२२ १३ सनिमित्वोत्तरान् जपित्वाऽर्थम्
२२ १३ सनिमित्वोत्तरान् जपित्वाऽर्थम् ...{Loading}...
सनिम्+++(=भिक्षणम्)+++ इत्वोत्तरान् +++(“अन्नमिव ते दृशे भूयास"मित्यादीन् सप्त)+++ जपित्वा ऽर्थं +++(=अपेक्षाम्)+++ ब्रूयात् १३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If he goes out in order to beg for something, let him murmur the next (Mantras, II, 21, 10-16) and then state his desire.
हरदत्त-प्रस्तावः
अथावशिष्टानां मन्त्राणां येषु विनियोगस्तानि कर्माणि व्याचष्टे—
हरदत्तः
सन्यर्थं दातारं गत्वा । भिक्षणलभ्यं धनं सनिरित्युच्यते । सनिमित्वा उत्तरान्मन्त्रान् “अन्नमिव ते दृशे भूयासम्” इत्यादीन् सप्त जपित्वा । तमर्थं प्रब्रूयात् यदर्थमागतः । सप्तमे मन्त्रे असावित्यत्र प्रदातुर्नामग्रहणं, सम्बुध्या ॥१३॥
सुदर्शनः
सनिर्याञ्चा भिक्षणम् । केचित्—भिक्षणलब्धं धनमिति । या सनिः “भिक्षणे निमित्तमाचार्यो विवाहो यज्ञे मातापित्रोर्बुभूर्षार्हतश्च नियमविलोपः” “तत्र गुणान् समीक्ष्य यथाशक्ति देयम्” (आप.ध.२-१०-१,२) इति धर्मशास्त्रेऽवगता, तामुद्दिश्य इत्वा गत्वा । उत्तरान् मन्त्रान् “अन्नमिव ते दृशे भूयासं” इत्यादीन् सप्त जपित्वा तमर्थं प्रयोजनं ब्रूयात्, यं भिक्षेत तं बोधयति “आचार्यार्थं भिक्षामि भवन्तम्” इति । एवमुत्तरेष्वपि भिक्षणनिमित्तेषु विशेषः विवाहार्थमित्यादिः । सप्तमे च मन्त्रे “असा"वित्यत्र समबुद्ध्या दातुर्नामग्रहणम् ॥१३॥
मूलम् ...{Loading}...
सनिमित्वोत्तरान् जपित्वाऽर्थं ब्रूयात्।
२२ १४ रथं लब्ध्वा
२२ १४ रथं लब्ध्वा ...{Loading}...
रथं लब्ध्वा योजयित्वा प्राञ्चमवस्थाप्योत्तरया +++(ऽअङ्कौ न्यङ्कौऽइत्येतया)+++ रथचक्रे अभिमृशति पक्षसी वा १४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If he has obtained a chariot, he has the horses put to it, lets it face the east, and touches with the next (verse, II, 21, 17) the two wheels of the chariot or the two side-pieces.
हरदत्त-प्रस्तावः
इदानीं यदि याच्ञया रथादीनि लब्धानि, तदा केन विधिना स्वीकारः? इत्युत्तरे विधये आरभ्यन्ते—
हरदत्तः
यदि रथो लभ्यते ततस्तं लब्ध्वा योजयति कर्मकरैर्युगधुरोः करोति । तं प्राङ्मुखमवस्थाप्य उत्तरयर्चा “अङ्कौ न्यङ्कावभित” इत्येतया । रथचक्रे उभे सहाभिमृशति पाणिभ्यामुभाभ्याम् । अथवा पक्षसी अभिमृशति । पक्षसी रथस्येति शेषः पार्श्वे फलके इत्यन्ये । नेमी इत्यपरे । सकृदेव मन्त्रः । पाणिभ्यामुभाभ्यामभिमर्शनम् । तथा चाश्वलायनः—“रथमारोक्ष्यन्नाना पाणिभ्यां चक्रे अभिमृशेत् ( आश्व.गृ.२-६-१) इति ॥१४॥
सुदर्शनः
रथश्चेल्लब्धः तं कर्मकरैर्वाहाभ्यां योजयित्वाथ तं प्राञ्चं प्राङमुखम् अवस्थाप्य उत्तरया “अङ्कौ न्यङ्कौ” इत्येतया रथचक्रे उभे पाणिभ्यां युगपद् अभिमृशति । अपि वा पक्षसी ईषे । अन्यथापि पदार्थमाहुः ॥१४॥
मूलम् ...{Loading}...
रथं लब्ध्वा योजयित्वा प्राञ्चमवस्थाप्योत्तरया रथचक्रे अभिमृशति पक्षसी वा।
२२ १५ उत्तरेण यजुषाऽधिरुह्योत्तरया
२२ १५ उत्तरेण यजुषाऽधिरुह्योत्तरया ...{Loading}...
उत्तरेण यजुषा +++(ऽअध्वनामध्वयत्ऽइत्येन)+++ ऽधिरुह्योत्तरया +++(ऽअयं वामश्विमा रथऽइत्येतया )+++ प्राचीमुदीचीं वा दिशमभिप्रयाय यथार्थं यायात् १५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next Yajus (II, 21, 18) he should mount, and drive with the next (verse, II, 21, 19) towards the east or north, and should then drive off on his business.
