१८ ०५ श्रावण्याम्
१८ ०५ श्रावण्याम् ...{Loading}...
श्रावण्यां पौर्णमास्याम् अस्तमिते स्थालीपाकः ५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 On the day of the full moon of (the month) Śrāvaṇa after sunset a Sthālīpāka (is offered).
हरदत्त-प्रस्तावः
अथ सर्पबलेर्यस्मिन् काले येन विधिनोपक्रमस्तमाह—
हरदत्तः
अथ सर्पबलिर् नाम कर्म नित्यं संवत्सरे संवत्सरे कर्तव्यम् उपदिश्यते। तस्य श्रावण्यां पौर्णमास्याम् आरम्भः मार्गशीर्ष्याम् उत्सर्गः । तस्योपक्रमे - श्रावण्यां पौर्णमास्यां अस्तमिते आदित्ये स्थालीपाको भवति ।
असत्य् अपि नक्षत्रयोगे श्रावणस्य मासस्य पौर्णमासी श्रावणीत्य् उच्यते लक्षणया । तत्र श्लोकौ—
मेषादिस्थे सवितरि यो यो दर्शः प्रवर्तते ।
चान्द्रमासास् तद् अन्ताश् च चैत्राद् या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मृता ।
कादाचित्केन योगेन नक्षत्रस्येति निर्णयः ॥
इति ॥
तत्र सायम् आहुतिं हुत्वा स्थाली-पाक-कर्म प्रतिपद्यते - पार्वणेनातोऽन्यानीत्युक्तं, पौर्णमास्यां पौर्णमासीति च । श्रावण्यै पौर्णमास्यै सङ्कल्पितान् व्रीहिन् यवान् वा निरुप्य प्रतिष्ठिताभिधारणान्तं कृत्वाग्नेरुपसमाधानादि द्वन्द्वं न्यञ्चि पात्राणि किंशुक-पुष्पैर् आरग्वध-मय-समिद्भिश् च सह ॥५॥
सुदर्शनः
श्रवणेन नक्षत्रेण युक्ता पौर्णमासी श्रावणी । +++(श्रवणेन नक्षत्रेण)+++ अयुक्तापीह +++(पौर्णमासी)+++ विवक्षिता, नित्यत्वात् सर्पबलेः । श्रावणमासस्य पौर्णमासीत्यर्थः । न तु श्रावणमासस्य श्रवणनक्षत्रम्, श्रवणस्य पौर्णमासी-विशेषणार्थत्वात्, “पौर्णमास्यां” (आप.प.२-२०.) इति वचनाच् च । अथ चान्द्रमसमासानां चैत्रादीनां, पौर्णमासीनां च चैत्र्यादीनां निर्णयार्थौ श्लोकौ—
“मेषादिस्थे सवितरि ये ये दर्शः प्रवर्तते ।
चान्द्रा मासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मता ।
कादाचित्केन योगेन नक्षत्रस्येति निर्णयः” ॥
इति ।
तस्यां श्रावण्यां पौर्णमास्यां, अस्तमिते आदित्ये, सायं होमान्ते “पत्न्यवहन्ति” (आप.गृ.७-२.) इति विधिना प्रतिष्ठिताभिघारणान्तस् स्थालीपाकः कर्तव्यः ॥५॥
मूलम् ...{Loading}...
श्रावण्यां पौर्णमास्यामस्तमिते स्थालीपाकः ।
१८ ०६ पार्वणवदाज्यभागान्ते
१८ ०६ पार्वणवदाज्यभागान्ते ...{Loading}...
पार्वणवद् आज्यभागान्ते स्थालीपाकाद् +धुत्वा
ऽञ्जलिनोत्तरैः प्रतिमन्त्रं +++(३)+++ किंशुकानि जुहोति ६
१३-१५ जग्धो मशको ...{Loading}...
ज॒ग्धो मश॑को, ज॒ग्धा वितृ॑ष्टिर्, ज॒ग्धो व्य॑द्ध्व॒रः स्वाहा॑ ।
ज॒ग्धो व्य॑द्ध्व॒रो, ज॒ग्धो मश॑को, ज॒ग्धा वितृ॑ष्टि॒स् स्वाहा॑ ।
ज॒ग्धा वितृ॑ष्टिर्, ज॒ग्धो व्य॑द्ध्व॒रो, ज॒ग्धो मश॑क॒स् स्वाहा॑ ॥ +++(र५ विन्यासे ऽत्र सर्पाकृतिः)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 After the ceremonies down to the Ājyabhāga oblations have been performed in the same way as at the fortnightly sacrifices, he sacrifices of the Sthālīpāka, and with each of the next (formulas, II, 16, 15-17) he offers with his joined hands Kiṃśuka flowers.
