१७ ०७ पालाशं शमीमयम्
१७ ०७ पालाशं शमीमयम् ...{Loading}...
पालाशं शमीमयं वेध्मम् +++(पाकाग्वाव्)+++ आदीप्योत्तरयर्चा +++(“उद्ध्रियमाण"इत्येतया पञ्चपादया)+++ ऽग्निम् उद्धृत्य
१२ उद्ध्रियमाण उद्धर ...{Loading}...
उ॒द्ध्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒
यद् अवि॑द्वा॒न् यच् च॑ वि॒द्वाꣳश् च॒कार॑ ।
+++(रात्रौ प्रवेशे)+++ अह्ना॒ यद् एनः॑ कृ॒तम् अ॑स्ति पा॒पꣳ
+++(अहनि प्रवेशे)+++ रात्र्या॒ यद् एनः॑ कृ॒तम् अ॑स्ति पा॒पꣳ
सर्व॑स्मा॒न् मोद्धृ॒तो +++(त्वम्)+++ मु॑ञ्च॒ तस्मा॑त् ।
अगारप्रतिपादनम्
उत्तरेण यजुषा +++(“इन्द्र स्य गृहा वसुमन्तो वरूथिनः”)+++ ऽगारं प्रपाद्य
१३ इन्द्रस्य गृहा ...{Loading}...
इन्द्र॑स्य +++(मम)+++ गृ॒हा वसु॑मन्तो वरू॒थिन॒स्+++(=गृह[+अवयवा])+++ -
तान् अ॒हꣳ सु॒मन॑सः॒ प्रप॑द्ये ।
प्रतिष्ठापनम्
उत्तरपूर्वदेशे ऽगारस्योत्तरया +++(“अमृताहुति"मित्यनया)+++ ऽग्निं प्रतिष्ठापयति ७
१४ अमृताहुतिममृतायाञ्जुहोम्यग्निम् पृथिव्याममृतस्य ...{Loading}...
अ॒मृ॒ता॒हु॒तिम् अ॒मृता॑याञ् जुहोम्य्+++(→स्थापयामि)+++
अ॒ग्निं पृ॑थि॒व्याम् अ॒मृत॑स्य॒ जित्यै॑ ।
तया॑ ऽन॒न्तं काम॑म् अ॒हञ् ज॑यानि
प्र॒जाप॑ति॒र् यं प्र॑थ॒मो जि॒गाय॑
+अ॒ग्निम् अ॑ग्नौ॒+++(→पृथिव्यां)+++ स्वाहा॑ ।
+++(इयं वा अग्निर्वैश्वानरः इति श्रुतेः।)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He sets a piece of Palāśa wood or of Śamī wood on fire, takes the fire up (in a dish) with the next verse (II, 15, 12), carries it to the house with the next Yajus (II, 15, 13), and places the fire in the north-eastern part of the house with the next (II, 15, 14).
हरदत्तः
अथ प्रवेशनविधिः । अन्यथा सम्मितस्याप्यगारस्य प्रवेशे विधिर् अयं भवति । उदग्-अयनाद्य् अपेक्षितम् इति केचित् । नेत्यन्ये ।
बीजवतो गृहान् प्रतिपद्यते (आश्व.गृ.२-१०-२) इत्याश्वलायनः । बीज-ग्रहणं सर्वेषाम् एव गृहोपकरणानाम् उपलक्षणम् ।
सुदर्शनः
पालाशं शमीमयं वेध्मंकाष्ठम् औपासने ऽग्नाव् आदीपयति । इध्मम् इति च “अग्निषु महत इध्मान् आदधाति” इतिवद् अनियतं संख्यादिकं विवक्षितम् ।
उत्तरया “उद्ध्रियमाणः” इत्येतया । ततस् तम् अग्निम् उद्धरति । अत्र च सानुषङ्गे चतुष्पदे त्रिष्टुभौ द्वे ऋचौ पञ्चभिः पादैर् आम्नाते । तयोर् एकैवोद्धरणार्था । अन्या तु विकल्पार्था । उत्तरया इत्य् एकवचनेन विनियोगात् ।
व्यवस्थितश् चायं विकल्पो ऽभिप्रेतः, अग्निहोत्रवत् । यद्य् अहनि प्रवेशस् तदा रात्रिलिङ्गया, रात्रौ चेद् अहर् लिङ्गया ।
रात्रौ च प्रवेशश् शिष्टाचार-प्रसिद्ध इति पूर्वमेवोक्तः ।
इध्मादीपनम्
तत्र प्रवेक्ष्यन् पालाशं शमीमयं वा इध्मं अग्नाव् आदीपयति । इध्मश् चात्रार्थलक्षणो न नियत-परिमाणः । आदीप्य तम् अग्निपात्रं उद्धरत्य् उत्तरयर्चा “उद्ध्रियमाण” इत्येतया पञ्चपादया ।