हरदत्तः
ततः उत्तरेण यजुषा “अध्वनामध्वपत्” इत्यनेन । रथं स्वमधिरोहति । ततः उत्तरयर्चा “अयं वामश्विना रथ” इत्येतया । प्रचीमुदीचीं वा दिशमभिप्रपाद्य यथार्थं यायात् यत्र प्रयोजनं तत्र गच्छेत् । अधिरुह्येति दीर्घपाठश्छान्दसः । एतद्विधानं क्रयादिलब्धस्यापि रथस्य प्रथमारोहणे भवति । द्वितीयादिषु तु न भवति । लब्ध्वेति वचनात् ॥१५॥
सुदर्शनः
तेन उत्तरेण “अध्वनामध्वपते” इत्यनेन यजुषा रथं स्वयम् अधिरुह्य । दीर्घश्छान्दसः । उत्तरया “अयं वामश्विना” इत्येतया । प्राचीमुदीचीं वा दिशमभिप्रयाय प्रस्थायादृष्टार्थं, ततो यथार्थं प्रयोजनानुसारेण यायान् गच्छेत् ॥१५॥ केचित्— लब्ध्वेति वचनात् क्रयादिलब्धस्यापि रथादेः प्रथमारोहणे विधिरयं भवतीति । नैतत्; प्रकृतयाच्ञादिना लब्धरथादिविषयत्वेनैवास्य वाक्यस्यार्थवत्त्वोपपत्तेः, “याच्ञया रथादीनि लब्ध्वा” इति भाष्यविरोधाच्च ॥१५॥
मूलम् ...{Loading}...
उत्तरेण यजुषाऽधिरुह्योत्तरया प्राचीमुदीचीं वा दिशमभिप्रयाय यथार्थं यायात् ।
२२ १६ अश्वमुत्तरैरारोहेत्
२२ १६ अश्वमुत्तरैरारोहेत् ...{Loading}...
अश्वमुत्तरैर् +++(ऽअश्वोऽसि हयोऽसिऽइत्यादिभिः)+++ आरोहेत् १६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Let him mount a horse with the next (formulas, II, 21, 20-30),
हरदत्तः
लब्ध्वेत्यनुवर्तते । उत्तरैर् एकादशभिः “अश्वोऽसि हयोऽसि” इत्यादिभिः । रथलाभवदश्वलाभो व्याख्यातः ॥१६॥
सुदर्शनः
अश्वश्चेद्याच्ञया लब्धः तमुत्तरैर् मन्त्रैः “अश्वोऽसि” इत्यादिभिर् आरोहेत् ॥१६॥
मूलम् ...{Loading}...
अश्वमुत्तरैरारोहेत् ।
२२ १७ हस्तिनमुत्तरया
२२ १७ हस्तिनमुत्तरया ...{Loading}...
हस्तिनमुत्तरया +++(ऽहस्तियशसमसीऽत्येतया)+++ १७
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- An elephant with the next (formula, II, 21, 31).
हरदत्तः
लब्ध्वाऽऽरोहेदिति वर्तते । उत्तरया “हस्तियशसमसी"त्येतया । तत्रासाविति हस्तिनो नामग्रहणम् । अभिनिदधामि नागेन्द्रेति । आरुह्य तूष्णीमङ्कुशाभिधानम् । मन्त्रे चाभिनिदधामीति द्रष्टव्यः । तेन मन्त्रे लिङ्गस्याविरोधः ॥१७॥
सुदर्शनः
पूर्ववद्व्याख्यानम् । उत्तरया “हस्तियशसं” इत्येतया । असावित्यत्र च सम्बुद्ध्या ऐरावतेति गजनामग्रहणम् । अत्र यद्यपि “वज्रेणाभिनिदधाम्यसौ” इतिलिङ्गादङ्कुशाभिधानार्थता मन्त्रस्य; तथापि “हस्तिनमुत्तरयाऽऽरोहेत्” इति वाचनिकविनियोगस्य बलवत्त्वात्तदनुसार्येव मन्त्रो व्याख्यातव्यः ॥१७॥
मूलम् ...{Loading}...
हस्तिनमुत्तरया ।
२२ १८ ताभ्याँ रेषणे
२२ १८ ताभ्याँ रेषणे ...{Loading}...
ताभ्याँ +++(भूमौ पतितस्य)+++ रेषणे +++(=शरीरोपमर्दे)+++ पूर्ववत् +++(ऽस्योना पृथिवीऽइत्येताभ्यां)+++ पृथिवीम् अभिमृशेत् १८
०८ स्योना पृथिवि ...{Loading}...
१५ स्योना पृथिवि ...{Loading}...
+++(अभिमृशति)+++
स्यो॒ना+++(=सुखरूपा)+++ पृ॑थिवि॒ भवा॑+
ऽनृक्ष॒रा+++(=कण्टकादिरहिता)+++ नि॒वेश॑नी ।
यच्छा॑ न॒श् शर्म॑ स॒प्रथाः॑+++(=सकीर्तिः)+++ ।
०९ बडित्था पर्वतानाङ्खिद्रम्बिभर्षि ...{Loading}...
बड् इ॒त्था+++(त्थं)+++ पर्व॑तानाङ्+++(→मेघानाम्)+++
खि॒द्रम्+++(=छिद्रं →छेदनम्)+++ बि॑भर्षि पृथिवि ।
प्र या भू॑मि प्रवत्वति+++(=प्रवणवति)+++
म॒ह्ना+++(=महिम्ना)+++ +++(देवादीन्)+++ जि॒नोषि॑+++(=तर्पयसि)+++ म॒हि॒नि॒+++(=महति)+++ ।+++(र४)+++
+++(अत्र देवप्रीत्या वृष्टिरिति चक्रम् उच्यते।)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 If any harm is done him by these two (beasts), let him touch the earth as indicated above.
हरदत्तः
ताभ्यां अश्वहस्तिभ्यां, रेषणे शरीरोपमर्दे जाते पूर्ववत् हेमन्तप्रत्यवरोहणवत् पृथिवीमभिमृशेत् । “स्योना पृथिवि” “बडित्थे"त्येताभ्याम् । पूर्ववदिति न जातकर्म गृह्यते, व्यवधानात् ॥१८॥
सुदर्शनः
ताभ्यां तयोरश्वहस्तिनोः । रेषणे मरणे सति । पूर्ववत् हेमन्तप्रत्यवरोहणवत् “स्योना पृथिवी” इत्येताभ्यां पृथिवीमभिमृशेत् । केचित्—ताभ्यां अश्वहस्तिभ्याम् । प्रमादाद्भूमौ पतितस्य रेषणे शरीरोपमर्दे जाते इति ॥१८॥
मूलम् ...{Loading}...
