२१ ०१ मासिश्राद्धस्यापरपक्षे
२१ ०१ मासिश्राद्धस्यापरपक्षे ...{Loading}...
मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 The times for the monthly Śrāddha are in the second fortnight (of the month), as they are stated.
हरदत्त-प्रस्तावः
पुनरपि पाकयज्ञान्तरं पुरुषत्रयसम्प्रदानकं तादृशानामष्टकादीनां प्रकृतिभूतं मासिश्राद्धसंज्ञिकं पित्र्यं कर्मोपदिश्यते—
हरदत्तः
मासिश्राद्धंनाम पित्र्यं कर्म मासि मासि कर्तव्यम् । तत्र येऽपरपक्षे कालविशेषाः सामयाचारिकेषूपदिष्टाः “प्रथमेऽहनि क्रियमाणे (आप.ध.२-१६-७.) इत्यादयः अपरपक्षस्यापराह्णः श्रेयान्” (आप.श्रौ.२-१६-४.) इति च ते सर्वे यथोपदेशं यथा तत्रोपदिष्टाः तथैव मासि मासि प्रत्येतव्याः । यद्यपि ते विशेषाः तस्मादेव वचनात् सिद्धाः तथापि तस्य कर्मणः प्रयोगविधानमित उत्तरं क्रियत इति ज्ञापनार्थमिदं वचनम् । अन्यथा ज्ञापयेत शुचीन् मन्त्रवतः इत्यादि कस्मिन् कर्मणि विधीयत इति । एवं तर्हि मासिश्राद्धस्यैतदेवाधिकारार्थमस्तु । तस्मादिदमस्य प्रयोजनम्– मासपरिमाणमनपेक्ष्यापरपक्षवशेन पर्वकाला यथोपदेशं यथा स्युरिति । तेन पूर्वस्मिन् पक्षे पञ्चदश्यामकृतश्राद्धस्यापरस्मिन् पक्षे प्रथमादिषु सर्वासु तिथिषु क्रिया भवति तत्तत्कामस्य ॥१॥
सुदर्शनः
मासिश्राद्धस्य मासे मासे श्रद्धया कर्तव्यस्य । अपरपक्षे कृष्णपक्षे । यथोपदेशं “सर्वेष्वेवापरपक्षस्याहस्सु क्रियमाणे पितॄन् प्रीणाति । कर्तुस्तु कालाभिनियमात् फलविशेषः” (आप.ध.२-१६-७.) इत्यादिधर्णशास्त्रसिद्धोपदेशानुसारेण काला भवन्ति । “अपरपक्षे यथोपदेशं कालाः, इति पुनर्वचनस्य प्रयोजनं “अपरपक्षे पित्र्याणि” (आप.गृ.१-७.) इत्यत्रोक्तम् । केचित्— यस्यां तिथौ प्रथममुपक्रमस्तस्यामेवोत्तरे प्रयोग इति नियमो नास्ति; किन्तु पूर्णेऽपि मासे अपरपक्ष एव यथोपदेशं तिथ्यन्तरेऽपि नित्यः काम्यश्च प्रयोग इति ॥१॥
मूलम् ...{Loading}...
मासिश्राद्धस्यापरपक्षे यथोपदेशं कालाः ।
२१ ०२ शुचीन् मन्त्रवतो
२१ ०२ शुचीन् मन्त्रवतो ...{Loading}...
शुचीन् मन्त्रवतो योनि-गोत्र-मन्त्रासम्बन्धान् अयुग्माँस् त्र्यवरान् अनर्थावेक्षो भोजयेत् २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Let him feed, without regard of (worldly) purposes, pure Brāhmaṇas, versed in the Mantras, who are not connected with himself by consanguinity or by their Gotra or by the Mantras (such as his teacher or his pupils), an odd number, at least three.
हरदत्तः
शुचीन् शुद्धान् मन्त्रवतः श्रुताध्ययनसम्पन्नान् “शुचीन् मन्त्रवतस्सर्वकृत्येषु भोजयेत्” (आप. ध.२-१५-९) इत्येव सिद्धे पुनर्वचनमादरार्थम् । ब्राह्मणान् योनिसम्बन्धाः श्वशुरमातुलादयः, गोत्रसम्बन्धाः समानगोत्राः मन्त्रसम्बन्धाः ऋत्विगाचार्यान्तेवासिनश्च । गुणहान्यां तु परेषामिति वक्ष्यति । अयुग्मानिति युग्मप्रतिषेधार्थम् । त्र्यवरानिति एकप्रतिषेधार्थम् । “नत्वेवैकं सर्वेषाम् । काममनाद्ये”(आश्व.गृ. ४-७-३.) इत्याश्वलायनः । अनाद्ये आमश्राद्धे दुर्भिक्षे वा कुले एकमपि भोजयेदित्यर्थः । यद्यपि स्त्रीभ्योऽपि पिण्डदानं दृश्यते तथापि ब्राह्मणभोजनमिह तभ्यो न भवति । होमाभिमर्शनयोरदर्शनात् । विप्रतिषेधाच्च युग्मवचनस्य । तस्मात् पितृपितामहप्रपितामहेभ्य एव त्रिभ्यो ब्राह्मणभोजनम् । एकैकस्मै त्रयः पञ्च वा, कल्पान्तरे धर्मशास्त्रेषु च दर्शनात् । विश्वेभ्यो देवेभ्यो ब्राह्मणभोजनं युग्मसंख्यया । “मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम्” (या.स्मृ.१-२२८.) इति याज्ञवल्क्यः ॥२॥
सुदर्शनः
शुचित्वादिगुणयुक्तान् ब्राह्मणान्, अनर्थावेक्षः प्रत्युपकारादिदृष्टप्रयोजनानवेक्षो, भोजयेदिति वाक्यार्थः । पदार्थस्तु— शुचयो वाङ्मनः कायशुद्धाः । न च वाच्यं धर्मशास्त्रे “शुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेत्” (आप.ध.२-१५-९.) इति सर्वार्थमुक्तत्वादिह पुनश्शुचित्ववचनमनर्थकमिति ; यतोऽल्पविद्यानपि शुचीनेव भोजयेत्, तदभावे वरं क्रियालोपो, न त्वशुचीनित्येवं शुचीत्वादरार्थम् । मन्त्रवतो मन्त्रब्राह्मणवतः योनिगोत्रमन्त्रासम्बन्धान् इत्यत्र “द्वन्द्वात्परं श्रूयमाणः प्रत्येकमभिसम्बध्यते” इति न्यायेन, योन्या असम्बन्धाः, गोत्रेणासम्बन्धाः, मन्त्रेणासम्बन्धाः, इत्यर्थो भवति । तत्र योनिसम्बन्धाः श्वशुरमातुलमातुलेयादयः । गोत्रसम्बन्धा एकगोत्रास्सपिण्डादयः । मन्त्रसम्बन्धाः याज्ययाजकाध्येत्रध्यापयितारः । यत्तु धर्मशास्त्रे “मन्त्रान्तेवास्यसम्बन्धान्” (आप.ध.२-१६-४.) इति मन्त्रसम्बन्धव्यतिरेकेणान्तेवास्यसम्बन्धानित्युक्तं तदङ्गाध्येतृश्रोतृलक्षणमन्त्रसम्बन्धनिषेधाभिप्रायम् । ननु—सामयाचारिकेष्वेव ब्रह्मणानां मन्त्रवत्त्वं योनिगोत्रमन्त्रासम्बन्धत्वं च सिद्धम् ; तदिहं किमर्थं पुनरुक्तम् ? उच्यते—नित्ये मासिश्राद्धे गृह्योक्तगुणानपि भोजयेत् नावश्यं धर्मोक्तान् ब्रह्मविदोऽन्तेवास्यसम्बन्धानित्येवमर्थम् । अयुग्मा विषमसङ्ख्याकाः । त्र्यवराः त्रित्वमवरं सङ्ख्या येषां ते त्र्यवराः । एतच्च पितृपितामहप्रपितामहविषयम् । ततश्च पित्रादीनां त्रयाणां प्रत्यकं त्रीन् पञ्च वा, न पुनस्सप्तादीन्, द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा । भोजयेत्सुसमृद्धोऽपि न प्रसज्येत विस्तरे ॥ (म.स्मृ.३-१२५.) इति मनुवचनात् । नन्वस्मिन् मनुवचने “पितृकार्ये त्रीन्” इत्युक्त्वा “न प्रसज्येत विस्तरे” इत्युक्तं, तत्किमिति “पञ्च वा” इत्युक्तम्? उच्यते— अयुग्मांस्त्र्यवरानिति सूत्रकारवचनात् ।
एवं तर्हि “एकैकमुभयत्र वा” इति विरुद्धः ?
