१५ ०१ जातं वात्सप्रेणाभिमृश्योत्तरेण
१५ ०१ जातं वात्सप्रेणाभिमृश्योत्तरेण ...{Loading}...
जातं +++(=जातमात्रम्, “प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते”)+++ वात्सप्रेण +++(=दिवसस्परीत्येषः)+++ +अभिमृश्य,
२१ दिवस् परि ...{Loading}...
०१ दिवस्परि प्रथमं ...{Loading}...
दि॒वस् परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर्
अ॒स्मद् द्वि॒तीय॒म् परि॑ जा॒तवे॑दाः ।
तृ॒तीय॑म् अ॒प्सु नृ॒-मणा॒ अज॑स्र॒म्
इन्धा॑न एनं जरते+++(=स्तौति)+++ स्वा॒धीः+++(=सुप्रज्ञाता)+++ ।
२२ विद्मा ते ...{Loading}...
०२ विद्मा ते ...{Loading}...
+++(प्रतिज्ञा+ऋक्। अग्रिमायाम् उत्तरम्।)+++
वि॒द्मा ते॑ अग्ने त्रे॒धा +++{रूपाणि अग्नि-विद्युत्-सूर्यास्}+++ त्र॒याणि॑
वि॒द्मा ते॒ सद्म॒ +++{नानाकुण्डेषु}+++ विभृ॑तम् पुरु॒त्रा +++(=बहुधा)+++।
वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्
वि॒द्मा तम् उत्सं॒ +++(=fount)+++ यत॑ आज॒गन्थ॑ ।
२३ समुद्रे त्वा ...{Loading}...
०३ समुद्रे त्वा ...{Loading}...
+++(प्राक्तनाया विस्तारः!)+++
स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व् अ॑न्तर्
नृ॒चक्षा॑ +++(=नृद्रष्टा)+++ ईधे +++(=दीपयते)+++ दि॒वो अ॑ग्न॒ ऊधन्न्॑ +++(=उधस्स्थानीये मेघे)+++ ।
तृ॒तीये॑ त्वा रज॑सि +++(=लोके)+++ तस्थि॒वाँस॑म्
ऋ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन्न् +++(=बुद्धवन्तः)+++ ।
२४ अक्रन्ददग्निस्स्तनयन्निव द्यौः ...{Loading}...
०४ अक्रन्ददग्निः स्तनयन्निव ...{Loading}...
अक्र॑न्दद् अ॒ग्निः स्त॒नय॑न्निव॒ द्यौः
क्षामा॒ +++(=पृथिवीं)+++ रेरि॑हद् +++(=आस्वादयन्)+++ वी॒रुधः॑ +++(={वृक्ष}गुल्मान्)+++ सम॒ञ्जन्न् ।
स॒द्यो ज॑ज्ञा॒नो +++{दावानलः}+++ वि हीम् इ॒द्धो
अख्य॒दा रोद॑सी भा॒नुना॑ भात्य् अ॒न्तः ।
२५ उशिक्पावको अरतिस्सुमेधा ...{Loading}...
०७ उशिक्पावको अरतिः ...{Loading}...
उ॒शिक् +++(=कामयिता)+++ पा॑व॒को अ॑र॒तिः +++(=गन्ता)+++ सु॑मे॒धा
मर्ते॑ष्व् अ॒ग्निर् अ॒मृतो॒ निधा॑यि ।
इय॑र्ति +++(=गमयति)+++ धू॒मम् अ॑रु॒षम् +++(=महत्)+++ भरि॑भ्र॒द्
उच् छु॒क्रेण॑ शो॒चिषा॒ द्याम् इन॑क्षत् +++(=दीपयत्)+++।
२६ विश्वस्य केतुर्भुवनस्य ...{Loading}...
०६ विश्वस्य केतुर्भुवनस्य ...{Loading}...
विश्व॑स्य के॒तुर् भुव॑नस्य॒ गर्भ॒
आ रोद॑सी अपृणा॒ज् +++(=अपूरयत्)+++ जाय॑मानः ।
वी॒डुं +++(=दृढं)+++ चि॒द् अद्रि॑म् अभिनत् परा॒यञ् +++(=परागच्छन्)+++
जना॒ यद् अ॒ग्निम् अय॑जन्त॒ पञ्च॑ ।
२७ श्रीणामुदारो धरुणो ...{Loading}...
०५ श्रीणामुदारो धरुणो ...{Loading}...
श्री॒णाम् उ॑दा॒रो ध॒रुणो॑ रयी॒णाम्
म॑नी॒षाणा॒म् प्रार्प॑णः॒ सोम॑गोपाः ।
वसोः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ +++(=दीप्यमानः)+++
वि भा॒त्य् अग्र॑ उ॒षसा॑म् इधा॒नः ।
२८ यस्ते अद्य ...{Loading}...
०९ यस्ते अद्य ...{Loading}...
यस् ते॑ अ॒द्य कृ॒णव॑द् भद्रशोचे
ऽपू॒पं दे॑व घृ॒तव॑न्तम् अग्ने।
प्र तं न॑य प्रत॒रां +++(=नितरां)+++ वस्यो॒ +++(=वसीयः)+++
अच्छा॒भि द्यु॒म्नं +++(=धनं)+++ दे॒वभ॑क्तं यविष्ठ ।
२९ तम्भज सौश्रवसेष्वग्न ...{Loading}...