हरदत्तः
सर्वं पार्वणवदित्त्युच्यते– स्थालीपाकादेव पार्वणवज् जुहोति, न किंशुकानीति । तेन तेष्व् अवदानकल्पो न भवति । स्विष्टकृतश् चावदानं तेभ्यो न भवति ।
किंशुकैः समिधो व्याख्याताः ।
आज्यभागान्तवचनं तन्त्रप्राप्त्यर्थम् ।
श्रावण्यै पौर्णमास्यै स्वाहेति स्थालीपाकाद्धोमः ।
उत्तरैर्मन्त्रैः “जग्धो मशक” इत्यादिभिस्त्रिभिः । किंशुकानि । पलाशपुष्पाणि । पलाशानां कण्टकिनां पुष्पाणीत्यन्ये ।
प्रतिमन्त्रम् इत्त्य् उच्यते प्रतिमन्त्रं किंशुकानां बहुत्वं यथा स्याद् इति । अन्यथा एकैकस्य किंशुकस्य होमः प्राप्नोति, यथा समिधाम् ॥६॥
सुदर्शनः
ततः पार्वणवद् अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते अग्निम-ुखान्त इत्यर्थः ; सर्वेष्व् औषध-हविष्केषु तन्त्रवत्सु कर्मसु अग्नि-मुखस्य विहितत्वात् ।
स्थालीपाकाद् विधिवद् अवदाय “श्रावण्यै पौणमास्यै स्वाहा” इति हुत्वा “जग्धो मशकः” इत्य्-आदिभिस् त्रिभिः उत्तरैः प्रतिमन्त्रं किंशुकानि पलाशस्य पुष्पाणि जुहोति । केचित्— पलाशसदृशस्य कण्टकिनः पुष्पाणीति ॥ एतानि च वसन्त एव सङ्गृहीतव्यानि ।
अत्र चाञ्जलेस् संस्कारः उपस्तरणादिर् अवदानधर्मः, किंशुक-शेषादपि स्विष्टकृते समवदानम् । अञ्जलेरपि दर्व्या सह लेपाञ्जनं च भवत्य् एव; मुख्येन धर्मप्रवृत्तेर् उक्तत्वात् । विप्रतिषिद्धं त्व् अन्यः कुर्यात् ।
केचित्— अञ्जलिहोमा लाजहोमवद् यावद्-उक्त-धर्माण एवेति ॥६॥
मूलम् ...{Loading}...
पार्वणवदाज्यभागान्ते स्थालीपाकाद्धुत्वाञ्जलिनोत्तरैः प्रतिमन्त्रं किंशुकानि जुहोति ।
१८ ०७ उत्तराभिस्तिसृभिरारग्वधमय्यस्समिधः
१८ ०७ उत्तराभिस्तिसृभिरारग्वधमय्यस्समिधः ...{Loading}...
उत्तराभिस् तिसृभिर् आरग्वध-मय्यस् समिधः ७
०१ इन्द्र जहि ...{Loading}...
इन्द्र॑ जहि दन्द॒शूकं॑
प॒क्षिणं॒ यस् स॑रीसृ॒पः ।
दं॒क्ष्यन्त॑ञ् च द॒शन्त॑ञ् च॒
सर्वा॒ꣳ॒स् तान् इ॑न्द्र जंभय॒+++(=स्तम्भय)+++ स्वाहा॑ ।
०२ अप्सुजात सरेवृद्ध ...{Loading}...
अ॒प्सु जा॑त॒ सरे॑ वृद्ध
दे॒वाना॒म् अपि॑ हस्त्य ।
त्वम् अ॑ग्न इन्द्र॒-प्रेषि॑त॒स्
स नो॒ मा हिꣳ॑सीः॒ स्वाहा॑ ।
०३ त्राणमसि परित्राणमसि ...{Loading}...
त्राण॑म् असि।
प॒रि॒त्राण॑म् असि।
प॒रि॒धिर् अ॑सि ।
अन्ने॑न मनु॒ष्याꣳ॑स् त्रायसे॒, तृणैः॑ प॒शून्, ग॒र्तेन॑ स॒र्पान्, य॒ज्ञेन॑ दे॒वान्त् स्व॒धया॑ पि॒तॄन्त् स्वाहा॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next (three) verses (II, 17, 1-3) (he offers) pieces of Āragvadha wood (Cathartocarpus fistula);
हरदत्तः
आरग्वधो राजवृक्षः । यस्य सुवर्णवर्णानि पुष्पाणि अरत्निमात्राणि फलानि । उत्तराभिस्तिसृभिः ऋग्भिः “इन्द्र जहि दन्दशूकम्” इत्यादिभिः । समिध आदधाति जुहोति वा । सर्वथा स्वाहाकारान्ता मन्त्राः ॥७॥
सुदर्शनः
अथोत्तराभिस्तिसृभिः “इन्द्र जहि दन्दशूकं “इत्यादिभिः प्रत्यृचम् । आरग्वधमय्यस्समिधः, आरग्वधविकारास्समिधः । किम् ? जुहोतीति सम्बन्धः । तेनात्र समिधां मान्त्रवर्णिकदेवतोद्देशेन त्यागः कर्तव्य एव ॥७॥
मूलम् ...{Loading}...
उत्तराभिस्तिसृभिरारग्वधमय्यस्समिधः ।
१८ ०८ आज्याहुतीरुत्तराः
१८ ०८ आज्याहुतीरुत्तराः ...{Loading}...
आज्याहुतीर् उत्तराः ८
०४ तत्सत्यं यत्तेऽमावास्यायाञ्च ...{Loading}...
+++(सर्पाधिपते!)+++ तत् स॒त्यं यत् ते॑ ऽमावा॒स्या॑याञ् च पौर्णमा॒स्याञ् च॒ विष॑ब॒लिꣳ हर॑न्ति॒।
सर्व॑ उदर-स॒र्पिणः॑ तत् +++(बलिं)+++ ते॒ प्रेर॑ते॒+++(=प्राप्नुवन्ति)+++, त्वयि॒ संवि॑शन्ति।
त्वयि॑ नस् स॒तस्+++(=आश्रितान्)+++, त्वयि॑ स॒द्भ्यो +++(सर्पेभ्यो)+++, व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
+++(वर्षऋतौ सर्पबाहुल्यम्।)+++
०५ नमो अस्तु ...{Loading}...
नमो॑ अस्तु स॒र्पेभ्यो॑
ये के च पृथि॒वीम् अनु॑।
ये अ॒न्तरि॑क्षे दि॒वि
तेभ्य॑स् स॒र्पेभ्यो॒ नमः॑॥
०६ येऽदो रोचने ...{Loading}...