न ; तस्यानुकल्पत्वात् ।
अत्र यद्यपि मात्रादिभ्यः पृथगेव पिण्डदानदर्शनं, तथापि तासां पृथग्ब्राह्मणभोजनं न भवति, हेमाभिमर्शनयोः पृथक्त्वादर्शनात्, पितृमात्रर्थब्राह्मणसङ्ख्यासङ्कलने सत्ययुग्मत्वविरोधात्, आचाराभावाच्च । अपि च— अष्टकासु च वृद्धौ च गयायां च मृतेऽहनि । मातुश्श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ॥ इति मनुवचनादष्टकादिभ्योऽन्यत्र मासिश्राद्धादौ पृथक्त्वाभावस्स्पष्ट एवावगम्यते । इह च सूत्रकारभाष्यकाराभ्यामनुक्तमपि विश्वेदेवार्थं युग्मानां भोजनं कर्तव्यम् “द्वौ दैवे” इति मनुयाज्ञवल्क्याभ्यामुक्तत्वात्, पिशाचा राक्षसा यक्षा भूता नानाविधास्तथा । विप्रलुम्पन्ति सहसा श्राद्धमारक्षवर्जितम् । तत्पालनाय विहिता विश्वेदेवास्स्वयम्भुवा ॥ इत्यादि झागलेयवचनात्, अविगीतशिष्टाचाराच्च । यदा त्वेक एव ब्राह्मणो लभ्यते, तदा तं पित्राद्यर्थमेव भोजयेत्, प्रधानत्वात् । अङ्गभूतस्य तु वैश्वदेवस्य— यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥ देवतायतने कृत्वा तत्र श्राद्धं प्रकल्पयेत् । प्रास्येदग्नौ तदन्नं तु दद्याद्द्वा ब्रह्मचारिणे ॥ (व.११-३०,३१.) इति वसिष्ठोक्तविधिनानुष्ठानम् । ननु च— मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् । (या.स्मृ.१-२२८), तथा— मातामहनामप्येवं श्राद्धं कुर्याद्विचक्षणः । मन्त्रोहेन यथान्यायं शेषं मन्त्रविवर्जितम् ॥ (वि.स्मृ.७५.) तथैव— पृथङ्मातामहानां च वैश्वदेवसमन्वितम् । कुर्वीत भक्तिसम्पन्नं तन्त्रं वा वैश्वदैविकम् ॥ (वि.पु.३-१५-१६.) इति याज्ञवल्क्यविष्णुस्मृत्योः विष्णुपुराणे च विधिदर्शनात् मातामहश्राद्धमपि नित्यमेवावगम्यते । तत्किमिति सूत्रकारभाष्यकारौ न ब्रूतः? उच्यते—नैव तत्रापि स्मृत्यन्तरेषु पित्र्यवत्सर्वस्यैव जीवतो द्विजस्यावश्यं मातामहश्राद्धमपि नियमेन कर्तव्यमिति विधित्सितम् । कृते अभ्युदयः, अकरणे न प्रत्यवाय इति । कस्य तर्हि नियमेन कर्तव्यमिति विधिरिति चेत् ; यः पुत्रिकाकृताया आसुरादिविवाहोढाया वा पुत्रो मातामहेन सह मातुस्सापिण्ड्यं करोति, तस्य मातामहश्राद्धं नियतमेव, अकरणे च प्रत्यवायः । मासिश्राद्धे तु मातुः पृथक् श्राद्धाभावान्मातामहश्राद्धांशभागित्वोपपत्तेः । अथ वा यो दौहित्रोऽपुत्रस्य मातामहस्याखिलार्थहारी तस्यैतच्छ्राद्धं नियतम् । यथाह लौगाक्षिः— श्राद्धं मातामहानां च अवश्यं धनहारिणा । दौहित्रेण विधिज्ञेन कर्तव्यं विधिवत्सदा ॥ इति । इममेवार्थं भारुचिरप्याह— “यस्मिन् पक्षे अपुत्रो मातामहः, पुत्रिकासुतश्चाखिलद्रव्यहारी, तस्मिन् पक्षे तस्य पिण्डदाननियमः” इत्यादिना ग्रन्थेन । मातामहश्राद्धप्रयोगश्च स्मृत्यन्तरेभ्यो न्यायतश्च प्रत्येतव्यः । तस्मात् सर्वस्य दौहित्रस्य पित्र्यवत् कर्तव्यमेवेति नियमाभावत् सूत्रकारभाष्यकारौ न ब्रूतः ॥२॥
मूलम् ...{Loading}...
शुचीन् मन्त्रवतो योनिगोत्रमन्त्रासम्बन्धानयुग्माँस्त्र्यवराननर्थावेक्षो भोजयेत्।
२१ ०३ अन्नस्योत्तराभिर्जुहोति
२१ ०३ अन्नस्योत्तराभिर्जुहोति ...{Loading}...
अन्नस्योत्तराभिर् जुहोति ३
०१ यन्मे माता ...{Loading}...
यन् मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ पि॒ता वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।+++(र५)+++
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।
०२ यास्तिष्ठन्ति या ...{Loading}...
यास् तिष्ठ॑न्ति॒, या धाव॑न्ति॒,
या आ॑॑र्द्रो॒घ्नीः+++(=कूलादिघ्नीः)+++ परि॑त॒स्थुषीः॑॑ ।
अ॒द्भिर् विश्व॑स्य भ॒र्त्रीभि॑र्
अ॒न्तर् अ॒न्यं पि॒तुर् द॑धे॒, +++(र५)+++
ऽमुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑ ।
पितामहाय
०३ यन्मे पितामही ...{Loading}...
यन् मे॑ पिताम॒ही प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ पिताम॒हो वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।
०४ अन्तर्दधे पर्वतैरन्तर्मह्या ...{Loading}...
अ॒न्तर् द॑धे॒ पर्व॑तैर्
अ॒न्तर् मह्या॑ पृथि॒व्या ।
आ॒भिर् दि॒ग्भिर् अ॑न॒न्ताभि॑र्
अ॒न्तर् अ॒न्यं पि॑ताम॒हाद् द॑धे॒
ऽमुष्मै॒ स्वाहा॑॑ ।
प्रपितामहाय
०५ यन्मे प्रपितामही ...{Loading}...
यन् मे॑ प्रपिताम॒ही प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ प्रपिताम॒हो वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।
०६ अन्तर्दध ऋतुभिरहोरात्रैश्च ...{Loading}...
अ॒न्तर्द॑ध ऋ॒तुभि॑र्
अहोरा॒त्रैश् च॑ +++(काल)+++स॒न्धिभिः॑ ।
अ॒र्ध॒मा॒सैश् च॒ मासै॑॑श् च+
अ॒न्तर् अ॒न्यं प्र॑पिताम॒हाद् द॑धे॒
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।
अन्येभ्यः
०७ ये चेह ...{Loading}...