यद्य् अहनि प्रवेशो रात्रिलिङ्गोऽविवादः प्रयोक्तव्यः । तथा रात्राव् अहर्लिङ्गो निर्विवादः प्रयोक्तव्यः । विभज्यविनियोगाभावात् ।
येषां तूदग्-अयनापेक्षा ते रात्रौ प्रवेशं नेच्छन्ति । अहःकृतस्य रात्रिकृतस्य च पाप्मनो विनियोगः प्रपाद्यत इत्यर्थः । विरोधोऽपि नास्ति । यथा “यद् आपो नक्तं दुरितं चरामे"ति ।
अग्नि-स्थापनम्
तम् उद्धृतम् अग्निं उत्तरेण यजुषा “इन्द्रस्य गृहा वसुमन्तो वरूथिनः” इत्यनेन अगारं प्रपादयति । प्रपाद्य अगारस्य उत्तरपूर्वे देशे तम् अग्निं प्रतिष्ठापयति उत्तरयर्चा “अमृताहुतिम्” इत्यनया ।
अग्निविवेकः
“अत्रागारस्ये"ति न वक्तव्यं, “अग्निम्” इति च । कस्मात्? उभयोरप्यत्रैव वाक्ये श्रुतत्वात् । एवं तर्हि नायम् अगारशब्दो देशविशेषणार्थः । किं तर्हि? अग्निविशेषणार्थः - अगारस्याग्निं प्रतिष्ठापयतीति ।
कः पुनरगारस्याग्निः? यः पचनाग्निः । तस्माद् औपासनाद् उद्धरणम् अस्याग्नेर् न भवति । लौकिकादेव भवतीति केचित् ।
अपरे तु होम-संयोगाद् औपासन एवायम् अग्निर् इति स्थिताः । तेषाम् “अगारस्ये"त्य् “अग्निम्” इति च पदद्वयं व्यर्थम् । होमाश् च पचनेऽपि दृष्टा वैश्वदेवे । तस्मात् पचनाग्निरेवायम् ।
यद्य् अप्य् एवं - तथापि देश-संस्कारो भवत्य् एव । होम-संयोगात्।
औपासनादि-प्रवेशः
अथौपासनस्य वैहारिकाणां च तदैव प्रवेशनं प्रतिष्ठापनं च स्वे स्थाने । भार्यादीनां च तदैव प्रवेशः ॥७॥
प्रतिष्ठापनम्
उत्तरेण “इन्द्रस्य गृहाः” इति यजुषा । उद्धृतम् अग्निम् अगारं प्रपाद्य, अनन्तरं विधिवत् संस्कृते उत्तर-पूर्वदेशे ऽगारस्य तम् अग्निम् उत्तरया अमृताहुतिम्” इत्य् एतया प्रतिष्ठापयति ।
तथा श्रौताग्नीन् अपि विधिवद् आनीतान् अस्मिन्न् एव काले अगारं प्रपाद्याग्न्य्-अगारे यथाविधि प्रतिष्ठापयति ।
अग्निविवेकः
केचित् - इहाग्निम् उद्धृत्य अगारं प्रपाद्येति प्रकृतेऽपि पुनर् उक्तयोर् एतयोर् अर्थवत्त्वाय अगारस्याग्निम् इत्य् अन्वयाद् आदीपनादि-प्रतिष्ठापनान्तं पचनार्थस्य लौकिकाग्नेर् एव, नौपासनस्येति ।
तेषाम् एतत् तुल्यसूत्रे विवाहाङ्गे प्रविश्य होमे पचनाग्नेर् एवोपसमाधानादि स्यात् । अथागारशब्दस्य शयनस्थानवाचित्वात् गृहशब्दस्य चातथात्वात् न तत्र तुल्यसूत्रतेति चेत् – न; गृहागार-शब्दयोर् एकार्थत्वे विवादाभावात् । इह च “इन्द्रस्य गृहा वसुमन्तः” इति मन्त्रस्थ-गृह-शब्देनागाराभिधानात्, प्रत्युत धर्मशास्त्रे “मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् । उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः । शय्यादेशे कामलिङ्गेन”(आप.ध. २-३-२२, २३;२-४-१. ) इति शयनस्थानस्यागाराद् अन्यत्वाभिधानाच् च ।
पुनरुक्तिः स्फुटार्थतयापि निर्वाह्या । किञ्चागारस्याग्निम् इत्य् अन्वयेऽपि अगाराग्निः शालाग्निः, गृह्याग्निर् औपासनाग्निर् इत्येकार्थतया याज्ञिकानां प्रयोगाद् औपासन एव प्रतिष्ठाप्यः, न पचनाग्निः ॥७॥
मूलम् ...{Loading}...
