१६ ०३ जन्मनोऽधि तृतीये
१६ ०३ जन्मनोऽधि तृतीये ...{Loading}...
जन्मनोऽधि तृतीये वर्षे चौलं पुनर्वस्वोः ॥ १६.३ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the third year after his birth the Caula (or tonsure is performed) under (the Nakṣatra of) the two Punarvasus.
हरदत्तः
अथ चौलविधिः— यस्मिन् कर्मणि केशाः प्रथमं खण्ड्यते तत् चौलम् । चूडा प्रयोजनमस्येति । डलयोरविशेषः । तत् जन्मनः प्रभृति तृतीये वर्षे पुनर्वस्वोर्नक्षत्रे कर्तव्यम् । कुमारं प्राशयेदिति विहितत्वात् पुंस एवेदं विधिवच्चौलम् । कुमार्यास्त्वावृतैव । एवञ् चेत् कृत्वा अपरेणाग्निं प्राञ्चमिति पुंलिङ्गमुपपद्यते । जन्मग्रहणं गर्भादारभ्य तृतीये वर्षे मा भूदिति ॥३॥
सुदर्शनः
जन्मनोऽधीति पूर्ववत् । ततश्च “गर्भादिस्सङ्ख्या वर्षाणां” इति गर्भवर्षं न गण्यते । चौळम्इति कर्मनामधेयम् । यस्मिन् कर्मणि चूडासन्निधानं तच्चौळं; ळडयोरभेदात् । पुनर्वस्वोः; कर्तव्यमिति शेषः ॥३॥
मूलम् ...{Loading}...
जन्मनोऽधि तृतीये वर्षे चौलं पुनर्वस्वोः।
१६ ०४ ब्राह्मणानाम् भोजनम्
१६ ०४ ब्राह्मणानाम् भोजनम् ...{Loading}...
ब्राह्मणानां भोजनम् +++(इत्यादिकम्)+++ उपायनवत्॥
+++(ब्राह्मणान् भोजयित्वा
ऽशिषो वाचयित्वा
कुमारं भोजयित्वेत्य् एतावद् इह द्रष्टव्यम् ।)+++
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 Brāhmaṇas are entertained with food as at the initiation (Upanayana).
हरदत्तः
उपनयने ब्राह्मण-भोजने विशेषाऽभावात् आदि-पद-लोपोऽत्र द्रष्टव्यः । ब्राह्मण-भोजनादीति ब्राह्मणान् भोजयित्वाऽऽशिषो वाचयित्वा कुमारं भोजयित्व् एत्य् एतावद् इह द्रष्टव्यम् । अनुवाकस्य प्रथमेनेत्य्-आदि-परस्ताद् अति-देक्ष्यते ॥४॥
सुदर्शनः
अत्र च “ब्राह्मणानां भोजनम्” इति ग्रहणम् आशीर्वचन-कुमार-भोजनयोर् अपि प्रदर्शनार्थम् । भोजनादीत्य् आदि-शब्दो वा द्रष्टव्यः; उपायनवद् इति वचनात् । उपनयनम् एवोपायनम् ॥४॥
मूलम् ...{Loading}...
ब्राह्मणानां भोजनम् उपायनवत्।
१६ ०५ सीमन्तवद् अग्नेर्
१६ ०५ सीमन्तवद् अग्नेर् ...{Loading}...
सीमन्तवद् अग्नेर् उपसमाधानादि ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 The putting (of wood) on the fire, &c. (is performed) as at the Sīmantonnayana.
हरदत्तः
अग्नेर् उपसमाधानादि-परिषेचनान्तं सीमन्त-वत् कर्तव्यम् । पूर्वेद्युर् नान्दी-श्राद्धं, सकृत्-पात्राणि, शलल्य्-आदिभिस् सह शम्याः ।
अन्वारब्धायां इत्य् अत्र च कुमारस्यान्वारम्भः ।
परिषेचनान्तस्य चातिदेशः । यत्तु “गायतम् इति वीणाथिनौ” इत्यादि न तस्यात्रातिदेशः - अपरेणाग्निं प्राञ्चम् इति विधानात् पुनर् उपवेशस्य ॥५॥
सुदर्शनः
अग्नेर् उपसमाधानादि तन्त्रं सप्रधान-होमं परिषेचनान्तम् इह सीमन्तवद् इति। ततश् चान्वारब्धे कुमारे प्रधान-होमाः । पात्र-प्रयोग-काले शललल्य्-आदीनां सकृदेव सादनम् ॥५॥
मूलम् ...{Loading}...
