२१ १० या माध्याः
२१ १० या माध्याः ...{Loading}...
या माघ्याः पौर्णमास्या उपरिष्टाद्+++(=कृष्णपक्षे)+++ व्यष्टका
तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते १०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Of the dark fortnight that follows after the full moon of Māgha, the eighth day falls under (the constellation of) Jyeṣṭhā: this day is called Ekāṣṭakā.
हरदत्त-प्रस्तावः
एवं प्रकृतिभूतं मासिश्राद्धं व्याख्यायेदानीं तद्विकृतिभूतं प्रतिसंवत्सरमनुष्ठेयं अष्टकाख्यं पाकयज्ञान्तरं व्याख्यास्यन्, तस्य कालविधिमाह—
हरदत्तः
व्याख्यातः श्राद्धविधिः । अथाष्टका नाम पाकयज्ञः पित्र्यः संवत्सरे संवत्सरे कर्तव्यः स उपदिश्यते । तस्य कालविधिरयं या माघी तस्या उपरिष्टाद्व्याष्टका कृष्णपक्षः । तस्यां या अष्टमी तामेकाष्टका इत्याचक्षते सा यदि ज्येष्ठया सम्पद्यते सङ्गच्छते तामप्येकाष्टकेत्याचक्षते इति द्वाविमौ योगौ । अन्यथा पौर्णमास्या उपरिष्टादष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षत इत्येतावता सिद्धम् । किं व्यष्टका तस्यामिति । तस्मादसत्यपि ज्येष्ठासंयोगे भवत्यष्टम्या एकाष्टकत्वम् । द्व्यष्टकाग्रहणस्य प्रयोजनं मृग्यम् । किमर्थं ज्येष्ठया सम्पद्यत इति? यदा द्वयोरह्नोरष्टमी तदा ज्येष्ठासंयुक्तायां क्रिया यथा स्यादिदि ॥१०॥
सुदर्शनः
माघ्याः माघमासस्य सम्बन्धिन्याः पौर्णमास्याः उपरिष्टादूर्ध्वं या व्यष्टका कृष्णपक्ष इत्यर्थः । तस्यां व्यष्टकायां या अष्टमी तिथिः ज्येष्ठया ज्येष्ठानक्षत्रेण सम्पद्यते सङ्गच्छते ताम् अष्टमीम् एकाष्टकेत्याचक्षते कथयन्ति ब्रह्मवादिनः । तस्यामष्टका कर्तव्येति शेषः । एकाष्टकायां वपाहोमादि प्रधानं कर्तव्यमित्यर्थः । तामेकाष्टकेत्याचक्षत इति वचनं यान्यन्यान्यप्येकाष्टकायां विहितानि, यथा गवामयनदीक्षा यथा च दीर्घसत्रेषु विज्ञानार्थमपूपेन कक्षस्योपोषणं, यथैव चोखासम्भरणं, तानि च सर्वाणि यथोक्तलक्षणायामेवाष्टम्यां कार्याणीत्येवमर्थम् । अत्रायमभिप्रायः– यद्यपि माघमासस्य सर्वा कृष्णपक्षाष्टमी ज्येष्ठया न सम्पद्यते ; तथापि तस्यामेकाष्टका कर्तव्यैव ; पाकयज्ञत्वेन नित्यत्वात्, “व्यष्टका तस्यां” इत्यधिकग्रहणाच्चेति । ज्येष्ठया सम्पद्यत इति तु प्रायिकाभिप्रायम् । तेनायुक्तायामपि गवामयनदीक्षादीनि लभ्यन्ते ॥ केचित्—यदा द्वयोरह्नोरष्टमी, यस्मिन्वा संवत्सरे द्वौ माघमासौ, तत्र या अष्टमी ज्येष्ठया सम्पद्यते तस्यामेव नासम्पन्नायामित्येवमभिप्राय इति ॥१०॥
मूलम् ...{Loading}...
या माध्याः पौर्णमास्या उपरिष्टाद्व्यष्टका तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते ।
२१ ११ तस्यास्सायमौपकार्यम्
२१ ११ तस्यास्सायमौपकार्यम् ...{Loading}...
तस्यास्सायमौपकार्यम् ११
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the evening before that day (he performs) the preparatory ceremony.
हरदत्तः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम् । )+++
सुदर्शनः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम् । )+++
मूलम् ...{Loading}...
तस्यास्सायमौपकार्यम्।
२१ १२ अपूपञ् चतुश्शरावम्
२१ १२ अपूपञ् चतुश्शरावम् ...{Loading}...
अपूपं चतुश्शरावं श्रपयति १२
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 He bakes a cake of four cups (of rice).
हरदत्तः
उप समीपे क्रियत इत्युपकारः । तत्र भवम् औपकार्यम् । तस्या औपकार्यमित्यन्वयः । तस्याः एकाष्टकायाः समीपे यत्कर्म क्रियते पूर्वेद्युस्सप्तम्याम्, तत्र चतुश्शरावमपूपं श्रपयति । सायं सप्तम्यामस्तमिते आदित्ये अपूपहविष्कं कर्म कर्तव्यमित्यर्थः । तदेवमौपकार्यशब्दः कालविधानार्थः । तस्यास्सायमित्यन्वये अष्टम्यामस्तमितेऽपूपं प्राप्नोति, नवम्यां पशुः, “दशम्यामन्वष्टका”, तच्छास्त्रेष्वप्रसिद्धम् । औपकार्यशब्दश्चानर्थकः ॥१२॥
सुदर्शनः
त्रिपदमिदं सूत्रम् । तस्या अष्टकाया औपकार्यम् उपकारकम् । उपकारं करोतीति कर्तरि यत्प्रत्ययः छान्दसः । अष्टकाया अङ्गभूतं कर्मेत्यर्थः । सायं पूर्वेद्युस्सप्तम्याः । सोमयागस्याग्नीषोमीयपशुयागवत्तस्या अष्टकाया अङ्गभूतं कर्म पूर्वेद्युस्सप्तम्यास्सायङ्काले कर्तव्यमिति सूत्रार्थः । न त्विह तस्या अष्टकाया इति सम्बन्धः ; नवम्यां वपाहोमादिप्रधानप्रसङ्गात् । न चैतद्युक्तम् ; या माघ्या इति कालविधानस्यौपकार्यार्थत्वोपपत्तौ “प्रकरणात्प्रधानस्य” इति न्यायविरोधात्, शास्त्रान्तरेष्वप्रसिद्धत्वाच्च ॥११॥
अथास्यौपकार्यस्य विधिमाह— व्रीहीणां चतुश्शरावं तूष्णीं निरुप्य पार्वणावत् पत्न्यवहन्तीत्यादिविधिनाऽपूपं श्रपयति । अपूपः प्रथितावयवः प्रसिद्धः । प्रतिष्ठिताभिघारणान्तं च करोति ॥१२॥
मूलम् ...{Loading}...
अपूपं चतुश्शरावं श्रपयति।
२१ १३ अष्टाकपाल इत्येके
२१ १३ अष्टाकपाल इत्येके ...{Loading}...
अष्टाकपाल इत्येके १३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The cake is prepared) in eight dishes (like a Puroḍāśa), according to some (teachers).