ये॑ऽदो, रो॑च॒ने दि॒वो,
ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म् अ॒प्सु सदः॑ कृ॒तं
तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
०७ या इषवो ...{Loading}...
या इष॑वो यातु॒धाना॑नां॒
ये वा॒ वन॒स्पती॒ꣳ॒र् अनु॑ ।
ये वा॑ऽव॒टेषु॒+++(→बिलेषु)+++ शेर॑ते॒
तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Then the Ājya oblations (indicated by the) next (Mantras, II, 17, 4-7).
हरदत्तः
उत्तराश् चतस्र आज्याहुतीर् जुहोति तत्सत्यं यत्तेऽमावास्यायां, “नमो अस्तु सर्पेभ्य” इति तिस्रः ॥८॥
सुदर्शनः
उत्तराश् चतस्रः “तत्सत्यं यत्तेऽमावास्यायाम्” इत्येका, “नमो अस्तु सर्पेभ्यः” इति तिस्रश्च ॥८॥
मूलम् ...{Loading}...
आज्याहुतीरुत्तराः ।
१८ ०९ जयादि प्रतिपद्यते
१८ ०९ जयादि प्रतिपद्यते ...{Loading}...
जयादि प्रतिपद्यते ९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Then he enters upon the performance of the Jaya and following oblations.
हरदत्तः
एवमेता एकादश प्रधानाहुतीर्हुत्वा सौविष्टकृतं च स्थालीपाकादेव हुत्वा ततो जयादि प्रतिपद्यते किंशुकप्रभृतीनामप्याहुतीनां प्राधान्यज्ञापनार्थमिदं वचनम् । अन्यथा पौर्णमास्यामस्तमिते स्थालीपाक इति विहितत्वात् पौर्ममास्यां पौर्णमासीति च तस्य देवताभिधानादर्शकर्मकत्वाच्च किंशुकानां प्रधानत्वं न गम्येत । ततश्च पार्वणवदुपहोमान्तं कृत्वा ततः किंशुकादीनां हेमः प्राप्नोति ॥९॥
सुदर्शनः
एतच्च वचनं जयादिप्राप्यर्थम्, स्थालीपाककिंशुकसमिदाज्याहुतीनामेकदशानां प्राधान्यज्ञापनार्थं च । जयाद्यनन्तरं स्विष्टकृदित्युक्तमेव ॥९॥
मूलम् ...{Loading}...
जयादि प्रतिपद्यते।
१८ १० परिषेचनान्तङ् कृत्वा
१८ १० परिषेचनान्तङ् कृत्वा ...{Loading}...
परिषेचनान्तं कृत्वा
बलिनिर्वापः
बलिहरण-सङ्कल्पः
वाग्यतस् संभारान् आदाय प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्य
स्थण्डिलं कल्पयित्वा
तत्र प्राचीर् उदीचीश् च तिस्रस् तिस्रो लेखा लिखित्वा
+++(तासां समीपे )+++ ऽद्भिर् उपनिनीय +++(- सर्वदेवजनेभ्यो ददाति यथापितृभ्यः पिण्डदाने ।)+++
तासूत्तरया सक्तून्+++(=भृष्ठयवादिचूर्णानि)+++ निवपति +++(ताः सर्वा लेखाः यथा बलिर्व्याप्नुयात्)+++ १०
०८ नमो अस्तु ...{Loading}...
नमो॑ अस्तु स॒र्पेभ्यो॒
ये पार्थि॑वा॒ य आ॑न्तरि॒क्ष्या॑ ये दि॒व्या॑ ये दि॒श्याः॑ ।
+++(उपक्रमे)+++ तेभ्य॑ इ॒मं ब॒लिꣳ ह॑रिष्यामि ।
+++(मार्गशीर्ष्यां तु)+++ तेभ्य॑ इ॒मं ब॒लिम् अ॑हार्षम् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having performed (the rites) down to the sprinkling (of water) round (the fire), he silently takes the objects required (for the rites which he is going to perform), goes out in an easterly or northerly direction, prepares a raised surface, draws on it three lines directed towards the east and three towards the north, pours water on the (lines), and lays (an offering of) flour (for the serpents) on them, with the next (formula, II, 17, 8).
