१९ ०८ हेमन्तप्रत्यवरोहणम्
१९ ०८ हेमन्तप्रत्यवरोहणम् ...{Loading}...
हेमन्तप्रत्यवरोहणम् +++(खट्वायाः)+++८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 (Now follows) the ‘redescent’ in the winter.
हरदत्तः
+++(सम्पादकटिप्पनी - सूत्रमिदमग्रिमे व्याख्यातम् ।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी - सूत्रमिदमग्रिमे व्याख्यातम् ।)+++
मूलम् ...{Loading}...
हेमन्तप्रत्यवरोहणम्।
१९ ०९ उत्तरेण यजुषा
१९ ०९ उत्तरेण यजुषा ...{Loading}...
उत्तरेण यजुषा +++(“प्रत्यवरूढो नो हेमन्तः"इत्यनेन)+++ प्रत्यवरुह्य
०२ प्रत्यवरूढो नो ...{Loading}...
प्र॒त्यव॑रूढो नो हेम॒न्तः ।
संवेशनमन्त्राः
उत्तरैर् +++(“प्रतिक्षत्र"इत्यादिभिः पञ्चभिः)+++ दक्षिणैः पार्श्वैः नवस्वस्तरे+++(=तृणशय्यायाम्)+++ संविशन्ति ९
+++(नवस्वस्तरे संविशन् )+++
०३-०७ प्रतिक्षत्रे प्रतितिष्ठामि ...{Loading}...
प्रति॑ क्ष॒त्रे, प्रति॑तिष्ठामि रा॒ष्ट्रे ।
प्रत्य् अश्वे॑षु॒, प्रति॑तिष्ठामि॒ गोषु॑ ।
प्रति॑ प्र॒जायां॒, प्रति॑तिष्ठामि॒ भव्ये॑+++(=मङ्गले)+++ ।
इ॒ह +++(स्वस्तरे)+++ धृति॑र्, इ॒ह विधृ॑तिः ।
इ॒ह रन्ति॑र्, इ॒ह रम॑तिः ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next Yajus (II, 18, 2) they ‘redescend’ (or take as their sleeping-place a layer of straw instead of the high bedsteads which they have used before). With the next Yajus formulas (II, 18, 3-7) they lie down on a new layer (of straw) on their right sides,
हरदत्तः
हेमन्तप्रत्यवरोहणं नाम कर्म नित्यं संवत्सरे संवत्सरे कर्तव्यम्, तदुपदिश्यते—हेमन्ते प्राप्ते खट्वां विहाय पलालस्वस्तरे शेते । हेमन्तं ऋतुं प्रति खट्वाया अवरोहणं हेमन्तप्रत्यवरोहणं, तदुत्तरेण यजुषा कर्तव्यं “प्रत्यवरूढो नो हेमन्त” इत्यनेन । कः पुनरस्य कालः? यस्यां व्युष्टायां हेमन्तः प्रवर्तते शरन्निवर्तते, सा रात्रिरस्य कालः । (अपर आह–मार्गशीर्ष्यां पौर्णमास्यामस्तमिते स्थालीपाकान्ते प्रत्यवरोहणं सर्वेषां प्रसिद्धत्वादिति । अन्ये—मार्गशीर्ष्यां पौर्णमास्यामित्यनुवर्तयन्ति । ) तत्र प्रत्यवरुह्य तत उत्तरैर् मन्त्रैः “प्रतिक्षत्र” इत्यादिभिः पञ्चभिः नवस्वस्तरे नवैः पलाशैः कस्पिते शयनीये दक्षिणैः पार्श्वैः दक्षिणानि पार्श्वान्यधः कृत्वा संविशन्ति शेरते । गृहमेधिनः अमात्याश्च पुत्रादयः कुमार्यश्चाप्रत्ताः । नित्यस्यैव संवेशनस्य नियमविधिरयम्—निशायां यत्संवेशनं संवप्नार्थं तदस्यां निशायामेव कर्तव्यमिति । प्रत्यवरोहणमन्त्रोऽपि तस्मिन्नेव काले वक्तव्यः ॥८॥
सुदर्शनः
यस्मिन् कर्माणि हेमन्ते खष्ट्वातः प्रत्यवरोहणं तद्धेमन्तप्रत्यवरोहणं नाम कर्मोपदिश्यत इति शेषः । अस्मादेव च योगिकान्नामधेयात् “प्रत्यवरूढो नो हेमन्तः” इति मन्त्रलिङ्गाच्चेदं कर्म हेमन्ते प्रथमायां रात्रौ कर्तव्यमिति विधिः कल्प्यते । केचित्–“मार्गशीर्ष्यां पौर्णमास्यामस्तमिते” (आप.गृ.१९-३.) इत्यनुवर्तनात्तत्रेदं कर्तव्यमिति ॥८॥ उत्तरेण यजुषा “प्रत्यवरूढो नो हेमन्तः” इत्यनेन गृहस्थः पत्न्यादयश्च नवस्वस्तरे आरुह्य खष्ट्वातो हेमन्ते प्रत्यवरोहन्ति यावद्धेमन्तस्तावत्खष्ट्वां शय्यां विमुच्य नवस्वस्तर एव शयीमहीति बुद्धिं कुर्वन्तीत्यर्थः । न पुनः पूर्वमदृष्टार्थं खष्ट्वामारुह्य मन्त्रेण स्वस्तरं प्रत्यवरोहन्तीति । अनन्तरम् उत्तरैर्मन्त्रैः “प्रतिक्षत्रे” इत्यादिभिः प्रथमैः पञ्चभिः । नवस्वस्तरे नवैः पलाशैः कल्पिते शयनीये दक्षिणैः पार्श्वैः दक्षिणानि पार्श्वान्यधः कृत्वा प्रक्छिरसस् संविशन्ति ॥९॥
मूलम् ...{Loading}...