पालाशं शमीमयं वेध्ममादीप्योत्तरयर्चाऽग्निम् उद्धृत्योत्तरेण यजुषाऽगारं प्रपाद्योत्तर-पूर्वदेशे ऽगारस्योत्तरयाऽग्निं प्रतिष्ठापयति।
१७ ०८ तस्माद्दक्षिणमुदधानायतनम् भवति
१७ ०८ तस्माद्दक्षिणमुदधानायतनम् भवति ...{Loading}...
तस्माद् दक्षिणम् उदधानायतनं भवति ८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The place for the water-barrel is to the south of that spot.
हरदत्तः
एवं प्रतिष्ठितस्याग्नेः दक्षिणमुदधानायतनं कर्तव्यम् । उदकं धीयते यत्र तत् उदधानं मणिकाख्यम् ।
सुदर्शनः
तस्मात् प्रतिष्ठिताग्नेर्दक्षिणमुदधानस्य मणिकस्यायतनं भवति ॥८॥
मूलम् ...{Loading}...
तस्माद्दक्षिणमुदधानायतनं भवति।
१७ ०९ तस्मिन्विषूचीनाग्रान् दर्भान्
१७ ०९ तस्मिन्विषूचीनाग्रान् दर्भान् ...{Loading}...
तस्मिन् विषूचीन् आग्रान्+++(=सर्वतो-दिक्कान्)+++ दर्भान् संस्तीर्य तेषूत्तरया +++(“अन्नपत"इत्येतया)+++ व्रीहियवान् न्युप्य तत्रोदधानं प्रतिष्ठापयति ९
१५ अन्नपतेऽन्नस्य नो ...{Loading}...
अन्न॑प॒ते ऽन्न॑स्य नो देहि।
अ॒न॒मी॒वस्य॑+++(=आरोग्यकरस्य)+++ शु॒ष्मिणः॑+++(=बलिनः)+++ ।
प्रप्र॑ दा॒तार॑न् तारिषः।
ऊर्ज॑न्+++(=अन्नं बलं वा)+++ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He strews there Darbha grass, so that its points are turned in every direction, pours rice and barley-grains over the (grass) with the next (verse, II, 15, 15), and thereon he places the water-barrel.
हरदत्तः
तस्मिन्न् आयतने (१)विषूचीनाग्रान् सर्वतोदिक्कान् दर्भान् संस्तीर्य तेषु दर्भेषु व्रीहीन् यवांश्च संयुक्तान् निवपति उत्तरयर्चा “अन्नपत” इत्येतया (२)ततस् तस्मिन्नायतने उदधानं प्रतिष्ठापयति यथा निश्चलं भवति तथा स्थापयति ॥९॥
सुदर्शनः
तस्मिन् उदधानस्थाने विषूचीनाग्रान् नानादिगग्रान् दर्भान् संस्तीर्य, तेषु दर्भेषु उत्तरया “अन्नपतेऽन्नस्य” इत्येतया ब्रीहियवांश्च संयुक्तान् न्युप्य तेषूदधानं प्रतिष्ठापयति ॥९॥
मूलम् ...{Loading}...
