१७ ०१ दक्षिणाप्रत्यक्प्रवणमगारावकाशमुद्धत्य
१७ ०१ दक्षिणाप्रत्यक्प्रवणमगारावकाशमुद्धत्य ...{Loading}...
दक्षिणा-प्रत्यक्+++(=पश्चिम)+++-प्रवणम्+++(=निम्नम्)+++ अगरावकाशम् +++(खनित्रेण)+++ उद्धत्य, पालाशेन शमीमयेन वोदूहेनैतामेव दिशम् उत्तरया+++(=“यद्भूमेः क्रूर"मित्येतया)+++ +उदूहति ॥
०१ यद्भूमेः क्रूरम् ...{Loading}...
यद् भूमेः॑ क्रू॒रं तद् इ॒तो ह॑रामि॒,
परा॑ची॒न् निर्ऋ॑तिं॒ निर्वा॑हयामि ।
इ॒द२ꣳ श्रेयो॑ ऽव॒सान॒म्+++(=स्थानम्)+++ आग॑न्म+++(=आगतवन्तो)+++ देवा॒,
गोम॒द् अश्वा॑वद् इ॒दम् अ॑स्तु॒ प्र भूम॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The ground for building a house should be inclined towards the south-west. He elevates the surface and sweeps (the earth) with a broom of Palāśa wood or of Sami wood, with the next (verse, M. II, 15, 1), in the same (south-west) direction;
हरदत्त-प्रस्तावः
यज्ञेष्वधिकरिष्यमाणस्य पुरुषस्य देहसंस्कारा व्याख्याताः । ते च “शालीनस्योदवसाय” इति वचनाभावे गृह एव कर्तव्याः । विधिवच्च निर्मिते गृहे । विधिवत् प्रवेशादपेक्षितायुर्यज्ञधनादिफलसिद्धिः । अतो मन्त्राम्नानक्रमप्राप्तो गृहनिर्माणप्रवेशयोर्विधिर्व्याख्यायते
हरदत्तः
अथ गृहसम्मानविधिः । गृहसम्मानं च न सर्वयज्ञादिवन्नित्यम् । नाप्यद्भुतकर्मप्रायश्चित्तादिवन्नैमित्तिकम् । किं तर्हि? काम्यम् । अतोऽक्रियायां न दोषः । क्रियायां चोदगयनादिनियमः । तत्र यस्मिन् प्रदेशेऽगारं चिकीर्षितं सोऽगारावकाशः स दक्षिणाप्रत्यक्प्रवणो भवति । दक्षिणा-प्रतीच्योरन्तराले निम्ना भवति । एवंविधे देशे अगारं कर्तव्यमित्यर्थः । तमगारावकाशं उद्धन्ति खनित्रेण खनति यथा पांसव उत्पद्यन्ते । उद्धत्य तान् पांसून् पालाशेन शमीयेन वोदूहेन एतामेव दिशं प्रति उत्तरयर्चा “यद्भूमेः क्रूरम्"इत्येतया उदूहति उन्नतात् प्रदेशात् अवनते प्रापयति । उदूह्यतेऽनेनेत्युदूहः ॥१॥
सुदर्शनः
योऽगारार्थत्वेनाभिप्रेतोऽवकाशो भूमिभागो दक्षिणाप्रत्यक्प्रवणः दक्षिणाप्रतीच्यां नैर्ऋत्यां दिशि निम्नस्तमुद्धत्य खनित्रादिना पांसू(१)नुत्खाद्य पालाशेन शमीमयेन वोदूहेन, उदूह्यन्ते देशान्तरं प्राप्यन्ते पांसवोऽनेनेत्युदूहः; वादुलूक इत्यर्थः। तेनैतामेव कोणदिशं उत्तरया “यद्भूमेः क्रूरम्” इत्येतयोदूहति ॥१॥
मूलम् ...{Loading}...
दक्षिणाप्रत्यक्प्रवणमगारावकाशमुद्धत्य पलाशेन शमीमयेन वोदूहेनैतामेव दिशमुत्तरयोदूहति ॥
१७ ०२ एवन् त्रिः
१७ ०२ एवन् त्रिः ...{Loading}...
एवं त्रिः ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the same way three times.
हरदत्तः
एवं त्रिरुद्धत्य उधूहति ॥२॥
सुदर्शनः
उदूहतीति सम्बन्धः । अत्र द्वितीयतृतीययोरप्युदूहयोः मन्त्रावृत्तिः, एवमिति वचनात् । अन्यथा उत्तरया त्रिरुदूहतीत्येव ब्रूयात्, “एवं त्रिः” इति सूत्रान्तरं नारभेत ॥२॥
मूलम् ...{Loading}...