उत्तरेण यजुषा प्रत्यवरुह्योत्तरैर्दक्षिणैः पार्श्वैर्नवस्वस्तरे संविशन्ति ।
१९ १० दक्षिणतः पितोत्तरा
१९ १० दक्षिणतः पितोत्तरा ...{Loading}...
दक्षिणतः पितोत्तरा मातैवम् अवशिष्टानां ज्येष्ठो ज्येष्ठो ऽनन्तरः १०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The father to the south, the mother to the north (of him), and so the others, one after the other from the eldest to the youngest.
हरदत्त-प्रस्तावः
पुनरपि सूत्रद्वयेन संवेशनमेव विशिनष्टि—
हरदत्तः
तेषां संविशतां यः पिता स दक्षिणश्शेते या माता सोत्तरा । तयोरन्योन्यापेक्ष दक्षिणोत्तरत्वं “सामात्यः प्राक्शिरा उदङ्मुखः” (आश्व.गृ.२-३-६) इत्याश्वलायनः । “मन्त्रविदो मन्त्रान् जपेयुः” (अश्व.गृ.२-३-९.) इति च ॥९॥ अवशिष्टा अमात्यास्तेषां यो यो ज्येष्ठः कुमारः कुमारी वा स पितुर्दक्षिणतः तदनन्तरो मातुरुत्तरतः । तृतीयः प्रथमस्य दक्षिणतः । चतुर्थो द्वितीयस्योत्तरत इत्यादि । अन्ये मातुरेवोत्तरतोऽनुज्येष्ठं संवेशनमिच्छन्ति । सर्वे प्राक्शिरसः उदङ्मुखाः मन्त्रविदश्च मन्त्रान् जपेयुः । अनन्तरवचनं संश्लेषार्थम् ॥१०॥
सुदर्शनः
दक्षिणतः पितोत्तरा मातेति दक्षिणोत्तरत्वमन्योन्यापेक्षम् । अवशिष्टानां पुत्रादीनां मध्ये यो यो ज्येष्ठः पुत्रो दुहिता वा स स दक्षिणोऽनन्तरश्च, यो यः कनीयान् स स उत्तरोऽनन्तरश्च ; एवमित्यतिदेशात् । एतदुक्तं भवति– यस्सर्वज्येष्ठस्स मातुरुत्तरोऽनन्तरः, यो द्वितीयो ज्येष्ठस्स सर्वज्येष्ठस्य उत्तरोऽनन्तर इत्यादि । केचित्—सर्वज्येष्ठः पितुर्दक्षिणस्तदनन्तरज्येष्ठो मातुरुत्तर इत्यादीति ॥१०॥
मूलम् ...{Loading}...
दक्षिणतः पितोत्तरा मातैवमवशिष्टानां ज्येष्ठो ज्येष्ठोऽनन्तरः ।
१९ ११ सँहायोत्तराभ्याम्
१९ ११ सँहायोत्तराभ्याम् ...{Loading}...
+++(किञ्चित्सुप्त्वा)+++ सं-हाय
उत्तराभ्यां +++(“स्योना पृथिवि” “बडित्थे"त्येताभ्यां)+++ पृथिवीमभिमृशन्ति ११
०८ स्योना पृथिवि ...{Loading}...
१५ स्योना पृथिवि ...{Loading}...
+++(अभिमृशति)+++
स्यो॒ना+++(=सुखरूपा)+++ पृ॑थिवि॒ भवा॑+
ऽनृक्ष॒रा+++(=कण्टकादिरहिता)+++ नि॒वेश॑नी ।
यच्छा॑ न॒श् शर्म॑ स॒प्रथाः॑+++(=सकीर्तिः)+++ ।
०९ बडित्था पर्वतानाङ्खिद्रम्बिभर्षि ...{Loading}...