ये चे॒ह पि॒तरो॒ ये च॒ नेह॒
याँश् च॑ वि॒द्म याँ उ॑ च॒ न प्र॑ वि॒द्म ।
अग्ने॒ तान् वेत्थ॒ यदि॒
ते जा॑तवेद॒स् तया॑॑ प्र॒त्तँ+++(→प्रत्तया = प्रदत्तया)+++ स्व॒धया॑ मदन्तु॒
स्वाहा॑॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He makes oblations of the food (prepared for the Brāhmaṇas) with the next (verses, II, 19,1-7);
हरदत्तः
उत्तराभिः “यन्मे माते"त्यादिभिः स्त्रीलिङ्गनिर्देशादृग्भिस्सप्तभिः अन्नस्यैकदेशं जुहोति । ब्राह्मणभोजनार्थं कल्पितादन्नादुद्धृत्य जुहोतीत्यर्थः । तत्र “अमुष्मा” इत्यस्य स्थाने आदितो द्वयोः पितुर्नामनिर्देशः । मध्यमयोः पितामहस्य । अन्त्ययोः प्रपितामहस्य । “यदि द्विपिता स्यादेकैकस्मिन् पिण्डे द्वौ द्वावुपलक्षये”(आप.श्रौ.१-२७)दिति न्यायेन द्विपितुर्द्वयोरुपलक्षणममुष्मा अमुष्मा इति । अन्ते स्वाहाकारः । केचित् “पितरौ वृञ्जेताम्” इत्यूहं कुर्वन्ति । (ऋग्विकल्पं कुर्वन्ति वा )एतेन पितामहप्रपितामहौ व्याख्यातौ । तथा “स्वाहा पित्र” इत्यत्रापि केचिदूहं कुर्वन्ति । अपरे न-पितृत्वमत्र विवक्षितं एकत्वमविवक्षितमिति । केचित् मातामहानामप्यूहेन होमं कुर्वन्ति– “यन्मे मातामही, यन्मे मातुः पितामही, यन्मे मातुः प्रपितामही, तन्मे रेतो मातामहो वृङ्क्तां इत्यादि ॥३॥
सुदर्शनः
अत्रान्नशब्देन ब्रह्मणभोजनार्थमन्नं विवक्षितम्, षष्ठ्या चापादानापादेयभावः ।
तेनायमर्थः– ब्राह्मणभोजनार्थात्सर्वस्माद्धविष्यजातादोदनापूपादेर्होमार्थमेकस्मिन्पात्रे सहोद्धृत्य, तस्मात् पार्वणवदवदानधर्मेणावदायोत्तराभिः “यन्मे माता” इत्यादिभिस्सप्तभिः प्रत्यृचं प्रधानीहुतीर्जुहोति ।
न तु बहुमन्त्रक एको होमः, “एतद्वा विपरीतम्” (आप.गृ.२१-५.) इति बहुत्वलिङ्गात् ।
लिङ्गं च “एतद्वे"ति सूत्रव्याख्याने व्यक्तं भविष्यति ।
अत्र प्रथमद्वितीययोर्मन्त्रयोरमुष्मा इत्यस्य स्थाने विष्णुशर्मण इति चतुर्थ्या पितुर्नामग्रहणम् ।
एवं तृतीयचतुर्थयोः पितामहस्य पञ्चमषष्ठयोः प्रपितामहस्य ।
सप्तमे त्वदश्शब्दाभावान्नास्ति नामग्रहणम् ।
अनूहश्चात्र द्विपित्रादिकस्यापि, “तस्मादृचं नोहेत्” (आश्व.श्रौ.) इति ऋगूहप्रतिषेधश्रुतेः, “न प्रकृतावूहो विद्यते”(आप.प. ३.५०.) इति प्रकृतावूहनिषेधाच्च ।
तस्मात् “पिता वृङ्क्ताम्” इत्याद्येकवचनं पित्रादिसामान्यपरम् ।
अत एव प्रकृतौ दर्शपूर्णमासयोरनेकपत्नीकस्यापि “पत्नीं सन्नह्य” इत्येकवचनेनैव सम्प्रैषः ।
ऊह इत्युपदेशः ।
प्रकृतावेव द्वादशाहे “अद्य सुत्यामित्यालेखनः” इत्यूहदर्शनात् ।
“एष ते तत मधुमान्” इत्यादिष्वेष न्यायः ।
जीवपित्रादिकस्तु पित्रादेः पित्रादीनां त्रयाणां मृतानां नामानि गृह्णाति ।
यस्तु प्रमीतपितृकोऽयं ध्रियमाणपितामहस्स्यात्, स स्वपितुश्च तत्पितामहप्रपितामहयोश्च नामानि गृह्णीयात् ।
तथा मन्त्रेषु प्रतियोगिभेदेऽपि पितृपितामहप्रपितामहशब्दानामेव प्रयोगः ।
ऊहपक्षे तु, तत्तत्प्रतियोगिनिर्देशपूर्वकः “पितुः पिता वृङ्क्ताम्” “पितुः पितामहो वृङ्क्ताम्” इत्यादिकः प्रयोगः ।
न च जीवपित्रादिकस्य मासिश्राद्धं नास्तीत्याशङ्कनीयम्, ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् ।
पूर्वेषु त्रिषु दातव्यं जीवेच्चेत्त्रितयं यदि ॥
(म.स्मृ.३-२२०.) इत्यादिवचनजातात् ।
नन्वेमपि व्युत्क्रमप्रमीतपित्रादिकस्य नैव घटते,
“व्युत्क्रमाच्च प्रमीतानां नैव कार्या सपिण्डता ।”
इति व्युत्क्रममृतानां सपिण्डीकरणनिषेधेन सपिण्डीकृतपितृसम्प्रदानके श्राद्धे तत्पुत्रादीनामधिकाराभावात् ।
मैवम् ;
पिता यस्य तु वृत्तस्स्याज्जीवेच्चापि पितामहः ।
पितुस्स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् ॥
पितामहो वा तच्छ्राद्धं भुज्जीतेत्यब्रवीन्मनुः ॥
(म.स्मृ.३-२२१,२२२) इति मनुवचनेन व्युत्क्रमप्रमीतपित्रादिकस्यापि श्राद्धविधानात् ।
ततश्च व्युत्क्रमाच्चेति निषेधः पाक्षिक इति निश्चयादधिकारोऽपि पाक्षिकोऽवगम्यते ॥३॥
मूलम् ...{Loading}...
अन्नस्योत्तराभिर्जुहोति ।
२१ ०४ आज्याहुतीरुत्तराः
२१ ०४ आज्याहुतीरुत्तराः ...{Loading}...
आज्याहुतीरुत्तराः ४
०८-१३ स्वाहा पित्रे ...{Loading}...
-
स्वाहा॑ पि॒त्रे
-
पि॒त्रे स्वाहा॒
-
स्वाहा॑ पि॒त्रे
-
पि॒त्रे स्वाहा॑॑ ।
-
स्व॒धा स्वाहा॒
-
अग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Then the Ājya oblations (indicated by the) next (Mantras, II, 19, 8-13).
हरदत्तः
षडाज्याहुतीर्जुहोति–स्वाहा पित्र इत्याद्याः । तत्र “स्वाहा पित्र” इति पुरस्तात् स्वाहाकारत्वान्नान्ते स्वाहाकारः । अत्राहुः— मासिश्राद्धे ब्राह्मणभोजनं प्रधानकर्मतदङ्गमग्नौ करणं पिण्डश्च । तेन जीवपितृश्राद्धक्रिया न भवति । “यदि जीवपिता न दद्यात्” इति निषेधात् । “आहोमात् कृत्वा विरमेत्” इत्ययमपि विधिर्न भवति । होमस्य भोजनाङ्गत्वात् पिण्डपितृयज्ञे तु होमस्य प्रधानत्वादिति । अन्ये तु येभ्य एव पिता दद्यात् तेभ्य एव पुत्रोऽपीत्याहुः । अपर आह— त्रीणि श्राद्धे प्रधानानि–अग्नौ करणं भोजनं पिण्डदानमिति तेना"होमात् कृत्वा विरमेद्” इत्यस्यापि विधेरयं विषय इति ॥४॥
सुदर्शनः
एवमन्नहोमान् हुत्वा, अनन्तरम् उत्तराः “स्वाहा पित्रे” इत्याद्याष् षडाज्याहुतीर् जुहोति ॥४॥
मूलम् ...{Loading}...
आज्याहुतीरुत्तराः।
२१ ०५ एतद्वा विपरीतम्
२१ ०५ एतद्वा विपरीतम् ...{Loading}...
एतद्वा विपरीतम् ५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Or invertedly (i.e. he offers Ājya with the verses referred to in Sūtra 3, and food with those referred to in Sūtra 4).
हरदत्तः
पूर्वास् सप्ताज्याहुतयः उत्तराष् षडन्नाहुतय इत्यर्थः । मन्त्रास्तु यथाम्नातमेव ।
प्रयोगः–
पूर्वद्युर् निवेदनं सायं भोजनानन्तरं
“श्वः श्राद्धं भविष्यती"ति ।
तत आरभ्य व्रतचर्या सर्वेषाम् । (वयं तु ब्रूमः पूर्वेद्युः सायं भोजनं न भवति । “यद् अनाश्वान् उपवसेत् पितृ-देवत्यस् स्याद्” इति लिङ्गाद् इति । )
अथापरेद्युः प्रातः द्वितीयं निवेदनम्– “अद्य क्रियत” इति ।
अथाभ्यङ्गस् ततो ऽपराह्णे
स्नातान् कृत-पच्-छौचान् तान् आमन्त्रयते ।
पूर्वं विश्वेभ्यो देवेभ्यो यज्ञोपवीती
युग्मान् द्वौ चतुरो वा
“मासि श्राद्धे विश्वेभ्यो देवेभ्यः क्षणः कर्तव्य” इति ।
“ओं तथे"ति प्रतिवचनम् ।
“प्राप्नोतु भवान्"इति यथासनं प्रापणम् ।
“प्राप्नवानी"ति प्रतिवचनम् ।
देवेभ्यः प्राङ्मुखाः ब्राह्मणाः
प्राङ्-मूलेषु दर्भेषु,
पितृभ्य उदङ्मुखाः द्वि-गुण-भुग्नेषु दक्षिणाग्रेषु
युवानः पित्रे, वृद्धाः पितामहाय, वृद्धतमाः प्रपितामहाय,
एकैकस्य त्रयस् त्रयो वा ।
शुचौ देशे दक्षिणाप्रवणे श्राद्धागारं
सर्वतः परिश्रितम्,
उदग् वा द्वारं
तस्य पूर्वोत्तरे देशे अग्निर् औपासनः ।
तस्या दक्षिणतः पिण्ड-दानार्थं स्थण्डिलम् ।
तस्य दक्षिणतः उदङ्मुखाः पित्रार्थाः
पश्चात् प्राङ्मुखाः देवार्थाः ।
तस्मिन्न् एव स्थण्डिले यथावकाशं
त्रिषु पात्रेषु पितृभ्य
उदकान्य् अर्घ्याणि दक्षिणापवर्गाणि तिलवन्ति ।
देवेभ्य एकस्मिन् यवमति ।
तानि पुष्पैर् अवकीर्य
दर्भेषु सादयित्वा
दर्भैः प्रच्छाद्य
आसनगतानां ब्राह्मणानां हस्तेषु
स्वस्मात् स्वस्मात् उदपात्रात् पात्रान्तरेणाप आदाय
“विश्वे देवा इदं वोऽर्घ्यं”,
“पितः इदं तेऽर्घ्यं, पितामह इदं तेऽर्घ्यं, प्रपितामह इदं तेऽर्घ्यं”,
इत्य् अर्घ्याणि ददाति, तूष्णीं वा ।
पुरस्ताद् उपरिष्टाच् च शुद्धोदकम् ।+++(5)+++
ततो गन्धादिभिः वासोभिश् च द्विजान् अभ्यर्च्य,
“उद्ध्रियतामग्नौ च क्रियताम्” इत्यामन्त्रयते ।
“कामम् उद्ध्रियतां, कामम् अग्नौ च क्रियतां” इति प्रतिवचनम् ।
ततो ब्राह्मणार्थं संस्कृताद् अन्नाद् उद्धृत्यापरेणाग्निं बहिर्षि प्रतिष्ठाप्याभिघार्याग्नेर् उपसमाधानाद्य्-आज्यभागान्ते त्रयोदश प्रधानाहुतीर् जुहोति ॥५॥
सुदर्शनः
यद्वा विपरीतमेद्भवति ,“यन्मे माता” इत्याद्याः पूर्वास्सप्ताज्याहुतयः, “स्वाहा पित्रे” इत्याद्या उत्तराष्षडन्नाहुतय इति ॥५॥
मूलम् ...{Loading}...