हरदत्तः
परिषेचनान्तवचनमानन्तर्यार्थम् । परिषेचनान्ते उपनिष्क्रमणमेव नान्यदिति किं सिद्धं भवति ? तेन सर्पिष्मता ब्राह्मणं भोजयेत्” इत्यादेरुत्कर्षस्सिद्धो भवति । वाग्यतः शब्दमकुर्वन् धानाः लाजाः अञ्जनाभ्यञ्जने स्थगरोशीरम् उदपात्रमिति संभाराः । उपलिप्तो भूमिभागः स्थण्डिलम् । कल्पयित्वेति वचनात् स्वयमेव कल्पनं नान्यैः कल्पितस्य परिग्रहः । तत्रेति वचनात् स्थण्डिलस्य मध्ये बलेरायतनं भवति । श्लोकश्च भवति— प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् । अथोदीचीः पुरस्संस्थं पश्चिमारंभमालिखेत् ॥ अपरे तु प्राचीनानां दक्षिणत आरम्भमिच्छन्ति । ( प्राचीः प्रागायतः एवमउदीचीः उदगायताः क्रमस्य विवक्षितत्वात् । ) प्रथमं प्राचीस्तत उदीचीः । एकं चेदं लेखाकरणं नाम कर्म “पुरस्तादुदग्वोपक्रमस्तथापवर्गः” इत्युक्तम् । तत्रेह प्रागुपक्रमस्यासंभवात् उदगुपक्रमः प्रागपवर्गः । एतेन “यत्र क्वचाग्निम्” इति एतल्लेखारणं व्याख्यातम् । एवं लेखा लिखित्वाऽद्भिरुपनिनयति तासां समीपे अपो निनयति सर्वदेवजनेभ्यो ददाति यथा पितृभ्यः पिण्डदाने । ततस्तासु लेखासु उत्तरयर्चा “नमोऽस्तु सर्पेभ्यो ये पार्थिवा” इत्येतया सक्तून्निवपति हस्तेन दर्व्या वा, आश्वलायनके दर्शनात् । तास्विति वचनं ताः सर्वा लेखाः यथा बलिर्व्याप्नुयादित्येवमर्थम् ॥१०॥
सुदर्शनः
अथ तन्त्रशेषं समाप्य, सम्भारान् उत्तरत्रोपयोक्ष्यमाणान् सक्त्वादीनादाय, वाग्यतः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य, स्थणडिलं पीठं कल्पयित्वा तत्र पीठे दक्षिणस्या आरभ्य प्राचीस्तिस्रः, प्रतीच्या आरभ्य उदीचीस्तिस्रश्च रेखा लिखित्वाद्भिरुपनिनीय तासु षट्सु लेखासु लेखनक्रमेणोत्तरया “नमो अस्तु सर्पेभ्यो ये पार्थिवाः” इत्यादिकया “बलिं हरिष्यामि” इत्यन्तया सक्तून्निन्निवपति । सकृदेव मन्त्रः । न च स्वाहाकारः ; अजुहोति चेदितत्वात्, नमस्कारस्यापि प्रदानार्थतत्वादित्युक्तत्वाच्च । केचित्— सर्वासु रेखासु यथा युगपत्प्राप्नुयाद्बलिः तथा निवपति ॥१०॥
मूलम् ...{Loading}...
परिषेचनान्तं कृत्वा वाग्यतस्सम्भारानादाय प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य स्थण्डिलं कल्पयित्वा तत्र प्राचीरुदीचीश्च तिस्रस्तिस्रो लेखा लिखित्वाऽद्भिरुपनिनीय तासूत्तरया सक्तून्निवपति ।
१८ ११ तूष्णीं सम्पुष्का
१८ ११ तूष्णीं सम्पुष्का ...{Loading}...
तूष्णीं सम्पुष्का+++(=अक्षता)+++ धाना, लाजान्, आञ्जनाभ्यञ्जने, स्थगर+++(=गन्धविशेषः - betel?)+++ +उशीरम् +++(=Vettiver grass)+++ इति +++(६ द्रव्याणि)+++११
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Silently (he lays down) unground (?) grain, roasted grain, collyrium, ointment, (the fragrant substance called) Sthagara, and Uśīra root.
हरदत्तः
संपुष्का अक्षता अखण्डितैस् तण्डुलैः कृताः
स्थगरञ् चोशीरञ् च गन्धद्रव्ये
एतानि षड् द्रव्याणि तासु निवपति ।
इति शब्दः समुच्चयार्थः ।
तेन सर्वत्र पूर्वेण मन्त्रेणैव निवपने प्राप्ते तूष्णीमिति मन्त्रप्रतिषेधः ॥११॥
सुदर्शनः
सम्पुष्काः सम्पुष्टा इति धानाविशेषणं अखण्डिततण्डुलैः कृता धाना इत्यर्थः । स्थगरम् आपणस्थं गन्धगद्रव्यम् । अन्यानि प्रसिद्धानि । इतिशब्दस् समुच्चयार्थः ।
एतानि षट् द्रव्याणि तूष्णीं रेखास्व् एव निवपति ॥११॥
मूलम् ...{Loading}...
तूष्णीं सम्पुष्का धाना लाजानाञ्जनाभ्यञ्जने स्थगरोशीरमिति ।
१८ १२ उत्तरैरुपस्थायापः
१८ १२ उत्तरैरुपस्थायापः ...{Loading}...
उत्तरैर् उपस्थायापः परिषिच्याप्रतीक्षस् +++(→ पृष्ठतो ऽप्रतीक्षमाणस्)+++ तूष्णीम् एत्य
“अपश्वेत पदेत्याभ्याम्” उद-कुम्भेन त्रिः प्रदक्षिणम् अन्तरतोऽगारं निवेशनं वा परिषिच्य
प्रत्येत्य गृहपरिषेचनमन्त्रौ
उपस्थानमन्त्राः
०९-१० तक्षक वैशालेय ...{Loading}...
तक्ष॑क॒, वैशा॑लेय- धृ॒तरा॑ष्ट्रैरावतस् ते जी॑वा॒स्,
त्वयि॑ नस् स॒तस्, त्वयि॑ स॒द्भ्यो +++(सर्पेभ्यो)+++, व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
धृ॒तरा॑ष्ट्रैरावत॒ तक्ष॑कस् ते वै॑शाले॒यो जी॑वा॒स् …।
+++(स्वरः शोधितः।)+++
११ -१२ अहिंसातिबलस्ते जीवास्त्वयि ...{Loading}...
अहि॑ꣳसातिब॒लस्ते जी॑वा॒स् …।
अति॑बलाहि॒ꣳ॒सस्ते जी॑वा॒स् …।
+++(व्यस्तप्रयोगे सम्बोधन इह स्वरव्यत्ययः।)+++
१३ ये दन्दशूकाः ...{Loading}...
