१५ ०८ दशम्यामुत्थितायां स्नातायाम्
१५ ०८ दशम्यामुत्थितायां स्नातायाम् ...{Loading}...
दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति ८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- On the tenth day, after (the mother) has risen and taken a bath, he gives a name to the son. The father and the mother (should pronounce that name first).
हरदत्त-प्रस्तावः
एवं जातकर्मोक्त्वा क्रमप्राप्तं नामकरणमाह—
हरदत्तः
उत्थानं नाम सूतिकालिङ्गानामग्न्युदकुम्भादीनामपनयनम् । भर्तुश्च नापितकर्म । यच्चान्यत् स्त्रियो विदुः तच्च सर्ववर्णानां दशमेऽहनि भवति । दशमीशब्देन न रात्रिरुच्यते किं तर्हि ? अहोरात्रसमुदायः यथा “तस्मात् सदृशीनां रात्रीणाम्” इति । तत्र परिभाषावशादहन्येव कर्म स्नानं च सति सम्भवे तस्मिन्नेवाहनि नियमेन भवति । प्रकारणादेव सिद्धे पुत्रस्येति वचनं वक्ष्यमाणो “नाम्नो लक्षणविशेषः” तस्यैव यथा स्यात् । तेन कुमार्याः “अयुजाक्षरं कुमार्याः” (आप.गृ.१५-११.) इत्येतावदेव भवति । न “नामपूर्वमाख्यातोत्तरम्” इत्यादि । पिता मातेति वचनं तौ नामाग्रेऽभिव्याहरेतामित्येवमर्थम् । विज्ञायते च “पिता माता च दधतुर्यदग्रे” ( तै. सं.१-५-१०.) इति । तत्र प्रयोगः– शुचीन् मन्त्रवतस्सर्वकृत्येषु भोजयेद् (आप.ध.२-१४-९.) इति ब्राह्मणान् भोजयित्वा पिता माता च नामाग्रेऽभिव्याहृत्याशीर्वचनं ब्राह्मणैरभिव्याहारयेताम् । अमुष्मै स्वस्तीति कल्पान्तरे दर्शनात् । केचित् नाम करिष्याव सङ्कल्पमिच्छन्ति ॥८॥
सुदर्शनः
दशम्यां रात्रौ दशमेऽहनि । उत्थितायां सूतिकागृहान्निष्क्रान्तायां प्रसूतिकायां स्नातायां च सत्याम् । एवं वदता दशमेऽहनि निष्क्रम्य स्नातव्यमित्युक्तं भवति । पुत्रस्य पिता नाम दधाति व्यवस्थापयति ; न तु करोति; शब्दार्थयोस्सम्बन्धस्य नित्यत्वात् । माता च । इतिशब्दश्चार्थे, मातापितरौ सहितौ नाम धत्त इति । इममर्थं मन्त्रवर्णोऽप्याह “मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे” (तै.सं.१-५-१०) इति ॥८॥
मूलम् ...{Loading}...
दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति ।
१५ ०९ द्व्यक्षरञ् चतुरक्षरम्
१५ ०९ द्व्यक्षरञ् चतुरक्षरम् ...{Loading}...
द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं +++(=क्विबन्तोत्तरम्)+++ दीर्घाभिनिष्ठानान्तं +++(=दीर्घात्परोऽभिनिष्ठानो विसर्जनीयोऽन्ते यस्य तत्)+++ घोषवदाद्यन्तरन्तस्थम् +++(यरलवा अन्तस्थाः।)+++
+++(हरदत्तोदाहरणानि - गाः श्रयते इति गोश्रिः । गां प्रीणतीति गोप्रीः । हिरण्यः ददातीति हिरण्यदाः भूरिदाः हरदत्त इत्यादीन्युदाहरणानि ।
सुदर्शनसूर्युदाहरणानि - द्व्यक्षरस्योदाहरणं - वाः उदकं ददातीति वार्दाः, गिरं ददातीति गीर्दाः इत्यादि । चतुरक्षरस्य तु भाष्योक्तं “द्रविणोदाः वरिवोदाः” इति । एतद्द्वयमपि छान्दसम् । अन्यदपि हिरण्यदा युवतिदाइत्यादि ॥)+++
९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (It should be a name) of two syllables or of four syllables; the first part should be a noun; the second a verb; it should have a long vowel (or) the Visarga at the end, should begin with a sonant, and contain a semi-vowel.