१० आ तं ...{Loading}...
आ तम् भ॑ज सौश्रव॒सेष्व् +++(स्वन्नेषु [यागेषु])+++ अ॑ग्न
उ॒क्थउ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।
प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्य्
उज् जा॒तेन॑ +++{पुत्रादिना}+++ भि॒नद॒द् +++(=उद्भिद्य प्रकाशताम्)+++ उज्जनि॑त्वैः +++(=जनिष्यमाणैः)+++।
३० त्वामग्ने यजमाना ...{Loading}...
११ त्वामग्ने यजमाना ...{Loading}...
त्वाम् अ॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्
विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि +++(=वरणीयानि)+++ ।
त्वया॑ स॒ह द्रवि॑णम् इ॒च्छमा॑ना
व्र॒जं गोम॑न्तम् उ॒शिजो॒ +++(=मेधाविनो)+++ वि व॑व्रुः ।
३१ दृशानो रुक्म ...{Loading}...
०८ दृशानो रुक्म ...{Loading}...
दृ॒शा॒नो रु॒क्म +++(=रोचमानः)+++ उ॒र्व्या +++(=महत्या)+++ व्य॑द्यौद्,
दु॒र्मर्ष॒म् आयुः॑ श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर् अ॒मृतो॑ अभव॒द् वयो॑भि॒र्
यद् ए॑नं॒ द्यौर् अज॑नयत् सु॒रेताः॑ ॥
उपस्थ आधानम्
उत्तरेण यजुषोपस्थ आधाय +++(=“अस्मिन्नह"मित्यनेन)+++,
३२ अस्मिन्नहं सहस्रम् ...{Loading}...
अ॒स्मिन्न॒हँस॒हस्रं॑ पुष्या॒म्येध॑मान॒स् स्वे वशे॑ ।
अभिमन्त्रणम्
उत्तराभ्याम् +++(“अङ्गादङ्गाद्” इति)+++ अभिमन्त्रणं ,
३३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...
अङ्गा॑दङ्गा॒त्संभ॑वसि॒ हृद॑या॒दधि॑ जायसे ।
आ॒त्मा वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।
मूर्धन्यवघ्राणम्
+++(“अश्मा भवे"ति)+++ मूर्धन्यवघ्राणं,
०१ अश्मा भव ...{Loading}...
अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्य् असौ+++(→नामनिर्देशः)+++।
दक्षिणकर्णे-जपः
+++(“मेधां त” इति)+++ दक्षिणे कर्णे जापः १
०२ मेधान्ते देवस्सविता ...{Loading}...
मे॒धान् ते॑ दे॒वस् स॑वि॒ता
मे॒धान् दे॒वी सर॑स्वती ।
मे॒धान् ते॑ अ॒श्विनौ॑ दे॒वाव्
आध॑त्तां॒ पुष्क॑रस्रजा ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 After he has touched the new-born child with the Vātsapra hymn (Taitt. Saṃh. IV, 2, 2; M. II, 11, 20), and has taken him on his lap with the next Yajus (M. II, II, 21), with the next (three) (verses - II, 11, 22; 12, 1. 2 - one by one) he addresses the child, kisses him on his head, and murmurs (the third verse) into his right ear.
हरदत्तः
जातमिति पुल्लिङ्गस्य विवक्षितत्वात् पुंस एवायं जातकर्माख्यः संस्कारः । न स्त्रियाः । वत्सप्रीर्नाम ऋषिः । तेन दृष्टं वात्सप्रं दिवस्परीत्येषोऽनुवाकः । प्रत्यृचमभिमर्शनम् । सर्वान्त इत्यन्ये । उत्तरेण यजुषा “अस्मिन्नहम्” इत्यनेन । उत्तरत्र मातुरिति विशेषणादिह स्व उपस्थ आदधाति । उत्तराभिरिति पाठः । उत्तराभिः तिसृभिः ऋग्भिः अभिमन्त्रणादीनि त्रीणि कर्तव्यानि । “अङ्गादङ्गाद्” इत्यभिमन्त्रणम् । “अश्मा भवे"ति मूर्धन्यवघ्राणम् । “मेधां त” इति दक्षिणे कर्णे जापः । जप इत्यर्थः । केचित्तु उत्तराभ्यामिति द्विवचनान्तपाठमाश्रित्य द्वयोर्मन्त्रयोः त्रिष्वपि कर्मसु विनियोगं मन्यन्ते । तेषामवघ्राणलिङ्गेनाभिमन्त्रणं कर्णयोर्जपश्च प्राप्नोति । आश्वलायनश्चाह– कर्णयोरुपनिधाय मेधाजननं जपति मेधां ते देवस्सवितेति (आश्व.श्रौ.१-१३-२.) ॥१॥
सुदर्शनः
जातं जातमात्रम्, प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते ॥ (मनु.२-२९.) इति वचनात् । एतच्चोपरिशोध्यते । जातं कुमारं पिता वात्सप्रेण “दिवस्परि” (तै.सं.४-२-२.) इत्यनुवाकेन अन्ते सकृदभिमृश्य “अस्मिन्नहम्” इत्यनेन यजुषा स्वस्योपस्थे तम् आधाय, उत्तराभ्यां “अङ्गादङ्गात्” “अश्मा भव” इति द्वाभ्यां तस्याभिमन्त्रणं कर्तव्यम्, तथैव ताभ्यामेव मूर्धन्यवघ्राणम्, एतयोरेवर्चोः दक्षिणे कर्णे जापो जप इत्यर्थः । वचनबलाच्च जपाभिमन्त्रणयोरवघ्राणलिङ्गबाधः । अभिधानं तु जातसंस्कारक्रियासामान्यात् । एतच्च “तीर्थस्थाणुचतुष्पथव्यतिक्रमे” (आप.गृ.५-२६.) इत्यत्रोपपादितम् । केचित्— उत्तराभिरिति पाठो, नोत्तराभ्यामिति । तेन “अङ्गादङ्गात्” इत्यभिमन्त्रणम् । “अश्मा भव” इत्यवघ्राणम् । “मेधां ते देवः” इति जपः । अत एवाश्वलायनः— “कर्णयोरुपनिधाय मेधाजननं जपति “मेधां ते देवस्सविता” इति” । मधुघृतप्राशनं तु “त्वयि मेधाम्” इति यजुर्भिरेव त्रिभिरिति । तन्न; अनधीयमानपाठाङ्गीकारे अतिप्रसङ्गात् ॥१॥
मूलम् ...{Loading}...