ये द॑न्द॒शूकाः॒ पार्थि॑वा॒स्- ताꣳस् त्वम् इ॒तः प॒रो गव्यू॑तिं॒ निवे॑शय ।
सन्ति॒ वै न॑श् श॒फिन॒स्, सन्ति॑ द॒ण्डिन॒स्, ते वो॒ नेद् +धि॒नसा॒न्, न्येद् यू॒यम् अ॒स्मान् हि॒नसा॑त ।
+++(प्रतिदिशम् मन्त्राः।)+++
१४ समीची नामासि ...{Loading}...
स॒मीची॒ नामा॑सि॒ प्राची॒ दिक्। तस्या॑स् ते॒ ऽग्निर् अधि॑पतिर्, असि॒तो र॑क्षि॒ता।
यश् चाधि॑पति॒र् ...{Loading}...
यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।
१५ -१९ ओजस्विनी नामासि ...{Loading}...
मन्त्रः
ओ॒ज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्।
तस्या॑स् त॒ इन्द्रोऽधि॑पतिः, पृदा॑कू र॑क्षि॒ता
यश् चाधि॑पति॒र् ...{Loading}...
यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।
प्राची॒ नामा॑सि प्र॒तीची॒ दिक्।
तस्या॑स् ते॒ सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ता
यश् चाधि॑पति॒र् ...{Loading}...
यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।
अ॒व॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्।
तस्या॑स् ते॒ वरु॑णोऽधि॑पतिस् ति॒रश्च॑राजी र॑क्षि॒ता
यश् चाधि॑पति॒र् ...{Loading}...
यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।
अधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्।
तस्या॑स् ते॒ बृह॒स्पति॒र् अधि॑पतिः श्वि॒त्रो र॑क्षि॒ता
यश् चाधि॑पति॒र् ...{Loading}...
यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।
व॒शिनी॒ नामा॑सी॒यं दिक्।
तस्या॑स् ते॒ य॒मो ऽधि॑पतिः क॒ल्माष॑-ग्रीवो र॑क्षि॒ता
यश् चाधि॑पति॒र् ...{Loading}...
यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।
२० -२५ हेतयो नामस्थ ...{Loading}...
हे॒तयो॒ नाम॑ स्थ॒, तेषां॑ वः पु॒रो गृ॒हा, अ॒ग्निर् व॒ इष॑वः, सलि॒लो वा॑त-ना॒मम्।
+++(वाताशिनो हि सर्पाः। तस्य वातस्य नमयिता = उपस्थापयिता। नपुंसकलिङ्गं सामान्यविवक्षायाः।)+++
Tebhyo vo nama H ...{Loading}...
तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।
ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः
ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि ॥
Keith
him whom we hate and him who hateth us, I place him within your jaws.
मूलम्
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि
सायण-टीका
ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।
नि॒लि॒म्पा नाम॑ स्थ॒, तेषां॑ वो दक्षि॒णा गृ॒हा, पि॒तरो॑ व॒ इष॑वः॒, सग॑रो वात-ना॒मम्।
Tebhyo vo nama H ...{Loading}...
तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।
ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः
ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि ॥
Keith
him whom we hate and him who hateth us, I place him within your jaws.
मूलम्
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि
सायण-टीका
ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।
व॒ज्रिणो॒ नाम॑ स्थ॒, तेषां॑ वः प॒श्चाद् गृ॒हा, स्वप्नो॑ व॒ इष॑वो॒, गह्व॑रो वात-ना॒मम्।
Tebhyo vo nama H ...{Loading}...
तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।
ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः
ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि ॥
Keith
him whom we hate and him who hateth us, I place him within your jaws.
मूलम्
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि
सायण-टीका
ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।
अ॒वस्थावा॑नो॒ नाम॑ स्थ॒, तेषां॑ व उत्त॒रद् गृ॒हा, आपो॑ व॒ इषवः॒, समु॒द्रो वा॑तना॒मम्।
Tebhyo vo nama H ...{Loading}...
तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।
ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः
ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि ॥
Keith
him whom we hate and him who hateth us, I place him within your jaws.
मूलम्
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि
सायण-टीका
ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।
अधि॑पतयो॒ नाम॑ स्थ॒, तेषां॑ व उ॒परि॑ गृ॒हा, व॒र्षं व॒ इष॒वो, ऽव॑स्वान् वात-ना॒मम्।
Tebhyo vo nama H ...{Loading}...
तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।
ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः
ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि ॥
Keith
him whom we hate and him who hateth us, I place him within your jaws.
मूलम्
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि
सायण-टीका
ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।
क्र॒व्या नाम॑ स्थ॒ पार्थि॑वास्, तेषां॑ व इ॒ह गृ॒हा, अन्नं॑ व॒ इष॑वो, निमि॒षो वा॑तना॒मम्।
Tebhyo vo nama H ...{Loading}...
तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।
ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः
ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि ॥
Keith
him whom we hate and him who hateth us, I place him within your jaws.
मूलम्
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि
सायण-टीका
ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।
२६ अपश्वेतपदा जहि ...{Loading}...
अप॑ श्वेत +++(सर्पाधिपते)+++ प॒दा+++(वि३)+++ ज॑हि॒+++(→हन)+++
पूर्वे॑ण॒ चाप॑रेण च ।
स॒प्त च॒ मानु॑षीर् इ॒मास् +++(सर्पजातीः- ब्राह्मणानां तिस्रः वैश्यानां द्वे, शूद्राणां च द्वे)+++
ति॒स्रश्च॑ रा॒जब॑न्धवीः ।
२७ न वै ...{Loading}...