एवं त्रिः।
१७ ०३ कॢप्तमुत्तरयाभिमृश्य
१७ ०३ कॢप्तमुत्तरयाभिमृश्य ...{Loading}...
+++(समं यथा तथा)+++ कॢप्तम् उत्तरय+++(“स्योना पृथिवी”)+++ +अभिमृश्य
प्रदक्षिणं स्थूणागर्तान् खानयित्वा+++(नकारस्छान्दसः)+++
ऽभ्यन्तरं+++(=बहिरारभ्य मध्ये यथा समाप्यत इति हरदत्तः, विपरीतम् इति सुदर्शनसूरिः)+++ पाँसून् उदुप्य +++(=उद्धत्य)+++
०२ स्योना पृथिवि ...{Loading}...
१५ स्योना पृथिवि ...{Loading}...
+++(अभिमृशति)+++
स्यो॒ना+++(=सुखरूपा)+++ पृ॑थिवि॒ भवा॑+
ऽनृक्ष॒रा+++(=कण्टकादिरहिता)+++ नि॒वेश॑नी ।
यच्छा॑ न॒श् शर्म॑ स॒प्रथाः॑+++(=सकीर्तिः)+++ ।
मन्त्रः - द्वारस्थूणामन्त्रणम्
उत्तराभ्यां+++(=इहैव तिष्ठे)+++ दक्षिणं द्वारस्थूणाम् अवदधाति ३
०३ इहैव तिष्ठ ...{Loading}...
इ॒हैव ति॑ष्ठ॒ निमि॑ता॒+++(=निखाता)+++
+++(तक्षकृत-)+++तिल्व॑ला+++(=तिलकवती)+++ स्या॒द् इरा॑+++(=अन्न)+++वती ।
मध्ये॒ ताल्प्य॑स्य+++(=गृह्यस्य [द्वारस्य])+++ तिष्ठा॒न्+++(त्)+++
मा त्वा॒ प्राप॑न्न् अघा॒यवः॑ ।
०४ आ त्वा ...{Loading}...
आ त्वा॑ कुमा॒रस् तरु॑ण॒
आ व॒त्सो जग॑ता स॒ह ।
आ त्वा॑ परि॒स्रुतः॑+++(=सुरायाः → घृतस्य)+++ कु॒म्भा
आ द॒ध्नः कल॑शीर् +++(मन्थनार्थम्)+++ अयन् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He touches the ground, which has thus been prepared, with the next (verse, II, 15, 2). Then he has the pits for the posts dug from left to right, throws the earth (from the pits) towards the inside (of the building-ground), and erects the right doorpost with the next two (verses, M. II, 15, 3. 4)
हरदत्तः
एवमुदूह्य ततस्तं भूमिभागं कल्पयन्ति यथा सर्वतस्समं सम्पद्यते । ततः तं कॢप्तं उत्तरयर्चा “स्योना पृथिवी"त्येतयाभिमृशति । ततः प्रदक्षिणं स्थूणागर्तान् खानयति नकारश्छान्दसः । अभ्यन्तरं च बहिरारभ्य मध्ये यथा समाप्यते तथेत्यर्थः । तत्र मध्यस्थूणासु वंशधारणार्थासु प्रदक्षिणमिति चाभ्यन्तरमिति च विशेषणस्यासम्भवात् पर्यन्तास्वेव भवति । तत्र प्राग्द्वारेऽगारे दक्षिणद्वारस्थूणागर्तमारभ्य प्रदक्षिणमोत्तरस्मात् द्वारस्थूणागर्तात् खानयित्वा ततो यावत्यो मध्यमस्थूणाः तावतीनां दक्षिणादारभ्योदगपवर्गः । एवमन्यथाद्वारेऽप्यगारे यथासम्भवं प्रदक्षिणमभ्यन्तरत्वं च सम्पाद्यम् । एवं खानयित्वा गर्तेभ्यः पासूनुदूप्य उद्धत्य तत उत्तराभ्यां ऋग्भ्यां “इहैव तिष्ठ” इत्येताभ्यां दक्षिणाद्वारस्थूणां गर्ते अवदधाति ॥३॥
सुदर्शनः
कॢप्तमुदूहेन प्रागुदक्प्रवणं कृतं उत्तरया “स्योना पृथिवि” इत्यनया** अभिमृश्य स्थूणागर्तान्** स्थूणानां (१)विभागार्थान् गर्तान् कर्मकरैः प्रदक्षिणं खानयित्वाभ्यन्तरमारभ्य, न बहिः, पांसूनुदुप्य उत्तराभ्यां “इहैव तिष्ठ” इत्येताभ्यां दक्षिणां निष्क्रामत एव, न प्रविशतः, द्वारस्थूणामवटे अवदधाति । अत्र प्रादक्षिण्यस्य चाभ्यन्तरत्वस्य च विधानं पर्यन्तीयास्वेव स्थूणासु; न तु मध्यमासु ॥३॥
मूलम् ...{Loading}...