ताभ्याँ रेषणे पूर्ववत् पृथिवीमभिमृशेत्।
२२ १९ संवादमेष्यन् सव्येन
२२ १९ संवादमेष्यन् सव्येन ...{Loading}...
संवादम्+++(=ऋणादानादिव्यवहारः)+++ एष्यन्सव्येन पाणिना छत्रं दण्डञ् चादत्ते १९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If he is going to a dispute, he takes the parasol and the staff in his left hand.
हरदत्तः
यत्र स्थानेऽर्थादिनिमित्ते प्रत्यर्थिभिः सम्वदते स सम्वादः । तमेष्यन् तत्रापराजयाय सव्येन पाणिना छत्रं दण्डञ्चादत्ते । पाणिग्रहणमुत्तरार्थम् । इह तु आदानपरत्वादेव सिद्धम् । तेन फलीकरणहोमः पाणिनैव कर्तव्यः, न पात्रेण अन्यथा मुष्टिशब्दस्य परिमाणवाचित्वस्यापि दर्शनादस्याप्रसङ्गः ॥१९॥
इति श्रीहरदत्तमिश्रविरचितायां गृह्यवृत्तावनाकुलायां द्वाविंशः खण्डः ॥
सुदर्शनः
सम्वादः ऋणादानादिव्यवहारः । केचित्—यत्र स्थाने प्रत्यर्थिभिस्संवदत इति । ऋणादानादिव्यवहारं कर्तुमेष्यन् व्यवहारे जयमिच्छन्नित्यर्थः । शेषं व्यक्तम् ॥१९॥ इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने द्वाविंशः खण्डस्समाप्तः ॥
मूलम् ...{Loading}...
संवादमेष्यन् सव्येन पाणिना छत्रं दण्डं चादत्ते ॥
२३ ०१ दक्षिणेन फलीकरणमुष्टिमुत्तरया
२३ ०१ दक्षिणेन फलीकरणमुष्टिमुत्तरया ...{Loading}...
दक्षिणेन फलीकरणमुष्टिमुत्तरया +++(ऽअव जिह्वकेऽत्येतया )+++ हुत्वा
गत्वोत्तरां +++(ऽआ ते वाचमास्यांऽइत्येताम्)+++ जपेत् १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having sacrificed, with his right hand, a fist full of chaff with the next (verse, II, 21, 32), he should go away and murmur the next (verse, 33).
हरदत्तः
छत्रदण्डौ सव्येन पाणिना धारयन्नेव दक्षिणेन पाणिना फलीकरणानां मुष्टिं जुहोति । उत्तरयर्च्चा “अव जिह्वके"त्येतया । तत्रासाविति प्रत्यर्थिनो नामनिर्देशः प्रथमया । होमश्चायमपूर्वः । उपसमाधानं परिस्तरणं तूष्णीमुभयतः पर्युक्षणम् इत्येतावत् । ततस्संवादं गत्वा प्रत्यर्थिनं दृष्ट्वा जपेत् । उत्तराम्ऋचं “आ ते वाचमास्यां” इत्येताम् । अत्राप्यसाविति प्रत्यर्थिनो नामनिर्देशः सम्बुध्या । अवाचीनेन मुष्टिना होमः । “अवयज इति” लिङ्गात् । दक्षिणेनेति वचनं होमकाले छत्रदण्डयोः सव्येन धारणार्थम् सव्यस्य व्यापृतत्वात् दक्षिणेनैव होमः इति ॥१॥
सुदर्शनः
सव्यपाणिधृतच्छत्रदण्ड एव दक्षिणेन पाणिना फलीकरणमुष्टिमुत्तरया “अव जिह्वक” इत्येतया स्वाग्नौ जुहोति । “असा"वित्यत्र सोमशर्मेति प्रथमया प्रत्यर्थिनो नामग्रहणम् । यावदुक्तधर्मश्चायं होम इति पूर्वमेवोक्तम् । केचित्—परिस्तरणमुभयतस्तूष्णीं पर्युक्षणं च कर्तव्यम्, मुष्टिना चावाचीनेन होम इति । ततस्संवाददेशं गत्वा प्रत्यर्थिनं पश्यन्नुत्तरां “आ ते वाचं” इत्येतां जपेत् । इह च सम्बुध्या नामनिर्देशः प्रत्यर्थिन एव ॥१॥
मूलम् ...{Loading}...
दक्षिणेन फलीकरणमुष्टिमुत्तरया हुत्वा गत्वोत्तरां जपेत् ।
२३ ०२ क्रुद्धमुत्तराभ्यामभिमन्त्रयेत
२३ ०२ क्रुद्धमुत्तराभ्यामभिमन्त्रयेत ...{Loading}...
क्रुद्धमुत्तराभ्याम् +++(ऽया त एषा रराट्याऽइत्येताभ्याम्)+++ अभिमन्त्रयेत विक्रोधो भवति २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Over an angry person let him recite the two next (formulas, II, 22, 1. 2); then his anger will be appeased.
हरदत्तः
उत्तराभ्यां “या त एषा रराट्या” इत्येताभ्याम् । तत्र मन्त्रयोर्लिङ्गे विशेषाभावात् क्रुद्धमिति लिङ्गमविवक्षितम् । तेन स्त्रियामपि भवति । शूद्रादिष्वपि भवति । नेत्यन्ये । क्रुद्धस्य दर्शने नैमित्तिकमिदं नियमेन कर्तव्यमिति प्राप्त आह—विक्रोधो भवतीति । यस्य क्रोधविगमं चिकीर्षति तत्र कर्तव्यमित्यर्थः । क्रोधश्चात्मविषयः । परविषयो वा ॥२॥
सुदर्शनः
यदि क्रुद्धः प्रत्यर्थी वा व्यवहारद्रष्टा वा, तत्क्रोधशान्तिं चासाविच्छति, तदा उत्तराभ्यां “या त एषा” इत्येताभ्यां क्रुद्धम् इतरं वाभिमन्त्रयेत । अनेन चाभिमन्त्रणेन क्रुद्धो विक्रोधो विगतक्रोधो भवति । फलविधिश्चायम् । नार्थवादमात्रं, सूत्रकारेण बद्धत्वात् ॥२॥
मूलम् ...{Loading}...