हरदत्तः
सायम्अपूपाष्टाकपालो हविः इत्येके मन्यन्ते । अष्टसु कपालेषु संस्कृतोऽष्टाकपालः । अस्मिन् पक्षे पुरोडाशस्यावृता श्रपणम् । पूर्वस्य तु लौकिक्यापूपस्यावृता । द्वयोरपि पक्षयोः औपासने श्रपणम् । एतच्च पित्र्यस्याङ्गमपि कर्म स्वयं पित्र्यं न भवति, “तेन” प्राचीनावीतादि न भवति ॥१२॥ इति श्रीहरदत्तमिश्रविरचितायां गृह्यसूत्रवृत्तावनाकुलायामेकविंशःखण्डः ॥
सुदर्शनः
अष्टसु कपालेषु संस्कृतः पुरोडाशोऽष्टकपालः । सः श्रपयितव्य इत्य् एके । पुरोडाश इति च प्रसिद्ध आकृतिविशेषः तेन लौकिकेन प्रकारेण पाक औपासने एव ॥१३॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने एकविंशः खण्डः ॥
मूलम् ...{Loading}...
अष्टाकपाल इत्येके ॥
२२ ०१ पार्वणवदाज्यभागान्तेऽञ्जलिनोत्तरयाऽपूपाज्जुहोति
२२ ०१ पार्वणवदाज्यभागान्तेऽञ्जलिनोत्तरयाऽपूपाज्जुहोति ...{Loading}...
पार्वणवदाज्यभागान्ते ऽञ्जलिनोत्तरया ऽपूपाज्जुहोति १
३० याञ् जनाः ...{Loading}...
यां जनाः॑ प्रति॒-नन्द॑न्ति॒
रात्रिं॑ धे॒नुम् इ॑वाय॒तीम् ।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ +++(एकाष्टका)+++
सा नो॑ अस्तु सुमङ्ग॒ली
स्वाहा॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 After the ceremonies down to the Ājyabhāga oblations have been performed in the same way as at the fortnightly sacrifices, he makes with his joined hands oblations of the cake with the next (verse, II, 20, 27).
हरदत्तः
प्रतिष्ठिताभिधारणान्ते कृते अग्नेरुपसमाधानाद्याज्यभागान्तं कृत्वा पार्वणवदवदानकल्पेनापूपादुत्तरयर्चा अञ्जलिना जुहोति “यां जनाः प्रतिनन्दन्ती"त्येतया । सामर्थ्यादुपस्तरणाभिघारणयोरवदानस्य चान्यः कर्ता । आज्यभागान्तवचनं तन्त्रविधानार्थम् । एतदेव ज्ञापकं न पित्र्यमेतत्कर्मेति । अन्यथा यथा मासिश्राद्धेऽष्टकायां च यत्नाभावेऽपि तन्त्रं प्रवर्तते, पित्र्येषु यत्नाभावेऽपि तन्त्रं प्रवर्तते इत्युक्तत्वात्, तथात्रापि सिद्धं स्यात् । पार्वणवद्वचनं अञ्जलिहोमानामधर्मग्राहकत्वात् अवदानकल्पप्राप्त्यर्थं अञ्जलिनापि जुह्वत् पार्वणवदवदानकल्पेन जुहोतीति । सादनप्रोक्षणसंमार्जनान्यञ्जलेर्न भवन्ति ॥१॥
सुदर्शनः
ततः पार्वणवदग्नेर् उपसमाधानाद्यग्निमुखान्ते, स्वकीयेनावदानधर्मेणापूपात्पुरोडाशाद्वावदाय उत्तरयर्चा “यां जनाः प्रतिनन्दन्ति” इत्येतया अञ्जलिना जुहोति । अञ्जलेस्तु “येन जुहोति” इत्यादिसंस्कारलेपाञ्जनमुपस्तरणाभिगारणहविरवदानानि च विप्रतिषेधादन्यः कुर्यात् । स्विष्टकृतं तु दर्व्यैव जुहोति, नाञ्जलिना ; विकृतौ चोद्यमानो धर्मः प्रधानार्थो भवतीति न्यायात् । न च वाच्यमौपकार्यस्याङ्गत्वात् प्राधान्यमेव नास्तीति ; यतोऽस्यापि स्वाङ्गापेक्षया प्राधान्यमस्त्येव । अत एव “मन्द्रं दीक्षणीयायामनुब्रूयात्” (आप.श्रौ. १०-४-११.) इति वाङ्नियमस्सोमाङ्गभूतदीक्षणीयाप्रधानमात्रार्थः न तदङ्गप्रयाजाद्यर्थोऽपि । तथा “ततस्तूष्णीमाग्निहोत्रं जुहोति” (आप.श्रौ.५-१७-६.) इति तूष्णीकत्वमाधानाङ्गभूतस्य नैयमिकाग्निहोत्रविकृतेः प्रधानस्यैव धर्मः न तदङ्गानामपीति । औपकार्यस्य चौषधिहविष्कत्वादेव सिद्धस्य तन्त्रस्य पुनर्वचनं एतत्स्थानापन्नदधिहोमेऽपि प्राप्त्यर्थमित्युक्तमेव ॥१॥
मूलम् ...{Loading}...
पार्वणवदाज्यभागान्तेऽञ्जलिनोत्तरयाऽपूपाज्जुहोति।
२२ ०२ सिद्धश्शेषस्तमष्टधा कृत्वा
२२ ०२ सिद्धश्शेषस्तमष्टधा कृत्वा ...{Loading}...
सिद्धश् शेषस् तमष्टधा कृत्वा ब्राह्मणेभ्य उपहरति २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 The rest (of the cake) he makes ready, divides (it) into eight parts and offers it to the Brāhmaṇas.
हरदत्तः
तन्त्रस्य शेषस्सिद्धो भवति अविकृत इत्यर्थः । अञ्जलिना जुहोतीत्युभयं विशेषः स्विष्टकृति न भवतीतियर्थः । तेन स्विष्टकृतमवदानकल्पेन दर्व्या हुत्वा समिधमेकविंशतिमाधाय जयादि प्रतिपद्यते ॥२॥ “तेन सर्पिष्मता ब्राह्मणम्” इत्येकस्य भक्षणे प्राप्तेऽष्टाभ्य उपहारो विधायते । तत्र ये ब्राह्मणाः श्वोभूते भोक्तारः तेभ्यो निवेद्योपवसति ॥३॥
सुदर्शनः
अपूपस्य शेषस्सिद्धः उपहरति प्राशनार्थमिति चानुवादः, तं शेषं सर्पिष्मन्तमष्टधा कृत्वा अष्टभ्यो ब्रह्मणेभ्य इति विधातुम् । तेनेह ब्राह्मणैकत्वबाधः । केचित्—सिद्धः शेषः इति सूत्रच्छेदः । सिद्धोऽविकृतस्तन्त्रस्य शेषः । तेन दर्व्या होमस्स्विष्टकृतः, जयादि प्रतिपद्यत इति च सिद्धमिति-तेषां तमष्टधेत्यत्र तमपूपमिति व्यवहितस्य परामर्शो भवेत् । एवमौपकार्यं कृत्वा मासिश्राद्धवद्भोक्तृभ्यो ब्राह्मणेभ्यो निवेदयेत् । श्वोऽष्टकाश्राद्धं भविष्यतीति भेदः ॥२॥
मूलम् ...{Loading}...
सिद्धश्शेषस्तमष्टधा कृत्वा ब्राह्मणेभ्य उपहरति ।
२२ ०३ श्वोभूते दर्भेण
२२ ०३ श्वोभूते दर्भेण ...{Loading}...
