविशेषनिर्धारणमन्तरेण जगत्सृष्टिस्थितिलयहेतुरीश्वरः इति हि त्वत्सङ्कल्पः । अतो वयमागताः इत्यभिप्रायः । ननु यद्वै ध्यायसि 64तद्वयमित्यनेन त्रिमूत्यैक्यं प्रतीयते । सत्यमैक्यमस्त्येव, ततः किम् ? ब्रह्मशिवयोः भगवत्पारतन्त्र्यमस्मिन् पुराणे पूर्वापरयन्थेषु श्रूयमाणं विरुध्यत इति चेन्न “सर्वगतत्वादनन्तस्य स एवाहमवस्थितः । मत्तस्सर्वमहं सर्वं मयि सर्वं सनातने" (विष्णु. पु. 1-19-85) इति वत् ब्रह्मात्मकत्वबुद्ध्या चतुर्मुखशिवयोः अभेदव्यवहारोपपत्तेः । तथा हि तयोर्ब्रह्मात्मकत्वं स्फुटमुच्यते महाभारते - तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् (म.भा. 12-339-4) इति सद्वारकंचावस्थितं तद्ब्रह्मैव वयमित्यर्थः । अत्रेदमवधेयम् - यद्यपि क्वचित्कचित् “ब्रह्मा-नारायणः शिवश्च नारायणः” (त्रि.म.ना.उ. 2-8) “ब्रह्मा नारायणाख्योऽसौ कल्पादौ भगवान् यथा । प्रजास्ससर्ज भगवान् ब्रह्मा नारायणात्मकः । (विष्णु.पु. 1.4.1) ततस्स भगवान्विष्णूरुद्ररूपधरोऽव्ययः । ततः कालाग्निरुद्रोऽसौ भूत्वा सर्वहरो हरिः ॥ सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । ससंज्ञां याति भगवानेक एव जनार्दनः” (विष्णु.पु. 1-2-66) इत्यादिषु त्रिमूर्त्यैक्यं प्रतीयते । तथापि “नारायणाद्ब्रह्मा जायते नारायणाद्रुद्रो जायते नारायणात् द्वादशादित्याः रुद्राः वसवः सर्वाणिच्छन्दांसि च”, (नार - 1) “एको ह वै नारायण आसीन्न ब्रह्मा नेशानः । (महा. उ. 1-1) “यन्नाभिपद्मादभवत् स महात्मा प्रजापतिः” (महा.उ. 1-1) “तत्र ब्रह्मा चतुर्मुखः अजायत सोऽग्रे भूतानां मृत्युमसृजत्, त्र्यक्षं त्रिशिरस्कं त्रिपादं खण्डपरशुम्" (म.हा.उ 1-4) “ब्रह्मा दक्षादयः कालस्तथैवाखिलजन्तवः । विभूतयो हरेरेताः जगतस्सृष्टिहेतवः” (विष्णु. पु. 1-22-31) इत्यादिषु भगवतः तयोश्च भेदावगमात् सामानाधिकरण्यस्य च “सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते !", (विष्णु धर्मे, 68-52) “हरो हरति तद्वशः” (भाग 2-6-31) इत्याद्यानुगुण्येन अन्तर्यामित्वेनाप्युपपत्तेः अभेदो न युक्तः । ननु एवमपि ब्रह्मविष्णुरुद्रेन्द्राः “ते सर्वे सम्प्रसूयन्ते” इति ब्रह्माद्यविशेषेण विष्णोरप्युत्पत्ति श्रवणात् त्रिमूर्त्यत्तीर्णं तत्त्वान्तरमेष्टव्यं तदेवैतत् त्रिमूर्त्याकारेणावस्थितमिति, मैवम् - सदेवेत्यादिवाक्येषु कण्ठोक्त्या “सर्वं वाक्यं सावधारणम्” इति न्यायाच्च सावधारणेषु प्रत्येकमेकैकस्य स्वव्यतिरिक्तसमस्तकारणत्वबोधनात् समुच्चित्यकारणत्वानुपपत्तेः कारणत्वोपास्यत्वबोधकवाक्यस्थित सामान्यशब्दानां विशेषवाचिपदे सति तत्पर्यवसानस्याऽऽपच्छागपशुन्यायसिद्धत्वात् अचितः सर्वकारणत्वानुपपत्तेः ईक्षणाद्यर्थविरोधाच्च विशेष्यव्यवस्थापकत्वानुपपत्तेः चिद्विशेषाणां साधारणब्रह्मरुद्रेन्द्रवैश्वानरादिपदवाच्यानां पुरोवादप्रसिद्धेन्द्रादीनां कार्यत्वकर्मवश्यत्वयोः श्रुत्यैव प्रतिपन्नत्वात् तद्वाचिनां तेषां विशेष्यव्यवस्थापकत्वानुपपत्ते श्रीपतेरसाधारणपुरुषनारायणादिपदवाच्यस्य कुत्रापि कर्मवश्यत्वा श्रवणात् तदुत्पत्तेश्च “अजायमानो बहुधा विजायते" (पुसू. 2-1) इति अवतारत्वस्य श्रवणेन कर्मकृतत्वस्यापोदितत्वात् इतरोत्पत्तेः तदपवादाभावात् तस्य सर्वकारणत्वोपपत्तेः तस्य सकलजगत्कारणत्वबोधकश्रुत्यैकार्थ्यात् नारायणस्यैव सर्वोत्कृष्टत्वमेष्टव्यमित्यन्यत्र विस्तरः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
अथास्मदंशभूतास्ते आत्मजा लोकविश्रुताः।
भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः॥
मूलम्
अथास्मदंशभूतास्ते आत्मजा लोकविश्रुताः।
भवितारोऽङ्ग भद्रं ते 65विस्रप्स्यन्ति च ते यशः॥ ३१ ॥
अनुवाद (हिन्दी)
प्रिय महर्षे! तुम्हारा कल्याण हो, तुम्हारे यहाँ हमारे ही अंशस्वरूप तीन जगद्विख्यात पुत्र उत्पन्न होंगे और तुम्हारे सुन्दर यशका विस्तार करेंगे॥ ३१॥
वीरराघवः
अथ हे मुने ! अस्मदंशेन सम्भूताः सुताः लोकविश्रुताः भविष्यन्ति ते तव यशः विस्रप्स्यन्ति विस्तृतं करिष्यन्ति । ते भद्रमस्तु ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः।