कॢप्तमुत्तरयाभिमृश्य प्रदक्षिणं स्थूणागर्तान् खानयित्वाभ्यन्तरं पाँसूनुदूप्योत्तराभ्यां दक्षिणा द्वारस्थूणामवदधाति ॥
१७ ०४ एवमितराम् एताभ्यामेव
१७ ०४ एवमितराम् एताभ्यामेव ...{Loading}...
एवमितराम् +++(सव्य-द्वारस्थूणाम्)+++४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the same way the other (door-post).
हरदत्तः
एताभ्यामेव द्वाभ्यामृग्भ्यां इतरां उत्तराञ्च द्वारस्थूणां अवदधातीत्यर्थः। इह दक्षिणामितरामिति निष्क्रमतः सव्यदक्षिणे प्रत्येतव्ये; न प्रविशतः ॥४॥
सुदर्शनः
इतरां सव्यां द्वारस्थूणां एवं “इहैव तिष्ठ” इत्येताभ्यामेवावदधाति ॥४॥
मूलम् ...{Loading}...
एवमितराम्।
१७ ०५ यथाखातमितरा अन्ववधाय
१७ ०५ यथाखातमितरा अन्ववधाय ...{Loading}...
यथाखातम् इतरा +++(वंशस्तम्भान्)+++ अन्ववधाय
वँशम् आधीयमानम् उत्तरेण यजुषा +++(=“ऋतेन स्थूणौ”)+++ ऽभिमन्त्रयते ५
०५ ऋतेन स्थूणावधिरोह ...{Loading}...
ऋ॒तेन॒ स्थूणा॑व्+++(=स्तम्भम्)+++ अ॒धिरो॑ह व॒ꣳ॒शो
ऽग्रो वि॒राज॒न्न् अप॑सेध शत्रून्॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having erected after (the door-posts) the other (posts) in the same order in which (the pits) have been dug, he recites the next Yajus (II, 15, 5) over the ridge-pole when it is placed (on the posts),
हरदत्तः
द्वारस्थूणयोः यथाखातं अवधानं मन्त्रवच्च । इतरासां तु यथाखातं येन क्रमेण गर्ताः खाताः तेनावधानं तूष्णीम् । एवं सर्वास्ववहितासु मध्यमस्थूणासु वंश(१)मादधति कर्मकर्तारः । तैराधीयमानं वंशमुत्तरेण यजुषा “ऋतेन स्थूणा"वित्यनेनाभिमन्त्रयते । वंशग्रहणेन च पृष्ठवंशो गृह्यते, मुख्यत्वात् । व्यक्तञ्चैतत् भारद्वाजके “ऋतेन स्थूणे"ति पृष्ठवंशमधिरोपयती"ति । तत्र मन्त्रे स्थूणाविति छान्दसो लिङ्गव्यत्ययः । द्विवचनञ्च यथासम्भवं द्रष्टव्यम् ॥५॥
सुदर्शनः
यथाखातं खननक्रमेण इतराः स्थूणाः तूष्णीमन्ववधाय वंशं स्तूपं स्थूणास्वाधीयमानं उत्तरेण यजुषा “ऋतेन स्थूणावधिरोह” इत्यनेनाभिमन्त्रयते ॥५॥
मूलम् ...{Loading}...
यथाखातमितरा अन्ववधाय वँशमाधीयमानमुत्तरेण यजुषाऽभिमन्त्रयते।
१७ ०६ सम्मितमुत्तरैर्यथालिङ्गम्
१७ ०६ सम्मितमुत्तरैर्यथालिङ्गम् ...{Loading}...
+++(अगारम्)+++ सम्मितम्+++(=संकॢप्तं)+++ उत्तरैर्+++(=“ब्रह्म च ते क्षत्रम्”)+++ यथालिङ्गम् +++(अभिमन्त्रयते)+++६
०६-११ ब्रह्म च ...{Loading}...