क्रुद्धमुत्तराभ्यामभिमन्त्रयेत विक्रोधो भवति ।
२३ ०३ असम्भवेप्सुः परेषाँ
२३ ०३ असम्भवेप्सुः परेषाँ ...{Loading}...
असंभवेप्सुः+++(=मैथुनं विवारयिषुः)+++ परेषां+++(=परनराणाम्)+++ स्थूलाऽऽढारिका+++(=गौलिका सरीसृपविशेषः, या शतचरणा नाम)+++जीवचूर्णानि कारयित्वोत्तरया +++(ऽअव ज्यामिव धन्वनऽइत्येतया)+++ सुप्तायास् सम्बाध+++(=योनौ)+++ उपवपेत् ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 One who wishes that his wife should not be touched by other men, should have big living centipedes ground to powder, and should insert (that powder) with the next (formula, II, 22, 3), while she is sleeping, into her secret parts.
हरदत्तः
( असंभवेप्सुः, अमैथुनेप्सुः) । सम्भवो मैथुनम् । श्रूयते च—“काममाविजनितोः सम्भवामेति (तै.सं.२-५-५) । तदभावोऽसम्भवः । परेषां पुरुषाणां असम्भवमिच्छन् आढारिका सरीसृपविशेषः । शतचरणा वा । सा च द्विविधा स्थूला तन्वी च । अरण्येषु स्थूला, अन्यत्र तन्वी । तत्र स्थूलायां जीवन्त्यां चूर्णानि कारयति कर्मकर्तैव । कारयित्वा तानि यदा भार्या स्वपिति तदा तस्यास्सम्बाधे उपस्थे उपवपेत् । उत्तरया “अव ज्यामिव धन्वन” इत्येतया । एवं कृते संबाध उपभोगयोग्यो न भवति व्यभिचारशङ्कायामिदम् । वेश्याविषयं वा ॥३॥
सुदर्शनः
यः प्रवत्स्यन् गृहे वा प्रजातन्तुं रक्षितुं स्वभार्यायां परपुरुषशुक्लस्यासम्भवमिच्छति स परेषामसम्भवेप्सुः । तस्योपायोपदेशः— स्थूलाढारिकाया जीवन्त्याश्चूर्णान्यन्येन कारयति । आढारिका गौलिका सरीसृपविशेषः, या शतचरणा नाम । सा च द्विविधा, ग्राम्या आरण्या च । तयोरारण्या स्थूला ग्राम्या तन्वी । जीवचूर्णानि चाश्मादिना महता प्रहारेण मार्यमाणायां भवन्ति । ततस्तानि चूर्णान्य् उत्तरया “अव ज्यामिव धन्वनः” इत्येतया सुप्तायाः सम्बाधे योनावुपवपेत् । एवं कृते सम्बाध उपभोगयोग्यो न भवति ॥३॥
मूलम् ...{Loading}...
असम्भवेप्सुः परेषाँ स्थूलाढारिकाजीवचूर्णानि कारयित्वोत्तरया सुप्तायास्सम्बाध उपवपेत्।
२३ ०४ सिद्ध्यर्थे बभ्रुमूत्रेण
२३ ०४ सिद्ध्यर्थे बभ्रुमूत्रेण ...{Loading}...
+++(सम्भोगयोग्यता)+++सिद्ध्यर्थे बभ्रु+++(गो)+++मूत्रेण +++(योनिं)+++ प्रक्षालयीत ४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- For success (in the generation of children) let him wash (his wife) with the urine of a red-brown cow.
हरदत्त-प्रस्तावः
अथ यदा परपुरुषशङ्काऽपैति तदा स्वशुक्लसम्भवसिध्यर्थे भैषज्यमुच्यते—
हरदत्तः
सिध्यर्थे कार्यसिद्धेः प्रार्थनायां उपभोगयोग्यत्वे चिकीर्षित इत्यर्थः । तदा बभ्रुमूत्रेण सम्बाधस्य प्रक्षालनं कर्तव्यम् । इदमत्र भैषज्यमित्यर्थः । बभ्रूः कपिलवर्णा गौः ॥४॥
सुदर्शनः
कपिलायाः गोमूत्रेण प्रक्षालयीत सम्बाधम् ॥४॥
मूलम् ...{Loading}...
सिद्ध्यर्थे बभ्रुमूत्रेण प्रक्षालयीत ।
२३ ०५ सिद्ध्यर्थे यदस्य
२३ ०५ सिद्ध्यर्थे यदस्य ...{Loading}...
सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात् तत उत्तरया +++(ऽयदहं धनेनेऽत्येतया)+++ जुहुयात् ५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- For success (in trade) let him sacrifice with the next (verse - II, 22, 4 - some portion) from the articles of trade which he has in his house.