सभाजितास्तयोः सम्यग्दम्पत्योर्मिषतोस्ततः॥
मूलम्
एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः।
सभाजितास्तयोस्सम्यग्दम्पत्योर्मिषतोस्ततः॥ ३२ ॥
अनुवाद (हिन्दी)
उन्हें इस प्रकार अभीष्ट वर देकर तथा पति-पत्नी दोनोंसे भलीभाँति पूजित होकर उनके देखते-ही-देखते वे तीनों सुरेश्वर अपने-अपने लोकोंको चले गये॥ ३२॥
वीरराघवः
एवमभीष्टं वरं दत्वा तयोः दम्पत्योः अत्र्यनसूययोः सम्यङ्मिषतोः पश्यतोस्सतोः सम्यक् पूजिताः सुरेश्वराः प्रतिजग्मुः ॥३२॥
श्लोक-३३
विश्वास-प्रस्तुतिः
सोमोऽभूद्ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित्।
दुर्वासाः शंकरस्यांशो निबोधाङ्गिरसः प्रजाः॥
मूलम्
सोमोऽभूद्ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित्।
दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः॥ ३३ ॥
अनुवाद (हिन्दी)
ब्रह्माजीके अंशसे चन्द्रमा, विष्णुके अंशसे योगवेत्ता दत्तात्रेयजी और महादेवजीके अंशसे दुर्वासा ऋषि अत्रिके पुत्ररूपमें प्रकट हुए। अब अंगिरा ऋषिकी सन्तानोंका वर्णन सुनो॥ ३३॥
वीरराघवः
ततो ब्रह्मणश्चतुर्मुखस्यांशेन सोमः विष्णोरंशेन दत्तात्रेयः शम्भोरंशेन दुर्वासाश्च जाताः । अथाङ्गिरसः 66अङ्गिरसः उत्पन्नाः प्रजाः मया कथ्यमानाः शृणु ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः।
सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा॥
मूलम्
श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः।
सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा॥ ३४ ॥
अनुवाद (हिन्दी)
अंगिराकी पत्नी श्रद्धाने सिनीवाली, कुहू, राका और अनुमति—इन चार कन्याओंको जन्म दिया॥ ३४॥
वीरराघवः
अङ्गिरसः पत्नी श्रद्धाऽऽख्या कर्दमस्य तृतीया दुहिता, चतस्रः कन्यकाः प्रसूतवती । कन्याः निर्दिशति - सिनीति ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे।
उतथ्यो भगवान् साक्षाद्ब्रह्मिष्ठश्च बृहस्पतिः॥
मूलम्
तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषे67ऽन्तरे।
68उचथ्यो भगवान् साक्षाद्ब्रह्मिष्ठश्च बृहस्पतिः॥ ३५ ॥
अनुवाद (हिन्दी)
इनके सिवा उनके साक्षात् भगवान् उतथ्यजी और ब्रह्मनिष्ठ बृहस्पतिजी—ये दो पुत्र भी हुए , जो स्वारोचिष मन्वन्तरमें विख्यात हुए॥ ३५॥
वीरराघवः
अपरावपि तत्पुत्रौ अङ्गिरसः पुत्रौ 69उचथ्यः बृहस्पतिरिति ख्यातौ प्रसिद्धौ स्वारोचिषे मन्वन्तरे आस्ताम् । भगवान् ब्रह्मिष्ठः इति पुत्रद्वयविशेषणम् ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
पुलस्त्योऽजनयत्पत्न्यामगस्त्यं च हविर्भुवि।
सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः॥
मूलम्
पुलस्त्योऽजनयत्पत्न्यामगस्त्यं च हवि70र्भुजि।
सोऽन्यजन्मनि 71दह्राग्निः विश्रवाश्च महातपाः॥ ३६ ॥
अनुवाद (हिन्दी)
पुलस्त्यजीके उनकी पत्नी हविर्भूसे महर्षि अगस्त्य और महातपस्वी विश्रवा—ये दो पुत्र हुए। इनमें अगस्त्यजी दूसरे जन्ममें जठराग्नि हुए॥ ३६॥
वीरराघवः
पुलस्त्यः पत्न्यां स्वभार्यायां हवि 72र्भुगाख्यायां कर्दमस्य चतुर्थ्यां दुहितरि अगस्त्यम् अजनयत् । अगस्त्यं विशिनष्टि- योऽगस्त्यः अन्यजन्मनि दहाग्निः जाठराग्निरभूत् तथा महातपाः विश्रवाश्च पुलस्त्यसुत इत्यर्थः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः।
रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः॥
मूलम्
तस्य यक्षपतिर्देवः कुबेर73स्त्विलबिलासुतः।
रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः॥ ३७ ॥
अनुवाद (हिन्दी)
विश्रवा मुनिके इडविडाके गर्भसे यक्षराज कुबेरका जन्म हुआ और उनकी दूसरी पत्नी केशिनीसे रावण, कुम्भकर्ण एवं विभीषण उत्पन्न हुए॥ ३७॥
वीरराघवः
तस्य विश्रवस इति इलविलासुतः इलबिलायां जातः यक्षाणां पतिः प्रभुः देवः कुबेरः तथा अन्यस्यां भार्यायां कैकस्यां रावणादयः त्रयः पुत्राः विश्रवस एव जाताः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान्।
कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते॥
मूलम्
पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान्।
कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते॥ ३८ ॥
अनुवाद (हिन्दी)
महामते! महर्षि पुलहकी स्त्री परम साध्वी गतिसे कर्मश्रेष्ठ, वरीयान् और सहिष्णु—ये तीन पुत्र उत्पन्न हुए॥ ३८॥
वीरराघवः
पुलहस्य भार्या रत्याख्या कर्दमस्य पञ्चमी दुहिता । सती पतिव्रता त्रीन् सुतान् असूत प्रसूतवती । 74पुत्रान्निर्दिशति कर्मश्रेष्ठमिति । हे महामते ! ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
क्रतोरपि क्रिया भार्या वालखिल्यानसूयत।
ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा॥
मूलम्
क्रतोरपि क्रिया भार्या वालखिल्यानसूयत।
ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा॥ ३९ ॥
अनुवाद (हिन्दी)
इसी प्रकार क्रतुकी पत्नी क्रियाने ब्रह्मतेजसे देदीप्यमान बालखिल्यादि साठ हजार ऋषियोंको जन्म दिया॥ ३९॥
वीरराघवः
क्रतोरपि भार्या क्रियाख्या, कर्दमस्य षष्ठी सुता ब्रह्मतेजसा ज्वलतः प्रकाशमानान् षष्टिसहस्राणि वालखिल्यान् वानप्रस्थान् ऋषीन् असूयत ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परंतप।
चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः॥
मूलम्
ऊर्जायां जज्ञिरे पुत्राः वसिष्ठस्य परन्तप।
चित्रकेतुप्रधानास्ते सप्तब्रह्मर्षयोऽमलाः॥ ४० ॥
अनुवाद (हिन्दी)
शत्रुतापन विदुरजी! वसिष्ठजीकी पत्नी ऊर्जा (अरुन्धती)-से चित्रकेतु आदि सात विशुद्धचित्त ब्रह्मर्षियोंका जन्म हुआ॥ ४०॥
वीरराघवः
तथा वसिष्ठस्य भार्यायामूर्जायां कर्दमस्य नवम्यां सुतायां हे परन्तप ! चित्रकेतुप्रभृतयः सप्तमहर्षयः निर्मलाचाराः जज्ञिरे । अरुन्धत्या एव नामान्तरमूर्जेति वेदितव्यम् ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
चित्रकेतुः सुरोचिश्च विरजा मित्र एव च।
उल्बणो वसुभृद्यानो द्युमान् शक्त्यादयोऽपरे॥
मूलम्
चित्रकेतुः सुरोचिश्च 75विरजा मित्र एव च।
उल्बणो वसुभृद्यानः द्युमान् शक्त्यादयोऽपरे॥ ४१ ॥
अनुवाद (हिन्दी)
उनके नाम चित्रकेतु, सुरोचि, विरजा, मित्र, उल्बण, वसुभृद्यान और द्युमान् थे। इनके सिवा उनकी दूसरी पत्नीसे शक्ति आदि और भी कई पुत्र हुए॥ ४१॥
वीरराघवः
पुत्रान्निर्दिशति - चित्रकेतुरिति । द्युमान् तेजस्वीत्यर्थः । शक्त्यादयः अपरे अन्यस्यां भार्यायां जाताः इत्यर्थः ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
चित्तिस्त्वथर्वणः पत्नी लेभे पुत्रं धृतव्रतम्।
दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे॥
अनुवाद (हिन्दी)
अथर्वा मुनिकी पत्नी चित्तिने दध्यङ् (दधीचि) नामक एक तपोनिष्ठ पुत्र प्राप्त किया, जिसका दूसरा नाम अश्वशिरा भी था। अब भृगुके वंशका वर्णन सुनो॥ ४२॥
वीरराघवः
अथर्वणः पत्नी कर्दमस्याष्टमी सुता शान्ताऽऽख्या । चित्तिरिति पाठान्तरं, तदा तत्तस्या एव नामान्तरम् । धृतव्रतं दध्यंचमश्वशिरसं च पुत्रं लेभे लब्धवती, अथ मे मत्तः भृगोर्वंशं निबोध शृणु ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत्।
धातारं च विधातारं श्रियं च भगवत्पराम्॥
मूलम्
भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत्।
धातारञ्च विधातारं श्रियञ्च भगव78त्पराम्॥ ४३ ॥
अनुवाद (हिन्दी)
महाभाग भृगुजीने अपनी भार्या ख्यातिसे धाता और विधाता नामक पुत्र तथा श्री नामकी एक भगवत्परायणा कन्या उत्पन्न की॥ ४३॥
वीरराघवः
हे महाभाग ! 79ख्यात्यां ख्यातिनाम्न्यां कर्दमस्य सप्तम्यां दुहितरि भृगुः धातृविधातारौ पुत्रौ । पुत्रानित्यार्षं बहुवचनम् । भगवत्परां भगवानाश्रयो यस्यास्तां श्रियं लक्ष्यंशभूतां कन्याञ्च अजीजनत् ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
आयतिं नियतिं चैव सुते मेरुस्तयोरदात्।
ताभ्यां तयोरभवतां मृकण्डः प्राण एव च॥
मूलम्
आयतिं नियतिञ्चैव सुते मेरुस्तयोरदात्।
ताभ्यां तयोरभवतां 80मृकण्डः प्राण एव च॥ ४४ ॥
अनुवाद (हिन्दी)
मेरुऋषिने अपनी आयति और नियति नामकी कन्याएँ क्रमशः धाता और विधाताको ब्याहीं; उनसे उनके मृकण्ड और प्राण नामक पुत्र हुए॥ ४४॥
वीरराघवः
