१४ ०९ पुँसवनं व्यक्ते
१४ ०९ पुँसवनं व्यक्ते ...{Loading}...
पुँसवनं व्यक्ते गर्भे तिष्येण ।
१४ पुंसुवनमसि ...{Loading}...
पु॒ꣳ॒ सु॒वन॑म् असि ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The Puṃsavana (i.e. the ceremony to secure the birth of a male child) is performed when the pregnancy has become visible, under the constellation Tiṣya.
हरदत्तः
पुमान् येन सूयते तत्पुंसुवनं नाम कर्म । उवङादेशश्छान्दसः । मन्त्रदर्शनात् पुंसुवनमसीति । आश्वलायनस्तु गुणमेव प्रायुङ्क्त । तत्, व्यक्ते गर्भे कर्तव्यम् । गर्भव्यक्तिश्च तृतीये चतुर्थे वा मासि । यदापि चतुर्थे तदा सीमन्तात् पूर्वमेव पुंसवनम् । निमित्तस्य पूर्वत्वात् । पश्चादुपदेशस्य तु प्रयोजनं वक्ष्यामः । तिष्येण तच्च तिष्ये कर्तव्यम् । “नक्षत्रे च लुपी"ति अधिकरणे तृतीया ॥९॥
सुदर्शनः
पुंसुवनम् इत्यपि कर्मनामधेयम्। येन कर्मणा निमित्तेन गर्भिणी पुमांसम् एव सूते तत् पुंसवनम् ।
व्याख्यायत इति शेषः ।
अत्र चोवङादेशश्छान्दसः ।
आश्वलायनस् तु “पुँसवनम्” इति सगुणमेव प्रायुङ्क्त ।
व्यक्ते गर्भे - अस्ति गर्भ इति निश्चिते । व्यक्तिश् च तृतीये चतुर्थे वा मासे ; बह्वर्चादिषु स्मृत्य्-अन्तरेषूभयथा दर्शनात् ।
यदि पुंसवनं चतुर्थे स्यात् - तदा पूर्वं सीमन्तं कृत्वैव ।
कुत एतत्? पुंसवने पश्चात् क्रियमाणे ऽपि चोदित-कालानतिक्रमात्, पश्चान् मन्त्राम्नान-सूत्रोपदेशयोर् एवं-क्रमार्थत्वाच् च ।
केचित्— तृतीयवच् चतुर्थेऽपि सीमन्तवत् प्रथम-गर्भ एव, न तु प्रतिगर्भम् ; पिष्ट-पेषण-न्यायाद् एव । एतच् च पुमांसं जनयतीत्य् अत्र विवेचयिष्यते ।
तिष्येण - तिष्य-नक्षत्रे पुंसवनं कर्तव्ययम् इति व्यवहितेन सम्बन्धः ; “प्रकरणात् प्रधानस्य” इति न्यायात् । शुङ्गाहरणे त्वनियमः ॥
मूलम् ...{Loading}...
पुँसवनं व्यक्ते गर्भे तिष्येण ।
१४ १० न्यग्रोधस्य या
१४ १० न्यग्रोधस्य या ...{Loading}...
न्यग्रोधस्य या प्राच्युदीचीं वा शाखा ततस्सवृषणां शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- From a branch of a Nyagrodha tree, which points eastward or northward, he takes a shoot with two (fruits that look like) testicles. The putting (of wood) on the fire, &c., is performed as at the Sīmantonnayana (Sūtra 2).