हरदत्तः
अस्य कुटुम्बिनो गृहे यत् द्रव्यं पण्यं क्रय्यं तस्य सिध्यर्थे अर्धापकर्षादिना सिद्धिस्स्यादित्येवमर्थम् । तस्मात् द्रव्यात् किञ्चिदादाय उत्तरयर्चा “यदहं धनेने"त्येतया जुहुयात् । सिद्धिर्भवति । अत्र क्षारलवणादीनामपि होमो भवति । उक्तानि यथोपदेशं काम्यानि । तत्र द्रवद्रव्येषु दर्वी । इतरेषु हस्तः । फलीकरणहोमवच्चापूर्वार्थम् । अस्येति वचनं अस्य गृहे यत्पण्यं तस्यान्येनापि तद्धितैषिणा होमो यथा स्यादिति । न च मन्त्रेऽहमित्यस्य विरोधः ; स एव भूत्वा स करोतीति । गृहे पण्यमिति वचनात् क्षेत्रादिविषये न भवति । पुनः सिध्यर्थवचनं अस्य कर्मान्तरत्वज्ञापनार्थम् । अन्यथा पूर्वस्यैव विकल्पविधिस्सम्भाव्येत ॥५॥
सुदर्शनः
क्रय्यद्रव्यानुसारेणाज्यभागान्तमग्निमुखान्तं वा कृत्वा, तस्मात्पण्यादादायोत्तरया “यदहं धनेन” इत्येतया जुहुयात् । अत्र तत इति वचनान्न प्राणिद्रव्याद्धोमः, ततोऽवदानेऽङ्गवैकल्यापत्तेः । केचित्—अस्येति वचनादन्येन तद्धितैषिणा होतव्यम् । मन्त्रे चाहमित्यस्य न विरोधः, स एव भूत्वा स जुहोतीति ॥५॥
मूलम् ...{Loading}...
सिद्ध्यर्थे यदस्य गृहे पण्यँ स्यात्तत उत्तरया जुहुयात् ।
२३ ०६ यङ् कामयेत
२३ ०६ यङ् कामयेत ...{Loading}...
यं कामयेत नायम् अविच्छिद्येतेति जीव+++(गो)+++विषाणे +++(पूरयितुम्)+++ स्वं मूत्रमानीय सुप्तमुत्तराभ्यां +++(ऽपरि त्वा गिरेरऽमित्येताभ्यां)+++ त्रिः प्रसव्यं परिषिञ्चेत् ६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 3 If he wishes that somebody be not estranged from him, let him pour his own urine into the horn of a living animal, and sprinkle (it) with the next two (verses, II, 22, 5. 6) three times from right to left around (the person) while he is sleeping.
हरदत्तः
यं भृत्यं मत्तोऽयं न छिद्येतोति कामयेत नापगच्छेदिति यावज्जीवं मदधीन एव स्यादिति तत्र तत्कामे जीवतो गोर्विषाणं स्वयं पतितमादाय स्वं मूत्रमानीय तेन तं भृत्यं सुप्तं उत्तराभ्यां “परि त्वा गिरेरम्” इत्येताभ्यां त्रिः प्रसव्यं परिषिञ्चेत् । जीववचनं मृतस्य निवृत्यर्थम् । गौरित्युपदेशः । आनीयेति वचनात् पूर्वमन्यस्मिन् पात्रे मूत्रयित्वा शौचञ्च कृत्वा ततो विषाणोपनयनम् । परिषीतोऽसि इति मन्त्रलिङ्गात् स्त्रीष्विदं न भवति ॥६॥
सुदर्शनः
यं भर्तारं सपत्न्यामन्यस्यां वा इन्द्रियदौर्बल्यादनुरक्तं या स्त्री कामयेत अयं भर्ता मत् मत्तो न च्छिद्येत अस्य मय्यविच्छेदेन स्नेहस्स्यादिति सा स्त्री जीवविषाणे जीवन्त्या गोर्विषाणे बलात्पातिते स्वं मूत्रमानीय तेन भर्तारं सुप्तं उत्तराभ्यां “परि त्वा गिरेरमहं” इत्येताभ्यां त्रिः प्रसव्यं परिषिञ्चेत् । अत्र चानीयेति वचनात्पूर्वमन्यस्मिन्पात्रे मूत्रयित्वा शौचं च कृत्वा ततो विषाणेऽवनयनम् ॥६॥ केचित्—भृत्यविषयमेतत् स्वामिनः कर्मेति ।
मूलम् ...{Loading}...
यं कामयेत नायं मच्छिद्येतेति जीवविषाणे स्वं मूत्रमानीय सुप्तमुत्तराभ्याँस्त्रिः प्रसव्यं परिषिञ्चेत् ।
२३ ०७ येन पथा
२३ ०७ येन पथा ...{Loading}...
येन पथा दासकर्मकराः पलायेरन् तस्मिन्न् इण्वान्य् +++(दारुमयानि निगलानि)+++ उपसमाधायोत्तरा +++(ऽआवर्तन वर्तयेऽत्येताः)+++ आहुतीर् जुहुयात् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In a path which servants or labourers use to run away, he should put plates (used for protecting the hands when holding a hot sacrificial pan) on (a fire), and should offer the oblations (indicated by the) next (Mantras, II, 22, 7-10).
