१६ ०१ जन्मनोऽधि षष्ठे
१६ ०१ जन्मनोऽधि षष्ठे ...{Loading}...
जन्मनोऽधि षष्ठे मासि ब्राह्मणान् भोजयित्वाऽऽशिषो वाचयित्वा दधि मधु घृतमोदनमिति सँसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत् ।
११ -१४ भूरपान् त्वौषधीनाम् ...{Loading}...
भूर् अ॒पां त्वौष॑धीना॒ꣳ॒ रसं॒ प्राश॑यामि।
शि॒वास्त॒ आप॒ ओष॑धयस् सन्त्व्,
अनमी॒वास्त॒ आप॒ ओष॑धयस् सन्त्व् असौ+++(→नामनिर्देशः)+++ ।
भुवो॒ऽपाꣳ …।
सुव॑र॒पां …।
भूर्भुव॒स्सुव॑र॒पां …।
तैत्तिरेण माँसेनेत्य् एके २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the sixth month after the child’s birth he serves food to Brāhmaṇas and causes them to pronounce auspicious wishes; then he should pour together curds, honey, ghee, and boiled rice, and should give (the mixture) to the boy to eat, with the next (four) Mantras (II, 14, 7-10);
हरदत्त-प्रस्तावः
अथान्नप्राशनमुपदिश्यते—
हरदत्तः
[अथ कुमारस्यान्नप्राशनम् । तत् जन्मनोऽधि जननदिवसादारभ्य षष्ठे मासि कर्तव्यम् ।] मासाश्च सौरचान्द्रमासादयः । तत्करिष्यन् ब्राह्मणान् भोजयित्वा युग्मान् तैराशिषो वाचयति–पुण्याहं स्वस्ति ऋद्धिमिति । नात्र पूर्वेद्युरभ्युदयश्राद्धं, देवेज्याभावात् । यत्रापरेद्युः देवेज्या तत्र पूर्वेद्युः पितृभ्यः क्रियते । “तस्मात् पितृभ्यः पूर्वेद्युः क्रियते । उत्तरमहर्देवान् यजते, इति वचनात् । वाचयित्वाऽऽशिषः दध्यादि चतुष्टयं संसृज्य तेन कुमारं प्राशयेत् । उत्तरैर्मन्त्रैश् चतुर्भिः “भूरपांत्वे"त्यादिभिः । त्वौषधीनामिति मध्यमयोरनुषजति । अपामित्यस्य तु पाठो मन्त्रचतुष्टयप्रज्ञापनार्थः । असावित्यत्र नामग्रहणं सम्बुध्या—“ओषधयस्सन्तु यज्ञशर्मन्न्” इति । प्रतिमन्त्रं प्राशनम् । सर्वान्त इत्यन्ये । कुमारं इति वचनात् कुमार्या विधिवदन्नप्राशनं न भवति—आवृतैव कुमार्या (आश्व.गृ.१-१४-७.) इत्याश्वलायनवचनात् ॥१॥
सुदर्शनः
जन्मनोऽधि जन्मन आरभ्य, दिवसगणनया षष्ठे मासि । तेन मार्गशीर्षशुक्ले द्वितीयायां जातस्य न मार्गशीर्षो मासः पूर्णो गण्यते । अत एव ज्योतिषे बृहस्पतिः— “पञ्चाशद्दिवसात् त्रिघ्नात्पश्चात्त्रिहतषष्टिकात् ॥ अर्वागेवोत्तमा भुक्तिः”…… इति । ब्राह्मणान् भोजयित्वेत्य् उक्तार्थम् । आशीर्वचनानन्तरं दध्यादिचतुष्टयं संसृज्य उत्तरैर्मन्त्रैः “भूरपां त्वौषधीनां” इत्यादिभिश्चतुर्भिः कुमारं सकृदेव प्राशयेत् । सम्बुद्ध्या च नामग्रहणम् । द्वितीयतृतीययोरपि “त्वौषधीनाम्” इत्यादेरनुषङ्गः ॥१॥
मूलम् ...{Loading}...
जन्मनोऽधि षष्ठे मासि ब्राह्मणान् भोजयित्वाऽऽशिषो वाचयित्वा दधि मधु घृतमोदनमिति सँसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत् ।
१६ ०२ तैत्तिरेण माँसेनेत्येके
१६ ०२ तैत्तिरेण माँसेनेत्येके ...{Loading}...
तैत्तिरेण माँसेनेत्येके।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (He should feed him) with partridge, according to some (teachers).
हरदत्तः
तित्तिरेः पक्षिणः मांसेन तदन्नप्राशनं कर्तव्यम् इत्येके आचार्या मन्यन्ते । मांसं व्यञ्जनमोदस्य । अन्ये तु मांसमेव मन्त्रवत् प्राश्यं मन्यन्ते । मांसग्रहणं शोणितादेः प्रतिषेधार्थम् ॥२॥
सुदर्शनः
व्यक्तार्थमेतत् ॥२॥
मूलम् ...{Loading}...
तैत्तिरेण माँसेनेत्येके।