न वै श्वे॒तस्या॑ऽध्याचा॒रे+++(=आधिपत्ये)+++
ऽहि॑र् ज॒घान॒ कञ्च॒न ।
श्वे॒ताय॑ वैद॒र्वाय॒+++(=विदर्बपुत्राय)+++ नमो॒
नमः॑ श्वे॒ताय॑ वैद॒र्वाय॑ ॥ (17)
+++(युग्मान्)+++ ब्राह्मणान् भोजयेत् +++(स्थालीपाक-शेषादिभिः सर्पिष्मद्भिः। उपनयनवद् भुक्तवद्भिर् आशीर्-वचनम्।)+++ १२
सर्वाष् टीकाः ...{Loading}...
Oldenberg
With the next (formulas, II, 17, 9-26) he should worship (the serpents), should sprinkle water round (the oblations), should return (to his house) silently without looking back, should sprinkle (water) with a water-pot from left to right, thrice around the house or the resting-place on the inside, with the two verses, ‘Beat away O white one, with thy foot’ (II, 17, 27. 28), and should offer food to the Brāhmaṇas.
हरदत्तः
एवमेवैतं बलिं सप्तभिर्द्रव्यैर्दत्वा ततस्तां बलिदेवतामुपतिष्ठते । उत्तरैर्मन्त्रैः “तक्षक वेशालेये"त्यादिभिः अष्टादशभिः । तेभ्य इमं बलिमहार्षमिति पूर्वस्या एवोत्तरस्य पादस्य सन्नामः न मन्त्रान्तरम् । वक्ष्यति च “बलिमन्त्रस्य सन्नामः” इति । एवमुपस्थाय अपः परिषिञ्चति सर्वतस्सिञ्चति । न्युप्तस्य बलेः प्रकृतत्वात् । ततोऽप्रतीक्षः पृष्ठतः अप्रतीक्षमाणस्तूष्णीं वाग्यतः प्रत्येति । प्रत्येत्य “अपश्वेत पदा” इत्येताभ्यां ऋग्भ्यां उदकुंभेन अन्तरतोऽगारं निवेशनं वा परिषिच्य ब्रह्मणान् युग्मान् भोजयेत् स्थालीपाकशेषादिभिः ॥१२॥
इति श्रीहरदत्तविरचितायां गृह्यवृत्तावनाकुलायामष्टादशः खण्डः ॥१७॥
सुदर्शनः
अथ उत्तरैर् मन्त्रैः “तक्षक वेशालेय” इत्यादिभिरष्टादशभिः मान्त्रवर्णिकीं बलिदेवतामुपतिष्ठते । तत्र च “ओजस्विनी नामासि” इत्यादिषु चतुर्षु पर्यायेषु दशभ्यः पदेभ्य ऊर्ध्वं “रक्षिता यश्चाधिपतिः” इत्यादेरनुषङ्गः । तथा “हेतयो नाम स्थ” इत्यादिष्वपि पञ्चस्वेकादशभ्य उर्ध्वं” वातनामं तेभ्यो वो नमः” इति तत्पूर्वस्या एव बलिहरणार्थाया ऋचः उत्तरभागस्योत्सर्जनार्थः सन्नामः । वक्ष्यति हि तत्र “अहार्षमिति बलिमन्त्रस्य सन्नामः” (आप.गृ.१८-४.) इति । अथ न्युप्तं बलिमद्भिः परिषिच्य तमप्रतीक्षमाणः तूष्णीं वाग्यतो गृहान्प्रत्येत्य “अप श्वेत पदा” इत्येताभ्यामित्यादि यथासूत्रं करोति । तत्रापि ब्राह्मणभोजनवचनं क्रमार्थम् । उपनयनवद्भुक्तवद्भिराशीर्वचनम् ॥१२॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने अष्टादशः खण्डः ॥
मूलम् ...{Loading}...
उत्तरैरुपस्थायापः परिषिच्याप्रतीक्षस्तूष्णीमेत्या “पश्वेत पदे"त्येताभ्यामुदकुम्भेन त्रिःप्रदक्षिणमन्तरतोऽगारं निवेशनं वा परिषिच्य ब्राह्मणान् भोजयेत् ।
१९ ०१ धानाः कुमारान्
१९ ०१ धानाः कुमारान् ...{Loading}...
धानाः कुमारान् प्राशयन्ति १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The unground grain (which is left over, see above, VII, 18, 11) they give to the boys to eat.
हरदत्तः
बलिहरणशिष्टाः धानाः कुमारान् प्राशयन्ति ये प्राशने समर्थाः । कुमारीणाम् अपि प्राशनमेकशेषनिर्देशात् ॥ १ ॥
सुदर्शनः
धानाः या बलिहरणशिष्टाः कुमारान् प्राशयन्ति । के? शिष्टास् सामर्थ्यात् ॥१॥
मूलम् ...{Loading}...
धानाः कुमारान् प्राशयन्ति।
१९ ०२ एवम् अत
१९ ०२ एवम् अत ...{Loading}...
एवम् अत ऊर्ध्वं यद् अशनीयस्य सक्तूनां वैतं बलिं हरेद् आमार्गशीर्ष्याः २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Let him repeat in the same way this Bali-offering of whatever food he has got or of flour, from that day to full moon of (the month) Mārgaśīrṣa.