हरदत्त-प्रस्तावः
अथ भृत्यादीनां पलायितानां पुनरागमनकामस्य कर्माह—
हरदत्तः
अथ भृत्यानां पलायितानां निवृत्तिमिच्छतः कर्म ये कुर्वन्ति दासा अन्ये वा ते दासकर्मकराः येन यथा पलायेरन् तस्मिन् पथि इण्वानि दारुमयानि निगलानि उपसमाधाय प्रज्वाल्य तस्मिन्नग्नावुत्तराश्चतस्र आहुतीर्जुहुयात् “आवर्तन वर्तये"त्येताः । तत्र चतुर्णामिण्वानां मार्गे, क्रमेण भेदेनोपसमाधानं मन्त्राश्च क्रमेणेति केचित् । अन्ये सकृदेव बहूनामिण्वानामुपसमाधानं होमश्च तत्रैवेति । एकस्य द्वयोश्च पलायनेऽपि भवत्येवायं होमो न बहूनामेव । एकशोषनिर्देशात् दासकर्मकरश्च दासकर्मकरौ च दासकर्मराश्च दासकर्मकरा इति । अनिश्चिते चार्थे बहुवचनं प्रयुज्यते, यथा—कति भवतः पुत्रा । इति । मन्त्रेषु च “परिक्रोशो व” इत्यादिबहुवचनमविवक्षितम्, देवताभिधानपरत्वात् । अयमप्यपूर्वो होमः । सर्वेष्व् एतेषु यथा सम्भवम् अग्निर् औपासन एव ॥७॥
सुदर्शनः
दासाश्च भृतिकर्मकराश्च दासकर्मकराः । ते येन पथा पलयेरन् तस्मिन्पथि भूमावेव इण्वानि लोकप्रसिद्धानि दारुमयान्य् उपसमाधाय निधाय तेष्वेवानग्नौ “पदे जुहोति” इतिवत् उत्तराः “आवर्तन वर्तन"इत्याद्युत्तरमन्त्रकरणिकाश्चतस्र आज्याहुतीर्जुहुयात् अपूर्व चेदं कर्म । अत्र यद्यपि दासकर्मकरा इति बहुवचनं, तथाप्येकस्य द्वयोर्वा पलायनेऽपि भवत्येवेदं कर्म । केचित्—पथीण्वान्यग्नौ प्रज्वाल्य, तत्राग्नावेव होम इति ॥७॥
मूलम् ...{Loading}...
येन पथा दासकर्मकराः पलायेरन् तस्मिन्निण्वान्युपसमाधायोत्तरा आहुतीर्जुहुयात् ।
२३ ०८ यद्येनं
२३ ०८ यद्येनं ...{Loading}...
यद्येनं वृक्षात् फलमभिनिपतेद् वयो +++(=पक्षी)+++ वा ऽभिविक्षिपेद् अवर्षतर्क्ये वा बिन्दुर् अभिनिपतेत् तदुत्तरैर् +++(ऽयदि वृक्षादिऽत्यादिभिः)+++ यथालिङ्गं प्रक्षालयीत ८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If a fruit falls on him from a tree, or a bird befouls him, or a drop of water falls on him when no rain is expected, he should wipe that off with the next (Mantras, II, 22, 11-13), according to the characteristics (contained in these Mantras).
हरदत्तः
एनं स्नातकं वृक्षात् प्रच्युतफलं यद्यभिनिपतेत् शिरसि प्रदेशान्तरे वा । वयः पक्षी काकादिः एनमभिविक्षिपेत् शिरसि प्रदेशान्तरे वा । यदि वा अवर्षतर्क्ये वर्षं यत्र न तर्क्येत तस्मिन् काले देशे वा बिन्दुः अपां स्तोकः अभिनिपतेत् तदङ्गं उत्तरैः “यदि वृक्षादि"त्यादिभिः यथालिङ्गं अद्भिः प्रक्षालयेत् । “यदि वृक्षा"दिति फलस्य । “ये पक्षिण” इति वयसः । “दिवो नु मा बृहत” इति बिन्दोः । यथालिङ्गवचनं त्रयेऽपि मन्त्राः एकस्मिन्निमित्ते मा भूवन्निति । तीर्थाद्यतिक्रमवत् स्यात् प्रसङ्गः, विधेर्वलीयस्त्वात् ॥८॥
सुदर्शनः
यद्येनं द्विजं वृक्षात्फलं अभि उपरि नीचैरकस्मात् पतेत्, यदि वा वयः पक्षी पक्षाभ्यामेनम् अभिविक्षिपेत् उपरि पक्षवातेन धुनुयात्, यदि वा अवर्षतर्क्ये अभ्रशून्ये नभसि तस्माद् बिन्दुर्अपां स्तोकः अभिनिपतेत्, व्याख्यातम् । तत्फलनिपातादिभिरुपहतं शरीराङ्गम् उत्तरैर्मन्त्रैर्यथालिङ्गं प्रक्षालयीत । तत्र “यदि वृक्षात्” इति फलाभिपाते, “ये पक्षिणः” इति वयोऽभिविक्षेपे, “दिवो नु मा बृहतः” इति बिन्द्वभिनिपाते । यथालिङ्गमिति तु वचनमेकैकस्मिन्निमित्ते त्रिभिस्त्रिभिः प्रक्षालनं मा भूदिति ॥९॥
मूलम् ...{Loading}...
यद्येनं वृक्षात्फलमभिनिपतेद्वयो वाऽभिविक्षिपेदवर्षतर्क्ये वा बिन्दुरभिनिपतेत्तदुत्तरैर्यथालिङ्गं प्रक्षालयीत ।
२३ ०९ आगारस्थूणाविरोहणे मधुन
२३ ०९ आगारस्थूणाविरोहणे मधुन ...{Loading}...
आगारस्थूणाविरोहणे+++(=अङ्कुरजनने)+++, +++(अगारे)+++ मधुन उपवेशने, कुप्त्वां+++(चुल्ल्यां, अम्बरीषे)+++ कपोतपददर्शने, ऽमात्यानां +++(अमा सह वसन्तीति पुत्रभ्रात्रादयः, तेषाम् बहूनाम्)+++
शरीर-रेषणे+++(=व्याधौ मरणे वा)+++, ऽन्येषु चाद्भुतोत्पातेष्व्
अमावास्यायां निशायां +++(= चतुर्धाविभक्तायां रात्रेः द्वतीये भागे)+++ यत्रापां न शृणुयात्
तदग्नेरुपसमाधानाद्याज्यभागान्त उत्तरा +++(ऽइमं मे वरुण, तत्वायामिऽइत्येकादश)+++ आहुतीर् हुत्वा जयादि प्रतिपद्यते ९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If a post of his house puts forth shoots, or if honey is made in his house (by bees), or if the footprint of a dove is seen on the hearth, or if diseases arise in his household, or in the case of other miracles or prodigies, let him perform in the new-moon night, at dead of night, at a place where he does not hear the noise of water, the rites from the putting (of wood) on the fire down to the Ājyabhāga oblations, and let him offer the oblations (indicated in the) next (Mantras, II, 22, 14-23), and enter upon the performance of the Jaya and following oblations.