तस्मिन्विषूचीनाग्रान् दर्भान् संस्तीर्य तेषूत्तरया व्रीहियवान् न्युप्य तत्रोदधानं प्रतिष्ठापयति।
१७ १० तस्मिन्नुत्तरेण यजुषा
१७ १० तस्मिन्नुत्तरेण यजुषा ...{Loading}...
तस्मिन्न् उत्तरेण यजुषा+++(“अरिष्टा अस्माक"मित्यनेन)+++ चतुर उद-कुम्भान् आनयति १०
१६ अरिष्टा अस्माकम् ...{Loading}...
अरि॑ष्टा अ॒स्माकं॑ वी॒रास् स॑न्तु॒
मा परा॑ सेचि मे॒ धन॑म् ।+++(र४)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next (Yajus, II, 15, 16) he pours four potfuls of water into it.
हरदत्तः
उत्तरेण यजुषा“अरिष्टा अस्माकम्” इत्यनेन । प्रतिकुम्भं मन्त्रावृत्तिः । तत्र चतुर्भिर्वा कुम्भैः पृथगानयनमेकेनैव वाऽथ पुनः पूरयित्वा, यथा–“तिस्रः स्रु च उत्सिच्ये"ति ॥१०॥
सुदर्शनः
तस्मिन् उदधाने उत्तरेण “अरिष्टा अस्माकं” इत्यनेन यजुषा चतुर उदकुम्भानानयति । प्रतिकुम्भं मन्त्रावृत्तिः, द्रव्यभेदेन प्रकाश्यक्रियाभेदात् । यत्र पुनर्मधुपर्कप्राशनादौ आवृत्तिविधिस्तस्या एव क्रियायाः, तत्र सकृदेव मन्त्रः ॥१०॥
मूलम् ...{Loading}...
तस्मिन्नुत्तरेण यजुषा चतुर उदकुम्भानानयति।
१७ ११ दीर्घमुत्तरयाऽनुमन्त्रयते अथ
१७ ११ दीर्घमुत्तरयाऽनुमन्त्रयते अथ ...{Loading}...
+++(यदि उदधानं दीर्णम्,)+++ दीर्णम् उत्तरया +++(“भूमिर्भूमिम् अगात्"इत्येतया)+++ ऽनुमन्त्रयते ११
१७ भूमिर्भूमिमगान्माता मातरमप्यगात् ...{Loading}...
भूमि॒र् भूमि॑म् अगान्
मा॒ता मा॒तर॒म् अप्य् अ॑गात् ।
भू॒यास्म॑ पु॒त्रैः प॒शुभि॒र्
यो नो॒ द्वेष्टि॒ स भि॑द्यताम् ।+++(र५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If (the barrel) breaks, he recites the next (verse, II, 15, 17) over it.
हरदत्तः
अथ यदि तदुदधानं भिद्यते तत् उत्तरयर्चा “भूमिर्भूमि"मित्येतया अनुमन्त्रयते । कालान्तरे दीर्ण एतद्भवति उदधानान्तरेऽपि तत्स्थानापन्ने ॥११॥
सुदर्शनः
यदि दीर्ण मणिकं स्यात्तदा उत्तरया “भूमिर्भूमिमगात्” इत्येतयानुमन्त्रयते । एतच्च प्रकरणात्कर्माङ्गमेव ॥११॥
मूलम् ...{Loading}...
दीर्घमुत्तरयाऽनुमन्त्रयते।
१७ १२ अग्नेरुपसमाधानाद्याज्यभागान्ते
१७ १२ अग्नेरुपसमाधानाद्याज्यभागान्ते ...{Loading}...
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते उत्तरा आहुतीर् +++(“वास्तोष्पते प्रतिजानीहि, वास्तोष्पते शग्मया, वास्तोष्पते प्रतरणो न एधि, अमीवहा वास्तोष्पत”)+++ हुत्वा जयादि प्रतिपद्यते १२
१८ वास्तोष्पते प्रति ...{Loading}...
०१ वास्तोष्पते प्रति ...{Loading}...
वास्तो॑ष्पते॒ प्रति॑ जानीह्य् अ॒स्मान्त्
स्व्-आ॑वे॒शो+++(=सुगमो)+++ अ॑नमी॒वो+++(=आरोग्यकरः)+++ भ॑वा नः ।
यत् त्वेम॑हे॒ प्रति॒ तन् नो॑ जुषस्व॒
शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ।
१९ वास्तोष्पते शग्मया ...{Loading}...