हरदत्तः
न्यग्रोधस्य वृक्षस्य या प्राची शाखोदीची वा तस्याः शुङ्गाम् अग्राङ्कुरं सवृषणां फलं वृषणमिति व्यपदिश्यते सादृश्यादेव । तद्वतीं शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि परिषेचनान्तं कर्म प्रतिपद्यते । अग्नेरुपसमाधानादिवचनात्ततः पूर्वं ब्राह्मणभोजनमाशीर्वचनं च न भवति । अन्ते तु भवति “शुचीन्मन्त्रवतस्सर्वकृत्येषु भोजये"दिति । तथा यत् परिषेचनादूर्ध्वं संशासनादि तदपि न भवति । अपरेणाग्निं प्राचीमिति पुनरिहोपदेशात् । तत्रप्रयोगः–पूर्वेद्युर्नान्दीश्राद्धम् । अपरेद्युरग्नेरुपसमाधानादि सकृत्पात्रप्रयोगः । शुङ्गया सह परिधय एव, न शम्याः । आज्यभागान्ते ऽन्वारब्धायां “धाता ददातु नो रयिम्” इति चतस्रो यस्त्वा हृदा कीरिणेति चतस्रः । जयादि प्रतिपद्यते । परिषेचनान्ते ततो वक्ष्यमाणं कर्म ॥१०॥
सुदर्शनः
सवृषणां वृषणाकृतिकेन फलद्वयेन संयुक्तां, शुङ्गां अग्राङ्कुरम् । व्यक्तमन्यत् । अत्र च सीमन्तवदग्नेरुपसमाधानादीत्यतिदेशात् ब्राह्मणभोजमाशीर्वचनं च तन्त्रात् पुरस्तान्निवर्तते । कर्मान्ते तु भवत एव । शुचीन् मन्त्रवतर्स्सवकृत्येषु भोजयेत् , (आप. ध. २-१५-११.) इति सामान्यवचनात्, “लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथापुण्याहं स्वस्तिऋद्विमिति वाचयित्वा” (आप. ध. १-१३-९.) इति वचनाच्च । पात्रप्रयोगे च शुङ्गादीनां कर्मोपयुक्तानां सकृदेव सादनम् । तथात्र परिधय एव, न तु शम्याः ; “शम्याः परिध्यर्थे” इति चौलगोदानग्रहणात् । तथैव “सीमन्तवदग्नेरुपसमाधानादि” इत्यादिना परिषेचनान्तकल्पातिदेशस्य विवक्षितत्वादिहापि त एवाष्टौ प्रधानहोमाः ॥१०॥
मूलम् ...{Loading}...
न्यग्रोधस्य या प्राच्युदीची वा शाखा ततस्सवृषणां शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि ।
१४ ११ अनवस्नातया कुमार्या
१४ ११ अनवस्नातया कुमार्या ...{Loading}...
अनवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वा परिप्लाव्यापेरणाग्निं प्राचीमुत्तानां निपात्योत्तरेण यजुषाऽङ्गुष्ठेन दक्षिणे नासिकाच्छिद्रेऽपि नयति ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He causes a girl who has not yet attained maturity to pound (the Nyagrodha shoot) on an upper mill-stone with another upper mill-stone, and to pour water on it; then he makes his wife lie down on her back to the west of the fire, facing the east, and inserts (the pounded substance) with his thumb into her right nostril, with the next Yajus (II, 11, 13).
हरदत्त-प्रस्तावः
अथ समाप्ते तन्त्रशेषे कर्तव्यमाह—
हरदत्तः
यस्याः प्रादुर्भूतं रजः सा अवस्नाता । तद्विपरीता अनवस्नाता । एवंभूता कन्या कर्त्री पेषणस्य । प्रयोजकः पतिः । उपलो दृषत्पुत्रः । दृषदर्थेऽपि दृषत्पुत्र एव । तत्र शुङ्गां पेषयित्वा वस्त्रेण परिप्लाव्य अपरेणाग्निं प्राचीं प्राङ्मुखीं उत्तानां ऊर्ध्वमुखीं, निपात्य शाययित्वा उत्तरेण यजुषा “पुंसुवनमसी"त्यनेन तं रसं अङ्गुष्ठेन तस्या नासिकाच्छिद्रे दक्षिणे अपिनयति अपिगमयति । प्राङ्मुख एव । (पिधाय नयनं स्वयं च प्राङ्मुखः) ॥११॥
सुदर्शनः
स्नाननिमित्तस्य रजसोऽनुत्पन्नत्वात् या न स्नाता तया अनवस्नातया कन्यया दृषदर्थापन्ने दुषत्पुत्रे शुङ्गां निधाप्य दृषत्पुत्रान्तरेण पेषयित्वा तद्रसं वस्त्रेण प्लावयित्वा ततो जायामपरेणाग्निं प्राचीं प्राक्छिरसं उत्तानाम् ऊर्ध्वमूखीं, निपात्य शाययित्वा । “पुंसुवनमसि” इति यजुषा दक्षिण नासिकाछिद्रे अङ्गुष्ठेन करणभूतेन तद्रसम् अपिनयति गर्भं प्रापयति । सा रसं न निष्ठीवेदित्यर्थः ॥११॥
मूलम् ...{Loading}...
अनवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वा परिप्लाव्यापेरणाग्निं प्राचीमुत्तानां निपात्योत्तरेण यजुषाऽङ्गुष्ठेन दक्षिणे नासिकाच्छिद्रेऽपि नयति ।
१४ १२ पुमाँसञ् जनयति
१४ १२ पुमाँसञ् जनयति ...{Loading}...
पुमाँसं जनयति ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Then she will give birth to a son.
हरदत्तः
एवमनेन कर्मणा संस्कृता स्त्री पुमासं जनयति ।
केचिद् अर्थवादम् इदं मन्यन्ते । फलविधौ काम-संयोगेन क्रियाया अनित्यत्व-प्रसङ्गात् ।
यद्य् अर्थवादः प्रति-गर्भम् आवृत्ति-प्रसङ्गः ।
एवं तर्हि प्रथमे गर्भे इत्य् अनुवर्तते ।
एवम्-अर्थम् एव चास्य पश्चाद्-उपदेशः ।
व्यक्तं चैतच् छन्दोगानां– प्रथमे गर्भे तृतीये मासि पुंसवनम् इति ।
अन्ये फलविधिं मन्यन्ते । तत्र च “एष वा अनृणो यः पुत्री"ति (तै.सं-६-३-१४) वचनात् पुत्रस्य सकृद् उत्पादनं नित्यम् इति - यावद् एकः पुत्र उत्पद्येत, तावद् गर्भेषु भवति । ऊर्ध्वं तु पुत्रेच्छायां सत्यां भवति। दुहितुर् ईप्सायां न भवति ।
प्रथम-ग्रहणं च नानुवर्तते, पुनर्-गर्भ-ग्रहणात् । पुंसवनस्य तु पश्चाद् उपदेशो यथा चतुर्थे मासि तत्क्रियते तस्य पश्चात् प्रयोगार्थ इति ॥१२॥
सुदर्शनः
कर्मणानेन संस्कृता अन्तर्वत्नी पुमांसं जनयति इत्य् अर्थवादः - नित्यत्वात् पुंसुवनस्य ।
अथवा फलम् - सूत्रकारेणोपदिष्टत्वात् ; यथा - “सहस्रं तेन काम-दुघो ऽवरुन्धे” इति ।
फलपक्षे ऽपि “एष वा अनृणो यः पुत्री” इत्य्-आदिवचनैस् सकृद् अपि पुत्रोत्पादनस्य अवश्य-कर्तव्यत्वात्, तद्-अङ्गं पुंसवनं प्रथमे गर्भे कर्तव्यम् एव ।
तत ऊर्ध्वं तु - यत्र यत्र गर्भे पुत्रेप्सा तत्र तत्र कर्तव्यं नाऽन्यत्र ।
यस् त्व् अतिक्रान्त-चोदनः स्त्रीर् एव जनयेयम् इति कामयते तस्य सकृद् अपि न भवति ।
अन्ये तु– पुमांसं जनयतीत्य् एतद्-वचनं गर्भे गर्भेऽस्य कर्तव्यता-परम् इति ॥१२॥
मूलम् ...{Loading}...
पुमाँसं जनयति ।
१४ १३ क्षिप्रँ सुवनम्
१४ १३ क्षिप्रँ सुवनम् ...{Loading}...
क्षिप्रँ सुवनम् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Here follows the ceremony to secure a quick deliverance.
हरदत्तः
येन कर्मणा क्षिप्रं सूयते तत् क्षिप्रंसुवनं नाम कर्मोच्यते ॥१३॥
सुदर्शनः
येन क्षिप्रं शीघ्रं सूतेऽन्तर्वत्नी न चिरं कालं पीड्यते तत् क्षिप्रंसुवनं नाम इति कर्मोपदिश्यते ॥१३॥
मूलम् ...{Loading}...
क्षिप्रँ सुवनम् ।
१४ १४ अनाप्रीतेन
१४ १४ अनाप्रीतेन ...{Loading}...
अनाप्रीतेन शरावेणानुस्रोतसम् उदकम् आहृत्य, पत्तस् +++(=पादयोः)+++ तूर्यन्तीं +++(=ओषधिविशेषं)+++ निधाय, मूर्धञ् +शोष्यन्तीम् उत्तरेण यजुषा+++(आभिष्ट्वाहं दशभिरभिमृशामि)+++ ऽऽभिमृश्य+, एताभिर् अद्भिरुत्तराभिर्+++(यथैव सोमः पवते)+++ अवोक्षेत् ॥
१५ आभिष्ट्वाहन् दशभिरभिमृशामि ...{Loading}...