सीमन्तवद् अग्नेर् उपसमाधानादि।
१६ ०६ अपरेणाग्निम् प्राञ्चमुपवेश्य
१६ ०६ अपरेणाग्निम् प्राञ्चमुपवेश्य ...{Loading}...
अपरेणाग्निं प्राञ्चम् उपवेश्य
त्रेण्या शलल्या+++(=शल्यक-सूचयः)+++, त्रिभिर् दर्भ-पुञ्जीलैः+++(=सविशाखा नाडीभिः)+++, शलालु+++(=अपक्वोदुम्बर)+++-ग्लप्सेन+++(=गुच्छेन)+++ +इति
तूष्णीं केशान् विनीय यथर्षि शिखा निदधाति।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 3 He makes (the boy) sit down to the west of the fire, facing the east, combs his hair silently with a porcupine’s quill that has three white spots, with three Darbha blades, and with a bunch of unripe Udumbara fruits; and he arranges the locks in the fashion of his ancestral Ṛṣis,
हरदत्तः
विनयनं पृथक्करणं वप्तव्यानां शिखार्थानाञ्च । तूष्णीमिति वाग्यमनार्थं न मन्त्रप्रतिषेधार्थम्, प्राप्त्यभावात् । यथर्षि यावन्त ऋषयो यस्य प्रवरे तावतीश्शिखाः करोति-त्र्यार्षेयस्य तिस्रः पञ्चार्षेयस्य पञ्चेति ॥६॥
सुदर्शनः
प्राञ्चं प्राङ्मुखम् । तूष्णीं वाग्यतः । केशान् विनीय विविधं नीत्वा; वप्तव्यान् शिखार्थांश्च पृथक्पृथक्कृत्वेत्यर्थः ॥ यथर्षि यावन्त ऋषयस् स्वप्रवरे तावतीश्शिखा निदधाति । एकार्षेयस्यैका शिखा द्व्यार्षेयस्य द्वे इत्यादि ॥६॥
मूलम् ...{Loading}...
अपरेणाग्निं प्राञ्चमुपवेश्य त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैः शलालुग्लप्सेनेति तूष्णीं केशान् विनीय यथर्षि शिखा निदधाति।
१६ ०७ यथा वैषाम्
१६ ०७ यथा वैषाम् ...{Loading}...
यथा वैषां कुल-धर्मः स्यात् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Or according to their family custom.
हरदत्तः
अथवा यथा येन प्रकारेण एषां कुमारस्य कुलजानां कुलधर्मः प्रवर्तते तथा शिखां करोति । एषाम् इति वचनं कर्तुः कुलधर्मो मा भूदिति । तेनास्मिन् कर्मणि पितैव कर्तेति नियमो नास्ति । अन्यत्र तु सति सम्भवे कुमारकर्मसु तस्यैव नियमः ॥७॥
सुदर्शनः
अथवा– यथा येन प्रकारेण एषां कुलजानां कुलधर्मः प्रवर्तते, तथा शिखा कर्तव्या । केचित्–एषामिति वचनात् पितुरन्योऽपि चौलकर्तेति ॥७॥
मूलम् ...{Loading}...
यथा वैषां कुलधर्मः स्यात्।
१६ ०८ अपाँ
१६ ०८ अपाँ ...{Loading}...
उपनयनवद् दिग्-वपनाद्य् अपां संसर्जनाद्य्-आ-केश-निधानात् समानम् ॥ १६.८ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 4 The ceremonies beginning with the pouring together of (warm and cold) water and ending with the putting down of the hair are the same (as above; comp. M. II, 14, 11).