हरदत्त-प्रस्तावः
अथाद्भुतप्रायश्चित्तम्—
हरदत्तः
अथाद्भुतोत्पातप्रायश्चित्तम् । अद्भुतमपूर्वम् अदृष्टचरम् । तस्य (अद्भुतस्यादृष्टचरस्य) उत्पात उपजनः यद्वा ऊर्ध्वभवा अद्भुतविशेषा एवोत्पाताः दिव्या आन्तरिक्ष्याश्च । रात्राविन्द्रधनुर्लोहिनी द्यौरादित्ये कीलदर्शनमित्यादयः । तस्मिन् पक्षेऽद्भुतशब्देन भौमान्युच्यन्ते गोबलीवर्दन्यायेन । द्वन्द्वश्च समासः । तत्रोदाहरणरूपेण कानिचिदद्भुतानि दर्शयति— अगारस्थूणेति । विरोहणं अङ्कुरोपजननम् । अगारग्रहणात् आत्मीयेष्वपि शूद्रगृहादिषु न भवति । मधुन उपवेशने अगार इत्येव । कुप्तुः चुल्लीभ्राष्टमित्यनर्थान्तरम् । कपोतस्य पक्षिण आरण्यस्य पददर्शने पचनागारे तस्मिन् प्रविष्ट इत्यर्थः । अमात्याः पुत्रादयः । तेषां बहूनां युगपत् शरीररेषणे । व्याधौ मरणे च । अन्येषु चैवंप्रकारेषु वल्मीकादिषु इन्द्रधनुरादिषु च । अन्येष्वितिवचनात् अमात्यानां शरीरेषणमप्यद्भुतरूपमेव गृह्यते । नैकस्य द्वयोर्वा रेषणे कालभेदे च न भवति । अत्र प्रायश्चित्तम्— अमावास्यायां निशायां चतुर्धाविभक्तायां रात्रेः द्वतीयो भागो निशा । यत्र प्रदेशे अपां कुम्भैरुदधानेष्वानीयमानानां शब्दं न शृणुयात् तत्र प्रदेशेऽग्नेरुपसमाधानाद्युत्तरा आहुतय एकादश इमं मे वरुण इत्यादयः । प्रजापत इति “प्रजापते न त्वदेतानी"त्येषा गृह्यते । प्रसिद्धेः, न “प्रजापते त्वं निधिपा” इत्येषा । प्रजापते न त्वदिति च हुत्वा प्रधानाहुर्तार्जुहुयात् इति तन्त्रशेषं प्रतिपद्यते । आज्यभागान्त इत्येवं तन्त्रसमाप्तौ सिद्धायां अग्नेरुपसमाधानादिवचनं अग्निमात्रस्योपसमाधानार्थम् । तेन औपासनाभावे लौकिकेऽपि भवति । एवंप्रकाराणामेतेषां नैमित्तिकानां दृष्टफलानां च पण्यहोमादीनां अन्यस्मिन्नप्यग्नौ प्रवृत्तिप्रदर्शनार्थं सर्वान्ते अग्निविधानार्थो यत्नः कृतः । जयादि वचनमानन्तर्यार्थम् । प्रधानाहुत्यनन्तरं जयाद्येव प्रतिपद्यते, न सूत्रान्तरदृष्टा आहुतयोऽस्मिन् तन्त्रे होतव्याः इति । काः पुनस्ताः? कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोतः इति प्रत्यृचं जुहुयात् जपेद्वा । (आश्व. ३-७-७.) इत्याश्वलायनः । जयादिवचनेनैव तन्त्रसमुच्चयप्रतिषेधः । ………….तदपि प्रायश्चित्तं विकल्पेन भवति पृथक्तन्त्र इति । तत्रापि शम्याः परिध्यर्थे । अस्यापि प्रायश्चित्तस्यास्मिन्नेव शास्त्र उपदिष्टत्वात् ॥९॥
सुदर्शनः
तत्राद्भुताः स्वभावतः पूर्वमभूतास्सन्तो भवन्तीति । उत्पाता इति तु ऊर्ध्वं भवन्ति अव्यक्तावस्थायां प्राप्नुनुवन्ति । अद्भुताश्चोत्पाताश्चेति द्वन्द्वसमासः । शब्दभेदस्तु भौमदिव्यभेदाभिप्रायः । तत्र दिव्या उत्पाता रात्राविन्द्रधनुरादित्यकील इत्यादयः । भौमांस्त्वद्भुतानगारस्थूणेत्यादिना स्वयमेवोदाहरति । अगारस्य स्थूणाः अगारस्थूणाः, तासां विरोहणे अङ्कुरोपजनने । स्थूणाग्रहणं चान्यस्यापि गृहसम्बन्धिनो वंशादेरनिखातस्यापि प्रदर्शनार्थम्, निमित्तगतविशेषणत्वात् । मधुन उपवेशन इत्यगार एव । उपसर्जनस्याप्यगारशब्दस्य योग्यत्वेन बुद्ध्या विभज्य सम्बन्धः ; आरामादिष्वनद्भुतत्वात् । कुप्तुः चुल्ली भ्राष्ट्रमम्बरीषमित्यनर्थान्तरम् । तस्यां कुप्त्वां पचनागार इत्यर्थः । कपोतस्याप्यारण्यस्य पक्षिविशेषस्य पददर्शने । कुप्त्वामित्यपि प्रदर्शनार्थम् ; अन्तर्गृहेऽप्यस्याद्भुतत्वात् । अमा सह वसन्तीत्यमात्याः एकपात्रभोजनाः पुत्रभ्रात्रादयः तेषां बहूनां सन्ततं शरीररेषणे शरीरनाशने मरण इत्यर्थः । केचित्—अमात्यानां युगपद्व्याधावपीति । अन्येषु चाद्भुतोत्पातेषु उक्तेभ्योऽन्येषु गृहमध्ये वल्मीकजननादिष्वद्भुतेषु च दृष्टेषु सत्सु तत्सूचितदुरितशान्त्यादिकामोऽमावास्यायां निशायां रात्र्यां मुहूर्तद्वयादूर्ध्वम् । केचित्–द्वितीये याम इति । यत्रापां वहन्तीनां शब्दं न शृणुयात् केचिद्—कुम्भैरुदधानेष्वानीयमानास्विति । तथाभूते देशे अग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते । तन्त्रविधानं चास्य आज्यहविष्ट्वात् । आज्यभागान्ते इति त्वर्थकृत्यप्रतिषेधार्थम् । उत्तरा आहुतीः “इमं मे वरुण, तत्त्वा यामि” इत्येकादशाहुतीर्हुत्वा वचनबलाज्जयादि प्रतिपद्यते । अत्र प्रजापतय इति प्रतीकेन “प्राजापत्या व्याहृतीः” इतिवत् “प्रजापते न त्वदेतानि” इत्येषैव गृह्यते ॥९॥
मूलम् ...{Loading}...