हरदत्तः
अथ नाम्नो लक्षणविशेषः । सव्यञ्जनो निर्व्यञ्जनो वा स्वरो ऽक्षरं नाम द्रव्यप्रधानं, तत्पूर्वपदं यत्र तत् नामपूर्वं क्रियानिमित्तमाख्यातं, तदुत्तरपदं यत्र तत् आख्यातोत्तरं दीर्घात्परोऽभिनिष्ठानो विसर्जनीयोऽन्ते यस्य तत् दीर्घाभिनिष्ठानान्तम् तथा घोषवद्व्यञ्जनमादिभूतं यस्य तत् घोषवदादि अन्तर्मध्ये अन्तस्था यस्य तत् अन्तरन्तस्थम् वर्गाणां तृतीयचतुर्थौ हकारश्च घोषवन्तः । यरलवा अन्तस्थाः । दिवं नयतीति द्युतिः । गाः श्रयते इति गोश्रिः । गां प्रीणातीति गोप्रीः । हिरण्यं ददातीति हिरण्यदाः भूरिदाः हरदत्त इत्यादीन्युदाहरणानि । “ऋष्यणूकं देवाताणूकं वा यथा वैषां पूर्वपुरुषाणां नामानि स्यु"रिति (बौ.गृ. २.२.२८,२९.) बौधायनः । ऋष्यणूकं ऋष्यभिधायि–वसिष्ठो जमदग्निरिति । देवताणूकं देवताभिधायि रुद्रो विष्णुरिति । पूर्वपुरुषाः पित्रादयः ॥९॥
सुदर्शनः
अथ व्यवस्थापनीयस्य नाम्नो लक्षणमुच्यते– द्व्यक्षरं चतुरक्षरं वेति समासेऽभिप्रेतः, न तु रूढिः “नामपूर्वमाख्यातोत्तरम्” इति पूर्वोत्तरखण्डव्यवस्थापनात् । नापि वाक्यम् ; तस्य द्रव्यवाचकत्वाभावात् । कुतः पुनर्वाक्यसमासयोरर्थवत्समुदायत्वाविशेषेऽपि समास एव द्रव्यवाचको न वाक्यम्? इति चेत् ; “कृत्तद्धितसमासाश्च” (पा.सू.१-२-४६.) इति समासग्रहणस्य नियमार्थत्वात् । नामपूर्वं, द्रव्यवाचकं सुबन्तं पदं नाम, तत्पूर्वं यस्य तन्नामपूर्वम् । तथा आख्यातमुत्तरं पदं यस्य नाम्नस्तदाख्यातोत्तरम् ।
ननु– “सुप्सुपा” इति समासनियमात् आख्यातेन तिङन्तेन नैव समासः? सत्यम् ; अत एवात्र आख्यातशब्देन आख्यातसदृशं क्विबन्तं सुबन्तमेव विवक्षितम् । सादृश्यं च क्रियाप्राधान्याभावेऽपि क्रियावाचित्वमात्रात्, “क्विबन्तो धातुत्वं न जहाति” इति धातुसंज्ञत्वाच्च । दीर्घाभिनिष्ठानान्तं दीर्घश्चाभिनिष्ठानश्चान्ते यस्य नाम्नस्तत्तथोक्तम् । अभिनिष्ठान इति विसर्जनीयस्य पूर्वाचार्याणां संज्ञा । घोषवान् वर्ण आदिर्यस्य नाम्नस्तत् घोषवदादि । घेषवर्णाश्च प्रातिशाख्यसूत्रे प्रसिद्धाः, “ऊष्मविसर्जनीयप्रथमद्वितीया अघोषाः न हकारः । व्यञ्जनशेषो घोषवान् “इति । अन्तरन्तस्थं अन्तः मध्ये यस्य नाम्नोऽन्तस्थाः यरलवास्तत्तथोक्तम् । द्व्यक्षरस्योदाहरणं–वार्दाः, वाः उदकं ददातीति वार्दाः, गिरं ददातीति गीर्दाः इत्यादि । चतुरक्षरस्य तु भाष्योक्तं “द्रविणोदाः वरिवोदाः” इति । एतद्द्वयमपि छान्दसम् । अन्यदपि हिरण्यदा युवतिदा इत्यादि ॥९॥
मूलम् ...{Loading}...