एतद्वा विपरीतम् ।
२१ ०६ सर्वमुत्तरैरभिमृशेत्
२१ ०६ सर्वमुत्तरैरभिमृशेत् ...{Loading}...
सर्वमुत्तरैरभिमृशेत् ६
१६ एष ते ...{Loading}...
ए॒ष ते॑ तत॒ +++(स्वधासमुद्रः)+++ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् अ॒ग्निश् च॑ पृथि॒वी च॒ ताव॑त्य् अस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॒ ऽग्निर् अक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑+++(→मम)+++ पि॒त्रे ऽक्षि॒तो ऽनु॑पदस्तः स्व॒धा भ॑व॒
तां त्व२ꣳ स्व॒धां तैस् स॒होप॑जीव॒, +र्चस् ते॑ महिमा।
ए॒ष ते॑॑ प्रपितामह॒ +++(स्वधासमुद्रः)+++ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् वा॒युश् चा॒न्तरि॑क्षञ् च॒ ताव॑त्य् अस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॑ वा॒युर् अक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑+++(→मम)+++ पिताम॒हायाक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व।
तां त्व२ꣳ स्व॒धां तैस् स॒होप॑जीव॒, सामा॑नि ते महिमा।
ए॒ष ते॑॑ प्रपितामह॒ +++(स्वधासमुद्रः)+++ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् आदि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॑ ऽऽदि॒त्यो ऽक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑ प्रपिताम॒हायाऽक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व।
तां त्व२ꣳ स्व॒धां तैस् स॒होप॑जीव॒, यजूꣳ॑षि ते महि॒मा ॥ (19)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Let him touch the whole (food) with the next (formulas, II, 19, 14-16).
हरदत्तः
एवं प्रधानाहुतीर्हुत्वा सौविष्टकृतं हुत्वा जयादि प्रतिपद्यते । साङ्गे प्रधाने सर्वत्र प्राचीनावीतम् । न जयादय इत्यन्ये । परिषेचनान्तं कृत्वा प्रणीताश्च विमुच्य ततस्सर्वमन्नं होष्यं च समुपनिधाय हुतशेषं च तस्मिन् उत्सृज्य तम् उत्तरैस्त्रिभिः अभिमृशेत् “एष ते तत मधुमान्"इत्येतैः । अत्राप्यूहः “एष ते मातामह मधुमा"नित्यादि ॥६॥
सुदर्शनः
अथ ब्राह्मणभोजनार्थं हविष्यमहविषयं च सर्वमन्नं उत्तरैः “एष ते तत मधुमान्” इत्येतैस्त्रिभिर्मन्त्रैः अभिमृशेत् । एकयत्नेन सर्वस्याभिमर्शनासम्भवे मन्त्रावृत्तिः ; शेषिपरतन्त्रत्वाच्छेषाणाम् ॥६॥
मूलम् ...{Loading}...
सर्वमुत्तरैरभिमृशेत् ।
२१ ०७ कॢप्तान्वा प्रतिपूरुषम्
२१ ०७ कॢप्तान्वा प्रतिपूरुषम् ...{Loading}...
कॢप्तान्वा प्रतिपूरुषम् ७
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Or the (single) prepared (portions of food destined) for the single Brāhmaṇas.
हरदत्तः
अथ वा भोजनपात्रेषु कॢप्तान् ओदनविशेषान् प्रतिपुरुषं पृथगभिमृशेत् यथालिङ्गम् । तत्र यावन्तः पित्रर्थे भोज्यन्ते तावत्सु प्रथमस्य मन्त्रस्यावृत्तिः “एवमुत्तरयोः । ततः पात्रेषु कस्पितानन्नशेषान् ॥७॥
सुदर्शनः
अथवा–पित्राद्यर्थेभ्यो ब्राह्मणेभ्यः प्रतिपूरुषं भोजनपात्रेषु कॢप्तान् प्रकसल्पितान् भोज्यपदार्थान् एकैकेन मन्त्रेण यथालिङ्गमभिमृशेत् । अत्रापि पित्रादेरेकैकस्य ब्राह्मणबहुत्वे युगपदभिमर्शनासम्भवे च तत्तन्मन्त्रावृत्तिः ॥७॥
मूलम् ...{Loading}...
कॢप्तान्वा प्रतिपूरुषम् ।
२१ ०८ उत्तरेण यजुषोपस्पर्शयित्वा
२१ ०८ उत्तरेण यजुषोपस्पर्शयित्वा ...{Loading}...
उत्तरेण यजुषोपस्पर्शयित्वा ८
०१ पृथिवी ते ...{Loading}...
+++(हे अन्न -)+++ पृ॒थि॒वी ते॒ पात्रं॒,
द्यौर् अ॑पि॒धानम्।
ब्रह्म॑णस् त्वा॒ मुखे॑ जुहोमि।
ब्राह्म॒णाना॑॑न् त्वा प्राणापा॒नयो॑॑र् जुहोमि।
भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य
द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य
+++(भुञ्जानानामपि तृप्तिरस्त्वित्याह -)+++ अक्षि॑तम् असि॒।
मैषां॑॑ क्षेष्ठा+++(←क्षी क्षये)+++ अ॒मुत्रा॒+++(→परलोके)+++ऽमुष्मि॑ल्ँ लो॒के +++(च ब्राह्मणानाम्)+++ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having caused them with the next (formula, II, 20, 1) to touch (the food, he gives it to them to eat).
हरदत्तः
उत्तरेण यजुषा “पृथिवी ते पात्रम्” इत्यनेन ब्राह्मणैः स्पर्शयित्वा भोजयेदिति शेषः । तत्र च “ब्राह्मणानां त्वा,“मैषां क्षेष्ठाः” इति बहुत्वं दृश्यते तथापि प्रतिपुरुषं मन्त्रावृत्तिः उपरवमन्त्रवत्, वत्सापाकरणमन्त्रवच्च । तत्र पूर्वं देवानामुपस्पर्शनं “विश्वे देवास” इत्यनयर्चा, स्मृत्यन्तरे दर्शनात् । वैष्णव्येत्यपरे । इदं विष्णुरित्यन्ते विष्णो हव्यं रक्षस्वेति । तथा पित्र्येष्वप्यन्ते विष्णो कव्यं रक्षस्वेति । भुञ्जानेषु पराङावर्तते । रक्षोघ्नान् पित्र्यान् वैष्णव्यानन्यांश्च पवित्रान् धर्म्यान् मन्त्रान् धर्मशास्त्रमितिहासपुराणांश्चाभिश्रावयति । ततस्तृप्तान् ज्ञात्वा मधुमतीः श्रावयेत् अक्षन्नमीमदन्तेति च । अथ भूमावन्नं विकिरति– “ये अग्निदग्धा येऽनग्निदग्धा ये वा जाताः कुले मम । भूमौ दत्तेन पिणडेन तृप्ता यान्तु परां गति"मिति । अथाचान्तेषु पुनरपो दत्वा “स्वदितम्” इति पित्रर्थान् वाचयति “रोचत” इति वैश्वदेवार्थान् । ततो यथाश्राद्धं दक्षिणां दत्वा सर्वेभ्योऽन्नशेषेभ्यः पिण्डार्थं प्राशनार्थञ्चोद्धृत्य शेषं निवेदयेत्– अन्नशेषैः किं क्रियतां इति । इष्टैस्सहोपभुज्यतामिति प्रतिवचनम् । “दातारो नोऽभिवर्धन्तां वेदास्सन्ततिरेव नः । श्रद्धा च नो मा व्यपगात् बहुदेयं च नोऽस्तु” ॥ इति प्रार्थयते । “दातारो वोऽभिवर्धन्ताम्” इत्यूहेन प्रतिवचनम् । भुक्तवतः प्रदक्षिणीकृत्य, नमस्कारः । ओं स्वधेति पितृभ्यः । विश्वेदेवाः प्रीयन्तामिति विश्वेषां देवानाम् । तत्र सर्वकर्मणां वैश्वदेवेषु पूर्वं प्रवृत्तिः पश्चात् पित्र्येषु । विसर्जने विपर्ययः । अभिश्रवणादि यज्ञोपवीती प्राक्पिण्डेभ्यः कल्पान्तरदर्शनात् ॥८॥
सुदर्शनः
उत्तरेण “पृथिवी ते पात्रम्” इत्यनेन यजुषा, कॢप्तानन्नविशेषान् ब्राह्मणान्, हस्ते गृहीत्वोपस्पर्शयित्वा, तं भोजयेदिति शेषः । अत्र च मन्त्रे यद्यपि ब्राह्मणानामिति बहुवचनं तथापि युगपत् स्पर्शयितुमशक्यत्वात् प्रतिपूरुषं मन्त्रावृत्तिः, यथा— “वायवस्स्थ” (तै. सं.१-१-१.) इति मन्त्रः प्रतिवत्सम् । एवंविधेषु बहुवचनं प्रयोगसाधुत्वार्थं, एकप्रयोगवचनप्रयोज्यानेकव्यक्त्यभिप्रायं वा ॥८॥
मूलम् ...{Loading}...