+++(अङ्गुलीभिर्)+++ आ॒भिष् ट्वा॒ ऽहं द॒शभि॑र् अ॒भिमृ॑शामि॒ - दश॒मास्या॑य॒ सूत॑वे ।+++(र४)+++
१६ यथैव सोमः ...{Loading}...
मन्त्रः
- यथै॒व सोमः॒ पव॑ते॒ यथा॑ समु॒द्र एज॑ति ।
ए॒वन्ते गर्भ॒ एज॑तु स॒ह ज॒रायु॑णा नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु ।
आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ वी॒र्ये॑ऽन्नाद्ये॑ ।
यथै॒व सोमः॒ पव॑ते॒, यथा॑ समु॒द्र एज॑ति+++(=कम्पते)+++,
ए॒वन्ते गर्भ॒ एज॑तु।
स॒ह ज॒रायु॑णा+++(=गर्भवेष्टनेन)+++ नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु - आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ ।
१७ दश मासाञ्छशयानो ...{Loading}...
दश॒ मासा॒ञ् छश॑यानो
धा॒त्रा हि तथा॑ कृ॒तम् ।
ऐतु॒ गर्भो॒ अक्षि॑तो
जी॒वो जीव॑न्त्याः ।
१८ आयमनीर्यमयत गर्भमापो ...{Loading}...
आ॒यम॑नीर् यमयत॒ गर्भ॒म्
आपो॑ देवी॒स् सर॑स्वतीः ।
ऐतु॒ गर्भो॒ अक्षि॑तो
जी॒वो जीव॑न्त्याः ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With a shallow cup that has not been used before, he draws water in the direction of the river’s current; at his wife s feet he lays down a Tūryantī plant; he should then touch his wife, who is soon to be delivered, on the head, with the next Yajus (II, 11, 14), and should sprinkle her with the water, with the next (three) verses (II, 11, 15-17).
हरदत्तः
अनाप्रीतेनास्पृष्टोदकेनानुस्रोतसं उदकस्य प्रस्रवतो न प्रतीपम् । पत्तः पादयोरधस्तात् यस्याः श्वेतोपमानि पत्राणि पीतोपमानि पुष्पाणि या च मध्याह्ने पुष्यति सा तूर्यन्ती वनेषु जायते । वेणुपत्रोपमानि च यस्याः पत्राणि रक्तोपमानि च पुष्पाणि यां चाग्निशिखेत्याहुः । सा शोष्यन्ती तत् ओषधिद्वयं समूलपत्रमादाय सुष्लिष्टं निदधाति । मुर्धन् मुर्धनीत्यर्थः । अपरे पिष्ट्वा आलिम्पन्ति । अथ तामुत्तरेण यजुषा “आभिष्ट्वाहं दशभिरभिमृशामि” इत्यनेनाभिमृशति । दशभिरिति लिङ्गादुभाभ्यां पाणिभ्यामभिमर्शनम् अनुलोमं मुखादारभ्य तत एताभिराहृताभिरेवाद्भिस्तामवोक्षेत् । उत्तराभिस्तिसृभिः ऋग्भिः “यथैव सोमः पर्वत” इत्येताभिः प्रतिमन्त्रमवोक्षणम् ॥१४॥
सुदर्शनः
अनाप्रीतेन अनुदकलिप्तेन अस्पृष्टोदकेनेत्यर्थः । तथाभूतेन शरावेण । अनुस्रोतसं स्रोतोऽनुलोमं न प्रतीपं गृहीतमुदकमाहृत्य । पत्तस्तस्याः पादयोः तूर्यन्तीं अधःपुष्पिताख्यामोषधिं निधाय । शोष्यन्तीं प्रसवपीडया शुष्यमाणां स्त्रियं “आभिष्ट्वाहं दशभिरभिमृशामि” इति यजुषोभाभ्यां हस्ताभ्याम् । मूर्धन् मूर्धन्य्” अभिमृश्य । एताभिर् आहृताभिर् अद्भिः उत्तराभिः “यथैव सोमः पवते” इत्यादिभिस्तिसृभिस्तां सकृदेवावोक्षेत् । केचित्—प्रतिमन्त्रम् ; दृष्टोपकारत्वादिति । तत्र प्रथमाया ऋचः “प्रतितिष्ठतु” इत्यवसानम् । द्वितीयायाः “तथा कृतम्” इति । तृतीयायाः “सरस्वतीः” इति । अन्ये तु–शोष्यन्तीति चौषधिः । तां मूर्ध्निं निधाय स्त्रियं यत्र क्वचाभिमृशेदिति । तन्न; शोष्यन्तीसंज्ञाया ओषधेरप्रसिद्धत्वात् । केचित्—शोष्यन्तीनामौषधिः या वनेषु जायते, वेणुपत्रोपमानि च यस्याः पत्राणि, पुष्पाणि च रक्तोपमानि, यां चाग्निशिखेत्याहुरिति । तन्न; यतो वाच्यवाचकभावो नोपदेशगम्यः, यथाहुर्वार्तिककारपादाः— “वाच्यवाचकभावो हि नाचार्यैरुपदिश्यते । अन्यथानुपपत्त्या तु व्यवहारात्स गम्यते ॥ (तं.वा.१-३-९.) इति । इह तु व्यवहाराभावादेव विप्रतिपत्तिः । सा भाष्यकारादप्याप्ततमप्रणीताभिधानकोशेषु शोष्यन्तीशब्दस्याग्निशिखापरपर्यायतया पाठाच्छाम्यति । न च तथा दृश्यते । तस्माद्वरं पूर्वोक्तमेव व्याख्यानमिति ॥१४॥
मूलम् ...{Loading}...