द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं दीर्घाभिनिष्ठानान्तं घोषवदाद्यन्तरन्तस्थम् ।
१५ १० अपि वा
१५ १० अपि वा ...{Loading}...
अपि वा यस्मिन्स्वित्युपसर्गस्स्यात् तद्धि प्रतिष्ठितमिति हि ब्राह्मणम् +++(सुभद्रस्सुमुख इत्याद्युदाहरणम् । सुजातः सुदर्शन इत्यादि ।)+++ १०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Or it should contain the particle su, for such a name has a firm foundation; thus it is said in a Brāhmaṇa.
हरदत्तः
अपि वा अयमपि पक्षः– यस्मिन्नाम्नि “सु” इत्ययमुपसर्गः स्यात् तदेव तत्र लक्षणम् । नान्यद्व्यक्षरत्वादि । तद्धि प्रतिष्ठितम् । हि शब्दोऽतिशये । पूर्वस्मादप्यतिशयेन प्रतिष्ठितं, तेन पूर्वमपि द्व्यक्षरादि प्रतिष्ठितम् । तथा च पूर्वस्मिन्नेव लक्षणे स्थित्वा भरद्वाज आह–द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं तद्धि प्रसिद्धमिति विज्ञायते इति । प्रतिष्ठितमिति । ध्रुवमविनाश्यायुष्यमित्यर्थः । सुभद्रस्सुमुख इत्याद्युदाहरणम् । उपसर्ग इति वचनात्सोमसुदित्यादि प्रतिष्ठितं न भवति ॥१०॥
सुदर्शनः
अपि वा यस्मिन्नाम्नि “सु” इत्ययुमुपसर्गस्स्यात् तन्नाम प्रतिष्ठितं आयुष्मद्यज्ञादिक्रियावच्च भवति ; यथा– सुजातः सुदर्शन इत्यादि । इह ब्राह्मणग्रहणात् द्व्यक्षरादिविशेषणैः स्विति विशेषणं विकल्प्यते । हि शब्दोऽनर्थको निपातः, “अनर्थको मिताक्षरेषु” इति वचनात् । उपसर्गग्रहणमुपसर्गप्रतिरूपकाणां सुतसोमेत्यादीनां व्युदासार्थम् । अत्र बोधायनो विकल्पान्तराण्याह— “ऋष्यणूकं देवताणूकं वा यथा वैषां पूर्वपुरुषाणां नामानि स्युः” इति । अणूकमभिधायकं, प्रकरणात् । ऋष्यणूकं वसिष्ठः नारदः इत्यादि । देवताणूकं विष्णुः शिवः इति । पूर्वपुरुषाणां पितृपितामहादीनां वा नामानि यज्ञशर्मा, सोमशर्मा इत्यादिनि ॥१०॥
मूलम् ...{Loading}...
अपि वा यस्मिन् स्वित्युपसर्गस्स्यात् तद्धि प्रतिष्ठितमिति हि ब्राह्मणम् ।
१५ ११ अयुजाक्षरङ् कुमार्याः
१५ ११ अयुजाक्षरङ् कुमार्याः ...{Loading}...
अयुजाक्षरं कुमार्याः ११
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- A girl’s name should have an odd number of syllables.