उत्तरेण यजुषोपस्पर्शयित्वा।
२१ ०९ भुक्तवतोऽनुव्रज्य
२१ ०९ भुक्तवतोऽनुव्रज्य ...{Loading}...
तेषूत्तरैरपो दत्त्वा
+++(दर्भेष्व् अपो ददाति)+++
०२-०७ मार्जयन्ताम् मम ...{Loading}...
मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हाः ।
०२-०७ मार्जयन्ताम् मम ...{Loading}...
मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो॑, मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः॑ ।
उत्तरैर्दक्षिणापवर्गान् पिण्डान्दत्वा
उत्तरैर् दक्षिणापवर्गान् पिण्डान्दत्त्वा
०८-१९ एतत्ते ततासौ ...{Loading}...
ए॒तत्ते॑ तताऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ पितामहाऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ प्रपितामहाऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ मातर् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ पितामह्य् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ प्रपितामह्य् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
उत्तरैरुपस्थानम्
पूर्ववदुत्तरैरपो दत्त्वा
उत्तरैरुपस्थाय
२० -२६ ये च ...{Loading}...
ये च॒ वो +++(पितरः)+++ ऽत्र॒, ये चा॒स्मास्व् आशꣳ॑सन्ते॒+++(→प्रार्थयन्ते स्वधाम्)+++
याश् च॒ वो ऽत्र॒ याश् चा॒स्मास्व् आशꣳ॑सन्ते॒,
ते च॑ +++(स्वधां)+++ वहन्तां॒,
ताश्च॑ +++(स्वधां)+++ वहन्ताम्।
तृप्य॑न्तु भवन्तः॒,
तृप्य॑न्तु भवत्यः॒।
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।
उभयान् पिण्डान् परिषिञ्चति
उत्तरयोदपात्रेण त्रिः प्रसव्यं परिषिच्य
२७ -२८ पुत्रान्पौत्रानभि तर्पयन्तीरापो ...{Loading}...
पु॒त्रान् पौत्रा॑न् अ॒भि त॒र्पय॑न्ती॒र् आपो॒ मधु॑मतीर् इ॒माः
स्व॒धां +++(मातृसहित)+++पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीर् उ॒भयाꣳ॑स् तर्पयन्तु ।
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।
शेष-प्राशनम्
न्युब्ज्य पात्राण्य्
उत्तरं यजुरनवानं त्र्यवरार्ध्यमावर्तयित्वा
प्रोक्ष्यपात्राणि
द्वन्द्वमभ्युदाहृत्य
सर्वतस् समवदायोत्तरेण यजुषाशेषस्य ग्रासवरार्ध्यं प्राश्नीयात् ।
२९ प्राणे निविष्टोऽमृतम् ...{Loading}...
प्रा॒णे निवि॑ष्टो॒ ऽमृतं॑+++(→अमरणहेतुमन्नं)+++ जुहोमि॒, ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- When they have eaten (and gone away), he goes after them, circumambulates them, turning his right side towards them, spreads out southward-pointed Darbha grass in two different layers, pours water on it with the next (formulas, II, 20, 2-7), distributes the Piṇḍas, ending in the south, with the next (formulas, II, 20, 8-13), pours out water as before with the next (formulas, 14-19), worships (the ancestors) with the next (formulas, II, 20, 20-23), sprinkles with the next (verse, 24) water three times from right to left round (the Piṇḍas) with a water-pot, besprinkles the vessels, which are turned upside down, repeating the next Yajus (25) at least three times without taking breath, sets up the vessels two by two, cuts off (Avadānas) from all (portions of food), and eats of the remains at least one morsel with the next Yajus (26).
हरदत्तः
ततस्तान् भुक्तवतोऽनुव्रज्य प्रदक्षिणीकृत्य प्रत्यावृत्य प्राचीनावीती पिण्डप्रदानदेशे दक्षिणाग्रान् दर्भान् संस्तृणाति द्वैधं द्वेधा द्वयोः स्थानयोरसंभिन्नानित्यर्थः । तत्र पितृभ्यः पुरस्तात् स्तृणाति, मातृभ्यः पश्चात् । तथा चाश्वलायनः–कर्षूष्वेके द्वयोष्षट्सु वा, पूर्वासु पितृभ्यो दद्यात्, अपरासु स्त्रीभ्यः (आश्व.गृ.१-५-६,७,८) इति । “दक्षिणाग्रैः पित्र्येषु” (आप.गृ.१.७.) इत्यस्य परिस्तरणीवेषयत्वादिह दक्षिणानीत्युक्तम् । संस्तीर्य तेषु उत्तरैर्मन्त्रैः “मार्जयन्तां मम पितर” इत्यादिभिर् अपो ददाति । पूर्ववदिति वक्ष्यमाणमन्त्रा अप्यपकृष्यन्ते । पिण्डं पूर्ववत् ददाति पिण्डपितृयज्ञे यत् पिण्डदानं तदित्यर्थः । तेन त्रीनुदकाञ्जलीनित्येवमादयो विशेषा इहापि भवन्ति । तत्र पितृलिङ्गैः पितृभ्यस्तीर्णेषु, मातृलिङ्गैर्मातृभ्यस्तीर्णेषु । एवमपो दत्वा तत उत्तरैर् मन्त्रैः “एतत्ते ततासा"वित्यादिभिस्तेषु दर्भेषूभयेषु दक्षिणापवर्गान् पिण्डान् ददाति यथालिङ्गं पितृभ्यश्च मातृभ्यश्च । असावित्यत्र सर्वत्र नामग्रहणं यथालिङ्गम् । अत्रापि पूर्ववदित्यस्य सबन्धात् सव्यं जान्वाच्यावाचीनपाणिरित्यादि विधानमिहापि भवति । अनेकपितृकस्योह इति पैङ्गिसूत्रम् । “एतद्वां ततौ यज्ञशर्मविष्णुशर्माणौ ये च युवामनु, “एतद्वां पितामहा” वित्यादि । एतद्वां मातरावसौ याश्च युवामनु, “इत्यादिदक्षिणापवर्गानित्युच्यते–उभयेषां पिण्डानां पृथक् दक्षिणापवर्गता यथा स्यादिति । तेन पितृपिण्डानां दक्षिणतो मातृपिण्डा न भवन्ति । किं तर्हि ? पश्चात् । एवं पिण्डान् दत्वा पूर्ववदुत्तरैरपो ददाति पितृभ्यश्च मातृभ्यश्च । मन्त्रसमाम्नाये"मार्जयन्तां मम पितर इत्येते” इति मन्त्राणां पुनरादिष्टत्वात् । “उत्तरैरपो दत्वा” इत्येव सिद्धे पूर्ववदित्यतिदेशः पिण्डपितृयज्ञप्रत्यवमर्शनार्थः—पिण्डेषु चोदकाञ्जलिषु च । तत उत्तरैर्मन्त्रैः तानुपतिष्ठते यथालिङ्गं “ये च वोऽत्रेति पितॄन्, याश्च वोऽत्रेति मातॄः; ते च वहन्तामिति पितृन्, ताश्च वहन्तामिति मातॄः, तृप्यंतु भवन्तः इति पितॄन्, तृप्यंतु भवत्यः इति मातॄः, तृप्यत