हरदत्तः
“उष्णाश्शीतास्वानीये"त्यादि “दर्भस्तम्बे वा निदधाती"त्येवमन्तं उपनयनवत् कर्तव्यमित्यर्थः ॥८॥
सुदर्शनः
व्याख्यातमेवैतत्समावर्तने ॥८॥
मूलम् ...{Loading}...
अपाँ संसर्जनाद्याकेशनिधानात्समानम्।
१६ ०९ क्षुरँ प्रक्षाल्य
१६ ०९ क्षुरँ प्रक्षाल्य ...{Loading}...
क्षुरं प्रक्षाल्य निदधाति ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He puts down the razor after having washed it off.
हरदत्तः
क्षुरस्य प्रक्षालनं विधीयते । निधानमर्थप्राप्तम् । यदा निदधाति तदा प्रक्षाल्येति ॥९॥
सुदर्शनः
अत्र प्रक्षालनमेव विधीयते; निधानं त्वर्थप्राप्तम् ॥९॥
मूलम् ...{Loading}...
क्षुरँ प्रक्षाल्य निदधाति।
१६ १० तेन त्र्यहम्
१६ १० तेन त्र्यहम् ...{Loading}...
तेन त्र्य्-अहं कर्म-निवृत्तिः ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 5 The ceremony is (repeated) three days with the (same razor). (Then) the rite is finished.
हरदत्तः
तेन क्षुरेण त्रिष्वहोरात्रेषु नापितकर्म न कर्तव्यम् ॥१०॥
सुदर्शनः
तेन क्षुरेण त्र्यहं नापितकर्मनिवृत्तिस् स्यात् ॥१०॥
मूलम् ...{Loading}...
तेन त्र्यहं कर्मनिवृत्तिः।
१६ ११ वरन् ददाति
१६ ११ वरन् ददाति ...{Loading}...
वरं ददाति ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The father) gives an optional gift (to the Brāhmaṇa who has assisted).
हरदत्तः
अस्मिन् कर्मणि समाप्ते कुमारस्य पिता ब्रह्मणे वरं ददाति । “गौर् वै वर” इत्त्युक्तम् ॥११॥
सुदर्शनः
वरं गां पिता ददाति दक्षिणत असीनाय ब्राह्मणाय । यद्य् अन्यश् चौलकर्ता - तदा तस्मै ॥११॥
मूलम् ...{Loading}...
वरं ददाति।
१६ १२ एवङ् गोदानम्
१६ १२ एवङ् गोदानम् ...{Loading}...
एवं +++(=चौलवत्)+++ गोदानम् अन्यस्मिन्न् अपि नक्षत्रे षोडशे वर्षे ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The Godāna (or the ceremony of shaving the beard, is performed) in the sixteenth year, in exactly the same way or optionally under another constellation.
हरदत्तः
यथा चौलं एवम् अस्य गोदानाख्यम् अपि कर्म कर्तव्यम् । तत्र तृतीयस्य वर्षस्यापवादः षोडशे वर्षे इति । अन्यस्मिन्नपि नक्षत्रे पुण्याह एव । पुनर्वसु नियमस्यापवादः ॥१२॥
सुदर्शनः
गोदानम् इति कर्मनामधेयम् ; यस्मिन्कर्मण्यङ्गभूतं गोदानयोश् शिरःप्रदेशविशेषयोर्वपनम् । यत्रापि पक्षे शिखावर्जितसर्वकेशवपनं, यथर्षि च शिखाः; तत्रापि गोदानयोर्वपनं कर्मनामधेयप्रवृत्तिनिमित्तं विद्यत एव । तद्गोदानाख्यं कर्म । एवं यथाचौलं ब्राह्मणभोजनादि वरदानान्तं कर्तव्यम् । तच्चान्यस्मिन्नपि नक्षत्रे रोहिण्यादौ, वर्षे च षोडशे भवति ॥१२॥ अत्र पक्षान्तरमाह—
मूलम् ...{Loading}...
एवं गोदानम् अन्यस्मिन्न् अपि नक्षत्रे षोडशे वर्षे।
१६ १३ अग्निगोदानो वा
१६ १३ अग्निगोदानो वा ...{Loading}...
अग्नि-गोदानो +++(ब्रह्मचारी)+++ वा स्यात् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 6 Or he may perform the Godāna sacred to Agni.
