१९ ०६ अनाहिताग्नेराग्रयणम्
१९ ०६ अनाहिताग्नेराग्रयणम् ...{Loading}...
अनाहिताग्नेर्+++(←कर्मधारयो ऽस्तु, सशेषाहिताग्नेश् चापि विवक्षया)+++ आग्रयणम् +++(यथार्तु पर्वणि)+++।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (Now follows) the Āgrayaṇa sacrifice (or partaking of the first-fruits) of one who has not set up the (Śrauta) fires.
हरदत्तः
+++(आग्रयण-शब्दय्)+++ एतिर् अत्र प्राशनार्थः । अग्रे प्रथमं अयनं यत्र तद् आग्रयणम् । अग्रायणम् इति प्राप्ते छान्दसो दीर्घ-व्यत्ययः ।
तत्-कर्म वक्ष्यते—
तत्र अनाहिताग्नि-ग्रहणम् +++(अर्धाधान-क्रमेण)+++ आहिताग्नेर् औपासनवतः श्रौतेनाऽऽग्रयणेन सह समुच्चय-प्रतिषेधार्थम् ।+++(5)+++
तेन पार्वणादिषु समुच्चयो भवति ।+++(5)+++ तत्र स्मार्तस्य करणे ऽभ्युदयः । अकरणे न प्रत्यवायः ।
आग्रयणम् इति नाम्ना श्रौताग्रयणस्य धर्माः प्राप्यन्ते ।+++(5)+++
नानिष्ट्वाग्रयणेनाऽऽहिताग्निर् नवस्याश्नीयाद् इति । (आप.श्रौ.६-२९-२.)
वर्षासु श्यामाकैर् यजेत, शरदि व्रीहिभिः, वसन्ते यवैः, यथुर्तु वेणु-यवैर् इति च ॥६॥
सुदर्शनः
उपदिश्यत इति शेषः ।
अत्राऽनाहिताग्नेर् ग्रहणं “सशेषाधानिनो ऽप्याऽऽहिताग्नेर् नेदं स्मार्तम् आग्रयणं श्रौतेन समुच्चेतव्यम्” इत्य्-अर्थम् । औपासन-होमादेस् तु अग्नि-होत्र-होमादिना समुच्चय एव ।
पिण्डपितृयज्ञो मासिश्राद्धं च आहिताग्न्य्-अनाहिताग्न्योर् उभयोर् अपि समुच्चेतव्ये -
“सोऽयम् एवं-विहित एवानाहिताग्नेर् औपासने” (आप.श्रौ.६-२८.) इति वचनात्,
पितृयज्ञं तु निर्वर्त्य
विप्रश् चन्द्र-क्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं
कुर्यान् मासानु-मासिकम् ॥ (म.स्मृ.३-१२२)
इति मनुवचनाच् च ।
सर्वाधानिनोऽपि मासि-श्राद्धं होम-वर्जं कर्तव्यम् एव ।
उपदेश-मतं तु—
सशेषाधानिनश् चाहिताग्नेः ।
पार्वणयोर् औपासन-होमस्य च निवृत्तिः ; दर्श-पूर्ण-मासाभ्याम् अग्निहोत्रेण च कृतार्थत्वात्, कालैक्येन विरोधाच् चेति ।
आग्रयणम् इति कर्मनामधेयम्, येन कर्मणा अग्रे नवद्रव्यं देवान् प्रापयतीति । यत्-कर्म कृत्वेैव वाग्रयणं प्रथमायनं नवान्न-प्राशन-प्राप्तिर् भवतीति ॥६॥
मूलम् ...{Loading}...
अनाहिताग्नेराग्रयणम् ।
१९ ०७ नवानाँ स्थालीपाकँ
१९ ०७ नवानाँ स्थालीपाकँ ...{Loading}...