तृप्यत तृप्यत इत्युभयान् । तत उत्तरयर्चा “पुत्रान् पौत्रानित्येतया त्रिः प्रसव्यम् उदपात्रेण पिण्डान् परिषिञ्चति । उभयांस्तपर्यन्त्विति लिङ्गात् पिण्डानां सहपरिषेचनम् । उदपात्रवचनं हस्तेन मा भूदिति । प्रसव्यवचनमनुवादः प्रसव्यं त्रिगुणीभूतमेकमेव परिषेचनं सन्ततं यथा स्यात्, न पिण्डपितृयज्ञवत् त्रीणि परिषेचनानि पृथगिति । एवं परिषिच्य ततः पात्राणि यान्यत्र प्रकृतानि त्रीण्यर्घ्यपात्राणि परिषेचनपात्रमुदकुम्भः यस्मिन् पिण्डार्थमन्नमुद्धृतं तच्चेति तानि न्युब्ज्य न्यञ्चि कृत्वा तत उत्तरं यजुः “तृप्यत तृप्यत तृप्यते"त्येतत् अनवानमनुछ्वसन् त्र्यवरार्ध्यमावर्तयति त्रिरभ्यावृत्तिः अवरा मात्रा यस्यावर्तनस्य तत् त्र्यवरार्ध्यम् । यजुर्ग्रहणं “तृप्यते"त्यस्य त्रिरावृत्तस्य पठितस्यैकयजुष्ट्वज्ञापनार्थम् । तस्य त्रिरावृत्तौ नवकृत्वोऽभ्यावृत्तिर्भवति । एवमावृत्य न्यक्कृतानि पात्राणि प्रोक्ष्य द्वद्वमभ्युदाहरति उदानयति । अभीति वचनात् उत्तरं कर्म प्रत्युदाहरतीत्यर्थः । तेनोत्तरस्मिन्नपि श्राद्धकर्मणि तान्येव पात्राणीत्येके । नेत्यन्ये । एवमभ्युदाहृत्य शेषस्यान्नस्य ग्रासवरार्ध्यं ग्रासोऽवरार्ध्यो अवमा मात्रा यस्य तत् ग्रासवरार्ध्यम् छान्दसो ह्रस्वः । तत्प्राश्नीयात् उत्तरेण यजुषा “प्राणे निविष्टोऽमृतं जुहोमि” इत्यनेन सर्वतस् सर्वेभ्यः श्राद्धशेषेभ्य अन्नशेषेभ्य इत्यर्थः । श्राद्धाङ्गमिदं प्राशनं, न नित्यस्याशनस्य नियमविधिः । तस्मात् तत्रापि प्राचीनावीतमेव । आचमने तु यज्ञोपवीतमनङ्गत्वात् । ततः पञ्चमहायज्ञानां प्रवृत्तिः ।
सुदर्शनः
अथ भुक्तवतो व्रजतो ब्राह्मणानागृहसीमान्तम्अनुव्रज्य प्रदक्षिणीकरोति । एतयोश्च यज्ञोपवीतम् । कथम्? प्रदक्षिणे तावत् “यज्ञोपवीतिना प्रदक्षिणम्” इति साहचर्यात् । अनुव्रजनेऽप्यनुव्रज्य प्रदक्षिणीकृत्येति प्रदक्षिणसाहचर्यात् । तन्त्रेण चैतदुभयं, सम्भवात् । यदि तु कारणवशात्तन्त्राभावः, तदा पृथक्पृथक् । अथ प्रत्येत्य प्राचीनावीती पिण्डदानदेशे दक्षिणाग्रान् दर्भान्, द्वैधं द्वेधा संस्तृणाति । तत्र पुरस्तात्पित्राद्यर्थं, पश्चान्मात्राद्यर्थम् ; आश्वलायने दर्शनात्, आचाराच्च । ततस्तेषु दर्भेषूत्तरैः “मार्जयन्तां मम पितरः” इत्यादिभिस्त्रिभिः, “मार्जयन्तां मम पितरः” इत्यादिभिश्च यथार्हं दक्षिणापवर्गमपो दत्वा अनन्तरम् उत्तरैः “एतत्ते ततासौ” इत्यादिभिः “एतत्ते मातरसौ” इत्यादिभिश्च यथालिङ्गं त्रींस्त्रीन् दक्षिणापवर्गान् पिण्डान् ददाति । पिण्डाश्च हुतशेषात् भुक्तशेषाच्च समवदाय कर्तव्याः । अत्र पूर्वेषु त्रिषु मन्त्रेष्वसावित्यस्य स्थाने पितृपितामहप्रपितामहानां नामानि सम्बुद्ध्या यथाक्रमं गृह्णाति । उत्तरेषु तु त्रिषु मातृपितामहीप्रपितामहीनाम् । “दक्षिणतोऽपवर्गः” (आप.गृ.१-१०) इति सामान्यविधिसिद्धस्येह पुनर्वचनं, पिण्डदान एव दक्षिणापवर्गः” द्वैधं दर्भास्तरणेषु तु पश्चिमापवर्ग इति ज्ञापनार्थम्, तथोभयेषां पिण्डानां प्रत्येकं दक्षिणापवर्गसिद्ध्यर्थं च । अथ पूर्ववत् “मार्जयन्ताम्” इत्यादिभिरेवापो ददाति । केचित्—“तेषूत्तरैरपो दत्वा उत्तरैर्दक्षिणापवर्गान् पिण्डान् दत्वा” इत्येतयोरपि “पूर्ववत्” इति पदमपकृष्य त्रिष्वपि सूत्रेषु चोद्यमानं पूर्ववत् पिण्डपितृयज्ञवत् कर्तव्यमिति व्याचक्षते । प्रयोजनं तु “त्रीनुदकाञ्जलीन्निनयति” (आप.श्रौ.१-८-१०) “सव्यं जान्वाच्यावाचीनपाणिः” (आप.श्रौ.१-९-१.) इत्यादिविधानमिहापि भवतीति । तन्न ; अपकर्षस्यैवायुक्तत्वात्, पूर्ववदित्यस्य पिण्डपितृयज्ञवदित्येवंबुद्ध्यनुदयाच्च । यदि त्वाचारबलात् “सव्यं जान्वाच्य” इत्यादीहापि कर्तव्यमेवेत्युच्येत, तदा न कश्चिद्दोषः । अथोत्तरैः “ये च वोऽत्र” इत्यादिभिष्षड्भिर्मन्त्रैर्यथा क्रमं यथालिङ्गं पितॄन् त्रिस्त्रिरुपतिष्ठते । तृप्यतेत्यनेन त्रिरावृत्तेन उभयांस्तन्त्रेण ॥ केचित्–चत्वारो मन्त्राः न षट् । तत्र प्रथमो मन्त्रो “ये च वोऽत्र” इत्यादिः “ताश्च वहन्ताम्” इत्यन्तः उभयेषामुपस्थानार्थः । “तृप्यन्तु भवन्तः” इति पितॄणाम् । “तृप्यन्तु भवत्यः” इति मातॄणाम् । “तृप्यत तृप्यत तृप्यत” इत्युभयेषामिति ॥ तत उत्तरया “पुत्रान्पौत्रान्” इत्येतया उभयेषां पिण्डान्युगपद् उदपात्रेण त्रिः प्रसव्यम् अविच्छिन्नं परिषिञ्चति । सामान्यविधिसिद्धस्य प्रसव्यस्येह पुनर्वचनं पूर्वत्र “प्रदक्षिणीकृत्य” इति वचनादिहापि प्रादक्षिण्यं स्यादिति शङ्कानिरासार्थम् । अनन्तरं पात्राणि होमार्थानि पिण्डदानार्थानि च । केचित्—भोजनार्थानि वोददानार्थानि च, न तु होमार्थानीति । न्युब्ज्य अधोबिलानि कृत्वा । तत उत्तरं यजुः “तृप्यत तृप्यत तृप्यत” इत्याम्नानत एवं त्रिरभ्यस्तम् । अनवानंअनुच्छ्वसन् । त्र्यवरार्ध्य त्रिरभ्यावृत्तिरवरा मात्रा यस्यावर्तनस्य तत्त्त्र्यवरार्ध्यं यथा भवति तथावर्तयति । ततश्चावमायामपि मात्रायां तृप्यतेति नवकृत्वोऽभ्यासितव्यं भवति । एवमनवानं यावच्छत्त्यावर्त्य, ततः पात्राणि न्यग्भूतानि प्रोक्ष्य, द्वन्द्वमभ्युदाहरति । अत्राभ्युपसर्गादुत्तरं कर्म प्रत्युदाहरति । तेषां पात्राणां निरिष्टिकदोषो नास्तीति भावः । अथ शेषस्यान्नस्य ग्रासवरार्ध्यं ग्रासावरार्ध्यम् । छान्दसत्वाद्ध्रस्वः । उत्तरेण यजुषा “प्राणे निविष्टः” इत्यनेन प्राश्नीयात् । एतच्च सर्वतस्सर्वेभ्योऽन्नशेषेभ्यस्समवदाय कार्यम् । इदं च प्राशनं भोजनेच्छायामसत्यामपि ग्रासवरार्ध्यमवश्यं प्राश्यं; कर्माङ्गत्वात् । एवं प्राश्य, ततश्शुद्ध्यर्थं यज्ञोपवीत्याचामेत् ॥
श्राद्धम् ...{Loading}...