हरदत्तः
या संख्या अर्थविमितुं न शक्यते सा अयुक् संख्या । अयुञ्जि अक्षराणि यत्र तत् अयुजाक्षरम्–एकाक्षरं त्र्यक्षरमित्यादि । एतावदेव कुमार्या नामलणम्–गौः, वाक्, पृथिवि, पार्वतीति ॥११॥
सुदर्शनः
अयुगक्षरं विषमाक्षरं कुमार्या नाम भवति । अयुजाक्षरमिति छान्दसः । अयुगक्षरत्वमेकमेवात्र विशेषणम्, द्व्यक्षरादीनामनेन निवर्तितत्वात् । तद्यथा– श्रीः, गौः, भारती, कमला, पतिवल्लभा, कमलेक्षणा, इत्यादि । कुमार्या अपि जातकादयश्चौलान्ताः देहसंस्कारार्थाः क्रियास्तूष्णीं कर्तव्या एव । “अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः ॥ संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्” ॥ (म.स्मृ.२-६६.) इति मनुवचनात् । इह च द्रव्यनिष्ठा भावार्थाः प्राशनवपनादय एव निष्कृष्य कर्तव्याः, न तु होमाः ; एवमेव शिष्टाचारात्, स्मृत्यर्थसारे दृष्टत्वाच्च ॥११॥
मूलम् ...{Loading}...
अयुजाक्षरं कुमार्याः ।
१५ १२ प्रवासादेत्य
१५ १२ प्रवासादेत्य ...{Loading}...
प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं +++(=अङ्गादङ्गात्)+++
०३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...
अङ्गा॑दङ्गा॒त् संभ॑वसि॒ हृद॑या॒दधि॑ जायसे । वे॒दो वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।
मूर्धन्यवघ्राणं +++(=अश्मा भव)+++ दक्षिणे कर्ण
मूर्धन्यवघ्राणम् -
०४ अश्मा भवेत्येषा ...{Loading}...
०१ अश्मा भव ...{Loading}...
अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्य् असौ+++(→नामनिर्देशः)+++।
कर्णे जपः
उत्तरान्मन्त्रान् +++(=अग्निरायुष्मान् स वनस्पतिभिः)+++ जपेत् १२
०५-०९ अग्निरायुष्मान्त्स वनस्पतिभिरायुष्मान्तेन ...{Loading}...
अ॒ग्निर् आयु॑ष्मा॒न्त्, स वन॒स्पति॑भि॒र् आयु॑ष्मा॒न्, तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि ।
सोम॒ आयु॑ष्मा॒न्त्, स ओष॑धीभि॒र् आयु॑ष्मा॒न्, तेन॒ …।
य॒ज्ञ आयु॑ष्मा॒न्त्, स दक्षि॑णाभि॒र् आयु॑ष्मा॒न्, तेन॒ …।
ब्रह्मायु॑ष्मत्, तद् ब्रा॑ह्म॒णैर् आयु॑ष्म॒त्, तेन॒ …।
दे॒वा आयु॑ष्मन्त॒स्, ते॑ऽमृते॒नायु॑ष्मन्त॒स्, तेन॒ …।
[पि॒तर॒ आयु॑ष्मन्त॒स् ते स्व॒धयायु॑ष्मन्त॒स्, तेन॒ …।]
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 When (the father) returns from a journey, he should address the child and kiss him on his head with the next two (verses, M. II, 14, 3. 4), and should murmur the next Mantras (II, 14, 5) into his right ear.