०३ वास्तोष्पते शग्मया ...{Loading}...
वास्तो॑ष्पते श॒ग्मया॑+++(=सुखया)+++ स॒ꣳ॒सदा॑ ते
सक्षी॒महि॑+++(←सच समवाये)+++ र॒ण्वया॑+++(=रममाणया)+++ गातु॒मत्या॑+++(=गामिन्या)+++) ।
आवः॒ क्षेम॑+++(य्=लब्धस्य रक्षणे)+++ उ॒त योगे॒+++(=अलब्धस्य लाभे)+++ वरं॑ नो
+++(हे विश्वेदेवाः)+++ यू॒यम् पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।
२० वास्तोष्पते प्रतरणो ...{Loading}...
०२ वास्तोष्पते प्रतरणो ...{Loading}...
वास्तो॑ष्पते प्र॒तर॑णो न एधि॒
गोभि॒र् अश्वे॑भिर् इन्दो+++(←इन्दिर् ऐश्वर्यकर्मा/ उदिर्वा क्लेदकर्मा)+++ ।
अ॒जरा॑सस् ते स॒ख्ये स्या॑म
पि॒तेव॑ पु॒त्रान् प्रति॑ नो जुषस्व ।
२१ अमीवहा वास्तोष्पते ...{Loading}...
०१ अमीवहा वास्तोष्पते ...{Loading}...
अ॒मी॒व॒हा+++(=व्याधिहा)+++ वास्तो॑ष्पते॒
विश्वा॑ रू॒पाण्य् आ॑ वि॒शन्न् ।
सखा॑ सु॒शेव॑+++(फ)+++ एधि नः ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- After the ceremonies from the putting of wood on the fire down to the Ājyabhāga oblations have been performed, he offers the (four) oblations (indicated by the) next (Mantras; II, 15, 18-21); then he enters upon the performance of the Jaya and following oblations.
हरदत्तः
चतस्रः उत्तराः प्रधानाहुतयः"वास्तोष्पते प्रतिजानीहि, वास्तोष्पते शग्मया, वास्तोष्पते प्रतरणो न एधि, अमीवहा वास्तोष्पत"इति । तत्राज्यभागान्तवचनेनैव तन्त्रप्राप्तिस्सिद्धा, यथा"पार्वणवदाज्यभागान्ते” इत्यत्र । किमग्नेरुपसमाधानादिवचनेन? अग्निनियमार्थं तु– योऽगारे पचनार्थं प्रतिष्ठापितोऽग्निः तस्यैव होमार्थमुपसमाधानं यथा स्यादिति । अन्यथा सर्वपाकयज्ञार्थे औपासन एव होमः स्यात् । जयादिवचनं स्थालीपाकप्रतिषेधार्थम् । का पुनः प्राप्तिः स्थालीपाकस्य? कल्पान्तरे दर्शनात् । कथं पुनः जयादिवचनेन स्थालीपाकस्य प्रतिषेधः? उच्यते– स्विष्टकृत्प्रतिषेधस्तावत् गम्यते–उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते न स्विष्टकृतमिति । स च स्थालीपाकेषु भवति । अतस् तत् प्रतिषेधद्वारेण स्थालीपाकप्रतिषेध एवायं सम्पद्यते ॥१२॥
सुदर्शनः
उत्तरा आहुतीश्चतस्रः प्रधानाहुतीः ताश्च “वास्तोष्पते प्रतिजानीहि” (तै.सं. ३-४-१०) इति द्वे, “वास्तोष्पते प्रतरणो नः” इति द्वे ।
आज्यहविष्ट्वाच्च तन्त्रविधानम् ।
आज्यभागान्त इति वचनं त्वाज्यभागानन्तरमेव प्रधानहोमाः, नान्यदर्थकृत्यमपीति क्रमार्थम् ।
केचित्— “पार्वणवदाज्यभागान्ते” (आप.गृ. १८-६) इतिवदाज्यभागान्त इत्यनेनैव तन्त्रप्राप्तौ सिद्धायां” अग्नेरुपसमाधानादि” इति वचनं स्वमतेन प्रतिष्ठितः पचनाग्निरेवेह होमार्थ इत्येवमर्थमिति ।
तदयुक्तम्, “कर्मस्मार्त विवाहाग्नौ कुर्वीत प्रत्यहं गृही” ।
(या.स्मृ. १-९७)
इति सर्वस्मार्तहोमानामविशेषेण औपासनविधानात्, अस्य सूत्रस्योक्तविधयान्यार्थत्वात्, अस्मदीयानां गृह्यान्तरीयाणां चौपासन एव वास्तुहोमाचाराच् च ॥१२॥
मूलम् ...{Loading}...