मेरुः स्वस्य सुते आयतिं नियतिञ्च तयोः धातृविधात्रोः अदात् दत्तवान् । ताभ्यां धातृविधातृभ्यां तयोः मेरुदुहित्रोः आयतिनियत्योः यथाक्रमं मृकण्डुः (मृकण्डः) प्राणश्चाभवत् ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः।
कविश्च भार्गवो यस्य भगवानुशना सुतः॥
मूलम्
मार्कण्डेयो 81मृकण्डस्य प्राणाद्वेदशिरा मुनिः।
कविश्च भार्गवो यस्य भगवानुशनासुतः॥ ४५ ॥
अनुवाद (हिन्दी)
उनमेंसे मृकण्डके मार्कण्डेय और प्राणके मुनिवर वेदशिराका जन्म हुआ। भृगुजीके एक कवि नामक पुत्र भी थे। उनके भगवान् उशना (शुक्राचार्य) हुए॥ ४५॥
वीरराघवः
ततः मृकण्डोः (मृकण्डस्य) मार्कण्डेयः प्राणात् वेदशिरा मुनिरभवत् । उशना शुक्रः यस्य वेदशिरसः सुतः सः कविः शुक्रश्च भार्गवः भृगुवंशसम्भूतः इत्यर्थः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
त एते मुनयः क्षत्तर्लोकान् सर्गैरभावयन्।
एष कर्दमदौहित्रसंतानः कथितस्तव।
शृण्वतः श्रद्दधानस्य सद्यः पापहरः परः॥
मूलम्
82नवैते मुनयः क्षत्तर्लोकान्सर्गैर भावयन्।
एष कर्दमदौहित्रसन्तानः कथितस्तव।
शृण्वतः श्रद्दधानस्य सद्यः पापहरः परः॥ ४६ ॥
अनुवाद (हिन्दी)
विदुरजी! इन सब मुनीश्वरोंने भी सन्तान उत्पन्न करके सृष्टिका विस्तार किया। इस प्रकार मैंने तुम्हें यह कर्दमजीके दौहित्रोंकी सन्तानका वर्णन सुनाया। जो पुरुष इसे श्रद्धापूर्वक सुनता है, उसके पापोंको यह तत्काल नष्ट कर देता है॥ ४६॥
वीरराघवः
देवहूतिदुहितृसन्ततिमुपसंहरति नवेति । हे क्षत्तः ! एते नव मरीच्यादयः सर्गौः स्ववंशैः लोकानभावयन् उत्पादयामासुः । कर्दमदुहितृसन्ततिश्रवणफलमाह - एष इति । कर्दमदौहित्रः कर्दमदुहितृसम्बन्धी सन्तानः मया कथितः श्रद्धापूर्वकं शृण्वतः पापनिवर्तकः ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः।
तस्यां ससर्ज दुहितॄः षोडशामललोचनाः॥
मूलम्
प्रसूतिं मानवीं दक्ष उपयेमे ह्यजाऽऽत्मजः।
तस्यां ससर्ज दुहितॄः षोडशामललोचनाः॥ ४७ ॥
अनुवाद (हिन्दी)
ब्रह्माजीके पुत्र दक्षप्रजापतिने मनुनन्दिनी प्रसूतिसे विवाह किया। उससे उन्होंने सुन्दर नेत्रोंवाली सोलह कन्याएँ उत्पन्न कीं॥ ४७॥
वीरराघवः
एवं देवहूतिसन्ततिमाभिधाय अथ मनोः तृतीयायाः दुहितुः प्रसूतेः सन्तानमाह - प्रसूतिमिति । अजाऽऽत्मजः ब्रह्मपुत्रः- दक्षः मानवीं स्वायम्भुवमनुदुहितरंप्रसूतिमुपयेमे उवोढतस्यां प्रसूत्यां अमललोचनाः सौन्दर्यशालिनीः षोडशदुहितृृः ससर्ज ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
त्रयोदशादाद्धर्माय तथैकामग्नये विभुः।
पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे॥
मूलम्
त्रयोदशादाद्धर्माय तथैकामग्नये विभुः।
पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे॥ ४८ ॥
अनुवाद (हिन्दी)
भगवान् दक्षने उनमेंसे तेरह धर्मको, एक अग्निको, एक समस्त पितृगणको और एक संसारका संहार करनेवाले तथा जन्म-मृत्युसे छुड़ानेवाले भगवान् शंकरको दी॥ ४८॥
वीरराघवः
तत्र त्रयोदशदुहितृः विभुः तत्तदभिप्रायविज्ञानसमर्थः दक्षः धर्माय ददौ एकां दुहितरं अग्नये, एकां युक्तेभ्यः मिलितेभ्यः पितृभ्यः, एकां भवच्छिदे भवाय रुद्राय अदात् । ज्ञानप्रदत्वात् रुद्रस्य भवच्छित्त्वं विवक्षितम् ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः।
बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नयः॥
मूलम्
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः।
बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नयः॥ ४९ ॥
अनुवाद (हिन्दी)
श्रद्धा, मैत्री, दया, शान्ति, तुष्टि, पुष्टि, क्रिया, उन्नति, बुद्धि, मेधा, तितिक्षा, ह्री और मूर्ति—ये धर्मकी पत्नियाँ हैं॥ ४९॥
वीरराघवः
तत्र धर्मपत्नीः त्रयोदश दुहितृृः निर्दिशति - श्रद्धेति ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
श्रद्धासूत शुभं मैत्री प्रसादमभयं दया।
शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिरसूयत॥
मूलम्
श्रद्धाऽसूत 83शुभं मैत्री प्रसादमभयं दया।
शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिरसूयत॥ ५० ॥
अनुवाद (हिन्दी)