श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- On the following day he touches a cow with a Darbha blade, with the words, ‘I touch thee agreeable to the Fathers.’
हरदत्तः
दर्भेणेत्येकत्वमविवक्षितम् । गां स्त्रियं, जुष्टाम् इतिलिङ्गात् । पुरस्तात्प्रतीचीं तिष्ठन्तीं, श्रौते तथा दर्शनात् । पित्र्यं चाष्टकाकर्म, पितृभ्यस्त्वा जुष्टाम् इतिदर्शनात् । पित्र्येषु यत्नमन्तरेणापि तन्त्रं प्रवर्तते इति पुरस्तादुक्तम् । तत आज्यभागान्ते तन्त्रे कृते उपाकरणादेः प्रवृत्तिः । अत्र प्रमाणं वक्ष्यामः । “अपरपक्षस्यापराह्णः श्रेयानि"त्येष च कालः । सर्वत्र प्राचीनावीतम् ॥३॥
सुदर्शनः
अथ श्वोभूते अष्टम्याम् । ब्राह्मणान् गृहमानीयेत्याद्यग्निमुखान्तं सर्व मासिश्राद्धवत् कृत्वा, अथ दर्भेणैकेन गां स्त्रियं “पितृभ्यस्त्वा जुष्टाम्” उपाकरोमि, इत्यनेन मन्त्रेणोपाकरोति ॥३॥
मूलम् ...{Loading}...
श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति ।
२२ ०४ तूष्णीम् पञ्चाज्याहुतीर्हुत्वा
२२ ०४ तूष्णीम् पञ्चाज्याहुतीर्हुत्वा ...{Loading}...
तूष्णीं पञ्चाज्याहुतीर् हुत्वा
श्वोभूते वपाहोममन्त्रः
तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ४
३१ वह वपाम् ...{Loading}...
वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒
यत्रै॒नान् वे॑त्थ॒ निहि॑तान् परा॒के+++(=दूरे)+++ ।
मेद॑सः॒ कूल्या॒+++(=नद्या)+++ उप॒ तान् क्ष॑रन्तु
स॒त्या ए॑षाम् आ॒शिष॑स् सन्तु॒ कामै॒स्
स्वाहा॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 3 Having silently offered five Ājya oblations, and having cooked, the omentum of the (cow), and performed the ‘spreading under’ and the sprinkling over (of Ājya), he sacrifices (the omentum) with the next (verse, II, 20, 28) with a Palāśa leaf from the middle or the end (of the stalk).
हरदत्तः
तूष्णीमित्यनुच्यमाने सम्प्रदानाभावे होमानिवृत्तेः देवताकल्पनायां प्राप्तायां या एताः पाशुबन्धिक्यः पश्वाहुयः “उपाकृत्य पञ्च जुहोती"ति विहिताः ता एता इति विज्ञायेत । ततश्च मन्त्रेष्वपि प्राप्तेषु तूष्णीं इत्युक्तम् । एवं ब्रूवन् एतद्दर्शयति श्रौतस्य पशेरावृताऽस्यापि पशोस्संस्कार इति । तेन “पुरस्तात् प्रत्यञ्चं तिष्ठन्तम्” इत्येवमादयो विशेषा इहापि भवन्ति । तस्या इति वचनं तस्या वपाया एवात्र चोदितो विशेषो यथा स्यात् श्रपणादि, नावदानमित्येवमर्थम्, तेन मांसौदनादेर्मासिश्राद्धवदन्यस्मिन्नग्नौ संस्कारः । आज्यग्रहणमनर्थकम् । अपिवोत्तरया जुहोतीतिवत् सिद्धम्, तत् क्रियते ज्ञापकार्थम्, एतत् ज्ञापयति– आज्यभागान्ते तन्त्रे कृते पशोरुपाकरणादीति । कथं कृत्वा ज्ञापकम्? सर्वत्र प्रधानाहुतिषु तान्त्रिकस्य हविषस्सधर्मकस्यानेकत्वे सति विशेषणं दृश्यते—स्थालीपाकादन्नादाज्याहुतिरिति, तदिहापि दृष्टम् । तत् ज्ञापयति— तान्त्रिकेणैवाज्येनाहुतयो हूयन्त इति । उपाकरणस्य चैतासां चानन्तर्यं दृश्यते “उपाकृत्य पञ्च जुहोती”(तै.सं.३-१-५.)ति । तस्मादाज्यभागान्ते पशोरुपाकरणमिति सिद्धं भवति । एवं पञ्चाज्याहुतीर्हुत्वा तूष्णीं संज्ञप्य वपाञ्च वपाश्रपणीभ्यां तूष्णीमुद्धृत्य औपासने श्रपयित्वाभिघार्य बर्हिषि प्रतिष्ठाप्य पुनरभिघार्य ततस्तामुपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेन जुहोति उत्तरयर्चा “वह वपाम्” इत्येतया । पर्णस्य वपाश्रपण्योश्च पात्रैस्सह सादनादि भवति ॥४॥
सुदर्शनः
तूष्णीं स्वाहाकारेणापि विना पञ्चाज्याहुतीर्जुहोति, मन्त्रप्राप्त्यभावात् । देवता चासां प्रजापतिरेव । तस्यै वपामित्यादि व्याख्यातम् । उत्तरया “वह वपाम्” इत्येतया ॥४॥
मूलम् ...{Loading}...
तूष्णीं पञ्चाज्याहुतीर्हुत्वा तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ।
२२ ०५ माँसौदनमुत्तराभिः
२२ ०५ माँसौदनमुत्तराभिः ...{Loading}...
माँसोदनमुत्तराभिः ५
३२ याञ् जनाः ...{Loading}...
यां जनाः॑ प्रति॒-नन्द॑न्ति॒
रात्रिं॑ धे॒नुम् इ॑वाय॒तीम् ।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ +++(एकाष्टका)+++
सा नो॑ अस्तु सुमङ्ग॒ली॥
३३ इयमेव सा ...{Loading}...
इ॒यम् +++(उषाः)+++ ए॒व सा या प्र॑थ॒मा व्यौच्छ॑द्+++(←उछीँ विवासे)+++
अ॒न्तर् अ॒स्याञ् +++(पृथिव्यां)+++ च॑रति॒ +++(आदित्यम्)+++ प्रवि॑ष्टा ।
व॒धूर् ज॑जान नव॒-गज्+++(गा)+++ जनि॑त्री॒
त्रय॑+++(←अग्निरे् एकः अश्विनौ द्वौ वपादेवाः)+++ एनाम् महि॒मान॑स् सचन्ते+++(=भजन्ते)+++ ॥
+++(मध्यमस्थाना द्युस्थाना चेति द्वे उषसौ)+++
३४ छन्दस्वती उषसा ...{Loading}...
छन्द॑स्वती उ॒षसा॒+++(सौ)+++ पेपि॑शाने+++(=दीप्यमाने)+++
समा॒नय्ँ योनि॒म् +++(आदित्यं)+++ अनु॑ स॒ञ्चर॑न्ती ।
सूर्य॑पत्नी॒ वि च॑रतᳶ प्र-जान॒ती
के॒तुङ् कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा+++(सौ)+++ ॥
३५ ऋतस्य पन्थामनु ...{Loading}...