अथात्र सूत्राणाम् अपूर्णत्वाद्
अन्यतस् सिद्धान् अपि पदार्थान् उपसंहृत्य
यथा-प्रतिभासं प्रयोग उच्यते॥
पूर्वेद्युः
पूर्वेद्युस् सायम् औपासन-होमं हुत्वा
प्राचीनावीती कृतप्राणायामः
“श्वो मासिश्राद्धं कर्तास्मी"ति सङ्कल्प्य
शुचित्वादि-गुण-सम्पन्नेभ्यः श्वित्रादि-दोष-वर्जितेभ्यः कृत-सायम्-आह्निकेभ्यो ब्राह्मणेभ्यो निवेदयेत् ।
निवेदनम्
तत्र प्रथमं यज्ञोपवीती भूत्वा
“श्वो मासिश्राद्धं भविता,
तत्र भवद्भिर् विश्वेदेवार्थे क्षणः कर्तव्यः”
इति विश्वदेवार्थेभ्यो ब्राह्मणेभ्यो निवेदयेत् ।
ततः प्राचीनावीती “पित्रर्थे क्षणः कर्तव्यः” इति पित्रर्थेभ्यः ।
“पितामहार्थे क्षणः कर्तव्यः” इति पितामहार्थेभ्यः ।
प्रपितामहार्थे क्षणः कर्तव्यः” इति प्रपितामहार्थेभ्यः ।
एकब्राह्मणपक्षे तु
“पितृपितामहप्रपितामहार्थे क्षणः कर्तव्यः” इति
मातामहश्राद्धकारी चेत्, ऊहेन “मातामहार्थे क्षणः” इत्यादिना निवेदयेत् ।
उपवीत-नियमः
तत्र चाघारयोस्, तद्-अर्थ-समिधोर्, आज्य-भागयोर्, अग्निमुखाहुतौ, स्वविष्टकृति, प्रायश्चित्ताहुतौ च
तथा विश्वेदेवार्थेषु सर्वेषु पदार्थेषु च
प्रदक्षिणानुव्रजनयोश् च
यज्ञोपवीतमेव ।
एभ्योऽन्यत्रासमाप्तेस् सर्वत्र प्राचीनावीतम् एव ।
एतच्च प्राग् एवोपपादितम् ।
कर्तुश् चात्र सङ्कल्पाद् आरभ्य +आसमाप्तेर्
ब्रह्मचर्यादि-व्रतचर्या +अनशनं च भवति ।
भोक्तॄणाम् अपि मनूक्तो ऽक्रोधत्वादिः ।
होमात् पूर्वम्
अथापरेद्युः प्रातस्
तान् ब्राह्मणान् गृहम् आनीय
आचान्तान् आसनेषूपवेश्य
पूर्ववद् द्वितीयम् आमन्त्रणम् ।
अत्र त्व् “अद्य श्राद्धं भविष्यती"ति भेदः ।
“पूर्वेद्युर् निवेदनं
अपरेद्युर्द्वितीयं, तृतीयं चामन्त्रणम्”
इतिवचनात् ।
अथ तेषां पादान् कुण्डेषु सकूर्च-तिलेष्व् अवनिज्याचमय्य,
कृसर-ताम्बूलादीनि दत्वा
अभ्यज्य, स्नानार्थं प्रस्थापयेत् ।
ते च स्नायुः ।
ततस् स्वयं च स्नातो
ब्राह्मण-भोजनार्थाद् अन्नाद् अन्येनान्नेन वैश्वदेवं पञ्चमहायज्ञांश् च कुर्यात् ।
केचित्— समाप्ते श्राद्धे इति ।
आसनादि
ततोऽपराह्णे प्राचीनावीती
ब्राह्मणान् प्रक्षालित-पाणिपादान् आचान्तान् आसनेषूपवेशयति -
तत्र विश्वेदेवार्थान् प्राङ्मुखान् प्राक्-कूलेषु दर्भेषु
पित्राद्य्-अर्थान् उदङ्-मुखान् द्विगुण-भुग्नेषु दक्षिणाग्रेषु दर्भेषु ।
श्राद्धागारं च शुचौ देशे दक्षिणाप्रवणे
सर्वतः परिश्रितम् उदग्-द्वारं च भवति ।
तस्योत्तर-पूर्व-देशे ऽग्निरौपासनः ।
अग्नेर् दक्षिणतः पिण्डप्रदानार्थं स्थण्डिलम् ।
तस्य दक्षिणतः पत्राद्यर्थानाम् आसनम् ।
पश्चात् तु विश्वेदेवार्थानाम् आसनम् ।
अर्घ्यादि
स्थण्डिलेषु यथावकाशं पित्रादिभ्यस् त्रिषु पात्रेषु एकस्मिन् वा
शास्त्रान्तरोक्त-विधिनार्घ्यार्थम् उदकग्रहणम् ।
विश्वेभ्यो देवेभ्यश्च यथाविधि पात्रान्तरे ।
तानि गन्धादिभिर् अभ्यर्च्य,
दर्भेषु सादयित्वा
दर्भैः प्रच्छाद्यासनगतानां ब्राह्मणानां हस्तेषु स्वस्मात् स्वस्माद् उदपात्रात् पात्रान्तरेणाप आदाय
“विश्वे देवाः इदं वो अर्घ्यं”
“पितरिदं ते अर्घ्यं”
“पितामहेदं ते अर्घ्यं”
“प्रपितामहेदं ते अर्घ्यं”
“पितृपितामहप्रपितामहा इदं वो अर्घ्यं”
इति वार्घ्याणि ददाति ।
इदम् एवार्घ्यदानं श्राद्धे स्वधा-निनयनम् उदपात्रानयनम् इति चोच्यते ।
पुरस्ताद् उपरिष्टाच् चार्घ्य-दानाद्+धस्तेषु शुद्धोदकदानम् ।
ततो गन्धादिभिर् वासोभिर् अङ्गुलीयकादिभिश् च
यथाविभवं ब्राह्मणानाम् अभ्यर्चनम् ।
अनुज्ञा
ततस् तान्
“उद्ध्रियताम् अग्नौ च क्रियताम्” इत्यामन्त्रयते ।
ते च प्रतिब्रूयुः ।
उदीच्य-वृत्तिस् त्वासन-गतानां हस्तेषूद-पात्रानयनम् ।
“उद्ध्रियताम् अग्नौ च क्रियताम्” इत्य् आमन्त्रयते ।
“कामम् उद्ध्रियतामग्नौ च क्रियताम्” इत्यतिसृष्ट उद्धरेज्जुहुयाच्च
(आप.ध.२-१७-१७,१८,१९.)
इति धर्मशास्त्रवचनात् ।
एतच् चोदपात्रानयनं उद्ध्रियताम् इत्य् आमन्त्रणं च पाक्षिकम्,
भाष्यकारेणानुक्तत्वात्,
उदीच्य-वृत्तिर् इत्यस्य समासस्य उदीच्यानां वृत्तिर् उदीच्येषु वृत्तिरित्युभयथापि विग्रहाभ्युपगमाच्च ।
होमः
अथ ब्राह्मणभोजनार्थाद् अन्नात् हविष्यम् ओदनापूपादिकम्
एकस्मिन् पात्रे समुद्धृत्य
अहविष्यं क्षारादि-संसृष्टम् अन्यस्मिन् पात्रे उद्धृत्य
अथ हविष्यं प्रतिष्ठितम् अभिघार्य
अग्नेर् उपसमाधानाद्य्-अग्निमुखान्तं कृत्वा
“यन्मे माता” इत्यादिभिस् त्रयोदश प्रधानाहुतीर् हुत्वा
स्विष्टकृतं च
तत उदीचीनम् उष्णं भस्मापोह्य
अहविष्यं स्वाहाकारेण हुत्वा
ऽथ “लेपयोः” इत्यादि तन्त्रशेषं समाप्य
भोजनम्
अभिमर्शादि
ततः “एष ते तत” इत्यादिभिस् सर्वम् अन्नम् अभिमृश्य
अथ पृथक् पृथक् तृतीयम् आमन्त्रणं पूर्ववद् एव कृत्वा
त्रिष्वपि चामन्त्रणेषु “ओं तथा” इति प्रतिवचनं ब्राह्मणानाम् ।
ततः कर्तुः प्रार्थनम् “प्राप्नोतु भवान्” इति ।
ततः “प्राप्नवानि” इत्य् अङ्गीकारो भोक्तॄणाम् ।
क्रमान्तरम् (द्रष्टुं नोद्यम्)
अपरे क्रमान्तरम् आहुः —
वैश्वदेव-पञ्च-महायज्ञानन्तरं
अपराह्णे प्राचीनावीती अग्नेर् उपसमाधानादि करोति ।
तत्र स्वधा-निनयन-पक्षे पात्र-संसादन-काले स्वधा-पात्राणाम् अपि सादनम् ।
प्रणीताः प्रणीय,
विधिवत् स्वधा-ग्रहणम् ।
ततो “ब्राह्मणं दक्षिणतो निषाद्य”
इत्य्-आद्य् अग्निमुखान्ते कृते
पाद-प्रक्षालनादि ।
उद्ध्रियताम् इत्यामन्त्र्य,
अन्नम् उद्धृत्य प्रधान-होमादय इति ।
इहापि पक्षे स्वधा-निनयनं पाक्षिकम् एव ।
अन्ये तु—