आगारस्थूणाविरोहणे मधुन उपवेशने कुप्त्वां कपोतपददर्शनेऽमात्यानां शरीररेषणेऽन्येषु चाद्भुतोत्पातेष्वमावास्यायां निशायां यत्रापां न शृणुयात्तदग्नेरुपसमाधानाद्याज्यभागान्त उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ।
२३ १० परिषेचनान्तङ् कृत्वाऽभिमृतेभ्य
२३ १० परिषेचनान्तङ् कृत्वाऽभिमृतेभ्य ...{Loading}...
परिषेचनान्तं कृत्वा
ऽभिमृतेभ्य उत्तरया +++(ऽइमं जीवेभ्यऽ इत्येतया)+++ दक्षिणतो ऽश्मानम् +++(मृत्युवारणार्थम्)+++ परिधिं दधाति १०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having performed (the ceremonies) down to the sprinkling (of water) round (the fire), he puts up towards the south with the next (verse, II, 22, 24) a stone as a barrier for those among whom a death has occurred.
End of the Āpastambīya-Gṛhya-sūtra.
हरदत्तः
अथ अमात्यानां शरीररेषणे इत्यस्मिन्नद्भुते कश्चिद्विशेषः येषां पूर्वापरा अन्वञ्चः प्रमीयन्ते ते अभिमृतास्तेभ्यस्तदर्थं तेषां मृत्युशमनार्थं उत्तरं कर्म होममिमं कृत्वा परिषेचनान्तेऽश्मानं परिधिं अन्तर्धानं मृत्त्युनिवारणार्थं प्रतिष्ठापयति उत्तरयर्चा “इमं जीवेभ्य” इत्येतया । अभ्यासः प्रश्नसमाप्तिद्योतकः । परिधिमिति वचनात् तस्याश्मनः प्रच्यावनं न कार्यम्, तत्रैव प्रतिष्ठितो भवति ॥१०॥ इति श्रीहरदत्तमिश्रविरचितायां गृह्यवृत्तावनाकुलायां त्रयोविंशः खण्डः ॥ समाप्तश्चोत्तमोऽष्टमः पटलः ॥
॥ संपूर्णाऽनाकुला वृत्तिः ॥
सुदर्शनः
ततः परिषेचनान्तं तन्त्रशेषं करोति । शम्याः परिध्यर्थे इति पूर्वमेवोक्तम् । केचित्– आज्यभागान्त इत्यनेन तन्त्रप्राप्तौ सिद्धायामग्नेरुपसमाधानादिवचनमग्निमात्रस्योपसमाधानार्थम् । तेनौपासनशून्यस्येदं कर्म लौकिकेऽपि भवति । अन्यानि चैवंप्रकाराणि दृष्टफलानि नैमित्तिकानि पण्यहोमादीनि, अस्य सर्वान्तेऽग्निविधानस्य सर्वार्थत्वावगमादिति । अभिमृतेभ्य इत्यादिना “अमात्यानां शरीररेषणे” इत्यस्मिन्नद्भुते कश्चिद्विशेषोऽभिधीयते । अभिमृता अभिमुख्येन मृता योग्यतया जीवन्त एव अमात्यानां सन्ततमरणदर्शनेन स्वयमपि मरणाद्भीता इत्यर्थः । तेभ्यस्तदर्थं सन्ततमरणभयनिवृत्त्यर्थं उत्तरया “इमं जीवेभ्यः” इत्यनया परिधिं मृत्योरन्तर्धानभूतं अश्मानं दक्षिणतो निदधाति । एतच्च तन्त्रशेषान्ते, कृत्वेति क्त्वाप्रत्ययबलात् । केचित्—निदधाति प्रतिष्ठापयति । परिधिवचनाच्च तस्याश्मनः प्रच्यावनं न कर्तव्यमिति । दधाति ददातीतिद्विरुक्तिः प्रश्नसमाप्तिसूचनार्था ॥१०॥ इत्थं सुदर्शनार्येण गृह्यतात्पर्यदर्शनम् । कृतं भाष्यानुसारेण यथामति यथाश्रुतम् ॥ अत्रानुक्तं दुरुक्तं वा मतेर्मान्द्याच्छ्रुतस्य वा । सन्मार्गप्रवणानां नः क्षन्तुमर्हन्ति पण्डिताः ॥ इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने त्रयोविंशः खण्डः ॥ अष्टमश्च पटलस्समाप्तः ॥
॥ समाप्तेयं गृह्यसूत्रव्याख्या ॥
मूलम् ...{Loading}...
परिषेचनान्तं कृत्वाऽभिमृतेभ्य उत्तरया दक्षिणतोऽश्मानं परिधिं दधाति ।