हरदत्तः
यद् इदं बलिहरणं वाग्यतस् संभारान् आदायेत्याद्य् अप्रतीक्षमाणस् तूष्णीम् इत्येतदन्तं (आप.गृ.१८-१०-१२.) तद् अस्मात् कर्मण ऊर्ध्वम् आमार्गशीर्ष्याः पर्वणश् चतुर्षु मासेषु यद् अशनीयस्यान्न-विशेषस्य सक्तूनां वा ऽहरहः कर्तव्यम् । यद् यद् अन्नम् अशनार्थं गृहे क्रियते तदशनीयम् ।
अगार-परिष्टनादिस्तु स्थालीपाकस्यैव शेषः, न बलेः ।
तेनैतदिह विधीयते । यद्यप्याञ्जनादीन्यलङ्करणार्थनि नाभ्यवहार्याणि तथापि “तासूत्तरया सक्तून् निवपति । तूष्णीं संपुष्काः धाना” इत्यादि सर्वेषां तुल्या चोदना । मन्त्रे च तुल्यवदभिधानं तेभ्य इमं बलिं हरिष्यामि इति । तस्मात् सप्तापि बलिद्रव्याणि । तेषां सर्वेषामयं प्रत्याम्नायो नादितस्त्रयाणामेव । अपां तु न भवति, चोदनाभेदात् । उपनिनीय परिषिच्येति । एवंशब्दः कालविधानार्थः । यथात्रास्तमिते बलिहरणं, एवमत ऊर्ध्वमप्यस्तमिते कर्तव्यमिति । एतंशब्दस्तु धर्मविधानार्थः । एतं बलिम् एवंधर्मकमिति । नचान्यतरेणैवोभयसिद्धिः । यदि ह्येवंशब्द उभयार्थस्स्यात् रात्रौ पार्वणः प्राप्नोति । कथम्? रात्रावाग्नेयस्थालीपाक उत्पन्नः एवमत ऊर्ध्वमिति पार्वणः । तथा यद्येतच्छब्द उभयार्थस्स्यात् “परिसंवत्सरादुपतिष्ठद्भ्यः एतत्कार्यम्"इति रात्रावपचितिः प्राप्नोति; समावर्तने रात्रावुत्पन्नत्वादपचितेः । तस्मादुभयार्थमुभयं वक्तयम् । एवं तावत् रात्रौ सकृद्बलिहरणमिति । अपर आह– उभयोः कालयोः बलिहरणमिति । कथम्? यदशनीयस्येति वचनात् यद्यदशनार्थं यदा क्रियते तस्य तस्य तदा कर्तव्यमिति हि तस्यार्थः । द्वयोश्च कालयोरशनम्; कालयोर्भोजनमिति वचनात् । ततश्च यदा गृहमेधिनो यदशनीयस्य होमा बलयश्चेत्त्युत्पन्नस्य वैश्वदेवस्य द्वयोः कालयोः प्रवृत्तिः एवमस्यापि । स्पष्टञ्चैतदाश्वलायनके– “सर्पदेवजेनभ्यस्स्वाहेति सायं प्रातर्बलिं हरेदा प्रत्यवरोहणात् (आश्व.२-१-१४.) इति । अस्मिन् पक्ष एवंशब्द उत्तरार्थः । अत ऊर्ध्वमितिवचनमस्मिन् प्रथमे बलिहरणे द्रव्यविकल्पो मा विज्ञायीति । आमार्गशीर्ष्या इति बलिहरणस्यावसानकालोपदेशः । यद्येवं नार्थ एतेन । अत्रैनमुत्सृजतीति (आप.गृ.१९-५.) वक्ष्यति । प्रयोजनमस्य तत्रैव वक्ष्यामः ॥२॥
सुदर्शनः
अत ऊर्ध्वं अस्माच् छ्रावण्यां कृतात् कर्मण ऊर्ध्वम् । आमार्गशीर्ष्याः यावन् मार्गशीर्षी यावद् उत्सर्जनं तावद् इत्यर्थः । एतम् अनन्तर-चोदितं सक्तूनां सम्बन्धिनं बलिम् । एवं “सम्भारानादाय वाग्यतः प्राचीमुदीचीं वा” इत्यादि “अप्रतीक्षस्तूष्णीमेत्य” (आप.गृ.१८-१०…१२) इत्येवमन्तेतिकर्तव्यताकम् अहर् अहः सायङ्काले बलिं हरेत् । यदशनीयस्य वा सम्बन्धिनमिति वाशब्दस्य व्यवहितेन सम्बन्धः, यदशनीयस्येत्यस्य पदस्य धानादीनां निवृत्त्यर्थत्वात् । अगारपरिषेचनादिकं तु स्थालीपाकस्यैव शेषो न बलिहरणस्य, भिन्नदेशत्वात् ।
केचित्— उभयोः कालयोर्बलिहरणम्, यदशनीयस्येति वचनात्, वैश्वदेववत् अशनस्य च “कालयोर्भोजनम्” (आप.ध.२-१-२) इति वचनेनोभयकालिकत्वात्, “सायं प्रातर्बलिं हरेदा प्रत्यवरोहणात्” (आश्व.२-१-१४.) इत्याश्वलायनवचनाच्च । तथा एतमितिशब्दस्यैव अपेक्षितकृत्स्नधर्मप्रापकत्वात् एवमिति शब्द उत्तरसूत्रार्थ इति । तन्न; समभिव्याहृतसकलपदानां सम्भूयैकार्थप्रत्ययविरोधात् ॥२॥
मूलम् ...{Loading}...
एवम् अत ऊर्ध्वं यदशनीयस्य सक्तूनां वैतं बलिं हरेदामार्गशीर्ष्याः।
१९ ०३ मार्गशीर्ष्याम्
१९ ०३ मार्गशीर्ष्याम् ...{Loading}...
मार्गशीर्ष्यां पौर्णमास्याम् अस्तमिते स्थालीपाकः +++(उपक्रमवत्)+++ ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- On the day of the full moon of Mārgaśīrṣa after sunset a Sthālīpāka (is offered as above, VII, 18, 5).