जातं वात्सप्रेणाभिमृश्योत्तरेण यजुषोपस्थ आधायोत्तराभ्यामभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्णे जापः ।
१५ ०२ नक्षत्रनाम च
१५ ०२ नक्षत्रनाम च ...{Loading}...
+++(“अभिजिघ्राम्यसौ”)+++ नक्षत्रनाम च निर्दिशति २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- And he gives him a Nakṣatra name.
हरदत्तः
अभिजिघ्राम्यसौ इत्यत्रासौशब्दस्य स्थाने नक्षत्रनामनिर्देशः । तत्संबुध्या निर्दिशेत्–पशूनां त्वा हिंकारेणाभिजिघ्राम्याश्वयुजेत्यादि । तत्र नक्षत्रशब्देषु जातार्थे रूपनिर्णयार्थः श्लोकः—
सुदर्शनः
कुमारस्व यन्नक्षत्रजननाद्यन्नाम तच्च रौहिण्येत्यादिसम्बुद्ध्या असौशब्दस्य स्थाने निर्दिशति । अत्र चायमशिक्षितव्याकरणशास्त्राणां रूपज्ञानाय सूत्रस्य श्लोकः— रोरेममृज्येचिषु वृद्धिरादौ ष्ठात्पे च वान्त्यश्रवशाश्वयुक्षु । शेषेषु नाम्वोः कपरस्स्वरोऽन्त्यः स्वाप्वोरदीर्घस्सविसर्ग इष्टः ॥
अस्यार्थः—रोहिणी रेवती मघा मृगशीर्षा ज्येष्ठा चित्रा—इत्येतेषु आद्यक्षरनिर्दिष्टेषु आदौ वृद्धिर्भवति, “नक्षत्रेभ्यो बहुलम्, (पा.सू.४-३-३७.)इति बहुलग्रहणाज्जातार्थप्रत्ययस्य च लुगभावः । रूपं च रौहिणः रैवतः मार्गशीर्षः ज्येष्ठः चैत्रः इति । ष्ठात्पे च, प्रोष्ठपदेत्यत्र ष्ठकारात्परे च वृद्धिः । “जे प्रोष्ठपदानाम्” (पा.सु.७-३-१८.) इत्युत्तरपदवृद्धिरित्यर्थः । पूर्ववच्च लुगभावः प्रोष्ठपादः । वान्त्यश्रवशाश्वयुक्षु । अन्त्यमाम्नानतः अपभरणीरित्यर्थः । श्रवः श्रवणं शतभिषक् अश्वयुक् इत्येतेषु चतुर्षु वा विकल्पेन वृद्धिः । अत्र च श्रवणापभरण्योः बहुलग्रहणादेव लुको विकल्पः । अश्वयुक्छतभिषजास्तु “वत्सशालाभिजिदश्वयुक्छतभिषजो वा” (पा.सू.४-३-३६.) इति सूत्रेण । अपभरणः आपभरणः । श्रवणः श्रावणः । शतभिषक् शातभिषजः । अश्वयुक् आश्वयुजः । शेषेषु न, उक्तादन्येषु नक्षत्रेषु न वृद्धिः । यतोऽत्र “श्रविष्ठाफल्गुन्यनूराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्” (पा.सू.४-३-३४.) इत्यनेन, “नक्षत्रेभ्यो बहुलम्” इत्यनेन च लुगेव भवति । “लुक्तद्धितलुकि” (पा.सू.१-२-४९.) इति स्त्रीप्रत्ययनिवृत्तिः । कृत्तिकः तिष्यः आश्रेषः फाल्गुनः हस्तः विशाखः अनूराधः आषाढः श्रविष्ठः । आम्वोः कपरः स्वरोऽन्त्यः, आर्द्रमूलयोरन्त्यः स्वरः कशब्दपरो भवति । पूर्वाह्णापराह्णार्द्रामूला” इत्यादिना उञ्प्रत्यय इत्यर्थः । आर्द्रकः मूलकः । स्वाप्वोरदीर्घस्सविसर्ग इष्टः, स्वाप्वोः स्वातीपुनर्वस्वोरन्त्यस्वरो दीर्घस्सविसर्गश्चेष्टः । “श्रविष्ठाफल्गुनी” इत्यादिना लुक् । सविसर्गत्वं च पूर्वस्य स्त्रीप्रत्ययस्यनिवृत्तौ हल्ङ्यादिलोपाभावात् । उत्तरस्य तनुवदुकारान्तत्वात् । स्वातिः पुनर्वसुः । एवं सर्वेषां नक्षत्रनाम्नां प्रथमया निर्देशः सूक्तवाके । जातकर्मणि पुनस्सम्बुद्ध्या ॥२॥
मूलम् ...{Loading}...