ऋ॒तस्य॒ पन्था॒म् अनु॑ +++(कार्यभेदात्)+++ ति॒स्र आगु॒स्
त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षा ऽगुः॑ ।
प्र॒जाम् एका॒ रक्ष॒त्य्, ऊर्ज॒म् एका॑
व्र॒तम् एका॑ रक्षति देवयू॒+++(=याजका)+++नाम् ॥
३६ एकाष्टकाम् पश्यत ...{Loading}...
ए॒का॒ष्ट॒कां प॑श्यत॒ दोह॑माना॒म्
अन्नं॑ मा॒ꣳ॒सव॑द् घृ॒तव॑त् स्व॒धाव॑त् ।
तद् ब्रा॑ह्म॒णैर् अ॑तिपू॒तम् अ॑न॒न्तम् अ॑क्ष॒य्यम्
अ॒मुष्मि॑ल्ँ लो॒के स्फीतिं॑ गच्छतु मे पि॒तृभ्यः॒
स्वाहा॑ ।
३७ औलूखला ग्रावाणो ...{Loading}...
औ॒लू॒ख॒ला+++(=उलूखलाः)+++ ग्रावा॑णो॒ घोष॑म् अक्रत
ह॒विः कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म् ।
ए॒का॒ष्ट॒के सु॑प्र॒जा वी॒रव॑न्तो
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥
३८ एकाष्टका तपसा ...{Loading}...
ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना
संवत्स॒रस्य॒ पत्नी॑ दुदुहे॒ प्रपी॑ना ।+++(४)+++
तं दोह॒म् उप॑जीवाथ+++(=उपजीवत)+++ पि॒तर॑स्
स॒हस्र॑-धारम् अ॒मुष्मि॑ल्ँ लो॒के
स्वाहा॑ ॥ (20)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (He sacrifices) boiled rice together with the meat (of the cow) with the next (verses, II, 20, 29-35),
हरदत्तः
(हुतायां वपायां पशोर्विशसनं कारयित्वा अन्वष्टकार्थं……..गृहेषु श्रपयित्वा अन्यानि च हविष्यौदनादीनि तान्यभिघार्य बर्हिषि प्रतिष्ठाप्य पुनरभिघार्य दर्व्या जुहोत्यवदानकल्पेन । नात्र सकृदुपघातकल्पः । स्विष्टकृति विप्रतिषेधात् । आज्येऽभावात् मांसपिष्टौदनयोश्च भावात् । तत्र) मांसौदनम् उत्तराभिः यां जनाः प्रतिनन्दन्ति” इत्येताभिः सप्तभिः । मांसमिश्र ओदनो मांसौदनः । होमकाले च मिश्रणम् । न श्रपणकाले । पक्तिवैषम्यात् । अस्मिन् कर्मणि अष्टादशहोममन्त्राः समाम्नाताः । ऋचो दश यजूंष्यष्टौ । तत्राद्या ऋगपूपार्था । वपार्थोत्तरा । उत्तरादिभिरिति स्त्रीलिङ्गनिर्देशः । पिष्टान्नमुत्तरयेति वक्ष्यति । तेन सप्तभिर्ऋग्भिर्मांसौदनस्य होमः ॥५॥
सुदर्शनः
मांसमिश्र ओदनो मांसौदनः। तं उत्तराभिः “यां जनाः प्रतिनन्दन्ति” इत्यादिभिस्सप्तभिर्जुहोति । इदं चेह वक्तव्यम्– वपाहोमान्ते गोर्विशसनं कारयित्वाऽन्वष्टकाब्राह्मणभोजनव्यञ्जनार्थं मांसमवशिष्य, इतरत् कृत्स्नं लौकिकप्रकारेण श्रपयित्वा, तदेकदेशं मासिश्राद्धवत् ब्राह्मणभोजनार्थादन्नाद्धोमार्थमुद्धृतेऽन्ने संसृज्य, तेनैव मांसमिश्रेणौदनेन जुहोतीति । न च मांसौदनयोस्सहपाकश्शङ्कनीयः, गोरालम्भात् प्रागेव होमार्थान्नस्योद्धृतत्वात्, मांसौदनयोः पक्तिवैषम्याच्च ॥५॥
मूलम् ...{Loading}...
माँसौदनमुत्तराभिः ।
२२ ०६ पिष्टान्नमुत्तरया पिष्टेन
२२ ०६ पिष्टान्नमुत्तरया पिष्टेन ...{Loading}...
पिष्टान्नमुत्तरया ६
०१ उक्थ्यश्चास्यतिरात्रश्च ...{Loading}...
+++(एकाष्टके!)+++ उ॒क्थ्य॑श् चास्य् अतिरा॒त्रश् च॑
साद्य॒स्क्रीश्+++(=सद्यस्क्र-क्रतुः)+++ छन्द॑सा स॒ह ।
अ॒पू॒प॒-घृ॒ताहु॑ते॒ नम॑स् ते
अस्तु माꣳस-पि॒प्पले॒+++(=फले)+++
+++(तयोरन्यः पिप्पलं स्वाद्वत्ति इति दर्शनात्)+++
स्वाहा॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Food prepared of meal with the next (verse, II, 21, 1),
हरदत्तः
पिष्टेन कृतमन्नं तस्य पयसि श्रपणम् उत्तरयर्चा “उक्थ्यश्चे"त्येतया जुहोति ॥६॥
सुदर्शनः
पिष्टेन कृतमन्नं पिष्टान्नं पयसि शृतं प्रसिद्धम् । तद् उत्तरया “उक्थ्यश्च” इत्यनया जुहोति । इह च ब्राह्मणभोजनाद्यर्थमवश्यं पिष्टान्नं श्रपयितव्यम् । शृताच्च होमार्थं भेदेन पूर्वमेवोद्धरणम् । मांसौदनस्य पिष्टान्नस्य च पार्वणवत्स्वकीयोऽवदानधर्मः । पलाशपर्णं चेह वपाहोममात्रे । अन्यद्दर्व्यैव ॥६॥
मूलम् ...{Loading}...
पिष्टान्नमुत्तरया।
२२ ०७ आज्याहुतीरुत्तराः
२२ ०७ आज्याहुतीरुत्तराः ...{Loading}...
आज्याहुतीरुत्तराः ७
०२-०४ भूः पृथिव्यग्निनर्चामुम् ...{Loading}...
भूः- पृ॑थि॒व्य्+++(व्या)+++ अ॑ग्निना॑+ऋ॒चा ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
भुवो॑- वा॒युना॒ ऽन्तरि॑क्षेण॒ साम्ना॒ ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
स्व॑र्- दिवा॑ ऽऽदि॒त्येन॒ यजु॑षा॒ ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।+++(५)+++
०५ जनदद्भिरथर्वाङ्गिरोभिरमुम् मयि ...{Loading}...
ज॒नद्+++(=व्याहृतिविशेषो यस् सामस्वपि श्रूयते। नारायणानुवाके तु जनः इति विसर्जनीयान्तं पठ्यते ॥)+++-
अ॒द्भिर् अथ॑र्वाङ्गि॒रोभि॑र् अ॒मुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
०६-०७ रोचनायाजिरायाग्नये देवजातवे ...{Loading}...
रो॒च॒नाय॑ +अ॒जि॒राय+++(←अज गतिक्षेपणयोः)+++ +अ॒ग्नये॑ दे॒व-जा॑तवे॒+++(=ज्ञात्रे)+++ स्वाहा॑ ।
के॒तवे॒+++(=ज्ञात्रे)+++ मन॑वे॒ ब्रह्म॑णे दे॒व-जा॑तवे॒+++(=ज्ञात्रे)+++ स्वाहा॑ ।
०८-०९ स्वधा स्वाहा ...{Loading}...