इनमेंसे श्रद्धाने शुभ, मैत्रीने प्रसाद, दयाने अभय, शान्तिने सुख, तुष्टिने मोद और पुष्टिने अहंकारको जन्म दिया॥ ५०॥
वीरराघवः
तासां प्रत्येकं सन्ततिमाह - श्रद्धेति । आसां श्रद्धादिनामत्वं तदपत्यानां शुभादिनामत्वञ्च श्रद्धादिधर्मयुक्तत्वेन श्रद्धादिकार्यशुभादि धर्मयुक्तत्वेन च बोध्यं, नाम्नामन्वर्थत्वात् । यद्वा, श्रद्धा शुभाद्यभिमानिदेवतात्वाद्वा तासां तेषाञ्च तन्नामत्वम् ॥ ५०॥
श्लोक-५१
विश्वास-प्रस्तुतिः
योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत।
मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम्॥
मूलम्
योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत।
मेधा स्मृतिं तितिक्षा 84तु क्षेमं ह्रीः प्रश्रयं 85सुतम्॥ ५१ ॥
अनुवाद (हिन्दी)
क्रियाने योग, उन्नतिने दर्प, बुद्धिने अर्थ, मेधाने स्मृति, तितिक्षाने क्षेम और ह्री (लज्जा)-ने प्रश्रय (विनय) नामक पुत्र उत्पन्न किया॥ ५१॥
श्लोक-५२
विश्वास-प्रस्तुतिः
मूर्तिः सर्वगुणोत्पत्तिर्नरनारायणावृषी॥
मूलम्
मूर्तिस्सर्वगुणोत्प86त्ती नरनारायणावृषी॥
अनुवाद (हिन्दी)
समस्त गुणोंकी खान मूर्तिदेवीने नर-नारायण ऋषियोंको जन्म दिया॥ ५२॥
श्लोक-५३
विश्वास-प्रस्तुतिः
ययोर्जन्मन्यदो विश्वमभ्यनन्दत्सुनिर्वृतम्।
मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः॥
मूलम्
ययोर्जन्मन्यदो विश्वमभ्यनन्दत्सुनिर्वृतम्।
मनांसि ककुभो वाताः प्रसेदुस्सरितोऽ87ब्धयः॥ ५३ ॥
अनुवाद (हिन्दी)
इनका जन्म होनेपर इस सम्पूर्ण विश्वने आनन्दित होकर प्रसन्नता प्रकट की। उस समय लोगोंके मन, दिशाएँ, वायु, नदी और पर्वत—सभीमें प्रसन्नता छा गयी॥ ५३॥
वीरराघवः
त्रयोदशानां मध्ये मूर्त्याख्या धर्मपत्नी सर्वेषां गुणानां 88कल्याणगुणानां उत्पत्तिः अभिव्यक्तिः ययोस्तावृषी नरनारायणौ भगवदवतारभूतौ असूत । ययोः नरनारायणयोः जन्मनि जन्मकाले अदः एतत् विश्वं सुखितं सत् अभ्यनन्दत् ॥ ५२,५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः।
मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः॥
मूलम्
दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः।
मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः॥ ५४ ॥
अनुवाद (हिन्दी)
आकाशमें मांगलिक बाजे बजने लगे, देवतालोग फूलोंकी वर्षा करने लगे, मुनि प्रसन्न होकर स्तुति करने लगे, गन्धर्व और किन्नर गाने लगे॥ ५४॥
वीरराघवः
सर्वेषां मनांसि दिशः सरितः समुद्राः वाताश्च प्रसन्ना अभूवन् । तूर्याणि वाद्यानि देवैरवाद्यन्त 89ध्वनितानि ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
नृत्यन्ति स्म स्त्रियो देव्य आसीत्परममङ्गलम्।
देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः॥
मूलम्
नृत्यन्ति स्म स्त्रियो 90देव्य आसीत्परममङ्गलम्।
देवा ब्रह्मादयस्सर्वे उपतस्थुरभिष्टवैः॥ ५५ ॥
अनुवाद (हिन्दी)
अप्सराएँ नाचने लगीं। इस प्रकार उस समय बड़ा ही आनन्द-मंगल हुआ तथा ब्रह्मादि समस्त देवता स्तोत्रोंद्वारा भगवान्की स्तुति करने लगे॥ ५५॥
वीरराघवः
देव्यः देवानां सम्बन्धिन्यः स्त्रियः अवतीर्णौ नरनारायणौ 91द्रष्टुकामाः सर्वे ब्रह्मादयः देवाः अभिष्टवैः उपतस्थुः । आगत्य समीपे अभितः स्थित्वा स्तोत्रैः तुष्टुवुरित्यर्थः ॥ ५५ ॥
श्लोक-५६
मूलम् (वचनम्)
देवा ऊचुः
विश्वास-प्रस्तुतिः
यो मायया विरचितं निजयाऽऽत्मनीदं
खे रूपभेदमिव तत्प्रतिचक्षणाय।
एतेन धर्मसदने ऋषिमूर्तिनाद्य
प्रादुश्चकार पुरुषाय नमः परस्मै॥
मूलम्
यो मायया विरचितं निज92याऽऽत्मनीदं खे रूपभेदमिव तत्प्रतिचक्षणाय।
एतेन धर्मसदने ऋषिमूर्तिनाद्य प्रादुश्चकार पुरुषाय नमः परस्मै॥ ५६ ॥
अनुवाद (हिन्दी)
देवताओंने कहा—जिस प्रकार आकाशमें तरह-तरहके रूपोंकी कल्पना कर ली जाती है—उसी प्रकार जिन्होंने अपनी मायाके द्वारा अपने ही स्वरूपके अन्दर इस संसारकी रचना की है और अपने उस स्वरूपको प्रकाशित करनेके लिये इस समय इस ऋषि-विग्रहके साथ धर्मके घरमें अपने-आपको प्रकट किया है, उन परम पुरुषको हमारा नमस्कार है॥ ५६॥
वीरराघवः