नक्षत्रनाम च निर्दिशति ।
१५ ०३ तद्रहस्यम् भवति
१५ ०३ तद्रहस्यम् भवति ...{Loading}...
तद्रहस्यं भवति +++(सूक्र्तवाकाभिवादनादिष्वपि!)+++३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- That is secret.
हरदत्तः
नक्षत्रनाम रहस्यं भवति । यथा परे न जानन्ति तथा वक्तव्यमित्यर्थः । सूक्तवाकादिष्वप्येवमेव ॥३॥
सुदर्शनः
नक्षत्रनाम च रहस्यं निर्देशेदिति सूत्रे प्रणेतव्ये सूत्रान्तरकरणात् यत् नामनक्षत्रनिबन्धनं, यच्च दशम्यां कृतं तदुभयं सूक्तवाकान्नप्राशनाभिवादनादिषु नित्यं रहस्यमेव निर्देश्यं भवति ॥३॥
मूलम् ...{Loading}...
तद्रहस्यं भवति ।
१५ ०४ मधु घृतमिति
१५ ०४ मधु घृतमिति ...{Loading}...
मधु घृतम् इति संसृज्य
तस्मिन् दर्भेण हिरण्यं निष्टर्क्य +++(= शिखाबन्धनवत्सरन्ध्रेण ग्रन्थिना)+++,
बध्वा
ऽवदाय
+उत्तरैर् मन्त्रैः +++(“त्वयि मेधाम्” इति)+++ कुमारं प्राशयित्वा,
०३-०५ त्वयि मेधाम् ...{Loading}...
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वय्य् अ॒ग्निस् तेजो॑ दधातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयीन्द्र॑ इन्द्रि॒यं द॑धातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयि॒ सूर्यो॒ भ्राजो॑ दधातु ।
स्नापनम्
प्रतिज्ञा
उत्तराभिः पञ्चभिस् +++(=“ऽक्षेत्रियै त्वे"त्यादिभिः)+++ स्नापयित्वा,
०६ क्षेत्रियै त्वा ...{Loading}...
क्षे॒त्रि॒यै +++(=अचिकित्स्यव्याधेः)+++ त्वा॒ निर्ऋ॑त्यै त्वा..
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि
शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ।
शान्तिवचनम्
०७ शन्ते अग्निस्सहाद्भिरस्तु ...{Loading}...
शन् ते॑ अ॒ग्निस् स॒हाद्भिर् अ॑स्तु॒
शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः ।
शम् अ॒न्तरि॑क्षꣳ स॒ह वाते॑न ते॒
शन् ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु।
०८ या दैवीश्चतस्रः ...{Loading}...
या दैवी॒श् चत॑स्रः प्र॒दिशो॒ वात॑-पत्नीर्,
अ॒भि सूर्यो॑ विच॒ष्टे +++(=विपश्यति)+++ ।
तासा॑न् त्वा ऽऽज॒रस॒ आ द॑धामि॒।
प्र यक्ष्म॑ एतु॒ निर्ऋ॑तिं परा॒चैः +++(=प्राङ्मुखः)+++ ।
अवर्तिनिवारणम्
०९ अमोचि यक्ष्माद्दुरितादवर्त्यै ...{Loading}...
अमो॑चि॒ यक्ष्मा॑द् दुरि॒ताद् अव॑र्त्यै +++(=आपत्तः)+++।
द्रु॒हः पाशा॒न् निर्ऋ॑त्यै॒ च+उद॑मोचि ।
अहा॒ +++(=अहासीत्)+++ अव॑र्ति॒म् +++(=दारिद्र्यम्)+++, अवि॑दत् स्यो॒नम् +++(=सुस्वम्)+++।
अप्य॑भूद् भ॒द्रे सु॑कृ॒तस्य॑ लो॒के ।
सूर्यग्रहणमोक्षनिदर्शनम्
१० सूर्यमृतन्तमसो ग्राह्या ...{Loading}...
सूर्य॑म् ऋ॒तन् +++(=प्राप्तम्)+++ तम॑सो॒ ग्राह्या॒
यद् दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न् व्ये॑नसः +++(=व्यसृजन् एनसः)+++ ।
+++(प्रतिज्ञापूर्तिः- )+++
ए॒वम् अ॒हम् इ॒मं क्षे॑त्रि॒याज् +++(=आनुवंशिकाद् [रोगात्])+++ जा॑मिशँ॒साद् +++(=बन्धूक्ताद्)+++
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् ।
दधि-घृत-प्राशनम्
दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतीभिरोङ्कारचतुर्थाभिः +++(“भूः स्वाहेत्यादिभिः प्रतिमन्त्रम्”)+++ कुमारं प्राशयित्वा, अद्भिश् शेषं संसृज्य गोष्ठे निनयेत् ४
११ भूस्स्वाहा भुवस्स्वाहा ...{Loading}...
भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहा। ॐ स्वाहा॑ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He pours together honey and ghee; into this (mixture) he dips a piece of gold which he has tied with a noose to a Darbha blade. With the next (three) formulas (II, 12, 3-5) he gives the boy (by means of the piece of gold, some of the mixture) to eat. With the next five (verses, II, 12, 6-10) he bathes him. Then he pours curds and ghee together and gives him this (mixture which is called) ‘sprinkled butter’ (pṛṣadājya) to eat out of a brass vessel, with the Vyāhṛtis to which the syllable ‘Om’ is added as the fourth (II, 12, 11-14). The remainder he should mix with water and pour out in a cow-stable.
हरदत्तः
मधुघृतमित्येतद्वयं विषमपरिमाणं कांस्यपात्रे संसृज्य तस्मिन् हिरण्यं दर्भेण, निष्टर्क्यं बध्वा ऽऽदधाति । निष्टर्क्यमिति बन्धनविशेषो लोकप्रसिद्धः । तथा बद्धेन हिरण्येन तद्रसद्वयमादाय तेनैव कुमारं प्राशयेत् । उत्तरैस्त्रिभिः “त्वयि मेधाम्” इत्यादिभिः प्रतिमन्त्रं प्राशनम् । तत उत्तराभिः पञ्चभिः ऋग्भिः “क्षेत्रियै त्वे"त्यादिभिः प्रतिमन्त्रं स्नापयति । ततो ऽन्यस्मिन् कांस्यपात्रे दधि घृतञ्च संसृज्य तत्पृषदाज्यं तेनैव कांस्येन प्राशयति । व्याहृतीभिरोङ्कारचतुर्थाभिः भूः स्वाहेत्यादिभिः प्रतिमन्त्रम् । ततश् शेषद्वयमद्भिस्संसृज्य गोष्ठे निनयेत् । कुमारग्रहणं असमर्थस्यापि कुमारस्यैव प्राशनमुपायेन यथा स्यादिति । तेन यत्नाभावे “धानाः कुमारान् प्राशयन्ति” “क्षैत्रपत्त्यं च प्राशयन्ति” इत्यादौ प्राशनमसमर्थानां न भवति ॥४॥
सुदर्शनः
निष्टकर्यं शिखाबन्धनवत् सरन्ध्रेण ग्रन्थिना निष्टर्क्यं बध्नाति; “प्रजानां प्रजननाय” इति लिङ्गात् । उत्तरैर्मन्त्रैः “मेधां ते देवस्सविता” इत्यृचा, “त्वयि मेधान्” इति चतुर्भिर्यजुर्भिः । प्राशनं चतुर्णामन्ते सकृदेव हिरण्येन गृहीत्वा । “मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम्” । (मनु.२-२९.) इति मनुवचनात् । उत्तराभिः पञ्चभिः “क्षेत्रियै त्वा निऋत्यै त्वा” इत्यादिभिः । स्नापनमपि पञ्चानामन्ते सकृदेव । दधि घृतमिति संसृष्टे पृषदाज्ये । तच्च यस्मिन् कांस्ये संसृज्यते तेनैव प्राशयेन्न हस्तेन । व्याहृतीभिराङ्कारचतुर्थाभिः “भूः स्वाहा” इत्यादिभिः । अत्राप्यन्ते सकृत्प्राशनम् । प्राशितशेषमद्भिस्संसृज्य गोष्ठे अधिकरणेऽन्यो निनयेत् । केचित्—मधृघृतसंसर्गोऽपि कांस्ये नियतः । प्राशनद्वयं स्नापनं च प्रतिमन्त्रमिति ॥४॥
मूलम् ...{Loading}...
मधु घृतमिति सँसृज्य तस्मिन् दर्भेण हिरण्यं निष्टर्क्यं बध्वावदायोत्तरैर्मन्त्रैः कुमारं प्राशयित्वोत्तराभिः पञ्चभिस्स्नापयित्वा दधि घृतमिति सँसृज्य काँस्येन पृषदाज्यं व्याहृतीभिरोङ्कारचतुर्थाभिः कुमारं प्राशयित्वाद्भिः शेषँ सँसृज्य गोष्ठे निनयेत् ।
१५ ०५ उत्तरया मातुरुपस्थ
१५ ०५ उत्तरया मातुरुपस्थ ...{Loading}...
उत्तरया +++(=“मा ते कुमारम्”)+++ मातुरुपस्थ आधाय,
०१ मा ते ...{Loading}...
मा ते॑ कुमा॒रँ रक्षो॑वधी॒न्
मा धे॒नुर॑त्यासा॒रिणी॑ ।
प्रि॒या धन॑स्य भूया॒
एध॑माना॒ स्वे गृ॒हे ।
दक्षिणे स्तने प्रतिधाप्य
उत्तरया +++(=“अयं कुमारः”)+++ दक्षिणं स्तनं प्रतिधाप्य,
०२ अयङ् कुमारो ...{Loading}...