ब्रह्म॑ च ते क्ष॒त्रञ् च॒ पूर्वे॒ स्थूणे॑ अ॒भिर॑क्षतु ।
य॒ज्ञश् च॒ दक्षि॑णाश् च॒ दक्षि॑णे [स्थूणे॑ अ॒भिर॑क्षतु]।
इ॒षश् चो॒र्जश् +++(शारदौ मासौ)+++ चाप॑रे [स्थूणे॑ अ॒भिर॑क्षतु]।
मि॒त्रश् च॒ वरु॑ण॒श् चोत्त॑रे [स्थूणे॑ अ॒भिर॑क्षतु]।
ध॒र्मस् ते॒ स्थूणा॑राजः॒
श्रीस् ते॒ स्तूपः॑+++(=पृष्ठवंशः)+++ ।+++(५)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The next (six) (Yajus formulas, II, 15, 6-11) over the (house when it is) finished, according to the characteristics contained in the single formulas.
हरदत्तः
ततस्तदगारं सम्मितं संकॢप्तं उत्तरैर्मन्त्रैः “ब्रह्म च ते क्षत्र"मित्यादिभिष्षड्भिः । किम्? अभिमन्त्रयते इत्येव । यथालिङ्गमिति यस्यागाराङ्गस्य लिङ्गं यस्मिन्मन्त्रे दृश्यते तेन तदभिमुखो ऽगारमभिमन्त्रयत इत्यर्थः । यदापि पूर्वस्थूणा बद्धा तदापि द्वे एवाभिसन्धायाभिमन्त्रणम् । अगारस्य द्विवचनसंयोगात् । एवं सर्वत्र अगारमध्ये यः स्थूणाराजः स्तूपः । पृष्ठवंशः। अत्रैके स्थूणालिङ्गेषु चतुर्षु मन्त्रेषु “स्थूणे अभिरक्षतु” इत्येवमनुषङ्गमिच्छन्ति । यज्ञश्च दक्षिणाश्च दक्षिणे स्थूणे अभिरक्षतु इति । अन्ये “ते” शब्दस्यापि-यज्ञश्च ते दक्षिणाश्चेति । (२)साकांक्षत्वान्मन्त्राणाम्, नेति वयम् । दक्षिणा इषश्चोर्जश्चेतिबहुवचनान्तैः अभिरक्षत्वित्येकवचनान्तस्य सम्बन्धानुपपत्तेः, ऊहस्य चाविधानात् अभ्यातानवत् पाठाभावाच्च सर्वानुषङ्गेषु दृष्टस्यान्ते पुनः पाठस्याभावाच्च । यत्तु साकांक्षत्वमुक्तं तदपि नानुषङ्गहेतुः सन्निधिमात्रेणाकाङ्क्षाया निवर्तनात् । यदि वा धर्मस्ते स्थूणाराज श्रीस्ते इत्यत्राभिरक्षत्वित्यस्य नापेक्षा, द्वयोरपि प्रथमान्तत्वात् । एवं दक्षिणा इत्यादिकं प्रथमान्तं द्रष्टव्यम् । तस्मादाकाङ्क्षैव नास्ति । सन्निधानाच्च स्थूणाप्रतिपत्तिः ॥६॥
सुदर्शनः
सम्मितं निर्मितमगारं उत्तरैः “ब्रह्म च ते क्षत्रं च” इत्यादिभिः पञ्चभिर्मन्त्रैः यथालिङ्गं मन्त्रलिङ्गावगतदिङ्मुखोऽभिमन्त्रयते । तत्र पञ्चमेन मध्यमाभिमुखः, अनन्वितत्वात् । केचित्—षड्भिः । तत्र “धर्मस्ते स्थूणाराजः” इति मध्यमश्च “श्रीस्ते स्तूपः” इति पृष्ठवंशमिति । अत्र यद्यपि मन्त्रैरगारावयवास्स्थूणाः स्तूयन्ते; तथाप्येभिः स्थूणावदगारमेव स्तूयते, यथा पादवन्दनेन पादवानेव वन्द्यते । अत्र केचित्–द्वितीयादिषु त्रिषु मन्त्रेषु वाक्यसमाप्त्यर्थं “स्थूणे अभिरक्षतु” इत्याद्यनुषङ्गं मन्यन्ते । अन्ये “ते” शब्दस्यापि । तथा “धर्मस्ते” इत्यादौ अभिरक्षत्वित्यस्य च । अपरे तु–नैवेह कस्यचिद् क्वचिदप्यनुषङ्गः; अनुषज्यमानस्य वैरूप्यात्, अन्तेऽपि च पाठाभावाच्च । वाक्यसमाप्तिस्तु प्रकृततया बुद्धिस्थपदार्थान्वयात्सिध्यति, यथा(२)“इषे त्वा” (तै.सं.१-१-१.) इति मन्त्रस्य बुद्धिस्थच्छेदनान्वयात् छिनद्मीति वाक्यसमाप्तिरिति ॥६॥
मूलम् ...{Loading}...
सम्मितमुत्तरैर्यथालिङ्गम्।