स्तुतिमेवाऽऽह - य इति द्वाभ्याम् । निजया आत्मीयया मायया सङ्कल्पेन स्वात्मन्येवाऽऽधारभूते खे आकाशे रूपभेदं सितनीलादिरूपभेदमिव विरचितुं यदिदं विश्वं रचितं तत्राऽऽकाशदृष्टान्तेन स्वस्यास्पृष्टसृज्यवस्तुदोषत्वमुच्यते । यद्वा 93यस्मिन् आत्मनि जीवे आकाशे रूपभेदमिव इदं देवतिर्यगादिरूपभेदं विरचितं तत्राऽऽकाशदृष्टान्तेन सितनीलादिरूपभेदः मेघादिकृतः, वस्तु94तः आकाशादतिरिक्तोपि 95भ्रान्तदृष्टीनामाकाशाभिन्नत्वेन प्रतीतः तद्वद्देवादिरूपभेदात् विलक्षणे ह्यात्मस्वरूपे तदभिन्नत्वेनैव भ्रा96न्तदृष्टीनां प्रतीयमानो देवादिरूपभेद इति विवक्षितम् । 97यथोक्तम् - “सितनीलादिभेदेन यथेदं दृश्यते नभः । 98भ्रान्तदृष्टिभिरात्मापि तथैकस्सन् पृथक पृथक” (विष्णु.पु. 2-16-22) इति । अस्मिन् पक्षे यो मायया आत्मनि रचितमित्युक्त्या भगवतः सङ्कल्पादेव जीवस्य बन्धः इत्युक्तं भवति तत् प्रतिचक्षणाय तस्य देवादिरूपसंसृष्टस्य आत्मनः प्रतिचक्षणाय प्रतिबोधनाय देवादिरूपभेदाद्विलक्षणब्रह्मात्मकप्रत्यात्मस्वरूपबोधनाय तद्द्वारा संसारमोचनाय इत्यभिप्रायः । एतेन देवमनुष्यादिसजातीयेन स्वसङ्कल्पोपात्तेन अप्राकृताकर्मवश्येन ऋष्याकारेण 99धर्मवश्ये गृहे यो भगवान् प्रादुश्चकार प्रादुर्भूतः तस्मै परमपुरुषाय ते नमः ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान्
सत्त्वेन नः सुरगणाननुमेयतत्त्वः।
दृश्याददभ्रकरुणेन विलोकनेन
यच्छ्रीनिकेतममलं क्षिपतारविन्दम्॥
मूलम्
सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान् सत्त्वेन नः सुरगणाननुमेयतत्त्वः।
दृश्याददभ्रकरुणेन विलोकनेन यच्छ्रीनिकेतममलं क्षिपतारविन्दम्॥ ५७ ॥
अनुवाद (हिन्दी)
जिनके तत्त्वका शास्त्रके आधारपर हमलोग केवल अनुमान ही करते हैं, प्रत्यक्ष नहीं कर पाते—उन्हीं भगवान्ने देवताओंको संसारकी मर्यादामें किसी प्रकारकी गड़बड़ी न हो, इसीलिये सत्त्वगुणसे उत्पन्न किया है। अब वे अपने करुणामय नेत्रोंसे—जो समस्त शोभा और सौन्दर्यके निवासस्थान निर्मल दिव्य कमलको भी नीेचा दिखानेवाले हैं—हमारी ओर निहारें॥ ५७॥
वीरराघवः
सोऽयं स्वसङ्कल्पकृतजगद्बन्धमोक्षः भगवान् अनुमेयतत्त्वः शास्त्रैकवेद्यविविधविचित्रशक्तिमत्त्वरूपः स्थितिव्यतिकरो पशमाय स्थितिः पालनं व्यतिकरः सृष्टिः उपशमः संहारः तेषां समाहारे द्वन्द्वः तस्मै जगत्पालनाद्यर्थं पालनाधिकृतभगवदंशभूतेन्द्राद्यभिप्रायेण स्थितिपदं प्रयुक्तम् । सत्त्वेनेति गुणत्रयोपलक्षणम् । स्थित्याद्यनुगुणसत्त्वादिगुणविशिष्टत्वेन सृष्टान् अस्मान् सुरगणान् अदभ्रकरुणेन अनल्पदयायुक्तेन विलोकनेन दृश्यात् आशीर्लिङ आर्धधातुकत्वात् पश्यादेशाभावः । दृश्यान् इति द्वितीयान्तपाठे तु पश्यत्विति क्रियापदमध्याहर्तव्यं, दृश्यान् कृपावलोकनविषयत्वयोग्यान् अस्मान् पश्यत्वित्यर्थः । कथम्भूतेन विलोकनेन ? यच्छ्रियो लक्ष्म्याः निकेतं स्थानम् अरविन्दं कमलं तत्क्षिपता तिरस्कुर्वता ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
एवं सुरगणैस्तात भगवन्तावभिष्टुतौ।
लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम्॥
मूलम्
एवं सुरगणैस्तात! भगवन्तावभिष्टुतौ।
लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम्॥ ५८ ॥
अनुवाद (हिन्दी)
प्यारे विदुरजी! प्रभुका साक्षात् दर्शन पाकर देवताओंने उनकी इस प्रकार स्तुति और पूजा की। तदनन्तर भगवान् नर-नारायण दोनों गन्धमादन पर्वतपर चले गये॥ ५८॥
वीरराघवः
हे तात ! एवं लब्धः कृपावलोकः यैस्तैस्सुरगणैः अभिष्टुतौ भगवन्तौ नरनारायणौ गन्धमादनाऽऽख्यं पर्वतं प्रति ययतुः गतवन्तौ ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
ताविमौ वै भगवतो हरेरंशाविहागतौ।
भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ॥
मूलम्
ताविमौ वै भगवतो हरेरंशाविहागतौ।
भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ॥ ५९ ॥
अनुवाद (हिन्दी)
भगवान् श्रीहरिके अंशभूत वे नर-नारायण ही इस समय पृथ्वीका भार उतारनेके लिये यदुकुलभूषण श्रीकृष्ण और उन्हींके सरीखे श्यामवर्ण, कुरुकुलतिलक अर्जुनके रूपमें अवतीर्ण हुए हैं॥ ५९॥
वीरराघवः