अ॒यं कु॑मा॒रो ज॒रां ध॑यतु दी॒र्घमायुः॑ ।
यस्मै॒ त्व२ँ स्तन॒! प्रप्या॒य +++(=प्रक्षर)+++
+आयु॒र्वर्चो॒ यशो॒ बल॑म् ।
पृथिव्या अभिमर्शः
उत्तराभ्यां +++(=“यद्भूमेर्हृदयम्”)+++ पृथिवीमभिमृश्य,
०३ यद्भूमेर्हृदयन्दिवि चन्द्रमसि ...{Loading}...
- यद्भूमे॒र्हृद॑यन्दि॒वि च॒न्द्रम॑सि श्रि॒तम् । तदु॑र्वि पश्यं॒ +++(=पश्येयम्)+++ माऽहं पौत्र॒मघꣳ॑ रुदम् ।
०४ यत्ते सुसीमे ...{Loading}...
- यत्ते॑ सुसी॒मे हृद॑यं॒ वेदा॒हं तत् प्र॒जाप॑तौ +++(=चन्द्रमसि [छायारूपेण])+++ । वेदा॑म॒ तस्य॑ ते व॒यं माऽहं पौत्र॒मघꣳ॑ रुदम् ।
संविष्टस्याभिमर्शनम्
उत्तरेण यजुषा +++(=“नामयति न रुदति”)+++ संविष्टम् ॥
०५ नामयति न ...{Loading}...
न +आम॑यति॒, न रु॑दति॒, यत्र॑ व॒यं व॑दामसि॒, यत्र॑ चा॒भिमृ॑शामसि ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next (verse, M. II, 13, 1) he places (the child) in the mother’s lap; with the next (II, 13, 2) he causes her to give him her right breast; with the next two (verses, II, 13, 3. 4) he touches the earth, and after (the child) has been laid down, (he touches him) with the next (formula, II, 13, 5).
हरदत्तः
अथ तं कुमारं “मा ते कुमारम्” इत्येतया मातुरुपस्थ आदधाति । एतावन्तं कालं स्वोपस्थे । तस्मात् शेषनिनयनमप्यन्येन कारयितव्यम् । तत उत्तरयर्चा “अयं कुमार” इत्येतया दक्षिणं स्तनं प्रतिधाप्य तत उत्तराभ्यां ऋग्भ्यां “यद्भूमेर्हृदयम्” इत्येताभ्यां प्रतिमन्त्रं पृथिवीमभिमृशति । ततः तं कुमारं अभिमृष्टायां भूमौ संवेशयति माता । तं संविष्टम् उत्तरेण यजुषा “नामयति न रुदती"त्यनेनाभिमृशति ॥५॥
सुदर्शनः
उत्तरया “मा ते कुमारम्” इत्येतया कुमारं मातुरुपस्थ आदधाति । इह च मातृग्रहणादितः पूर्वं स्वोपस्थ एव । अत एव च शेषनिनयनमन्यकर्तृकम् । उत्तरया “अयं कुमारः” इत्येतया दक्षिणं स्तनं प्रतिधापयति पाययति । इदं च मन्त्रनियमयोर्विधानं प्रथमस्तनपानविषयम्, प्रथमातिक्रमे कारणाभावात् । ततश्च जातेष्टिः, “वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते यदष्टकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति” (तै.सं.२-२-५.) इत्यादिना यद्यपि पुत्रजन्माख्यनिमित्तसंयोगेन श्रुता, तथापि क्षामवत्यादिवन्न निमित्तादनन्तरं कर्तव्या । कुत एतत्? रात्रिसत्रन्यायेन आर्थवादिकपुत्रगतब्रह्मवर्चसादिकामनासंवलितस्यैव जन्मनोऽधिकारहेतुत्वाभ्युपगमात् जातेष्ठिप्रवृत्तेश्चोत्कटजीवत्पुत्रगतपूततादिफलरागाधीनत्वात् दीर्घकालसमाप्यायां चेष्टौ कृतायां पश्चाद्वैधस्तनपाने सति कुमार एव शेषी शुष्ककण्ठतया न जीवेत् । ततश्चेष्ट्यां रागाधीनायां प्रवृत्तिरेव न स्यात् । तस्मात् जननानन्तरमेव संशासनान्तं जातकर्मैव कर्तव्यम् । इष्टिस्तूक्तेन न्यायेन निमित्तस्वारस्यभङ्गस्य दुर्निवारत्वात् चोदकानुग्रहाच्चाशौचे ऽपगते पर्वण्येव कर्तव्या । उत्तराभ्यां “यद्भूमेर्हृदयं” इत्येताभ्यां पृथिवीं सकृद् अभिमृशति, यत्र कुमारश्शतयिष्यते । ततस्तं कुमारं अभिमृष्टायां भूमौ माता संवेशयति । अथ तं संविष्टं “नामयति न रुदति” इति यजुषा अभिमृशति ॥५॥
मूलम् ...{Loading}...
उत्तरया मातुरुपस्थ आधायोत्तरया दक्षिणं स्तनं प्रतिधाप्योत्तराभ्यां पृथिवीमभिमृश्योत्तरेण यजुषा संविष्टम् ।
१५ ०६ उत्तरेण यजुषा
१५ ०६ उत्तरेण यजुषा ...{Loading}...
उत्तरेण यजुषा शिरस्य् उदकुम्भं निधाय,
०६ आपस्सुप्तेषु जाग्रत ...{Loading}...