हरदत्तः
अग्निर्देवता यत्र गोदाने तदग्निगोदानं यस्य सोऽग्निगोदानः । (अग्निशब्देन तद्दैवत्यं गोदानं लक्ष्यते । अग्निर्गोदानमस्येति विग्रहः ।) एकस्य गोदानशब्दस्य लोपः, उष्ट्रमुखवत् । तत्र बौधायनः– षोडशे वर्षे गोदानम् । तस्य चौलवत् तूष्णीं प्रतिपत्तिरवसानं च । …..अग्नि-गोदानो वा भवति । तस्य काण्डोपाकरणकाण्डसमापनाभ्यां प्रतिपत्तिरवसानं च । (बौ. गृ.३-२-५२-५८) इति । किमुक्तं भवति? आग्नेयानां काण्डानाम् उपाकरणसमापनयोर्यः कल्पः तत्र चौलधर्माः प्रवर्तन्त इति । षोडशे वर्षे भवति । सकृत् पात्राणि न शम्याः । अस्यास्मिन् गृह्येऽनुपदिष्टत्वात् यत् गोदानमुपदिष्टं तत्रैव शम्याविधिः ।
अग्नि-गोदानम् ...{Loading}...
तत्र प्रयोगः–
ब्राह्मणान् भोजयित्वा
ऽऽशिषो वाचयित्वा
तूष्णीं केशश्मश्रु वापयित्वा
ऽग्नेर् उपसमाधानादि-परिषेचनान्तानि आग्नेय-काण्डोपाकरणवत् कृत्वा
शुक्रियवद् देवतोपस्थानं
“अग्ने व्रतपते व्रतं चरिष्यामि” इति ।
अन्ये संवत्सरे व्रतचर्या ।
अन्ते विसर्गः -
एवम् एवाचारिषम् इत्यादि विकारः, शुक्रियवत् दैवतम् ।
केशश्मश्रुवपनम् ।
अन्ते ब्राह्मणभोजनम् ।
उभयत्र नान्दी-मुख-श्राद्धं केचित् कुर्वन्ति ।
अपरे न ॥ १३ ॥
सुदर्शनः
अग्नये गोदानं यस्य सोऽग्निगोदानो ब्रह्मचारी । पुल्लिङ्गनिर्देशाच्चैवं विग्रहः । अस्मिन् पक्षे आज्यभागान्ते कृते “अग्नये काण्डर्षये स्वाहा” इत्याज्येनैवैका प्रधानाहुतिः । ततो जयादि(१) क्षुरप्रक्षालनान्तम् ॥१३॥
मूलम् ...{Loading}...
अग्निगोदानो वा स्यात्।
१६ १४ संवत्सरङ् गोदानव्रत(२)मेक
१६ १४ संवत्सरङ् गोदानव्रत(२)मेक ...{Loading}...
संवत्सरं गोदानव्रतमे+++(मित्ये)+++क उपदिशन्ति ॥ १६.१४ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 7 Some prescribe the keeping of a vow through one year in connection with the Godāna.
हरदत्तः
कृतगोदानस्यापि तच्छेषतया संवत्सरं व्रतचरणमेक आचार्या उपदिशन्ति । चौलगोदानेऽयं विकल्पः । अग्निगोदाने तु काण्डोपाकरणातिदेशात् नित्यमेव यदा व्रतचर्या तदा वरदानादूर्ध्वं देवतोपस्थानं पूर्ववदन्ते, विसर्गश्च पूर्ववदेव ॥१४॥
सुदर्शनः
अधीतेऽपि वेदे, अवश्यं संवत्सरं गोदानव्रतं ब्रह्मचर्यं चरितव्यमित्येक उपदिशन्ति; वैकल्पिकमित्यर्थः ॥१४॥
मूलम् ...{Loading}...
संवत्सरं गोदानव्रत(२)मेक उपदिशन्ति।
१६ १५ एतावन्नाना सर्वान्
१६ १५ एतावन्नाना सर्वान् ...{Loading}...