नवानां +++(धान्यानां)+++ स्थालीपाकं श्रपयित्वाग्रयणदेवताभ्यः +++(→ इन्द्राग्निभ्यां, विश्वेभ्यो देवेभ्यः, द्यावापृथिवीभ्याम्)+++ स्विष्टकृच्चतुर्थाभ्यो हुत्वा +++(साधारणस्थालीपाकतन्त्रं वर्तते।)+++
तण्डुलानां+++(→पुलाकानां)+++ मुखं पूरयित्वा
गीर्त्वा +++(जलम् पीत्वा)+++ ऽऽचम्य
+ओदन-पिण्डं संवृत्त्य +++(यथा+उत्क्षेपे न विशीर्येत)+++
+उत्तरेण यजुषा+++(प॒र॒मे॒ष्ठ्य् असि॑ पर॒मां मा॒ꣳ॒ श्रियं॑ गमय ।)+++ ऽऽगार-स्तूप उद्विद्धेत्+++(=उद्-विध्येत्)+++ ७
०१ परमेष्ठ्यसि परमाम् ...{Loading}...
+++(अगारस्तूपे स्थितः)+++ प॒र॒मे॒ष्ठ्य् असि॑।
पर॒मां मा॒ꣳ॒ श्रियं॑ गमय ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He prepares a Sthālīpāka of the fresh fruits, sacrifices to the deities of the (Śrauta) Āgrayaṇa sacrifice with (Agni) Sviṣṭakṛt as the fourth, fills his mouth with grains, swallows them, sips water, forms a lump of the boiled (sacrificial) food, and throws it up with the next Yajus (II, 18, 1) to the summit of the house.
हरदत्तः
- नवानां व्रीहीणां यवानां वा औपासने श्रपयित्वा
- प्रतिष्ठितम् अभिघार्याग्निम् उपसमाधाय
- संपरिस्तीय
- तूष्णीं समन्तं परिषिच्य
- दर्वीं संमृज्य
- स्थालीपाकाद् उपघातं चतस्र आहुतीर् जुहोत्य् आग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यः —
- इन्द्राग्निभ्यां स्वाहा । अग्नीन्द्राभ्यामिति वा ।
- ततो विश्वेभ्यो देवेभ्यः, ततो द्यावापृथिवीभ्यां, अग्नये स्विष्टकृत इति ।
- पूर्ववत् परिषेचनम् ।
एतावद् एव कर्म नान्यत् किञ्चित्, प्रापकाभावात् ।
केचित् सर्वं कुर्वन्ति ।+++(5)+++
ततः तण्डुलानां मुखं पूरयति ।
अत्र तण्डुलशब्दः ओदनावयवेषु पुलाकेषु वर्तते ।+++(5)+++
यथा “मेक्षणे तण्डुला” इत्यत्र ।
तेन हविषश् शेषाद् अवदाय पूरणम् ।
अन्ये शुद्धान् एव तण्डुलानिच्छन्ति ।
तान् गीर्त्वा भक्षयित्वाऽऽचम्य तत ओदनपिण्डं संवर्तयति प्रयत्नेन सम्पादयति । यथा स्तूपे उद्विध्यमानो न संशीर्यति तथा संवर्त्य तमगारस्तूपे उद्विध्येत् — उत्तरेण यजुषा “परमेष्ठ्य् असी"त्यनेन ऊर्ध्वं विध्येत्, यथा स्तूपे निपततति । स्तूपः पृष्ठवंशः । विद्धेद् इत्यपपाठः, छान्दसो वा ।
आग्रयण-वचनाद् एव सिद्धे नवानाम् इति वचनम् अनाहिताग्नेर् नवानां स्थालीपाक एव यथा स्यात् - अन्ये कल्पा श्रौतदृष्टा मा भूवन्निति ।
स्विष्टकृच्-चतुर्थ-वचनं सोम-निवृत्य्-अर्थम् ।
तेन+++(←केन??)+++ श्यामाकानां वेणुयवानां चाग्रयणं अनाहिताग्नेर् भवति ॥७॥
सुदर्शनः
नवानां व्रीहीणां यवानां वा सम्बन्धिनां पत्न्य् अवहन्तीत्यादि-विधिना स्थालीपाकम् एव श्रपयित्वा
ऽग्नेर् उपसमाधानाद्य्-अग्नि-मुखान्ते कृते
आग्रयणप्रधान देवताभ्यः श्रौते चोदिताभ्यः स्विष्टकृच्-चतुर्थाभ्यः = स्विष्टकृच्चतुर्थो यासां, ताभ्यो जुहोति ।
तत्र प्रथमम् इन्द्राग्निभ्यां अग्नीन्द्राभ्यां वा स्वाहेति जुहोति ।
ततो विश्वेभ्यो देवेभ्यस् स्वाहेति ।
ततश् च द्यावा-पृथिवीभ्यां स्वाहेति ।
सर्वत्र च स्वेनैवावदानधर्मेण ।
अथ लेपयोर् इत्यादि-तन्त्र-शेष-समाप्तिः ।
ननु— श्रौते “आग्नेयम् अष्टाकपालं निर्वपति पुराणानां व्रीहीणां” इत्य् अग्निः प्रथम- देवता । तत् कथम् इन्द्राग्निभ्याम् अग्नीन्द्राभ्यां वा प्रथमाहुतिः ?