आप॑स्सु॒प्तेषु॑ जाग्रत॒ रक्षाꣳ॑सि॒ निरि॒तो नु॑दद्ध्वम् ।
सूतकहोमः
सर्षपान् फलीकरणमिश्रानञ्जलिनोत्तरैस् त्रिस्त्रि प्रतिस्वाहाकारं हुत्वा
हरदत्तो ऽत्र।
- +++(सर्षपान् फलीकरणमिश्रान् जुहोति।)+++
०७ अयङ् कलिम् ...{Loading}...
अ॒यं क॒लिं प॒तय॑न्त२ꣳ+++(=प्रतिगच्छन्तम्)+++ श्वा॒नम् इ॒वोद्-वृ॑द्धम् ।
अ॒जां वाशि॑ताम् इव मरुतः॒ पर्या॑द्ध्व॒२ꣳ॒+++(=पर्यास्यध्वम्)+++ स्वाहा॑ ।
०८ शण्डेरथश्शण्डिकेर उलूखलः ...{Loading}...
शण्डे॒रथ॒श्+++(शण्डो रथे यस्य)+++ शण्डि॑केर+++(शण्डिकम् बलम् ईरयति)+++ उलूख॒लः ।
च्यव॑नो॒ नश्य॑ताद् इ॒तः स्वाहा॑ ।
०९ अयश्शण्डो मर्क ...{Loading}...
अय॒श् शण्डो॒ मर्क॑
उप॒वीर॑+++(यमवेक्ष्यान्ये वीरा न्यूनाः)+++ उलूख॒लः ।
च्यव॑नो॒ नश्य॑ताद् इ॒तः स्वाहा॑ ।
१० केशिनीश्श्वलोमिनीः खजापोऽजोप ...{Loading}...
के॒शिनी॒श् श्वलो॒मिनीः॒ खजा॑पो॒+++(=खञ्जा =पङ्ग्वयो भूत्वाप्नुवन्ति)+++
ऽजोप॑काशिनीः+++(=अजनिभाः)+++ ।
अपे॑त॒ नश्य॑ताद् इ॒तस् स्वाहा॑ ।
११ मिश्रवाससः कौबेरका ...{Loading}...
मि॒श्रवा॑ससः कौबेर॒का
र॑क्षोरा॒जेन॒ प्रेषि॑ताः ।
ग्राम॒ꣳ॒ सजा॑नयो गच्छन्ती॒-
च्छन्तो॑ ऽपरि॒दाकृ॒तान्थ्+++(अनुपनीतान् - “अग्नये त्वा परिददामीति” तत्र मन्त्रः)+++ स्वाहा॑ ।
१२ एतान्घ्नतैतान्गृह्णीतेत्ययम् ...{Loading}...
ए॒तान् घ्न॑तै॒तान् गृ॑ह्णी॒ते-
त्य् अ॒यं ब्रह्म॑णस्पु॒त्रः ।
तान् अ॒ग्निः पर्य॑सर॒त्
तान् इन्द्र॒स् तान् बृह॒स्पतिः॑ ।
तान् अ॒हं वे॑द ब्राह्म॒णः
प्र॑मृश॒तः कू॑टद॒न्तान्,
वि॑के॒शान् लं॑बनस्त॒नान्थ् स्वाहा॑ ॥ (13)
०१ नक्तञ्चारिण उरस्पेशाञ्छूलहस्तान्कपालपान् ...{Loading}...
न॒क्त॒ञ्चा॒रिण॑ उरस्पे॒शाञ्+++(=उरस्युज्ज्वलान्)+++
छू॑ल-ह॒स्तान् क॑पाल॒पान् ।
पूर्व॑ एषां पि॒ता +++(“ए॒तान् घ्न॑तै॒तान् गृ॑ह्णी॒त”)++++इत्य्
उ॒च्चैश् श्रा॑व्य क॒र्णकः॑ ।
मा॒ता ज॑घ॒न्या॑ सर्प॑ति॒
ग्रामे॑ विधु॒रम् इ॒च्छन्ती॒ स्वाहा॑ ।
०२ निशीथचारिणी स्वसा ...{Loading}...
नि॒शी॒थ॒चा॒रिणी॒ स्वसा॑
स॒न्धिना॒ प्रेक्ष॑ते॒ कुल॑म् ।
या स्वप॑न्तं बो॒धय॑ति॒
यस्यै॒ विजा॑तायां॒ मनः॑ ।
तासां॒ त्वं कृ॑ष्ण॒वर्त्म॑ने
क्लो॒मान॒ꣳ॒+++(=श्वासकोशः)+++ हृद॑यं॒ यकृ॑त्+++(=liver)+++ ।
अग्ने॒ अक्षी॑णि नि॒र्दह॒ स्वाहा॑ ।
+++(पिता)+++ संशास्ति- “प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपते"ति ६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next Yajus (II, 13, 6) he places a water-pot at (the child’s) head, sacrifices mustard seeds and rice-chaff with his joined hands three times with each of the next (formulas, II, 13, 7-14, 2), repeating each time the word Svāhā, and says (to the people who are accustomed to enter the room in which his wife lies), ‘Whenever you enter, strew silently (mustard seeds with rice-chaff) on the fire.’