एतावन् नाना+++(=भेदः)+++ - सर्वान् केशान् +++(शिखाम् अपीति केचित्)+++ वापयते +++(आचार्येण, वरदानञ् चाचार्यायैव ।)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The difference (between the Kaula and the Godāna) is that (at the Godāna) the whole hair is shaven (without leaving the locks).
हरदत्त-प्रस्तावः
उभयोरपि गोदानयोश्चौलाद्विशेषमाह—
हरदत्तः
अस्मिन् चौलगोदाने तु एतावन्नाना पृथग्भावश्चौलात् । अत्र सर्वान् केशान् वापयते सशिखान् । चौले तु यथर्षि शिखा निदधाति । अन्ये श्मश्र्वादीनां प्राप्त्यर्थं सर्वग्रहणं वर्णयन्ति । तेषां केशशब्द उपलक्षणार्थः । तथा चाश्वलायनः–केशश्मश्रुलोमनखान्युदक् संस्थानि संप्रेष्यति । (आश्व.गृ.१-१८-६) इति ॥१५॥
सुदर्शनः
एतावन्नाना एतावान् भेदः । यदपिधानार्थयापि शिखया सह सर्वान् केशान् वापयत इति । ततश्चेह विनयनाभावाच्छलल्यादीनां निवृत्तिः । अत्र च वापयत इति णिजन्तनिर्देशादाचार्य एव गोदानकर्मणः कर्ता । वरदानञ्चाचार्यायैव । तथात्र शिखाया अपि वपनं “एतावन्नाना सर्वान् केशान्वापयते” इत्यस्मादेव वचनात्; (१)सत्रवत् । अन्य आहुः— रिक्तो वा एषोऽनपिहितो यन्मुडस्तस्यैतदपिधानं यच्छिखेति । “सत्रेषु तु वचनात् वपनँ शिखायाः”(आप.ध. १-१०-८,९) इति सत्रेभ्योऽन्यत्र शिखाया वपनप्रतिषेधात् इहापि नैव शिखाया वपनमिति ॥१५॥
मूलम् ...{Loading}...
एतावन्नाना सर्वान् केशान् वापयते।
१६ १६ उदकोपस्पर्शनमिति छन्दोगाः
१६ १६ उदकोपस्पर्शनमिति छन्दोगाः ...{Loading}...
+++(अहरहर्)+++ उदकोपस्पर्शनम् इति छन्दोगाः १६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 8 According to the followers of the Sāma-veda he should ’touch water.’
हरदत्तः
अस्मिन् गोदानव्रते अहरहरुदकोपस्पर्शनं (२)कर्तव्यमिति छन्दोगा उपदिशन्ति । त्रिषवणमिति केचित् ॥ १६ ॥ इति श्रीहरदत्तविरचितायामनाकुलायां गृह्यसूत्रवृत्तौ षोडशः खण्डः ॥
सुदर्शनः
सांवत्सरिकगोदानव्रतपक्षे अहरहरुदकोपस्पर्शनं छन्दोगा उपदिशन्ति; विकल्प इत्यर्थः ॥१६॥ इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने षोडशः खण्डः ॥ षष्ठः पटलस्समाप्तः ॥
मूलम् ...{Loading}...
उदकोपस्पर्शनमिति छन्दोगाः।
-
16, 4. See above, IV, 10, 5. ↩︎
-
See above, VI, 14. 2. ↩︎
-
Comp. VI, 14, 3. ↩︎
-
See IV, 10, 5-8. ↩︎
-
I translate as if the words tena tryaham and karmanivṛttiḥ formed two Sūtras. ↩︎
-
‘Having performed the same rites as at the opening of the study of the Āgneya-kāṇḍa, he performs an Upasthāna to the deities as taught with regard to the Śukriyavrata.’ Haradatta. - ‘After the ceremonies down to the Ājyabhāgas have been performed, one chief oblation of Ājya is offered with the formula, “To Agni, the Ṛṣi of the Kāṇḍa, svāhā!”’ Sudarśanārya. ↩︎
-
Comp. the statements given in the note on Gobhila III, ↩︎
-
The udakopasparśana according to the rite of the Sāmavedins is described by Gobhila, I, 2, 5 seqq. ↩︎