मासिश्राद्धे शास्त्रान्तरानुसारान् +मन्त्रवन् +नियमवद् भोजन-देश-संस्कारं,
विश्वेषां देवानां चावाहनं,
भोजयित्वोद्वासनं चेच्छन्ति ।
अत्र च पदार्थेषु क्रमे च शिष्टाचाराद् एव निर्णयः,
सूत्रकार-भाष्यकाराभ्याम् अनुक्तत्वात् ॥
स्पर्शनम्
अथ प्रकृतम् उच्यते—
भोजन-पात्र-कॢप्तान् अन्नविशेषान् यथास्वं ब्राह्मणान् उपस्पर्शयति
“पृथिवी ते पात्रं”, इत्येतया
“इदं विष्णुर् विचक्रमे” इत्येतया च ।
तस्याश्चान्ते “विष्णो हव्यं रक्षस्व” इति विश्वेषां देवानां,
“विष्णो कव्यं रक्षस्व” इति पित्रादीनाम् ।
एवं स्पर्शयित्वाथ भोजयेत् ।
श्रावणादि
विभवे सति सर्पिर्मांसादीनि विशिष्टानि दद्यात् ;
अभावे तैलं शाकम् इति ।
भुञ्जानान् ब्राह्मणान् आहवनीयार्थेन ध्यायेत्,
पित्रादीन् देवतात्वेन,
अन्नं चामृतत्वेन,
आत्मानं ब्रह्मत्वेन ।+++(5)+++
भुञ्जानेषु च पराङ् आवृत्त्य
राक्षोघ्नान्, पित्र्यान्, वैष्णवान् अन्यांश् च, पावमानमन्त्रान्,
धर्मशास्त्रम् इतिहासपुराणानि चाभिश्रावयति ।
तृप्तांश्च ज्ञात्वा मधुमतीश् श्रावयति,
“अक्षन्नमीमदन्त” इति च ।
परिकिरणम्
अथ भूमाव् अन्नं परिकिरति—
ये अग्निदग्धा येऽनग्निदग्धा
ये वा जाताः कुले मम । भूमौ दत्तेन पिण्डेन
तृप्ता यान्तु परां गतिम् ॥
इति ।
तृप्तिवचनादि
अथाचान्तेषु पुनर् अपो दत्वा
“स्व्-अदितम्” इति पित्राद्यर्थान् वाचयति,
“रोचयते” इति विश्वेदेवार्थान् ।
ततो यथाशक्ति दक्षिणां दत्वा
ऽथ सर्वेभ्यो ऽन्नशेषेभ्यः पिण्डार्थं प्राशनार्थं चोद्घृत्य
“अन्नशेषः किं क्रियताम्”? इति शेषं निवेदयेत् ।
ते च “इष्टैस् सह भुज्यतां” इति प्रतिब्रूयुः ।
आशीर्वचनम्
अथ कर्ता—
दातारो नोऽभिवर्धन्तां
वेदास्सन्ततिरेव नः । श्रद्धा च नो मा व्यपगाद्
बहु देयं च नोऽस्तु ॥
इति प्रर्थयते ।
दातारो वोऽभिवर्धन्तां
वेदास्सन्ततिरेव वः । श्रद्धा च वो मा व्यगमद्
बहु देयं च वोऽस्तु ॥
इति तेषां प्रतिवचनम् ।
अथ,
अन्नं च नो बहु भवेद्
अतिथींश्च लभेमहि । याचितारश् च नस्सन्तु
मा च याचिष्म कञ्चन ॥
इति च प्रार्थयते ।
“अन्नं च वो बहु भवेत्” इत्यूहेनैव प्रतिवचनम् ।
प्रेषणम्
अनन्तरं “ओं स्वाधा” इत्याह ।
“अस्तु स्वधा” इति प्रतिवचनम् ।
अथ ब्राह्मणानां पित्राद्य्-अर्थानां पूर्वं विसर्जनम् ।
विश्वेषां देवानां पश्चाद् विसर्जनम् ।
पूर्वोक्तेषु निवेदनादिषु सर्वेषु पदार्थेषु
दैवपूर्वत्वम् एव ।+++(5)+++
अनुव्रजनम्
अथ यज्ञोपवीती
भुक्तवतोऽनुव्रज्य, प्रदक्षिणीकृत्य,
प्राचीनावीती
“द्वैधं दक्षिणाग्रान्” इत्यादि,
“शेषस्य ग्रासवरार्ध्यं प्राश्नीयात्” इत्य्-एवम्-अन्तं यथासूत्रं करोति ॥
प्राधान्यम्
अत्र चेदं वक्तव्यं–
ब्राह्मण-भोजनं होमः पिण्ड-दानं च
त्रीण्य् अपि मासिश्राद्धे प्रधानानि -
अग्न्याधेये धूर्तस्वामिनोक्तत्वात्,
वैश्वदेवे विश्वेदेवा इत्यत्र
कपर्दिस्वामिनिनोक्तत्वाच्च ।
केचित्—
इह ब्राह्मणभोजनम् एव प्रधानम्,
होमः पिण्डदानं च तदङ्गम्,
अनर्थावेक्षो भोजयेद् इति प्रकृत्य
तयोर् विधानात् इति ।
आमश्राद्धम्
अथास्य मुख्यकल्पासम्भवे
आमश्राद्ध-विधिर् अनुकल्पतयोच्यते—
आपद्य् अनग्नौ तीर्थे च
चन्द्र-सूर्य-ग्रहे तथा ।
आम-श्राद्धं द्विजैः कार्यं
शूद्रः कुर्यात्सदैव हि ॥
इति बृहत्प्रचेतोवचनात् । अत्र व्यासः—
आवाहनं च कर्तव्यम्
अर्घ्यदानं तथैव च ।
एष एव विधिर् यत्र
यत्र श्राद्धं विधीयते ॥यद् यद् ददाति विप्रेभ्यः
शृतं वा यदि वाशृतम् । तेनाग्नौ करणं कुर्यात्
पिण्डांस् तेनैव निर्वपेत् ॥
इति । अत्र षट्त्रिंशन्मतम्—
आमश्राद्धं यदा कूर्यात्
पिण्डदानं कथं भवेत् । गृहाद् आहृत्य पक्वान्नं
पिण्डान् दद्यात् तिलैस्सह ॥
इति ।
प्रयोगः
प्रयोगसंक्षेपस्तु—
पूर्वेद्युर् अपरेद्युर् वा
ब्राह्मणान् निमन्त्र्य,
पूर्वाह्णे स्नात्वा ब्राह्मणान् आहूय,
पादप्रक्षालनाद्य्-अर्घ्यदानान्तं कृत्वा,
यथाविभवं गन्ध-वस्त्रादिभिश् च यथार्हम् अभ्यर्च्य,
“अग्नौ करिष्यामी"त्य् आमन्त्र्य
आथाग्नि-मुखान्ते तण्डुलाद्य्-अमद्रव्येण होमकरणम् ।
ततस् तन्त्र-शेषं समाप्य,
तण्डुलाद्य्-आम-द्रव्यं श्राद्धार्थं ददाति ।
चरोर् अभावात् तद्-धर्माणाम् अभावः ।
भोजनाभावाच् च तत्-सम्बन्धिनाम् अप्य् अभावः ।
ततः पिण्ड-दानम् आमेन,
गृहाद् आहृतेन पक्वेन वेति ।
हिरण्यदानम्
अत्यन्तापदि तु
“अपि ह वा हिरण्येन प्रदान-मात्रं”,
अपि वा मूलफलैः प्रदान-मात्रम्,
इत्य्-आदि-बोधायनादि-वचनाद्-धिरण्यादेर् वा प्रदान-मात्रं
समस्त-धर्म-रहितं कुर्यात् ।
एवं सर्वथापि श्राद्धम् अवश्यं कर्तव्यम् ।
न तु कस्यांचिद् अप्य् अवस्थायां लोपः ।+++(5)+++
उपसंहारः
अत्र च श्राद्ध-विषये यद्य् अपि,
वसवः पितरो ज्ञेयाः
रुद्राश्चैव पितामहाः । प्रपितामहास् तथादित्याश्
श्रुतिर् एषा समातनी ॥
इत्यादि-शास्त्रान्तर-सिद्धं बहु वक्तव्यम् अस्ति ;
तथापि विस्तर-भयाद् उपरम्यते ॥९॥
मूलम् ...{Loading}...
भुक्तवतोऽनुव्रज्य प्रदक्षिणीकृत्य द्वैधं दक्षिणाग्रान् दर्भान् सँस्तीर्य तेषूत्तरैरपो दत्त्वोत्तरैर्दक्षिणापवर्गान् पिण्डान्दत्त्वा पूर्ववदुत्तरैरपो दत्त्वोत्तरैरुपस्थायोत्तरयोदपात्रेण त्रिः प्रसव्यं परिषिच्य न्युब्ज्य पात्राण्युत्तरं यजुरनवानं त्र्यवरार्ध्यमावर्तयित्वा प्रोक्ष्यपात्राणि द्वन्द्वमभ्युदाहृत्य सर्वतस्समवदायोत्तरेण यजुषा शेषस्य ग्रासवरार्ध्यं प्राश्नीयात् ।
-
21, 1. Comp. Dharmaśāstra II, 7, 16, 8 seq.; Sacred Books, vol. ii, p. 139. Comp. Professor Bühler’s remarks, vol. ii, p. xiv. ↩︎