अग्नेरुपसमाधानाद्याज्यभागान्ते उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते।
१७ १३ परिषेचनान्तङ् कृत्वोत्तरेण
१७ १३ परिषेचनान्तङ् कृत्वोत्तरेण ...{Loading}...
परिषेचनान्तं कृत्वोत्तरेण +++(“शिवं शिव"मित्यनेन)+++ यजुषोदकुम्भेन +++(न हस्तेन)+++ त्रिः प्रदक्षिणम् अन्तरतो+++(=न बहिः)+++ ऽगारं निवेशनं+++(=शयनदेशः)+++ वा परिषिच्य
२२ शिवं शिवम् ...{Loading}...
शि॒व॒ꣳ॒ शि॒वम् ॥
अग्न्यन्तरानयनम्
+++(ततो ऽग्न्यन्तराण्य् अप्य् औपासनादीन्य् आनयति।)+++
ब्राह्मणभोजनम्
ब्राह्मणान् भोजयेद् अपूपैस् सक्तुभिर् ओदनेनेति १३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having performed (the rites) down to the sprinkling (of water) round (the fire), he should sprinkle (water) with a water-pot around the house or the resting-place on the inside, with the next Yajus (II, 15, 22) three times from left to right; then he should serve cakes, flour, and boiled rice to the Brāhmaṇas.
हरदत्तः
परिषेचनान्तवचनं आनन्तर्यार्थम् । तन्त्रशेषं समाप्यागारस्य परिषेचनमेव कर्तव्यम् । नान्यद् वैश्वदेवादिकमिति । उत्तरेण यजुषा“शिवं शिवम्” इत्यनेन । उदकुम्भेनन हस्तेन । परिभाषयैव सिद्धे प्रदक्षिणमिति वचनात् परिषेचनमिदमेकमेव प्रदक्षिणं त्रिगुणीभूतं सकृदुपात्तेनैवोदकुम्भेन संततमविच्छिन्नं कर्तव्यम् । मेखलया परिव्याणवत् त्रीणि परिषेचनानीति सिद्धं भवति । अन्तरंतइति वचनमगारात् बहिः परिषेचनं मा भूत् । अभ्यन्तरमेव यथा स्यादिति । अगारं गृहं, निवेशनं शयनदेशः । ब्राह्मणान् युग्मान् भोजयेदपूपादिभिः । इतिशब्दः समुच्चयार्थः ॥१३॥ इति हरदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायां सप्तदशः खण्डः ॥
सुदर्शनः
परिषेचनान्तमुत्तरेण “शिवँ शिवम्” इत्यनेन यजुषा उदकुम्भेन सकृदुपात्तेन अगारं निवेशनं वान्तरतो न बहिः त्रिः प्रदक्षिणं परिषिच्य ब्राह्मणान् भोजयेदपूपादिभिः । इतिशब्दस्समुच्चयार्थः । सक्तूनां तु भोजनात् प्रागेव उपयोगः, न मध्ये लोक प्रसिद्ध्यभावात् । “शुचीन् मन्त्रवतः सर्वकृत्येषु भोजयेत्” (आप. ध. २-१५-११.) इति सिद्धस्य भोजनस्य पुनर्वचनमपूपादिगुणविद्ध्यर्थम् ॥१३॥ इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने सप्तदशः खण्डः ।
मूलम् ...{Loading}...
परिषेचनान्तं कृत्वोत्तरेण यजुषोदकुम्भेन त्रिः प्रदक्षिणमन्तरतोऽगारं निवेशनं वा परिषिच्य ब्राह्मणान् भोजयेदपूपैस्सक्तुभिरोदनेनेति।