हरदत्तः
प्रवासाद् आगत्य तु उत्तराभ्यामभिमन्त्रणमवघ्राणं च क्रमेण कर्तव्यम् । अङ्गादङ्गादित्यभिमन्त्रणं, “अश्मा भव” इत्यवघ्राणम् । नामनिर्देशश्च “अभिजिघ्रामि यज्ञशर्म"न्निति । मन्त्रलिङ्गात् कुमार्या अभिमन्त्रणान्तरोपदेशाच्च सिद्धे पुत्रग्रहणं मूर्धन्यवघ्राणं दक्षिणे कर्णे जापश्च कुमार्या मा भूत् । अन्यथा लिङ्गविरोधाभावात् उभयं कुमार्या अपि स्यात् । तस्या अपि प्रकृतत्वात् । कुमारीमुत्तरेणेत्ययं च अभिमन्त्रणस्यैव प्रत्याम्नायः स्यात्, नेतरयोः । उत्तरे मन्त्राः “अग्निरायुष्मानिति पञ्चे"त्यादिष्टाः । तान् पुत्रस्य दक्षिणे कर्णे जपेत् । मन्त्रग्रहणं क्रियते “अग्निरायुष्मानिति पञ्चे"त्यस्य पञ्चशब्दस्य मन्त्रेषु वृत्तिरिति प्रज्ञापनार्थम् ॥१२॥
सुदर्शनः
प्रवासादागत्योत्तराभ्यां “अङ्गादङ्गात्” “अश्मा भव” इत्येताभ्यां पुत्रस्याभिमन्त्रणं कर्तव्यम् । तथैताभ्यामेव मूर्धन्यवघ्राणम् । असावित्यस्य स्थाने दशम्यां कृतं नाम सम्बुद्ध्या गृह्णाति । केचित् “अङ्गादङ्गादित्यभिमन्त्रणम् ।” “अश्मा भवे"त्यवघ्राणमिति । तथा सति एवं विभज्यैव विनियुञ्जीत, क्रमेणेति वा ब्रूयात् । ततः पुत्रस्य दक्षिणे कर्णे उत्तरान् “अग्निरायुष्मान् स वनस्पतिभिः” इत्यादिकान् सानुषङ्गान् पञ्च मन्त्रान् जपेत् । एतच्च त्रयं प्रतिपुत्रमावर्तते ॥१२॥
मूलम् ...{Loading}...
प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्ण उत्तरान् मन्त्रान् जपेत्।
१५ १३ कुमारीमुत्तरेण
१५ १३ कुमारीमुत्तरेण ...{Loading}...
कुमारीमुत्तरेण यजुषा +++(“सर्व॑स्मादा॒त्मन॒स्संभू॑ताऽसि॒ सा जी॑व श॒रद॑श्श॒तम् । “)+++ ऽभिमन्त्रयते १३
१० सर्वस्मादात्मनस्सम्भूताऽसि सा ...{Loading}...
सर्व॑स्माद् आ॒त्मन॒स् संभू॑ताऽसि॒, सा जी॑व श॒रद॑श् श॒तम् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next Yajus (II, 14, 6) he addresses a daughter (when returning from a journey).
हरदत्तः
प्रवासादेत्य कुमारीं स्त्रीप्रजां उत्तरेण यजुषा “सर्वस्मादात्मनः सम्भूतासी"त्यनेन अभिमन्त्रयते । दुहितरमिति कर्तव्ये कुमारीमिति वचनं प्रदानादूर्ध्वं माभूदिति । पुत्रस्य तु यावज्जीवं भवति पुत्रेऽपि प्रोषितागते अभिमन्त्रणादित्रयं भवति न्यायस्य तुल्यत्वात् ॥१३॥
सुदर्शनः
प्रवासादेत्येत्यनुवर्तते । उत्तरेण “सर्वस्मादात्मनः” इत्यनेन यजुषा कुमारीं कन्यामप्रत्तामभिमन्त्रयते । कुमार्यास्त्वेतावदेव, न त्ववघ्राणजपौ; अवचनात्, तत्र पुत्रस्येति ग्रहणान्मन्त्रस्थपुल्लिङ्गविरोधाच्च ॥१३॥
इति श्रीसुदर्षनार्यविरचिते गृह्यतात्पर्यपदर्शने पञ्चदशः खण्डः ॥
मूलम् ...{Loading}...
कुमारीमुत्तरेण यजुषाऽभिमन्त्रयते।
-
Comp. above, Sūtra 1. ↩︎