स्व॒धा स्वाहा॑ ।
अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Then the Ājya oblations (indicated by the) next (Mantras, II, 21, 2-9).
हरदत्तः
उत्तरैर्मन्त्रैः “भूः पृथिव्यग्निनर्चे"त्यादिभिः अष्टाभिराज्यस्य जुहोतीत्यर्थः ॥७॥
सुदर्शनः
उत्तरमन्त्रकरणिका आज्याहुतीर् अष्टौ जुहोतीत्यर्थः । ते च “भूः पृथिव्यग्निना” इत्यादयः यजूरूपाः ॥७॥
मूलम् ...{Loading}...
आज्याहुतीरुत्तराः।
२२ ०८ स्विष्टकृत्प्रभृति
२२ ०८ स्विष्टकृत्प्रभृति ...{Loading}...
स्विष्टकृत्प्रभृति समानमापिण्डनिधानात् ८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The rites) from the Sviṣṭakṛt down to the offering of the Piṇḍas are the same (as at the Śrāddha).
हरदत्तः
स्विष्टकृत्प्रभृति पिण्डनिधानान्तं कर्म कृत्स्नं मासिश्राद्धवदिहापि कर्तव्यमित्यर्थः । अत्र मांसौदनात् पिष्टाच्च स्विष्टकृत्, ततो जयादि । अथ ब्राह्मणानामुपवेशनं हस्तेषूदपात्रानयनमलङ्कारः । ततस्"सर्वमुत्तरैरभिमृशेद्” इत्यादि “ग्रासवरार्ध्यं प्राश्नीयात्” इत्येवमन्तम् । एतदेवास्मिन्नहनि भोजनं, नान्यत् । आरब्धे चाभोजनमासमापनादिति । पञ्चयज्ञाश्च लुप्यन्ते ॥८॥
सुदर्शनः
स्विष्टकृदादि तन्त्रशेषं सर्वाभिमर्शनादि च प्रदक्षिणीकृत्येत्येवमन्तं ब्राह्मणभोजनं, पिण्डनिधानं, ग्रासवरार्ध्यं प्राश्नीयादित्येवमन्तं, सर्वं पदार्थजातं मासिश्राद्धवदिहापि कर्तव्यमेवेत्यर्थः । तत्र च मांसौदनात् पिष्टान्नाच्च स्विष्टकृते सहावदानमिति भेदः ॥८॥
मूलम् ...{Loading}...
स्विष्टकृत्प्रभृति समानमापिण्डनिधानात् ।
२२ ०९ अन्वष्टकायामेवैके
२२ ०९ अन्वष्टकायामेवैके ...{Loading}...
अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति ९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Some (teachers) prescribe the Piṇḍa offering for the day after the Aṣṭakā.
हरदत्तः
न पिण्डनिधानमित्युच्यमानेऽन्वष्टकायामपि पिण्डनिधानं न स्यात् । अष्टका प्रकृता । तत्र कः प्रसङ्गो यदन्वष्टकायां न स्यात् । एवं तर्हि एतत् ज्ञापयति—विकल्पोऽत्र विधिरयम् । अतः कृत्स्नस्य कर्मणो विषयो भवति सापूपस्य सान्वष्टकस्येति । तेन दध्यञ्जलिः कृत्स्नैकाष्टकाकरणात् विकल्प्यते सापूपेन सान्वष्टकेनेति केचित् । वयं तु ब्रूमः— अष्टकायामकृतायां भोजनमस्य न भवतीत्येतदर्थमेव वचनमन्वष्टकायां यत् पिण्डदानं तदिह……नास्मिन् कर्मणि पृथक्कर्तव्यमिति ॥९॥
सुदर्शनः
या श्वोभूतोऽन्वष्टकेति विधास्यते तस्याम् अन्वष्टकायामेव पिण्डनिधानं पिण्डप्रदानं नाष्टकायाम् इत्येके आचार्या उपदिशन्ति । केचित्—न पिण्डनिधानमेके इति वक्तव्ये अन्वष्टकायामेवैक इत्येवं वचनमेतज्ज्ञापयति–विकल्पोऽत्र विधीयमानः कृत्स्नस्य कर्मणः सापूपहोमस्य सान्वष्टकस्य विषये भवतीति । तेन दधिहोमः कृत्स्नेनान्वष्टकान्तेनाष्टकाकर्मणा विकल्प्यत इति । केचित्तु— अन्वष्टकायां यत्पिण्डनिधानं, तदेवास्य, न पुनस्तदस्मिन् प्रदेशे पृथक्कर्तव्यमिति वचनव्यक्त्या कर्मणोऽसमाप्तत्वसूचनम् । तेनान्वष्टकायामकृतायां न कर्तुर्भोजनं, नापि पञ्चमहायज्ञा इति । वस्तुतस्तु भाष्यकारेणात्रार्थविशेषस्यानुक्तत्वात्, “अन्वष्टकोभयोरपि पक्षयोर्” इति वक्ष्यमाणत्वात्, अवान्तरप्रयोगस्य समाप्तेस्स्पष्टत्वाच्च, “अन्वष्टकायामेवैक” इत्येषोऽन्वष्टकायामेव पिण्डनिधानं नाष्टकायामिति फलाभिप्रायो व्यपदेश इति मन्तव्यम् ॥ अथ यज्ञोपवीतप्राचीनावीतयोर्विवेकः– औपकार्ये च मांसौदनहोमेषु चादितश्चतुर्षु, षष्ठे च पिष्टान्नहोमे च, आज्यहोमेषु चादितष्षट्सु, दधिहोमं चाघारादिषु च यज्ञोपवीतं, मन्त्राणां देवलिङ्गत्वात् । अन्यत्र प्रकृतिवत् प्राचीनावीतमेव । ननु चात्र कलियुगे धर्मज्ञसमयाद्गोरालम्भो निषिद्धः । तेन यद्यपि “मांसौदनमुत्तराभिः” इत्यत्र हविरुपसर्जनीभूतमांसाभावेऽपि केवलौदनहविष्कहोमैः प्रधानान्तरसहितैः अष्टकाधिकारसिद्धेरुपपत्तिः ; तथापि वपाहोमे स्वरूपस्यैवाभावान्न युज्यते । मैवम्, प्रमाणबलेन कस्मिंश्चित् प्रधाने निषिद्धेऽपि प्रधानान्तरैरेव विषयप्रत्यभिज्ञानादधिकारसिद्धेरुपपन्नत्वात् । अत एव दर्शपूर्णमासयोः “नासोमयाजी सन्नयेत्” (तै.सं. २-५-५.), “नासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो विद्यते” (आप.श्रौ.) इति निषिद्धयोरपि सान्नाय्याग्नीषोमयोस्तद्व्यतिरिक्तैरेव प्रधानैरधिकारसिद्धिः । इयांस्तु भेदः— क्वचिच्छ्रुतिर्निषेधिका, क्वचिद्धर्मज्ञसमय इति । धर्मज्ञसमयोऽपि वेदवत् प्रमाणम् । अथवा–आज्यमेव वपामांसयोस्स्थाने प्रयोक्तव्यम् । “आज्येन शेषं संस्थापयेत्” इति पात्नीवते दर्शनात्, “आज्यस्य प्रत्याख्यायमवद्येत्” (तै.सं.३-१-३.) इति दर्शनाच्च । प्राप्तिस्तु नित्यत्वादेवाष्टकायाः कृत्स्नायाः । यद्वा—गोस्स्थाने छाग एवालब्धव्यः, प्रस्तुतसमानयोगक्षेमे “ऐन्द्राग्नं पुनरुत्सृष्टमालभेत” (तै.सं.२-१-१०.) इत्यत्र गोः पुनरुत्सृष्टस्य स्थाने “पुनरुत्सृष्टश्छागः” इति भरद्वाजसूत्रदर्शनात् । अपि वात्यन्तलघुरपि दधिहोमपक्षः कलियुगे व्यवस्थितो द्रष्टव्यः । प्रमाणं तु त्रैविद्यवृद्धाश्शिष्टा एव ॥९॥
मूलम् ...{Loading}...
अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति ।
२२ १० अथैतदपरन् दध्न
२२ १० अथैतदपरन् दध्न ...{Loading}...
अथैतदपरं दध्न एवाञ्जलिना जुहोति यया +++(ऋचा)+++ ऽपूपम् १०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Here (follows) another (way for celebrating the Aṣṭakā sacrifice). He sacrifices curds with his joined hands in the same way as the cake.
हरदत्त-प्रस्तावः
एवं मुख्यकल्पमुपदिश्य, अथानुकल्पमुपदिशन्ति—
हरदत्तः
एवमष्टकायां मुख्यः कल्पो दर्शितः । अथानुकल्पः यया ऋचा जुहोति “यां जना” इत्येतया तया दध्नः पूर्णेनाञ्जलिना जुहोति । तन्त्रस्य विधानात् अञ्जलिना होमत्वाच्चापूर्वो दध्यञ्जलिः । अञ्जलिनेति वचनात् दर्व्या निवृत्तिः । तन्त्रद्वयञ्च न भवति । कः पुनरस्य कालः ? अष्टमी । पूर्वाह्णे च क्रिया, दैवत्वात् । प्रातर्होमानन्तरं औपासनमुपसमाधाय सम्परिस्तीर्य तूष्णीं समन्तं परिषिच्य दध्नाञ्जलिं पूरयित्वा “यां जना” इति जुहोति । न स्विष्टकृत् । पुनरपि तूष्णीं परिषेचनम् । अन्ये तु पुरस्तात्तन्त्रं स्विष्टकृत् चेच्छन्ति, न जयादीन् । अत्र मूलं मृग्यम् । एष कालः, आचार्यप्रवृत्तित्वात् । एषा ह्येवानुकल्पेष्वाचार्यस्य प्रवृत्तिः । तद्यथा– समावर्तन्ते तूष्णीमेव तीर्थे स्नात्वेति । दध्यञ्जलिश्चायमष्टकायां ये होमास्तेषां निवर्तकः, तदनन्तरमभिधानात्, नापूपहोमस्य । नान्वष्टकायाः । ब्राह्मणभोजनपिण्डनिर्वापणे च भवतः । होममात्रस्यैवायं दध्यञ्जलिर्निवर्तकः । एवं तर्ह्यत्र वचनं व्यज्यते यज्जुहोति तद्दध्न एवाञ्जलिनेति । (अपर आह—अपूपाष्टकयोर्द्वयोरपि निवर्तकम् । नान्वष्टकायाः । यदि तस्या अपि प्रत्याम्नायः स्यात् तामभिधायायमनुकल्पो वक्तव्यस्स्यादिति । ) अन्ये तु सापूपस्य सान्वष्टकस्य कृत्स्नस्याष्टकाकर्मणो निवर्तको दध्यञ्जलिरिति ॥१०॥
सुदर्शनः
यया “यां जनाः” इत्येतया अपूपं जुहोति, तया ऋचा दध्नस्स्वावदानधर्मेणावदायाञ्जलिना जुहोति । पार्वणवच्चाग्निमुखान्ते दधिहोमः, अपूपहोमवच्चावदानम् । “येन जुहोति तदग्नौ प्रतितप्य” इत्यादिकं लेपाञ्जनं चान्येन कारयितव्यम् । अयं च दधिहोमोऽष्टम्यां पूर्वाह्णे । केचित्—अञ्जलिहोमास्सर्वे अपूर्वाः, नैव तत्र पुरस्तादुपरिष्टात्तन्त्रमिति । अयं चानुकल्पोऽपूपहोमाद्याज्याहुतीरुत्तरा इत्येवमन्तानामेव स्थाने वेदितव्यः, नान्वष्टकाया अपि; आज्याहुत्यन्तं कर्म विधायान्वष्टकायाः प्रागेवानुकल्पस्य विधानात् । तेनोभयोरपि पक्षयोर्नवम्यामन्वष्टका नित्यैव । तेन दधिहोमपक्षेऽन्वष्टका नास्तीति निर्मूलम् । अयं च दधिहोमाविधिर्होमानामेव स्थाने; “दध्न एवाञ्जलिना जुहोती"ति जुहोतिशब्दस्य स्वारस्यात् । तेनास्मिन्नपि पक्षे ब्राह्मणभोजनपिण्डप्रदानयोरावृत्तिः । तस्मात् सप्तम्यां रात्रौ ब्राह्मणान्निमन्त्र्याष्टम्यां होमस्थाने दधिहोमः, ततोऽपराह्णे भोजनादि सर्वमविकृतं, नवम्यामन्वष्टकापीति सिद्धम् ॥१०॥
मूलम् ...{Loading}...
अथैतदपरं दध्न एवाञ्जलिना जुहोति ययाऽपूपम् ।
२२ ११ अत एव
२२ ११ अत एव ...{Loading}...
अत +++(=अष्टकागाव)+++ एव यथार्थं मासं शिष्ट्वा श्वोभूतेऽन्वष्टकाम् ११
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having left over from the meat of the (cow, see above, 3. 4) as much as is required, on the day after (the Aṣṭakā) (he performs) the rite of the Anvaṣṭakā.
हरदत्तः
अत एवास्या एव गोरेकाष्टकायामालब्धायां मांसं यस्य यथार्थं यावत्प्रयोजनं शिष्ट्वा श्वोभूते नवम्यामन्वष्टकानाम कर्म कर्तव्यम् । भूयांसमतो माहिषेणेत्यादीनां निवृत्त्यर्थ एवकारः ॥११॥
सुदर्शनः
श्वोभूते नवम्याम् अन्वष्टकाख्यं कर्म कर्तव्यम् । अत एव गोरष्टकायामालब्धायाः मांसं यथार्थं यथाप्रयोजनं शिष्ट्वा इत्येतत्प्रथमपक्षविषयम् ॥११॥
मूलम् ...{Loading}...
अत एव यथार्थं माँसँ शिष्ट्वा श्वोभूतेऽन्वष्टकाम् ।
२२ १२ तस्या मासिश्राद्धेन
२२ १२ तस्या मासिश्राद्धेन ...{Loading}...
तस्या मासिश्राद्धेन कल्पो व्याख्यातः १२
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- This rite has been explained in the description of the monthly Śrāddha.