तावेव हरेरंशतया अवतीर्णौ इमौ नरनारायणौ भुवः भारव्ययाय भारक्षपणाय यदुकुरुकुलश्रेष्ठौ इमौ कृष्णार्जुनौ इहागतौ तावेव कृष्णार्जुनरूपेण अवतीर्णावित्यर्थः ॥ ५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
स्वाहाभिमानिनश्चाग्नेरात्मजांस्त्रीनजीजनत्।
पावकं पवमानं च शुचिं च हुतभोजनम्॥
मूलम्
स्वाहाभिमानिनश्चाग्नेरात्मजांस्त्रीनजीजनत्।
पावकं पवमानञ्च शुचिञ्च हुतभोजनम्॥ ६० ॥
अनुवाद (हिन्दी)
अग्निदेवकी पत्नी स्वाहाने अग्निके ही अभिमानी पावक, पवमान और शुचि—ये तीन पुत्र उत्पन्न किये। ये तीनों ही हवन किये हुए पदार्थोंका भक्षण करनेवाले हैं॥ ६०॥
वीरराघवः
एवं धर्मपत्नीनां दक्षदुहितॄणां त्रयोदशानां सन्ततिः कथिता । अथ चतुर्दश्या दक्षदुहितुः सन्तानमाह - स्वाहेति । अभिमानिनः स्वाहां भार्यां स्वस्यात्यन्तमनुकूलां मन्यमानात् अग्नेः तद्भार्या स्वाहा स्वाहाख्या त्रीन् पुत्रान् प्रसूतवती । अभिमानिन इत्यात्मजविशेषणं वा, त्रेताग्न्यभिमानिनः देवानित्यर्थः । तानाह - पावकमिति । हुतभोजनमिति त्रयाणां विशेषणम् । हुतं देवतोद्देशेन व्यक्तं चरुपुरोडाशादिकं भुङ्क्ते इति हुतभोजनस्तम् ॥ ६० ॥
श्लोक-६१
विश्वास-प्रस्तुतिः
तेभ्योऽग्नयः समभवन् चत्वारिंशच्च पञ्च च।
त एवैकोनपञ्चाशत्साकं पितृपितामहैः॥
मूलम्
तेभ्योऽग्नयस्समभवन् चत्वारिंशच्च पञ्च च।
त एवैकोनपञ्चाशत्साकं पितृपितामहैः॥ ६१ ॥
अनुवाद (हिन्दी)
इन्हीं तीनोंसे पैंतालीस प्रकारके अग्नि और उत्पन्न हुए। ये ही अपने तीन पिता और एक पितामहको साथ लेकर उनचास अग्नि कहलाये॥ ६१॥
वीरराघवः
तेभ्यः पावकादिभ्यः पञ्चचत्वरिंशदग्नयः समभवन् त एव पञ्चचत्वारिंशदमयः पितृपितामहैस्साकंसह एकोनपञ्चाशत् । तत्र पितरस्त्रयः, पितामह एकः ॥ ६१ ॥
श्लोक-६२
विश्वास-प्रस्तुतिः
वैतानिके कर्मणि यन्नामभिर्ब्रह्मवादिभिः।
आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते॥
मूलम्
वैतानिके कर्मणि यन्नामभिर्ब्रह्मवादिभिः।
आग्नेय्य इष्टयो यज्ञे नि100रूप्यन्तेऽग्नयस्तु ते॥ ६२ ॥
अनुवाद (हिन्दी)
वेदज्ञ ब्राह्मण वैदिक यज्ञकर्ममें जिन उनचास अग्नियोंके नामोंसे आग्नेयी इष्टियाँ करते हैं, वे ये ही हैं॥ ६२॥
वीरराघवः
पञ्चचत्वारिंशदनीन् विशिनष्टि - वैतानिक इति । यन्नामभिः येषामग्नीनां नामभिः वैतानिके वैदिके कर्मणि तथा यज्ञे यद्वा यज्ञरूपे वैतानिकेकर्मणि आग्नेय्यः अग्निदेवताका इष्ट्यः यागाः ब्रह्मवादिभिः वैदिकैर्निरू101प्यन्ते त एते अग्नय इत्यर्थः ॥ ६२ ॥
श्लोक-६३
विश्वास-प्रस्तुतिः
अग्निष्वात्ता बर्हिषदः सोम्याः पितर आज्यपाः।
साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा॥
मूलम्
अग्निष्वात्ता बर्हिषदः 102सोम्याः पितर आज्यपाः।
साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा॥ ६३ ॥
अनुवाद (हिन्दी)
अग्निष्वात्त, बर्हिषद्, सोमप और आज्यप—ये पितर हैं; इनमें साग्निक भी हैं और निरग्निक भी। इन सब पितरोंकी पत्नी दक्षकुमारी स्वधा हैं॥ ६३॥
वीरराघवः
अथ पञ्चदश्या दक्षदुहितुः सन्ततिं 103वर्णयन् तत्पतीन् पितृृन्विभजति - अग्निष्वात्ता इति । अग्निष्वात्ता अयज्वान ते अनग्नय येषामग्नौ करणं नास्ति ते अनग्नयः ते च आज्यपा ये च बर्हिषदः यज्वानस्ते साग्नयः अग्नौ करणवन्तः सोम्याः सोमपाश्च । तथा च श्रुतिः “ये वै यज्वानस्ते पितरः बर्हिषदः ये वा अयज्वानो गृहमेधिनस्ते पितरोऽग्निष्वात्ता" इति तेषामुभय104विधपितॄणां पत्नी दाक्षायणी दक्षदुहिता स्वधाख्या ॥ ६३ ॥
श्लोक-६४
विश्वास-प्रस्तुतिः
तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा।
उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे॥
मूलम्
तेभ्यो दधार कन्ये द्वे 105वयुनां 106धारिणीं स्वधा।
उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे॥ ६४ ॥
अनुवाद (हिन्दी)
इन पितरोंसे स्वधाके धारिणी और वयुना नामकी दो कन्याएँ हुईं। वे दोनों ही ज्ञान-विज्ञानमें पारंगत और ब्रह्मज्ञानका उपदेश करनेवाली हुईं॥ ६४॥
वीरराघवः