बड् इ॒त्था+++(त्थं)+++ पर्व॑तानाङ्+++(→मेघानाम्)+++
खि॒द्रम्+++(=छिद्रं →छेदनम्)+++ बि॑भर्षि पृथिवि ।
प्र या भू॑मि प्रवत्वति+++(=प्रवणवति)+++
म॒ह्ना+++(=महिम्ना)+++ +++(देवादीन्)+++ जि॒नोषि॑+++(=तर्पयसि)+++ म॒हि॒नि॒+++(=महति)+++ ।+++(र४)+++
+++(अत्र देवप्रीत्या वृष्टिरिति चक्रम् उच्यते।)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- After he has arisen, he touches the earth with the next two (verses, II, 18, 8. 9).
हरदत्तः
एवं संविश्य किञ्चित् सुप्त्वा संहाय सम्पूर्वो जहातिः शयनादुत्थायासने दृष्टः, “कलिश्शयानो भवति संजिहानस्तु द्वापर” इति । (ऐतरेय ब्रा.पं.७)उत्त्थायाचम्योत्तराभ्यां ऋग्भ्यां “स्योना पृथिवि” “बडित्थे"त्येताभ्यां पृथिवीमभिमृशेयुः ॥११॥
सुदर्शनः
संहाय सङ्गता एव शयित्वा, न पुनः पृथक्पृथक् । ततस्स्वस्तरादवरुह्य उत्तराभ्याम् ऋग्भ्यां पृथिवीमभिमृशन्ति। अत्र च मन्त्रोच्चारणयोग्यानामेव, न त्वमन्त्रवतामपि वाचनम् ॥११॥
मूलम् ...{Loading}...
सँहायोत्तराभ्यां पृथिवीमभिमृशन्ति ।
१९ १२ एवं संवेशनादि
१९ १२ एवं संवेशनादि ...{Loading}...
एवं संवेशनादि त्रिः १२
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the same way the lying down, &c., is repeated thrice.
हरदत्तः
एवं संवेशनं संहायाभिमर्शनं च मन्त्रवत् त्रिरावर्तनीयमित्यर्थः । प्रत्यवरोहणं तु सकृदेव । “उदित आदित्ये सौर्याणि स्वस्त्ययनानि च जपित्वाऽन्नं संस्कृत्य ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयित्वा”(आश्व.गृ.४-६-१८.) इत्याश्वलायनः ॥१२॥
सुदर्शनः
एवमेतत्संवेशनादि समन्त्रकमेव त्रिर् आवर्तनीयम् । कथं पुनः उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि (आप.गृ.१-२.) इत्यहः पुण्याहविधाने सति, तद्विरुद्धरात्राविदं कर्तव्यमित्युपदिश्यते ? उच्यते–नैवात्र संवेशेनं विधीयते, येनेदमह्नि पुण्याहे स्यात् । किं तर्हि ? यदेव रागप्राप्तं रात्रौ संवेशनं तदादृत्य मन्त्रा नियमाश्च विधीयन्ते ; यथा रागप्राप्तं भोजनमाश्रित्य उपस्तरणप्राणाग्निहोत्रादयः । यथा वा “पयस्वतीरोषधयः इति पुरा बर्हिष आहर्तोर्जायापती अश्नीतः” (आप.श्रौ.४-२-३.) इत्यादि । तेन रात्रावेवेदं कर्मेत्युपपन्नम् । अन्ते च ब्राह्मणभोजनम्– “शुचीन् मन्त्रवतस्सर्वकृत्येषु भोजयेत्” (आप.ध.२-१५-११) इति वचनात् ॥१२॥ अथेशानबलिर्नाम नित्यः पाकयज्ञो मन्त्राम्नानक्रमप्राप्तो व्याख्यायते तस्य च सामान्यविधिसिद्धोदगयनादिरेव कालः, इह सर्पबलिवत्कालविशेषस्यानुपदेशात् । ततश्च प्रतिसंवत्सरमिदं कर्म नावर्तनीयम् ; सकृत्कृते कृतश्शास्त्रार्थः इति न्यायात् । केचित्— शास्त्रान्तरात् प्रतिसंवत्त्सरमावृत्तिः सकृत्प्रयोगश्च विकल्प्यते । तथा शास्त्रान्तरादेव गवां शान्त्यर्थः पुत्रादिकामार्थश्च प्रयोगः प्रत्येतव्य इति ।
मूलम् ...{Loading}...
एवं संवेशनादि त्रिः ।
-
Comp. the note on Śāṅkhāyana IV, 17, 1. ↩︎