हरदत्तः
श्रावण्यां पौर्णमास्याम् इत्यनेनैतत् व्याख्यातम् । एवं शब्दश् चात्रानुवर्तते । यथेदं श्रावण्यां कर्म कृतम् एवं मार्गशीर्ष्याम् अपीति । तेन “पार्वणवद् आज्यभागान्त” इत्यादेः धानाः कुमारान् प्राशयन्ती"त्यन्तस्य कृत्स्नस्य कल्पस्यात्र प्रवृत्तिः । एतावन्नाना “मार्गशीर्ष्यै पौर्णमास्यै स्वाहेति स्थालीपाकस्य होमः ।
श्रावण्यां पौर्णमास्याम् इति प्रकृते पुनः पौर्णमास्याम् इत्युच्यते ज्ञापनार्थम् तत् पौर्णमासीग्रहणम् अस्मिन् प्रकरणे नानुवर्तते इति । तेन पूर्वसूत्रे आमार्गशीर्ष्या इति कर्मावधित्वेन न गृह्यते । यत् तत्र चोदितम् अनेन सूत्रेण न कालः । तेन मार्गशीर्ष्यां पौर्णमास्याम् अहनि यद् अशनीयस्य बलिहरणं भवति ।
कालवाचित्वे तु न प्राप्नोति यदि च मर्यादायाम् आकारः । अथ त्वभिविधौ, अस्तमिते ऽपि यद् अशनीयं तस्यैव प्राप्नोति । इष्यते चास्तमिते स्थालीपाककर्मणि सप्तभिर् द्रव्यैर् बलिहरणम् अहनि च यदशनीयस्य । तस्मात् पूर्वत्र कर्मव्यपदेशो यथा स्यात्, कालस्य व्यपदेशो मा भूदिति पौर्णमास्यामिति विशेषणम् । एवञ्च यदशनीयवचनेनोभयोः कालयोर्बलिहरणमिति यदुक्तं तदेव स्थितं भवति । अस्तमित इत्त्युच्यते– अहनि मा भूदिति । एवमित्यस्य धर्मप्रापणे कालविधौ चोभयत्र शक्तिर्नास्तीत्युक्तम् ॥३॥
सुदर्शनः
साकाङ्क्षत्वाद् एवं-शब्दोऽनुवर्तते । यथा श्रावण्यां स्थालीपाकः कृतः, एवं मार्गशीर्ष्याम् अप्य् अस्तमिते कर्तव्यः । “पत्न्य् अवहन्तीत्य्” आदि धाना-प्रशनान्तं कृत्स्नं कर्मानुष्ठेयम् इत्य् अर्थः। स्थालीपाकहोमे तु “मार्गशीर्ष्यै पौर्णमास्यै स्वाहे"ति विशेषः ॥३॥
मूलम् ...{Loading}...
मार्गशीर्ष्यां पौर्णमास्यामस्तमिते स्थालीपाकः।
१९ ०४ अहार्षमिति बलिमन्त्रस्य
१९ ०४ अहार्षमिति बलिमन्त्रस्य ...{Loading}...
“अहार्षम्” इति बलिमन्त्रस्य सन्नामः +++(किंशुकहोमादिकम् अपि कृवा)+++।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the Mantra for the Bali-offering he changes (the word ‘I shall offer’ into) ‘I have offered.’
हरदत्तः
सन्नामः ऊहः—हरिष्यामीत्यस्य स्थाने अहार्षमिति । यद्यप्ययं सन्नामस्तस्मिन्नेव मन्त्रे पठितः तथाप्यसत्यस्मिन् वचने बलिहरणमन्त्रे चतुर्थपादस्य पृथग्विनियोगाभावात् चतुष्पादा सा विज्ञायेत । तस्मात् सन्नामविधिरारभ्यते । त्रिपदैव सा तस्या एव तृतीयस्य पादस्य सन्नामोऽयमुत्तमः पठितः तस्यैव विनियोगकालो न प्रागिति । किञ्च कृत्स्नमेवैतत् कर्म धानाप्राशनान्तं स्थालीपाकशब्देन गृह्यते एतच्च दर्शितं भवति । बलिहरणस्योत्तरसूत्रे प्रयोजनम् ॥४॥
सुदर्शनः
उक्तार्थमेतत् ॥४॥
मूलम् ...{Loading}...
अहार्षमिति बलिमन्त्रस्य सन्नामः ।
१९ ०५ अत्रैनमुत्सृजति
१९ ०५ अत्रैनमुत्सृजति ...{Loading}...
अत्रैनमुत्सृजति ५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Then he does not offer (the Bali) any longer.
हरदत्तः
अत्र मार्गशीर्ष-संज्ञके कर्मण्य् एनं बलिम् उत्सृजति । +++(“एवम् अत” इति सूत्रय्)+++ एवम् इत्य् अनेन वचनेन श्रावणी-विधानस्य कृत्स्नस्यातिदिष्टत्वाद् अस्यापि स्थालीपाकस्य शेषत्वेन बलि-हरण-प्राप्तिः । तत्र श्रावण्याम्-इत्य्-अवधिः कल्पेत । तस्मात् मार्गशीर्ष-शेषस्य अहार्षम् इत्येव विधिः । शिष्टस्य बलेः प्रतिषेधार्थम् इदम् । आमार्गशीर्ष्या इत्य् एतत्तु श्रावण-शेषस्य बलेर् अवसान-विधानार्थम् ॥५॥
सुदर्शनः
अत्र अस्मिन्न् उत्सर्जने कृते, एनम् अहर् अहः क्रियमाणं बलिम् उत्सृजति । न चायम् आत्यन्तिक उत्सर्गः - नित्यत्वेन सर्प-बलेस् संवत्सरे सम्वत्सरे कर्तव्यत्वात् ॥५॥
मूलम् ...{Loading}...
अत्रैनमुत्सृजति ।