अनाप्रीतेन शरावेणानुस्रोतसमुदकमाहृत्य पत्तस्तूर्यन्तीं निधाय मूर्धञ्छोष्यन्तीमुत्तरेण यजुषाऽभिमृश्यैताभिरद्भिरुत्तराभिरवोक्षेत् ।
१४ १५ यदि जरायु
१४ १५ यदि जरायु ...{Loading}...
यदि जरायु न पतेदेवंविहिताभिरेवाद्भिरुत्तराभ्यामवोक्षेत् ।
१९ तिलदेऽवपद्यस्व न ...{Loading}...
तिल॒दे +++(जरायो!)+++ ऽव॑पद्यस्व॒+++(=अवपत)+++, न मा॒ꣳ॒सम् अ॑सि॒, नोदल॑+++(र)+++म् ।+++(र४)+++
२० स्थवित्र्यवपद्यस्व न ...{Loading}...
स्थ॒वि॒त्र्य् अव॑पद्यस्व॒, न मा॒ꣳ॒सेषु॒, न स्नाव॑सु॒+++(=tendon)+++ न ब॒द्धम॑सि म॒ज्जसु॑ ।
निरै॑तु॒ पृश्नि॒+++(=स्वल्परूपं)+++ शेव॑+++(=सुख)+++लꣳ शु॒ने ज॒राय्व् अ॒त्तवे॑ ॥ (11)
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Yadi jarāyu na pated evaṃvihitābhir evādbhir uttarābhyām (II, 11, 18. 19) avokṣet.
हरदत्तः
जरायु गर्भावेष्ठनं,** तद् यदि न पतेत्, तत उत्तरो विधिः कर्तव्यः । कः पुनरसौ? क्षिप्रंसुवने यो विधिश्चोदितः “अनाप्रीतेन शरावेणे"त्यादि ( एवं विहिताभिरद्भिः उत्तराभ्यां मन्त्राभ्यां “तिलदेव पद्यस्व, निरै तु पृश्नि शेवलम्” इत्येताभ्यां प्रतिमन्त्रम् अवोक्षेत् । एते च कर्मणी स्वभार्याविषयौ ) यक्ष्मगृहीतामन्यां वेति कर्मान्तरे यत्नकरणात् । अन्ये पुनरविशेषेणेच्छन्ति ॥१५॥
सुदर्शनः
यदि प्रसूतायास्तस्या जरायु गर्भप्रावरणं न पतेत् तदा “अनाप्रीतेन शरावेण” इत्यादिविधिनाऽहृताभिर् अद्भिः “ऐतु गर्भो अक्षितः” इत्येताभ्यामृग्भ्यां ताम् अवोक्षेत् । केचित्–प्रतिमन्त्रम् । तथा पूर्वस्मिन्नवोक्षणे षडवसानास्तिस्र ऋचः । इह तु “तिलदेव पद्यदेव पद्यस्व” इत्येका ऋक्; “निरैतु पृश्नि” इत्यपरं यजुरिति ॥१५॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने चतुर्दशः खण्डः समाप्तः ॥
मूलम् ...{Loading}...
यदि जरायु न पतेदेवंविहिताभिरेवाद्भिरुत्तराभ्यामवोक्षेत् ।