हरदत्तः
ततस्तस्य शिरस्समीपे उत्तरेण यजुषा “आपस्सुप्तेष्वि"त्यनेन उदकुम्भं निदधाति । ततस् सर्षपान् फलीकरणमिश्रान् अञ्जलिना जुहोति उत्तरैर्मन्त्रैः अष्टाभिः “अयं कलिम्” इत्यादिभिः । तत्र च प्रतिस्वाहाकारं त्रिर्होमः । सकृन्मन्त्रेण द्विस्तूष्णीम् । द्रव्यं च पुनःपुनरादेयम् । केचित्तु सकृदुपात्तेनैव त्रिर्जुह्वति । उत्तरयोश्च होमयोः स्वाहाकारमात्रमावर्तयन्ति । होमश्चायमपूर्वः तन्त्रस्याविधानात् परिस्तरणं तु भवति । परिषेचनं समन्तमुभयतः । हुत्वा ततस्संशास्ति । कान् ! ये सूतिकागारं प्रविशन्ति । तत्र संशासने एवकारः एवमित्यस्यार्थे । एतदुक्तं भवति–अस्य सूतिकागारस्य यदा यदा प्रवेशो युष्माभिः क्रियते तदा तदा सर्षपान् फलीकरणमिश्रानस्मिन्नग्नावेवं तूष्णीमावपत यथा मयोप्ताः अञ्जलिना त्रिस्त्रिश्चेति । तत्र तूष्णीमित्यतिदेशप्राप्तस्य मन्त्रस्य प्रतिषेधः । यथासंप्रैषं ते कुर्वन्ति । होमश्चायं कुमारस्य रक्षार्थः संस्कारः, न मातुः, प्रकरणात् । तेन यद्यपि “यस्यै विजातायां मन” इति मातुरपि रक्षा प्रतीयते तथापि तदर्थो होमो न भवति । ततश्च स्त्रीप्रसवे दशाहमध्ये पुत्रमृतौ च न भवति ॥६॥
सुदर्शनः
उत्तरेण “आपस्सुप्तेषु” इत्यनेन यजुषा कुमारस्य शिरस्समीपे उदकस्य पूर्णकुम्भं निधाय अथ “यत्र क्व ताग्निम्” (आप.ध.२-१-२३.) इत्यादिविधिना श्रोत्रियागारादग्निमाहृत्य तमुपनिधाय फलीकरणमिश्रान् सर्षपान् उत्तरैः “अयं कलिम्” इत्यादिभिरष्टभिर्मन्त्रैः अञ्जलिना प्रतिमन्त्रं त्रिस्रिर् जुहोति । तत्र तु द्विस्तूष्णीम् । तूष्णीकेष्वपि स्वाहाकारो भवति, प्रतिमन्त्रमिति सिद्धे प्रतिस्वाहाकारमित्यधिकाक्षरात् । अथ सूतिकागृहपालान् संशास्ति–प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपतेति । सम्प्रैषस्य चायं विवक्षितोऽर्थः– प्रतिप्रवेशं तदनन्तरमेव सर्षपान् फलीकरणमिश्रान् अञ्जलिना अस्मिन्नेवाग्नौ तूष्णीं वाग्यता एव आवपतेति । एवकाराच्च प्रवेशावापयोर्मध्ये त्रुटिमात्रस्यापि कालस्य न क्षेपः । सर्षपाणामेवाञ्जलिना आवापः ; प्रकृतत्वात् । केचित् एवकार एवमित्यर्थे । तूष्णीमिति चातिदेशप्राप्तमन्त्रप्रतिषेधार्थमिति ॥६॥
मूलम् ...{Loading}...
उत्तरेण यजुषा शिरस्त उदकुम्भं निधाय सर्षपान् फलीकरणमिश्रानञ्जलिनोत्तरैस्त्रिस्त्रि प्रतिस्वाहाकारं हुत्वा संशास्ति–प्रविष्ट प्रविष्ट एव तूष्णीमग्नावावपतेति ।
१५ ०७ एवमहरहरानिर्दशतायाः
१५ ०७ एवमहरहरानिर्दशतायाः ...{Loading}...
एवमहरहरानिर्दशतायाः +++(=“निर्दशा"निर्गता दशभ्योऽहोरात्रेभ्यो या रात्रिस्सा)+++७
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- This is to be done until the ten days (after the child’s birth) have elapsed.
हरदत्तः
विजननप्रभृति यावत् दशाहानि न निर्गच्छन्ति तावदेव होमः कर्तव्यः संशानञ्चेत्यर्थः । सकृच्चहोमाः, न सायम् । यद्यपि संशासनमनन्तरं तथापि तावन्मात्रस्यायमतिदेशो न भवति । तस्य होमशेषत्वात् । नापि वात्सप्रादेः । कृत्स्नस्य कल्पान्तरेषु सर्वेष्वप्रसिद्धत्वात् ॥७॥
सुदर्शनः
यथैतदनन्करोक्तं तूष्णीमापवनं एवमहरहः आनिर्दशतायास् सूतिकागृहपालैः कर्तव्यम् । आङ् मर्यादायाम् । निर्दशा निर्गता दशभ्योऽहोरात्रेभ्यो या रात्रिस्सा । आदशम्या रात्रेरित्यर्थः ॥७॥
मूलम् ...{Loading}...
एवमहरहरानिर्दशतायाः।
-
15, 1. We ought to read uttarābhir, not uttarābhyām. Comp. below, Sūtra 12. ↩︎