तेभ्यः पितृभ्यः 107स्वधा मेधां वैतरिणीञ्च द्वे कन्ये दधार गर्भे धृतवती प्रसूतवतीत्यर्थः । तयोः सन्ततिर्नास्तीत्याह - उभ इति । ते उभे मेधावैतरण्यौ ब्रह्मवादिन्यौ ब्रह्मोपदेष्ट्र्यौ ज्ञानं शास्त्रजन्यं, विज्ञानं विवेकादिजन्यं, तयोः पारं अन्तं गतवत्यौ सनकादिवदूर्ध्वरेतस्के ते इति भावः ॥ ६४ ॥
श्लोक-६५
विश्वास-प्रस्तुतिः
भवस्य पत्नी तु सती भवं देवमनुव्रता।
आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः॥
मूलम्
भवस्य पत्नी तु सती भवं देवमनुव्रता।
आत्मनस्सदृशं पुत्रं न लेभे गुण108शीलतः॥ ६५ ॥
अनुवाद (हिन्दी)
महादेवजीकी पत्नी सती थीं, वे सब प्रकारसे अपने पतिदेवकी सेवामें संलग्न रहनेवाली थीं। किन्तु उनके अपने गुण और शीलके अनुरूप कोई पुत्र नहीं हुआ॥ ६५॥
वीरराघवः
भवस्य रुद्रस्य 109या पत्नी सतीनाम्नी सापि गुणशीलादिभिरात्मनः स्वस्याः सदृशं देवं भवं 110नित्यं सेवमानापि पुत्रं न लेभे ॥ ६५ ॥
श्लोक-६६
विश्वास-प्रस्तुतिः
पितर्यप्रतिरूपे स्वे भवायानागसे रुषा।
अप्रौढैवात्मनाऽऽत्मानमजहाद्योगसंयुता॥
मूलम्
पितर्यप्रतिरूपे स्वे भवायानागसे रुषा।
अप्रौ108ढैवाऽऽत्मनात्मानमजहाद्योगसंयुता॥ ६६ ॥
अनुवाद (हिन्दी)
क्योंकि सतीके पिता दक्षने बिना ही किसी अपराधके भगवान् शिवजीके प्रतिकूल आचरण किया था, इसलिये सतीने युवावस्थामें ही क्रोधवश योगके द्वारा स्वयं ही अपने शरीरका त्याग कर दिया था॥ ६६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्रथमोऽध्यायः॥ १॥
वीरराघवः
तत्र हेतुः - स्वे पितरि दक्षे अनागसे निरपराधिने भवाय रुद्राय रुषा क्रोधेनाप्रतिरूपे असदृशे प्रतिकूले सति आत्मना स्वयमेव आत्मानं देहं अप्रौढैव बालैव सती योगसंयुता अजहात् तत्याज योगाग्निना देहं ददाह इत्यर्थः ॥ ६६ ॥
-
Af,Jf सुव्रताः ↩︎
-
विश्रुताः इत्यस्य स्थाने सुव्रत इति वीरराघवादृतः पाठः । ↩︎
-
A याः ↩︎
-
A या ↩︎
-
A omits मनोस्त्विति । ↩︎
-
W तेजस्वी ↩︎
-
G,M धृक्; W भृत् ↩︎
-
A omits स्वीयं ↩︎
-
A omits यज्ञं ↩︎
-
This half-verse is not found in A,G,J & M ↩︎
-
A omits उपयेमे । पश्चात् ↩︎
-
W omits यस्यां ↩︎
-
M इन्द्रः ↩︎
-
M र्भुवः ↩︎
-
A,G,J स्वह्न ; M स्वाह ↩︎
-
AF य ↩︎
-
A omits प्रियव्रतोत्तानपदोः ↩︎
-
V,W तात ↩︎
-
A omits देवहूतिसम्बान्धि ↩︎
-
A इति भावः ↩︎
-
A तत्प्रसङ्गेन ↩︎
-
W ग्रन्थेन ↩︎
-
V,W आसन् ; Af क्षतः । ↩︎
-
M प्रसरं ↩︎
-
Af यज्ञं च ↩︎
-
M विश्वगां ↩︎
-
W चापि सत्तम । ↩︎
-
V,W सुषुवे सुयशस्सुतान् ↩︎
-
V,W दूं ↩︎
-
W omits सा ↩︎
-
W omits त्रीन् सुतान् ↩︎
-
A दत्तमित्यादिना तान् ↩︎
-
A परमात्मा ↩︎
-
A adds विष्णुः ↩︎
-
M स्थित्यन्तोत्पत्ति ↩︎
-
A,G,J किंस्विं ↩︎
-
A एतज्जन्म प्र ↩︎
-
A,G,J नो ↩︎
-
M वर ! ↩︎
-
M ययी ऋक्षं ↩︎
-
M मनोः ↩︎
-
A,G,J,M,V मुनिः ↩︎
-
M मैधिता ↩︎
-
M मुदाऽऽ ↩︎
-
W तदाविर्भाव ↩︎
-
उत्तिष्ठदेक ↩︎
-
M ददृशे ↩︎
-
Af कृताञ्जलिः ↩︎
-
A omits कमल ↩︎
-
A,G,J,M लोकेन ↩︎
-
M लसत् ↩︎
-
M,W प्र ↩︎
-
A यम् ↩︎
-
M नति ↩︎
-
M प्रत्यूचुः ↩︎
-
M प्रहसन्तो मुनिं ↩︎
-
M तत् ↩︎
-
Af ध्यायसि ↩︎
-
A ते व ↩︎
-
W उक्ति ↩︎
-
A omits द्वाभ्याम् ↩︎
-
A ते व ↩︎
-
M वितरिष्यन्ति ते ↩︎
-
A omits अङ्गिरसः ↩︎
-
M,V,W षान्तरे ↩︎
-
A,G,J उतथ्यो ↩︎
-
A उतथ्यः ↩︎
-
A,G,J र्भुवि ↩︎
-
M दभ्रोऽग्निः ↩︎
-
A र्भुवा ↩︎
-
A,G,J स्त्विडबिडा, M स्त्विडिबिला ↩︎
-
A तानू ↩︎
-
M विरजो ↩︎
-
M शान्तिस्त्व, W शान्ता त्व ↩︎
-
Af दधीच ↩︎
-
M प्रियाम् ↩︎
-
A ख्यात्याख्यायां ↩︎
-
M मृकण्डुः ↩︎
-
M मृकण्डोस्तु ↩︎
-
A,G,J त एते, M सर्वे ते ↩︎
-
V,W श्रुतं ↩︎
-
V,W च ↩︎
-
V,W तथा ↩︎
-
A,G,J त्तिर्न ↩︎
-
A,G,I ऽद्रयः ; M मयः ↩︎
-
W omits कल्याणगुणानां ↩︎
-
W ध्वानितानि ↩︎
-
V दिव्याः ↩︎
-
A द्रष्टुं ↩︎
-
M मा ↩︎
-
A स्वभिन्नात्मनि ↩︎
-
A adds तु ↩︎
-
A भ्रान्ति ↩︎
-
A भ्रान्ति ↩︎
-
W त ↩︎
-
A भ्रान्ति ↩︎
-
A धर्मस्य ↩︎
-
W रु ↩︎
-
A रू ↩︎
-
G,J,M,V सौम्याः ↩︎
-
A वक्ष्यन् ↩︎
-
A विधानां ↩︎
-
M मेनां वैतरणी ↩︎
-
W धरणी ↩︎
-
A omits स्वधा ↩︎
-
W omits या पत्नी ↩︎
-
A omits नित्यं ↩︎