हरदत्तः
मासिश्राद्धवदन्वष्टका कर्तव्येत्यर्थः । कल्पातिदेशात् द्रव्यदेवतादि सर्वमिह प्राप्यते । “तत्रान्नस्योत्तराभिर्जुहोती"त्यत्र मांससंसृष्टस्यान्नस्य होममिच्छन्ति । अष्टकायां दर्शनात् । इह च यथार्थं मांसमिति वचनात् । अन्ये मासिश्राद्धातिदेशादन्नस्यैव होममिच्छन्ति । यत्रैव तु कार्ये मासि श्राद्धे मांसं इहापि तत्रैवेति । अत्र केचित्— दध्यञ्जलिपक्षेऽप्यन्वष्टकामिच्छन्ति । मध्ये तस्य विधानात् । यदि ह्यसावन्वष्टकाया अपि प्रत्याम्नायः स्यात् तामप्यभिधाय वक्तव्यं स्यादिति । अत एव यथार्थं मांसं शिष्ट्वा श्वोभूतेऽन्वष्टका तस्या मासि श्राद्धेन कल्पो व्याख्यातः इति पूर्वत्र सम्बन्धः ॥ अथैकोद्दिष्टविधिः शास्त्रान्तरात् । प्रेतमेकमुद्दिश्य यच्छ्राद्धं क्रियते तदेकोद्दिष्टम् । अयुग्मा ब्राह्मणाः एकः त्रयः पञ्चेति । वृध्या फलभूयस्त्वम् । तत्र नाग्नौ करणं, नाभिश्रावणं, न पूर्वं निमन्त्रणं, न दैवं, न धूपो, न दीपो, न स्वधा, न नमस्कारः, उदङ्मुखाः ब्राह्मणाः । सर्वस्मादन्नात्सकृत्सकृदवदाय दक्षिणतो भस्ममिश्रानङ्गारान्निरूह्य तेष्वेव जुहुयात् प्रेतायामुष्मै यमाय च स्वाहेति । प्रेतायेति वचनं प्रेतस्य नामनिर्देशार्थम्—यज्ञशर्मणे यमाय च स्वाहेति प्रयोगमिच्छन्ति । यज्ञशर्मणे प्रेताय यमाय चेत्यन्ये । अमुष्मै तृप्तिरस्त्विति अपां प्रतिग्रहणं विसर्जनं च । अस्ति तृप्तिरिति प्रतिवचनम् । अमुष्मा उपतिष्ठत्वित्यनुदेशनं, आशयेषु च पिंडदानं भोजनस्थान इत्यर्थः । तृप्यस्वेति संक्षालनम् । एतदेकोद्दिष्टं सर्ववर्णानां स्वाशौचान्ते प्रसिद्धम् ॥ अथान्यानि नवश्राद्धमासिकानि त्रैपक्षिकं षाण्मासिकं साम्वत्सरिकमिति । यत्प्रथमं क्रियते तन्नवश्राद्धम् । नवं च तच्छ्राद्धञ्चेति कृत्वा । तस्य वर्णानुपूर्वेण कालः— चतुर्थे पञ्चमे चैव नवमैकादशे तथा । यदत्र दीयते जन्तोः तन्नवश्राद्धमुच्यते ॥ इति ॥ सर्वेषामपि वर्णानां चत्वार्यपि नवश्राद्धानीत्यन्ये । तेषां द्वितीयादिषु नवशब्दो घटते । मासिकानि द्वादश प्रतिमासं मृताहे कर्तव्यानि । आद्यं तु स्वाशौचन्ते । अन्त्यं च सपिण्डीकरणेन सह मृताह एव त्रापक्षिकं षाण्मासिकं द्वितीयादिषु सम्वत्सरेषु प्रतिसम्वत्सरं मृताह एव साम्वत्सरिकमिति षोडशैतान्येकोद्दिष्टानि । साम्वत्सरिके च क्षेत्रजजारजयोः एकोद्दिष्टकल्पस्य च विकल्पः । इतरेषामेकोद्दिष्टमेव । ये नवश्राद्धानां समुच्चयमिच्छन्ति तेषां षोडशैकोद्दिष्टानीत्येषापि प्रसिद्धिर्दुरुपपादा । अत्र पठन्ति— नित्यश्राद्धं मासि मासि अपर्याप्तावृतुं प्रति । द्वादशाहेन वा भोज्या एकाहे द्वादशापि वा ॥ अथ सपिण्डीकरणं सम्वत्सर एकादशे चतुर्थे तृतीये वा मासि त्रिपक्षे अर्धमासे द्वादशे वाऽहनि उपनयनाभ्युदयप्राप्तौ वा । तत्र एकोद्दिष्टस्य मासिश्राद्धस्य च समुच्चयः । प्रेतस्यैकोद्दिष्टं तस्य ये पित्रादयः तेभ्यो मासिश्राद्धं मन्त्रेषु च न कश्चिद्विकारः । यन्मे मातेत्यादिषु यथैव ते पित्रा प्रेतेन पूर्वं प्रयुक्तास्तथैव पुत्रेणापि प्रयोक्तव्याः । पुत्रादन्यस्य च सपिण्डीकरणे नाधिकारः, मासिश्राद्धाभावात् । सपिण्डीकरणस्य च मासिश्राद्धप्रयोगविकारत्वात् । तस्मादपुत्रस्य प्रेतस्य भार्या यावज्जीवमेकोद्दिष्टकल्पेनैव पत्ये मासिश्राद्धं ददाति । पुत्रोऽप्यकृतविवाह एवमेव । विवाहादूर्ध्वं यदा मासिश्राद्धमारभते तदा पितुः सपिण्डीकरणेन सहारभते । अन्ये त्वेतदनुष्ठानं अन्यथापि भवति । तत्र पित्रे प्रेताय पूर्ववद्भस्मनि होमः इतरेभ्योऽन्नादाज्याच्च मासिश्राद्धवत् । पिण्डदाने—मासिश्राद्धवत्पिण्डान् दत्वा तत्समीपे पृथक् स्तीर्णेषु दर्भेषु प्रेताय पिण्डः । पूर्ववदपो दत्वा तस्यान्ते अर्घ्यार्धं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् “ये समामा” इति द्वाभ्यां पिण्डं पिण्डेषु संसृजेत् । एतत्सपिण्डीकरणम् । एतस्मिन्कृते प्रेतः पितृत्वमापद्यते । चतुर्थश्चानुज्ञापित उत्सृष्टो भवति । अत्र विप्रतिपत्तिः– केचित् प्रपितामहस्य पात्रं पिण्डं चेतरेषु संसृजन्ति । प्रेतशब्देन स एवोच्यते प्रकर्षेण इतः प्रेत इति । स ह्यत्रानुज्ञातो भवति । प्रसिद्धस्त्वाचारः यस्य सपिण्डीकरणं स प्रेतः, तस्यैव च पात्रपिण्डयोरितरेषु संसर्गः । एवमपि प्रपितामहस्यैवानुज्ञेति । मातृसपिण्डीकरणे सा यदि पुत्रिका, आसुरादिविवाहोढा वा ततो मातामहादीनां पिण्डेषु संसर्गः । तत्पिण्डस्येतरत्र श्वऱ्श्वादि पिण्डेन एकचित्यारूढायास्तु भर्तृपिण्डेनेति केचिद् व्यवस्थापयन्ति । प्रयोगस्तु प्रसिद्धाचारानुरोधेन कर्तव्यः । अत्र केचित्पठन्ति— भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा । सहपिण्डक्रियाः कृत्वा कुर्यादभ्युदयं ततः ॥ इति ॥ तथा— अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डतामिति ॥ अथ नान्दीश्राद्धम्— तत्र बोधायनः अथाभ्युदयिकेषु प्रदक्षिणमुपचारो यज्ञोपवीतं प्रागग्रान् दर्भान्, युग्मान् ब्राह्मणान्, यवैस्तिलार्थः, पृषदाज्यं हविः । सोपयामेन पात्रेण नान्दीमुखाः पितरः प्रीयन्तामित्यपां प्रतिग्रहणं, संसर्जनं च । नान्दीमुखेभ्यः पितृभ्यः स्वाहेत्यग्नौकरणमनुदेशनं च । आशयेषु परिसमूढेषु दर्भेषु पृषदाज्येनानुप्रदानं नान्दीमुखेभ्यः पितृभ्यः स्वधा नमः इति सर्वं द्विर्द्विरिति (बौ.गृ.३-१२-२….५) तत्रैव प्रदेशान्तरे “तेषु भुक्तवत्सु स्वधायै स्थाने “मधु मनिष्ये मधु जनिष्य” इत्येतद्यजुर्जपित्वा नान्दीमुखाः पितरः प्रीयन्तामित्यपो निनयति स्वधैवैषोक्ता भवति । नैकेनाह्ना दैवं पित्र्यं च कुर्वन्ति यस्यैकाह्ना पित्र्यं दैवं च कुर्वन्ति प्रजा हास्य प्रमायुका भवति, तस्मात् पितृभ्यः पूर्वेद्युः क्रियते, परेद्युर्देवानामिति । (बौ.गृ.प.१-३-१०,११.) तथा पुष्पफलाक्षतमिश्रैर्यवैः तिलार्थ उपलिप्य दध्योदनं समप्रकीर्येति । तत्र मासिश्राद्धं सर्वेषां पित्र्याणां प्रकृतिः । अस्माकं विशेषास्तु शास्त्रान्तरादागमयितव्याः । तेन “पूर्वेद्युर्निवेदनम्” इत्यादि सर्वमिहापि भवति । युग्मा ब्राह्मणाः अष्टौ षोडश वा । यद्युष्टौ द्वौ देवेभ्यः पितृभ्यो द्वौ द्वौ । यदि षोडश देवेभ्यश्चत्वारो द्वादश पितृभ्य इत्यादि । यवैस्तिलार्थः मासिश्राद्धे यत् तिलकृत्यमर्घ्यादिषु तदत्र यवैः कर्तव्यः । पुष्पादिभिश्च मिश्रणम्, प्रदेशान्तरे वचनात् । पृषदाज्यं हविः । मांसौदनवत्पृषदाज्यमिश्रमित्येके, केवलमेवेत्यन्ये । सोपयामेनेति येनार्घ्यं प्रदीयते तत्पात्रमन्येन पात्रेणोपयम्येत्यर्थः । नान्दीमुखाः प्रीयन्तामिति । देवेभ्यस्तु विश्वेदेवाः प्रीयन्तामिति । तत्र पितॄणामेकपात्रं, न त्रीणि ; पितृपितामहप्रपितामहविशेषस्यानुपदेशात्, सर्वेषु मन्त्रेषु नान्दीमुखाः पितर इत्युपदेशात् । तस्मादेकमेव पात्रं पितॄणां, देवानां चैकम् । तत्र ब्राह्मणानुपवेश्याग्नेः प्रतिष्ठापनं अर्घ्यपात्रयोश्च । अग्निश्चौपासन एव । विवाहेष्वसंभवात् । अर्घ्यं प्रदाय गन्धादिभिश्चालङ्कृत्यानुज्ञातो हविरुद्धृत्य पृषदाज्येन संसृज्याभिघार्याज्यभागान्ते नान्दीमुखेभ्यः पितृभ्यः स्वाहेत्येकां प्रधानाहुतीं जुहोति केवलेन पृषदाज्येन सौविष्टकृतं द्वितीयं जुहुयादिति । तन्त्रशेषं समाप्य क्लृप्तान्वा प्रतिपूरुषमिति न्यायेनानेन नान्दीमुखेभ्यः पितृभ्यः स्वाहेत्यनेन मन्त्रेण पितृभ्योऽनुदिशति, देवेभ्यस्तु विश्वेभ्यो देवेभ्यः स्वाहेति । मासिश्राद्धे ये होममन्त्राः अनुदेशनमन्त्राश्च तेषां निवृत्तिः । उपस्पर्शनं तु भवत्येव प्रत्याम्नायाभावात् । पृथिवी ते पात्रमित्याशयेषु च परिसमूढेष्विति आशयेषु भोजनस्थानेषु परिसमूढेषु परिसमूहनेन शोधितेषु पृषदाज्यमिश्रेण हविषा पृषदाज्येनैव तावत्पिण्डस्यानुप्रदानं नान्दीमुखेभ्यः स्वधा नम इत्यनेन । एवं सर्वं द्विर्द्विरिति । आसनप्रदानादिषु द्विर्द्विः प्रयत्नः कर्त्तव्य इत्यर्थः । उपलिप्य दध्योदनं सम्प्रकीर्य तत् “ये अग्निदग्धा” इत्यस्मिन् स्थाने भवति । अथ दक्षिणां दत्वा विसर्जनं नान्दीमुखाः पितरः प्रीयन्तामिति । तत उदपात्रसमीपे मधु मनिष्य इति यजुर्जपित्वा विसर्जनमन्त्राभ्यां बर्हिषि पात्रे निनीय्य न्युब्जमिति । एवमेतन्नान्दीश्राद्धं तत्र कर्तव्यं यत्रापरेद्युर्देवयज्यानुष्ठानम् । केचित्वन्यथा पठन्ति च— मातुश्श्राद्धं तु पूर्वं स्यात्पितॄणां तदनन्तरम् । ततो मातामहानां तु वृद्धौ श्राद्धत्रयं विदुः ॥ इति ॥ अस्मिन् पक्षे मात्रादीनां द्वौ द्वौ । एवं पित्रादीनां, एवं मातामहादीनां, देवार्थेद्वावेति विंशतिर्द्विजाः । तथा च मनुनाप्यपरे वाक्ये दर्शितम्— प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे इति । (म.स्मृ.८-३९२.) यात्राभ्युदयश्राद्धं भवति तद्विंशतिद्विजं कल्याणं भवति । पुनश्च पठन्ति— पुंसि जातान्नचौलोपस्नानपाणिग्रहेषु च । अग्न्याधाने तथा सोमे दशस्वभ्युदयस्स्मृतः ॥ इति ॥ प्रयोगश्च–पार्वणश्राद्धवदेव । एतावदत्र नाना युग्मा ब्राह्मणाः प्रदक्षिणमुपचारो यज्ञोपवीतं यवैस्तिलार्थ इति ॥१२॥
सुदर्शनः
तस्या अन्वष्टकायाः कल्पो मासिश्राद्धवत्कर्तव्य इत्यर्थः । कल्पातिदेशात् सर्वमिह द्रव्यदेवतादिकं प्राप्यते । तस्मान्निमन्त्रणादि ग्रासप्राशनान्तं सर्वं मासिश्राद्धवदविकृतं कर्तव्यम् ॥१२॥
मूलम् ...{Loading}...
तस्या मासिश्राद्धेन कल्पो व्याख्यातः ।