सत्यं; स तु तत्राग्निर् अङ्ग-देवता, न प्रधान-देवता; आग्रयण-देवताभ्य इति च प्रधान-देवतानाम् एव सम्प्रत्ययः ; अन्यथा अतिप्रसङ्गात् ।
अप्रधान्यं चाग्नेः “आग्रयणं भवति हुताद्याय” इत्य् अत्रेन्द्राग्न्य्-आदीनाम् एवोपदेशात्, ऐन्द्राग्नस्य मुख्य-प्रधानत्वे चामावास्या-तन्त्रम् इति तन्त्र-नियमस्योपपत्तेः, “दश हविषां द्वे स्विष्टकृतः” इत्यत्राग्नेययोर् याज्यानुवाक्ययोर् अभावाच्च ।
अत्र च स्विष्टकृच्चतुर्थाभ्य इति वचनं श्रौतवद् इह व्रीह्याग्रयणेन श्यामाकाग्रयणस्य पाक्षिकी समानतन्त्रता मा भूद् इत्य्-एवम्-अर्थम् । तेनानाहितग्नीनां नाना-तन्त्रम् एव ।+++(4)+++
वर्षासु पर्वणि सोमाय श्यामाकाग्रयणं कर्तव्यम्,
द्रव्य-देवता-कालानाम् अनुक्तानाम् अप्याग्रयण-नाम-धेयाद् अवगतानां आकाङ्क्षितानां स्वीकारे विरोधाभावात् ।+++(4)+++
अत एव न्यायाच् छरदि व्रीहीणाम् आग्रयणं, वसन्ते च यवानां पर्वण्य् एव ।
केचित्— स्विष्टकृच्-चतुर्थ-वचनाद् आहिताग्नेः श्यामाकादीनां वेणुयवानां चाग्रयणम् एव न भवतीति । तन्न ; अकृताग्रयणस्य नव-श्यामाकाद्य्-अशनाभ्युपगमे ऽतिप्रसङ्गात्, स्विष्टकृच्-चतुर्थ-वचनस्योक्तार्थत्वाच् च ॥
ततस् तन्त्रशेषे समाप्ते तण्डुलानां मुखम् आस्यं पूरयति ।
तण्डुलाश् चाशृताः, प्रसिद्धत्वात् । शृता इत्यपरे - “ये मेक्षणे तण्डुला” इति दर्शनात् ।
शृत-पक्षे हुतशेषात् प्रतिपत्त्य्-अपेक्षाद् उपादाय मुख-पूरणम् ।
ततो निगीर्य तण्डुलान् आचामति - अपस् सकृत् पिबतीत्यर्थः । कर्माङ्गतया चेदम् आचमन-विधानं, प्रकरणात् ।
शुद्ध्य्-अर्थाचमनम् अपि “आसीनस् त्रिर् आचामेत्” (आप.ध.१-१६-२.) इत्याद्य्-अनेकपदार्थान्वितं शास्त्रान्तर-प्राप्तं कर्तव्यम् एव ।
तत ओदनेन हुत-शेषेण पिण्डं संवर्तयति - यथा उद्विध्यमानो न शीर्यति तथा सुदृढं करोति ।
ततस्तं पिण्डमुत्तरेण यजुषा “परमेष्ठ्यसि” इत्यनेन उद्विद्धेत् ऊर्ध्वं विक्षिपेत् ।
यथागारस्तूपे पृष्ठवंशे पतति तथा विद्धेत् । यकार-लोपश् छान्दसः ॥७॥
मूलम् ...{Loading}...
नवानाँ स्थालीपाकँ श्रपयित्वाऽऽग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यो हुत्वा तण्डुलानां मुखं पूरयित्वा गीर्त्वाचम्यौदनपिण्डँ संवृत्त्योत्तरेण यजुषागारस्तूप उद्विद्धेत् ।